वाचस्पत्यम्/ओ

विकिस्रोतः तः
Jump to navigation Jump to search
← वाचस्पत्यम्/ऐ वाचस्पत्यम्/ओ
तारानाथ भट्टाचार्य
वाचस्पत्यम्/औ →
पृष्ठ १५५३

ओकारः स्वरवर्ण्णभेदः कण्ठौष्ठस्थानयोरुच्चार्य्यः दीर्घः

दिमात्रत्वात् प्लुतस्तु त्रि मात्रः । सचोदात्तानुदात्त
स्वरितभेदैः प्रत्येकमनुनासिकाननुनासिकाभ्यां द्वैविध्यात्
षड्विधः तथा प्लुतोऽपि षड्विथः एवं द्वादशविधः । तपरत्वे
कारपरत्वे च स्वरूपपरः । तन्त्रे तस्य वाचकशब्दा वर्णा-
भिधाने उक्ता यथा “ओकारः लत्यपीयूषौ पश्चिमास्यः
श्रुतिः स्थिरा । सद्योजातो वासुदेवो गायत्री दार्घज-
ङ्घकः । आप्यायनी चोर्द्ध्वदन्तो लक्ष्मीर्वाणीमुखी द्विजः ।
उद्देश्य दर्शकस्तीव्रः कैलासो वसुघाक्षरः । प्रणवांशो
ब्रह्मसूत्रमजेयः सर्वमङ्गला । त्रयोदशी दीर्घनासारति-
नाथो दिगम्बरः । त्रैलोक्यविजया प्रज्ञा प्रीतिवीजादि-
कर्षिणी” इति । तदधिष्ठातृदेवता च तत्रैवोक्ता
“ज्वालास्यौकारगा ज्ञेया भीमा च मत्तमालिनी” । तस्य-
ध्येयरूपं कामधे० त० उक्तं यथा । “ओकारं चञ्चला
पाङ्गि! पञ्चदेबमयं सदा । रक्तविद्युल्लताकारं त्रिगुणात्मा-
नमीश्वरम् । पञ्चप्राणमयंवर्णं नमामि देवमातरम् । एतद्वर्णं
महेशानि! स्वयं परमकुण्डलीम्” ।

अव्य० उ--विच् । १ सम्बोधने २ आह्वाने ३ स्मरणे

४ अनुकल्पने च मेदि० । ५ ब्रह्मणि पु० एकाक्षरकोषः ।

ओक पु० उच--घ चस्य कः । १ पक्षिणि २ वृषले

३ आश्रये च । “अनोकशायी लघुरल्पप्रचारश्चरन् देशा-
नेकचरः स भिक्षुः” भा० आ० ९१ अ० । उच भावे घञ्
कुः । ४ समवाये च । ओकाय हित यत् । ओक्य
निवासाय हिते त्रि० “ज्योतीरथः पवते राय ओक्यः”
ऋ० ९, ८६, ४५ ।

ओकण(णि) पु० उ--विच् औः सन् कणति कण--अच्--इन् वा (उकुण) केशकीटे शब्दर० ।

ओकस् न० उच--असुन् न्यङ्क्वादित्वात् कुत्वम् । १ गृहे

२ आश्रयमात्रे च । “यस्मिन्निन्द्रः प्रदिवि वावृधान ओको दधे
ब्रह्मण्यन्तश्च नरः” ऋ० २, १९, १ । “यस्मिन् देवा
ओकांसि चक्रिरे” १, ४०, ५ । “लोध्राणाञ्च शुभाः पार्थ!
गौतमौकःसमीपजाः” भा० स० २० । वनौकसः त्रिदि-
वौकसः दिवौकसः जलौकस इत्यादि ।

ओकिवस् त्रि० उच--समवाये क्वसु वेदे नि० । समवेते

“ओकिवांसा सुते सचा” ऋ० ६, ५९, ३ । ओकिवांसा
ओकिवांसौ समवेतौ” भा० ।

ओकुल पु० उच--उलक् न्यङ्क्वा० नि० कु । अर्द्धाग्निदग्धे

अपक्वे गोधूमे (हडा) “ओकुलस्तु गुरुर्वृष्योमधुरो
बलकारकः । रक्तपित्तापहः स्निग्धो हृद्योमदविवर्द्धनः”
राजनि० ।

ओकोदनो स्त्री ओक आश्रयः मूर्द्धरूपम् अदनं

भक्ष्यं यस्याः गौ० ङीष् । (उकण) केशकीटे शब्दरत्ना० ।

ओक्कणी स्त्री उच्--विच् ओक् सती कणति कण--अच्

गौ० ङीष् । (उकुण) केशकोटे शब्दरत्ना० ।

ओख शोषे सामर्थ्ये अक० भूषणे वारणे सक० भ्बा० पर०

सेट् ऋदित् । ओखति औखीत् ओखाम् बभूव आस
चकार । ओखितः ओखनम् । ओखः णिचि
ओखयति ते मा भवान् ओचिखत् त ऋदित्त्वात् न ह्रस्वः ।
उपसर्गावर्णात् पररूपम् प्रोखति परोखति ।

ओगण त्रि० अव--गण्यते अव + गण कर्म्मणि घञर्थे क सम्प्र० ।

अवगण्ये अधरतया गण्ये । “महि व्राधन्तओगणास इन्द्र”
ऋ० १०, ८९, १५

ओगीयस् त्रि० ओजीयस् वेदे नि० । अत्यन्तौजस्विनि । “बलं सत्यादोगीयः” वृह० उ० ।

ओघ पु० उच--घञ् पृषो० ध । १ समूहे, २ जलवेगे, ३ द्रुतनृत्यादौ

४ आध्यात्मिक तुष्टिभेदे च सा च तुष्टिः प्रब्रज्यायां
चिरकालसमाध्यनुष्ठानेन या तुष्टिः सा कालाख्या तुष्टिरोघ इत्य-
च्यते” इति सां० प्र० भा० उक्ता । इयं तुष्टिः सां० कौ०
मेघत्वेन परिभाषिता यथा “प्रव्रज्यापि ते न सद्यो
निर्वाणदेति सा च कालपरिपाकमपेक्ष्य सिद्धिं ते विधास्यति
अलमुत्तप्ततया तेवेत्युपदेशे या तुष्टिः सा कालाख्या मेघ
उच्यते” । कचित् पुस्तके मेघ इत्यत्र ओघ इत्येव पाठः ।
तत्र जलवेगे “ओघवाताहृतं वीजं यस्य क्षेत्रे प्ररीहति”
मनुः । “भङ्गीभक्त्या विरचितवपु स्तम्भितान्तर्जलौघः”
मेघ० । “पुनरोघेन हि युज्यते नदी” कुमा० । समूहे
“स्ववीर्य्यार्ज्जितमर्थौघमवाप्य कुरुसत्तमः” भा० व० २५५
अ० “गजवाजिरथौघेन बलेन महताऽगमत्” आ०
११३ अ० ३ परम्परायाम् ६ उपदेशे मेदि० परम्पराऽवि-
च्छिन्ना सन्ततिः” “तोव्रौघभक्तिमुद्वहन्” भाग० ४, १२, ११ ।

ओघरथ पु० ओघवतो नृपतेः पुत्रे । “अथोघवान्नाम नृपो

नृगस्यासीत् पितामहः । तस्थाथोघवतो कन्या पुत्रश्चौघ-
रथोऽभवत्” भा० अनु० २ अ० ।

ओघवत् त्रि० ओघः जलवेगादिरस्त्यस्य मतुप् मस्य वः ।

१ जलवेगादियुक्ते स्त्रियां ङीप् । “एषा सरस्वती रम्या-
दिव्या चौघवती नदी” भा० व० १३९ । नृगनृपस्य पितामहे
२ नृपभेदे पु० ३ तत्कन्यायां स्त्री ङीप् । सा च भर्त्तुराज्ञया
पृष्ठ १५५४
द्विजरूपधरधर्म्मरूपातिथेः आत्मपर्य्यन्तप्रदानादिरूपपरि-
चरणेन तुष्टधर्मवरेण अर्द्धदेहेन लोकानां पावनार्थं
नदीत्वमाप्ता इति तन्नामपसिद्धे कुरुक्षेत्रस्थे ३
नदीभेदेऽपि । तत्कथा भा० अनु० २ अ० यथा “तस्यां
समभवत्पुत्त्रो नाम्नाग्नेयः सुदर्शनः । सुदर्शनस्तु रूपेण
पूर्णेन्दुसदृशोपमः । शिशुरेवाध्यगात्सर्व्वं परं ब्रह्म
सनातनम् । अथौववान्नाम नृपो नृगस्यासीत्पिता-
महः । तस्याथौघवती कन्या पुत्त्रश्चौघरथोऽभवत् ।
तामोघनान् ददौ तस्मै स्वयमोघवतीं सुताम् । सुदर्शनाय
विदुषे भार्य्यार्थे देवरूपिणीम् । स गृहस्थाश्रमरतस्तया
सह सुदर्शनः । कुरुक्षेत्रेऽवसद्राजन्नोघवत्या समन्वितः ।
गृहस्थश्चावजेष्यामि मृत्युमित्येव स प्रभो! । प्रतिज्ञामकरो-
द्धीमान् दीप्ततेजा विशाम्पते! । तामथौघवतीं राजन्!
स पावकसुतोऽब्रवीत् । अतिथेः प्रतिकूलं ते न कर्त्तव्यं
कथञ्चन । येन येन च तुष्येत नित्यमेव त्वयाऽतिथिः ।
अप्यात्मनः प्रदानेन न ते कार्य्या विचारणा । एतद्व्रतं
मम सदा हृदि संपरिवर्त्तते । गृहस्थानाञ्च सुश्रोणि!
नातिथेर्व्विद्यते परम् । प्रमाणं यदि वामोरु! वचस्ते मम
शोभने! । इद वचनमव्यग्रा हृदि त्वं धारयेः सदा ।
निष्क्रान्ते मयि कल्याणि! तथा सन्निहितेऽनघे! । नाति-
थिस्तेऽवमन्तव्यः प्रमाणं यद्यहं तव । तमब्रवीदोघवती
तथा मूर्ध्नि कृताञ्जलिः । न मे त्वद्वचनात्किञ्चिदकर्त्तव्यं
कथञ्चन । जिगीषमाणस्तु गृहे तदा मृत्युः सुदर्शनम् ।
पृष्ठतोऽन्वगमद्राजन् रन्ध्रान्वेषी तदा सदा । इध्मार्थन्तु
गते तस्मिन्नग्निपुत्त्रे सुदर्शने । अतिथिर्ब्राह्मणः श्रीमां-
स्तामाहौघवतीं तदा । आतिथ्यं कृतमिच्छामि त्वयाद्य
वरवर्णिनि! । प्रमाणं यदि धर्म्मस्ते गृहस्थाश्रमसंमतः ।
इत्युक्ता तेन विप्रेण राजपुत्त्री यशस्विनी । विधिना
प्रतिजग्राह वेदोक्तेन विशाम्पते! । आसनञ्चैव पाद्यञ्च
तस्मै दत्त्वा द्विजातये । प्रोवचौघवती विप्रं केनार्थः
किं ददामि ते । तामब्रवीत्ततो विप्रो राजपुत्त्रीं
सुदर्शगाम् । त्वया ममार्थः कल्याणि! निर्व्विशङ्कैतदाचर ।
यदि प्रमाण धर्म्मस्ते गृहस्थाश्रमसंमतः । प्रदानेनात्मनो
राज्ञि! कर्तुमर्हसि मे प्रियम् । स तया छन्द्यमानोऽ
न्यैरीप्सितैर्नृपकन्यया । नान्यमात्मप्रदानात्स तस्या वव्रे
वरं द्विजः । सा तु राजसुता स्मृत्वा भर्तुर्वचनमादितः ।
तथेति लज्जमाना सा तमुवाच द्विजर्षभम् । ततो विहस्य
विप्रर्षिः सा चैवोपविशेश ह । संस्मृत्य भर्त्तुर्वचनं गृह-
स्थाश्रमकाङ्खिणः । अथेध्म नमुपादाय स पावकिरुपागमत् ।
मृत्युना रौद्रभावेन नित्यं बन्धुरिवान्वितः । ततस्त्वाश्रम-
मागम्य स्वं पावकसुतस्तदा । तां व्याजहारौघवतीं क्वासि
यातेति चासकृत् । तस्मै प्रतिवचः सा तु भर्त्त्रे न प्रददौ
तदा । कराभ्यां तेन विप्रेण स्पृष्टा भर्तृव्रता सती ।
उच्छिष्टार्स्मीति मन्वाना लज्जि ता भर्तुरेव च । तूष्णीं-
मूताऽभवत्साध्वी नचोवाचाऽथ किञ्चन । अथ तां
पुनरेवेदं प्रोवाच स सुदर्शनः । क्व सा साध्वी कुतो याता-
गरीयः किमतो मम । पतिव्रता सत्यशीला नित्यं चैवा-
र्जवे रता । कथं न प्रत्युदेत्यद्य स्मयमाना यथा पुरा ।
उटजस्थस्तु तं विप्रः प्रत्युवाच सुदर्शनम् । अतिथिं
विद्धिसंप्राप्तं ब्राह्मणं पावके । च माम् । अनया छन्द्यमा-
नोऽहं भार्य्यया तव सत्तम । तैस्तैरतिथिसत्कारैर्ब्रह्मन्नेषा
वृता मया । अनेन विधिना सेयं मामर्च्चति शुभानना ।
अनुरूपं यदत्रान्यत्तद्भवान् कर्त्तुमर्हति । कूटमुद्गरहस्तस्तु
मृत्युस्तं वै समन्वगात् । हीनप्रतिज्ञ मत्रैनं बधिष्यामीति
विन्तयन् । सुदर्शनस्तु मनसा कर्म्मणा चक्षुषा गिरा ।
त्यक्तेर्षस्त्यक्तमन्युश्च स्मयमानोऽब्रवीदिदं । सुरतं तेऽस्तु
विप्राग्र्य! प्रीतिर्हि परमा मम । गृहस्थस्य तु धर्म्मो
ऽग्र्यः सम्प्राप्तोऽतिथिपूजनम् । अतिथिः पूजितो यस्य
गृहस्थस्य हि गच्छति । नान्यस्तस्मात्परो धर्म्म इति
प्राहुर्म्मनीषिणः । प्राणा हि मम दाराश्च यच्चान्यद्वि
द्यते वसु । अतिथिभ्यो मया देयमिति मे व्रतमाहितम् ।
निःसन्दिग्धं मया वाक्यमेतन्मे समुदाहृतम् । तेनाहं
विप्र । सत्येन स्वयमात्मानमालभे । पृथिबी वायुराकाश-
मापो ज्योतिश्च पञ्चमम् । बुद्धिरात्मा मनः कालो
दिशश्चैव गणा दश । नित्यमेते हि पश्यन्ति देहिनां
देहसंश्रिताः । सुकृतं दुष्कृतं चापि कर्म्म धर्म्मभृतां वर ।
यथैषा नानृता वाणी मयाद्य समुदीरिता । तेन सत्येन
मां देवाः पालयन्तु दहन्तु वा । तेन नादः समभवद्दिक्षु
सर्वासु भारत! । असकृत् सत्यमित्येवं नैतन्मिथ्येति सर्वतः ।
उटजात्तु ततस्तस्म न्निश्चक्राम स वै द्विजः । वपुषा द्याञ्च
भूमिञ्च व्याप्य वायुरिवोद्यतः । स्वरेण विप्रः शैक्ष्येण
त्रील्लीकाननुनादयन् । उवाच चैनं धर्म्मज्ञं पूर्व्वमामन्त्र्य
नामतः । धर्म्मोऽहमस्मि भद्रन्ते जिज्ञासार्थं तवानघ! ।
प्राप्तः सत्यञ्च ते ज्ञात्वा प्रीतिर्म्मे परमा त्वयि । विजि-
तश्च लया मृथुर्य्योऽयं त्वामनगच्छति । रन्ध्रान्वेषी तव
सदा त्वया धृत्या वशीकृतः । न चास्ति शक्तिस्त्रैलोक्ये
पृष्ठ १५५५
कस्यचित् पुरुषीत्तम! । पतिव्रतामिमां साध्वीं तवोद्वीक्षि-
तुमप्युत । रक्षिता त्वद्गुणैरेषा पातिव्रत्यगुणैस्तथा । अधृष्या
यदियं ब्रूयात्तथा तन्नान्यथा भवेत् । एषा हि तपसा
स्वेन संयुक्ता ब्रह्मवादिनी । पावनार्थञ्च लोकस्य
सरिच्छ्रेष्ठा भविष्यति । अनेन चैतद्देहेन लोकांस्त्वमिह
पत्स्यसे । अर्द्धेनौघवती नाम त्वामर्द्धेनानुयास्यति”

ओङ्कार पु० ओम् + स्वरूपे कारप्रत्ययः । प्रणवे । “प्राणायामै-

स्त्रिभिः पूतस्ततओङ्कारमर्हति” मनुः । “ओङ्कारश्चाथ-
शब्दश्च द्वावेतौ ब्रह्मणः पुरा” पुरा० अधिकम् ओम्शब्दे-
चक्ष्यते । “ओङ्कारं पूर्ब्बमुच्चार्य्य पश्चाद्वेदमधीयते” इति स्मृतेः
“तस्म दोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्त्तन्ते
विधानोक्ता” इति गीतोक्तेः “स्रवत्यनोङ्कृतं सर्व्वम्”
इत्युक्तेश्च ओङ्कारस्य सर्व्वकर्म्मारम्भादौ पाठ्यत्वात्
आरम्भसाधनत्वेन २ आरम्भे । सप्तानां सामावयवानां ३
प्रथमावयवे च । उद्गीथशब्दे ११७० पृ० सप्तावयव-
सामानि दृश्यानि । ओङ्कारः तदाकारः अस्त्यस्य
अच् । काशीस्थे ३ शिवलिङ्गभेदे “ओङ्कारं प्रथमं लिङ्गं
द्वितीयन्तु त्रिलोचनमिति” काशीस्थचतुर्द्दशप्रधानलिङ्ग-
कथने । तदाविर्भावकथा तत्रैव ७३ अध्याये
“यथोङ्कारस्य लिङ्गस्य प्रादुर्भाव इहाभवत् । पुरानन्दवने-
चात्र ब्रह्मणा विश्वयोनिना । तपस्तप्तं महादेवि! समाधिं
दधता परम् । पूर्ण्णे युगसहस्रेऽथ मित्त्वा पातालसप्तकम् ।
उदतिष्ठत् पुरोज्योतिर्विद्योतितहरिन्मुखम् । यदन्त-
राविरभवन्निर्व्याजेन समाधिना । तदेव परमं धाम
बहिराविरभूद्विधेः । अभूच्चटचटाशब्दः स्फुटितो भूमि-
मागतः । तच्छब्दाद्व्यसृजद्बेधाः समाधिं क्रमतोवशी ।
स्रष्टाऽसृज्यत तत्सानौ यावदुन्मील्य लोचने । पुरःप-
श्चाद्ददर्शाग्रे तावदक्षरमादिमम् । अकारं सत्वसम्पन्नमृक्-
क्षेत्रं सृष्टिपालकम् । नारायणात्मकं साक्षात्तमःपारे
प्रतिष्ठितम् । ओङ्कारमथ तस्याग्रेरजोरूपं यजुर्जनिम् ।
बिधातारं समस्तस्य स्वाकारमिव चिन्तितम् । नीरव-
ध्वान्तसङ्केतसदनाभं तदग्रतः । मकारं स ददर्शाथ
तमोरूपं विशेषतः । साम्नां योनिं लये हेतुं साक्षाद्रु-
द्रस्वरूपिणम् । अथ तत्पुरतोधाता व्यधात् स्वनयना-
तिथिम् । विश्वरूपमथोङ्कारं सगुणञ्चापि निर्गुणम् ।
अनाख्यनादशदनं परमानन्दविग्रहम् । शब्दव्रह्मेति
यत् ख्यातं सर्व्ववाङ्ममयकारणम् । अथोपरिष्टान्नादस्य
विन्दरूपं परात् परम् । कारणं कारणानाञ्च जगदा-
सञ्जनं परम् । विधिर्विलोकयाञ्चक्रे तपसा गोचरी-
कृतम् । अवनादोमिति ख्यातं सर्व्वस्यास्य स्वभावतः । भक्त-
मुन्नयते यस्मात्तदोमिति यईरितः । अरूपोऽपि स्वरूपाट्यः
स घात्रा नेत्रयोःकृतः । तारयेद्यद्भवाम्मोधेः स्वजपासक्त
मानसम् । ततस्तार इति ख्यातोयस्तं ब्रह्मा व्यलोकयत् ।
प्रणूयते यतः सर्व्वैः पुरनिर्व्वाणकामुकैः । सर्व्वेभ्योऽ-
भ्यधिकस्तस्मात् प्रणवोयः पकीर्त्तितः । सुसेवितारं
पुरुषं प्रणमेद्यः परम्पदम् । अतस्तं प्रणवं शान्तं
प्रत्यक्षीकृतवान् विधिः । त्रयीमयस्तुरीयोयस्तुर्य्याती-
तोऽखिलात्मकः । नादविन्दुस्वरूपो यः स प्रैक्षि द्विजगा-
मिना । प्रावर्त्तन्त यतोवेदाः साङ्गाः सर्वस्य योनयः ।
स वेदादिः पद्मभुवा पुरस्तादवलोकितः । वृषभोयस्त्रिधा-
बद्धोरोरवीति महोदयः । स नेत्रविषयीचक्रे परमः
परमेष्ठिना । शृङ्गाश्चत्वारि यस्यासन् हस्तासन्सप्त एव च ।
द्वेशीर्षे च त्रयः पादाः स देवोविधिनेक्षितः । यदन्तर्ली-
नमखिलं भूतं भावि भवत् पुनः । तद्वीजं वीजरहितं
द्रुहिणेन विलोकितम् । लीनं मृग्येत यत्रैतदाब्रह्मस्तम्भ
भाजगम् । अतः सभाज्यते सद्भिर्यल्लिङ्गं तद्विलोकितम् ।
पञ्चार्थायत्र भासन्ते पञ्चब्रह्ममयं हि यत् । आदिपञ्च-
स्वरूपं यन्निरैक्षि ब्रह्मणा हि तत् । तमालोक्य
ततोवेधा लिङ्गरूपिणमीश्वरम्” । ओङ्कारेश्वरोऽप्यत्र । ४ बुद्ध-
शक्तिभेदे स्त्री त्रिका० । अवर्णाऽस्यादेः परत्वेपररूपम् ।

ओज बले अद० चुरा० उभ० अक० सेट् । ओजय--ति--ते

औजिजत् त ओजयाम् बमूव आस चकार चक्रे । ओजितः

ओज पु० ओज--अच् । “ओजोऽथ युग्मं विषमः समश्च” ।

ज्या० त० उक्ते मेषादीनां द्वादशानां मध्ये १ अयुग्मे
विषमे राशौ यथा १, ३, ५, ७, ९, ११, अङ्कैर्बोधिता
मेषमिथुनसिंहतुलाधनुःकुम्भाः ओजराशयः “ओजे रवीन्द्वोः
समैन्दुरव्योः” नील० ता० । ओजस् शब्दोऽप्यत्र न० ।
“कुजार्किगुरुसौम्यानां भागाः शुक्रस्य च क्रमात् । पञ्च-
पञ्चाष्टसप्तेषु ज्ञेयमोजस्मु राशिषु” ज्यो० त० अत्र ओजेषु
राशिषु इत्येव क्वचित्पाठः । २ अयुग्ममात्रे (विजोड)
च “भत्रयगोजगतं गुरुणा चेत्” “ओजे तपरौ जरौ
गुरुश्चेत्” इत्यादौ अयुग्मपादे प्रयोगात्

ओजस् न० उब्ज--असुन् बलोपे गुणः । १ दीप्तौ २ अवष्टम्भे,

३ प्राणबले, ४ प्रकाशे, ५ सामर्थ्ये ६ ज्योतिबोक्ते प्रथमतृती-
यादौ विषमराशौ, ७ शस्त्रादिकौशले ८ धातुतेजसिं,
वनेन्द्रियाणां ९ पाटवे, १० काव्यगुणभेदे, ११ गौ गा० रीत्याम्,
पृष्ठ १५५६
वैद्यकोक्ते, “भ्रमरैः फलपुष्पेभ्यो यथा सम्भ्रियते मधु ।
तद्वदोजः शरीरेभ्यो धातुभिर्भ्रियते नृणाम्” इति १२ लक्षणे
धातुरसपोषके वस्तुभेदे च । अच् । ओजशब्दोऽप्यत्र ।
ओजःस्वरूपं मिता० स्मृत्यन्तरे दर्शितं यथा । “हृदि तिष्ठति
यत् शुद्ध्वमीषदुष्णं सपीतकम् । ओजः शरीरे संख्यातं
तन्नाशान्नाशमृच्छति” । “पुनर्द्धात्रीं पुनर्गर्भमोजस्तस्य प्रधा-
वति । अष्टमेमास्यतोगर्भोजातः प्राणैर्वियुज्यते” या० स्मृतिः
सुश्रुते तु बलपर्य्यायत्वमस्वोक्त्वा तत्फलान्युक्तानि यथा
“बललक्षणं बलक्षयलक्षणमत ऊर्द्ध्वं वक्ष्यामः । तत्र
रसादोनां शुक्रान्तानां धातूनां यत्परं तेजस्तत्स्वल्वोजस्तदेव
बलमित्युच्यते स्वशास्त्रसिद्धान्तात् । तत्र बलेन स्थितीप-
चितमांसता सर्व्वचेष्टास्वप्रतिघातः स्वरर्ण्णप्रसादो बाह्या-
नामाभ्यन्तराणाञ्च करणानामात्मकार्य्यप्रतिपत्तिर्भवति ।
भवन्ति चात्र । “ओजः सोमात्मकं स्निग्धं शुक्लं शीतं
स्थिरं सरम् । विविक्तं मृदु मृत्स्नञ्च प्राणायतनमुत्त-
म् । देहस्यावयवस्तेन व्याप्तो भवति देहिनान् । तदभा-
वाच्च शीर्य्यन्ते शरीराणि शरीरिणाम् । अभिघातात्क्ष-
यात्कोपाच्छोकाद्ध्यानात् श्रमात् क्षुधः । ओजः सङ्क्षीयते
ह्मेभ्यो धातुग्रहणनिःसृतम् । तेजः समीरितं तस्माद्वि-
स्रंसयति देहिनः । तस्य विस्रंसो व्यापत् क्षय इति
लिङ्गानि व्यापन्नस्य भवन्ति । सन्धिविश्लेषो गात्राणां
सदनं दोषच्यबनं क्रियासन्निरोधश्च विस्रंसे । स्तब्धगुरुगा-
त्रता वातशोथोवर्ण्णभेदो ग्लानिस्तन्द्रा निद्रा च व्यापन्ने ।
मूर्च्छा मांसक्षयो मोहः प्रलापो मरणमिति क्षये । भ
वन्ति चात्र । “एते दोषा बलस्योक्ता व्यापद्विस्रंसन-
क्षयाः । विश्लेषसादौ गात्राणां दोषविस्रंसनक्षयाः ।
अप्राचुर्य्यं क्रियाणाञ्च बलविस्रंसलक्षणम् । गुसत्वं
स्तब्धताङ्गेषु ग्लानिर्व्वर्ण्णस्य भेदनम् । तन्द्रा निद्रा वात
शोथौ बलव्यापदि लक्षणम् । मूर्च्छा मांसक्षयो मोहः
प्रलापोऽज्ञानमेव च । पूर्व्वोक्तानि च लिङ्गानि मरणञ्च
बलक्षये । तत्र विस्रंसे व्यापन्ने च क्रियाविशेषैरविरुद्धै-
र्बलमास्थापयेत् । नष्टसंज्ञमितरञ्च वर्जयेत्” ।
“ओजः समाभूयस्त्वं मांसलं पदडम्बर” मित्युक्तलक्षणः
काव्य गुणभेदः । सा० द० तु “रसस्याङ्गित्वमाप्तस्य धर्म्माः
शौर्य्यादयो यथा । एवं माधुर्य्यमोजोऽथ प्रसाद इति ते”
त्रिधा इति गुणान् विभज्य तत्तल्लक्षणमुक्तम्
“ओजश्चित्तस्य विस्ताररूपं दीप्तत्वमुच्यते । वीरबीभत् स रौद्रेषु
क्रमेणाधिक्य मस्य तु” इति । तद्व्यञ्जकवर्णादयश्च तत्रोक्ताः ।
“वगस्याद्यतृतीयाभ्यां युक्तौ वर्ण्णौ तदन्तिमौ । उपर्य्यधोद्बया
र्वा स्यात् रेफः टठडढैः सह शकारश्च षकारश्च तस्य
व्यञ्जकताङ्गताः तथा समासबहुला घटनौद्धत्यशालिनी”
“रुद्रौजसा तु प्रहृतं त्वयाऽस्याम्” रघुः । “महाभूतादि
वृत्तौजाः प्रादुरासीत्तमोनुद” “पुरुषाणां महौजसाम्”
“महात्मानो महौजसः” इति मनुः । अतस्तृतीयायाः
कृतादौ अलुक् । ओजसाकृतम् तस्यापत्यम् इञ् ।
औजसाकृतिः तदपत्ये । ५ तद्विशिष्टे त्रि० ततः भृशा०
अभूततद्भावे क्यङ् सलोपश्च । “ओजायते औजायमाना
तस्यार्घ्यं प्रणीय जनकात्मजा” भट्टिः । “ओजायमान-
स्तन्वस्य शुम्भते” ऋ० १, १४०, ६ ।

ओजसीन न० “ओजसोऽहनि यत्खौ” पा० ओजोऽस्त्यत्रा-

हनि इत्यर्थे ख । ओजोयुक्तेऽहनि । “शुचिः शुक्रे
अहन्योजसीना” तैत्ति० “पक्षे यत् ओजस्यमहः” सि० कौ०
“मत्वर्थे मासतन्वो” पा० मत्वर्थे यत् । ओजस्या तनुः ।

ओजस्वत् त्रि० अजोऽस्त्यस्य मतुप् मस्य वः । बलवति

तेजस्विनि “मरुत्वन्तमृजीषिणमोजस्वन्तम्” ऋ० ८, ७६, ५
विनि । तत्रार्थे त्रि० “रूपं तदोजस्वि तदेव वीर्य्यम्”
रघुः । “ओजस्विवर्णोज्ज्वलवृत्तशालिनम्” माघः ।
“शतक्रतुरिवौजस्वी धर्म्मात्मा संशितव्रतः” भा० आश्व
५ अ० । स्त्रियामुभयतो ङीप् । “ओजस्वतीस्थ राष्ट्रदा
राष्ट्रममुष्मै दत्त” यजु० १०, २३ । ताभ्याम् अतिशायने
तरप् तमप् वा । ओजस्वितर ओजस्वितम अत्य-
न्तौजोयुक्ते । तत्रार्थे ईष्ठन् इयसुन् वा । मतोर्लुक् ।
ओजिष्ठ ओजीयस् तदर्थे त्रि० ईयसुन्नन्तात् स्त्रियां ङीप्
इति भेदः अजीयसी ।

ओज्मन् त्रि० आ + वज--ङ्मनिप् बा० सम्प्र० । १ प्रेरके

२ वेगे पु० “अपामोज्मानं परि गोभिः” ऋ० ६, ४७, २७ ।
“ओज्मानं प्रेरकं वेगं वा” भा० ।

ओडव पु० सङ्गीतदामोदरोक्तेषु पञ्चस्वरयुक्तरागभेदेषु तत्र

पञ्चस्वराश्च ऋषभपञ्चमवर्ज्जिताः निषादगान्धारषड्ज-
मध्यमधैवतात्मकाः ।

ओडिका स्त्री उ--ड तस्य नेत्त्वम् गौरा० ङीष् स्वार्थे क

ह्रस्वः । (उडिधान) नीवारे स च “नीवारः शीतलो-
ग्राही पित्तघ्नः कफवातकृत्” भावप्र० उक्तगुणकः ।

ओडी स्त्री उ--ड तस्य नेत्त्वम् गौरा० ङीष् । (उडिधान) नीवारे

पृष्ठ १५५७

ओड न० आ + ईषत् उनत्ति उन्द रक् नि० दस्य डः । १ जवापुष्पे

२ उत्कलदेशे पु० (उडिया) तद्देशस्य राजा तत्रभवो वा
अण् । औड्र, तद्देशनृपे तद्भवे मनुष्ये च बहुषु तु तस्य
लुक् । ओड्रास्तज्जनपदवासिनः तद्देशनृपाश्च ते च क्रमेण
शूद्रत्वं प्राप्ता यथाह मनुः । “शनकैस्तु क्रियालोपादिमाः
स्युः क्षत्रजातयः । वृषलत्वं गता लोके ब्राह्मणादर्शनेन च ।
पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजाः जवनाः शकाः । पारदाः
पह्नवाश्चीनाः किराता दरदाः खसाः” । उत्कलदेशश्च वृह०
सं० कूर्म्मविभागे पूर्ब्बदिक्स्थिततया उक्तः । अथ पूर्व-
स्यामञ्जनेत्याद्युपक्रमे “उदयगिरिभद्रगौडकपौण्ड्रोत्कल-
काशिमेकलाम्बष्ठाः” उत्कलशब्देऽधिकमुक्तम् । “तवैव
चौड्राः पौण्ड्राश्च वामचूलाः सकेरलाः” हरि० २३६

ओड्रपुष्प पु० ओड्रं पुष्पमस्य । जवावृक्षे ।

ओण अपनयने अपसारणे ऋदित् भ्वादि० पर० सक० सेट् ।

ओणति औणीत् । ओणाम् बभूव आस चकार ओणनम्
क्वनिप् अवावा स्त्रियाम् अवावरी । ओणयति ते मा
भवान् ओणिणत् त ।

ओणि त्रि० ओण--इन् । १ अपनयनकारके २ द्यावापृथिव्योः

स्त्री ङीप् द्विव० निरु० । “प्रते सोतार ओण्यो-
रसम् मदय” ऋ० ९, १६, १ । “तं त्वा धर्त्तारमोण्योः”
९, ६५, ११, “ओण्योः द्यावापृथिव्योः” भा० ।

ओत त्रि० आ + वेञ् + क्त । १ अन्तर्व्याप्तौ कर्म्मणि क्त । २ तथास्यूते

त्रि० “यस्मिंश्चित्तं सर्वमोतं जनानाम्” यजु० ३४, ५ ।
“ओतञ्च प्रोतञ्चेति” श्रुतिः । ३ पटीयदीर्घतन्तौ च
(टानारसुत) । “यदिदं सर्वमप्स्वोतं च प्रोतञ्च, कस्मिन्नु
खल्वाप ओताश्च प्रोताश्च” इत्यादि । छा० उ० बहुकृत्वः
प्रयोगः । तत्र स्थूलानां परिच्छिन्नानां कारणेन
सूक्ष्मेण आपरमात्मपर्य्यन्तं व्याप्यत्वमेवेति छा० उ०
भाष्ययोर्निर्ण्णीतं यथा “यदिदं सर्व्वमप्स्वोतञ्च प्रोतञ्च,
कस्मिन्नुखल्वाप ओताश्च प्रोताश्चेति” छा० उप० ।
“यदिदं सर्व्वं पार्थिवं धातुजातमप्सूदके ओतञ्च दीर्घपट-
तन्तुवत्प्रोतञ्च तिर्य्यक्तन्तुवदुपरिततं वा अद्भिःमर्व्वतो-
ऽन्तर्बहिर्भूताभिर्व्याप्तमित्यर्थः । अन्यथा सक्तुमुष्टिवद्वि-
शीर्य्येत । इदं तावदनुमानमुपन्यस्तम् । यत्कार्य्यं
परिच्छिनं स्थूलं कारणेनापरिच्छिन्नेन सूक्ष्मेण व्याप्तमिति
दृष्टम् । यथा पृथिव्यद्भिस्तथा पूर्ब्बं पूर्व्वमुत्तरेणोत्त-
रेण व्यापिना भवितव्यमित्येष आसर्व्वान्तरादात्मनः
प्रश्नार्थः । यत्र भूतानि पञ्च संहतान्येवोत्तरोत्तरं सूक्ष्म-
भावेन व्यापकेन कारणरूपेण च व्यवतिष्ठन्ते । न च
परमात्मनोऽर्वाक्तद्व्यतिरेकेण वस्त्वन्तरमस्ति “सत्यस्य
सत्यमिति” श्रुतेः । सत्यञ्च भूतपञ्चकं सत्यस्य सत्यं च
पर आत्मा । कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति ।
तासामपि कार्य्यत्वात्स्थूलचात्परिच्छिन्नत्वाच्च क्वचिद्धि
ओतप्रोतभावेन भवितव्यम् । क्व तासामोतप्रोतभाव
इत्येवमुत्तरोत्तरं प्रश्नप्रसङ्गो योजयितव्यः” भा० ।
“वायौ गार्गीति, कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेति,
अन्तरिक्षलोकेषु गर्गीति, कस्मिन्नु खल्वन्तरिक्षलोका
ओताः प्रोताश्चेति, गन्धर्बलोकेषु गार्गीति, कस्मिन्नु खलु
गन्धर्व्वलोका ओताश्च प्रोताश्चेति, आदित्यलोकेषु गार्गीति,
कस्मिन्नु खल्वादित्यलोका ओताश्च प्रोताश्चेति, चन्द्रलोकेषु
गार्गीति, कस्मिन्नु खलु चन्द्रलोका ओताश्च प्रोताश्चेति,
नक्षत्रलोकेषु गार्गीति, कस्मिन्नु खलु नक्षत्रलोका
ओताश्च प्रोताश्चेति, देवलोकेषु गार्गीति, कस्मिन्नु खलु
देवलोका ओताश्च प्रोताश्चेति, इन्द्रलोकेषु गार्गीति, कस्मिन्नु
खल्विन्द्रलोका ओताश्च प्रोताश्चेति, प्रजापतिलोकेषु
गार्गीति, कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोता-
श्चेति, ब्रह्मलोकेषु गार्गीति, कस्मिन्नु खलु ब्रह्मलोका
ओताश्च प्रोताश्चेति, सहोवाच गार्गि! मातिप्रा-
क्षीर्मा ते मूर्द्धा व्यपप्तदनतिप्रश्न्यां वै देवतामतिपृच्छसि
गार्गि! मातिप्राक्षीरिति ततो ह गार्गी वाचक्नव्युपर-
राम” उपनि० ।
“वायौ गार्गीति । नन्वग्नाविति वक्तव्यम् । नैष
दोषोऽग्नेः पार्थिवमपां वा धातुमनाश्रित्येतरमूतवत्-
स्वातन्त्र्येणात्मलाभो नास्तीति । तस्मिन्नोतप्रोतभावो
नोपदिश्यते । कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेत्यन्तरिक्ष-
लोकेषु गार्गीति । तान्येव भूतानि संहतान्यन्तरिक्षलो-
कास्तान्यपि गन्धर्बलोकेषु गन्धर्वलोका आदित्यलोकेष्वा-
दित्यलोकाश्चन्द्रलोकेषु चन्द्रलोका नक्षत्रलोकेषु नक्षत्र-
लोका देवलोकेषु देवलोका इन्द्रलोकेष्विन्द्रलोका विराड्-
शरीरारम्भकेषु भूतेषु प्रजापतिलोकेषु प्रजापतिलोका
ब्रह्मलोकेषु ब्रह्मलोका नामाण्डारम्भकाणि भूतानि ।
सर्व्वत्र हि सूक्ष्मतारतम्यक्रमेण प्राण्युपभोगाश्रयाकार-
परिणतानि संहतानि । तान्येवं पञ्चेति बहुवचन-
भाञ्जि । कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति ।
स होवाच याज्ञवल्क्यो हे गार्गि! मातिप्राक्षीः स्वं
प्रश्नं न्यायप्रकारमतीत्यागमेन प्रष्टव्यां देवतामनुमानेन
मा प्राक्षीरित्यर्थः । पृच्छन्त्याश्च मा ते तव मूर्द्ध्वा शिरो
व्यपप्तद्विस्पष्टं मा पतेत् । देवतायाः प्रश्नः आगम-
पृष्ठ १५५८
विषयस्तं प्रश्नविषयमतिक्रान्तो गार्ग्याः प्रश्नः आनुमा-
निकत्वात्स यस्या देवतायाः प्रश्नः सातिप्रश्न्या नातिप्रश्न्यां
अनतिप्रश्न्यां स्वप्रश्नाविषयैव केवलागमगम्येत्यर्थः ।
तामनतिप्रश्न्यां वै देवतामतिपृच्छसि अतो गार्गि! मातिप्राक्षी-
र्मर्त्तुञ्चेन्नेच्छसि ततो ह ग र्गी वाचक्न व्युपरराम” भा० ।

ओतु पुंस्त्री अव--तुत् ऊठ् गुणः । १ विड़ाले मार्ज्जारे । आ +

वे--तुन् बा० संप्रसारणम् (पड्यानसुते) तिरश्चीनसृत्रे ।
“नाहं तन्तुं न विजानाम्ये तुम्” ऋ० ६, ९, २ । “तन्तवः
पटस्य प्रागायतानि सूत्राणि” ओतवस्तिरश्चनानि सूत्राणि”
भा० । अत्र रूपकतया वियदादीनां विस्तीर्य्यमाणत्वात्
ओतुत्वं यथा तत्रैव भाष्ये “वैश्यानरस्य पुत्रोऽसौ
परस्ताद्दिवि यः स्थितः । छन्दांस्यध्वरवस्त्रस्यस्तुतशस्त्राणि
तन्तवः । यजूंषि श्चेष्टाश्चोतु स्याद्वस्त्रं वातव्यमध्वरः”
औ, मोतूत् पञ्चीकृतानि स्थूलानि ओतुस्थानीयान्यपि
वियदादीनि” भा० । “ये अन्ता यावती सिचो य ओतवो
ये च तन्तवः । वासोयत्पत्नीभिरुतं तन्नः स्योनमुपस्पृशात्”
अथ० १४, २, ५१ । समासेऽवर्ण्णात्परस्यास्या दैर्वा पररूपम्
स्थुलौतुः स्थूलोतुः ।

ओदती स्त्री उषसि--निरु० । “नदं व ओदतीनाम्” ऋ०

८, ७९, २ । “ओदतीनाम् ओदत्यः ऊषसः तासाम्” भा०

ओदन पु० उन्द--युच् नलोपो गुणश्च । १ मेघे निघ० । २ भक्ते

स्विन्नान्ने अर्द्धर्चादि० पु० न० । “अन्नेन व्यञ्जनम्”
पा० स० गुडोदनः घृतोदनःदध्यौदन इत्यादि मिश्री-
करणद्वारा सामर्थ्यम् । “गुड़ोदनं पायसं च हविष्यं
क्षीरषष्टिकम् । दध्योदनं हविश्चूर्ण्णं मांसं चित्रान्नमेव
च” या० स्मृतिः गुडमिश्र ओदनः गुडौदन एवं
दव्योदनः हविर्घृतौदनः” मिता० ततो हितादौ छ यत्
वा । ओदनीय ओदन्य ओदनसाधने तण्डुलादौ ।
“अमी लगद्बाष्पमखण्डिताखिलं विमुकमन्थोत्यममुकमार्द्द-
वम् । रसोत्तरं गौरमपीवरं रसादभुञ्जतामोदनमोदनं
जनाः “नैषधे अन्नवर्णने “अन्येषाञ्चैवभादीनां मद्याना-
मोदनस्य च” मनुः

ओदनपाकी स्त्री ओदनस्य पकि इव पाकी यस्याः ङीष् ।

१ नीलझिण्टिकायाम् । ३ ओषधिभेदे शब्दार्थच० ।

ओदनाह्वया स्त्री ओदंनस्याह्वय आह्वयो यस्याः ।

महासमङ्गायां (वेलियाडा) राजनि० ।

ओदनी स्त्रीओदन इवाचरति ओदन + आचारे क्विप् ततः

अव गौरा० ङीष् । (वेलेड्या) वलायाम् ।

ओद्म पु० उन्द--क्लेदने भावे मन् नि० । उन्दने क्लेदने ।

ओद्मन् त्रि० उन्द--मनिन् नलोपश्च । ओषधौ । “अपां-

त्वोद्मन् त्सादयामि” यजु० १३, ५३ । अपान ओद्मन्
ओद्मनि ओषधौ, भा० सप्तम्या लुकि नलोपाभावः ।

ओम् अव्य० अव--मन् नि० । १ प्रणवे, २ आरम्भे, ३ स्वी-

कारे, “ओमित्युक्तवतोऽथ शार्ङ्गिण इति व्याहृत्य वाचं
नभः” माघः । ४ अनुमतौ, ५ अपाकृतौ, ६ अस्वीकारे,
मङ्गले, ७ शुभे, ८ ज्ञेये, ब्रह्मणि च । अश्च उश्च म्च
तेषां समाहारः । विष्णुमहेश्वरब्रह्मरूपत्वात् ९
परमेश्वरे अव्य० यथा तस्येश्वरवाचकता तथा पात० सूत्र
भा० विवरणेषु दर्शितं यथा
“तस्य वाचकः प्रणवः” सू० । “वाच्य ईश्वरः प्रणवस्य,
किमस्य सङ्केतकृतं वाच्यवाचकत्वम्? अथ प्रदीपप्रकाश-
वदवस्थितमिति । स्थितोऽस्य वाच्यस्य वाचकेन सह
सम्बन्धः सङ्केतस्त्वीश्वरस्य स्थितमेवार्थमभिनयति ।
यथावस्थितः पितापुत्रयोः सम्बन्धः, सङ्केतेनावद्योत्यते अयमस्य
पिता, अयमस्य पुत्र इति । सर्गान्तरेष्वपि वाच्यवाचक-
वक्त्रपेक्षस्तथैव सङ्केतः क्रियते” भा० ।
“सम्प्रति तत्प्रणिधानं दर्शयितुं तस्य वाचकमाह, तस्य
वाचकः प्रणवः । व्याचिष्टे, वाच्य इति । तत्र परेषां मतं
विमर्षद्वारेणोपन्यस्यति, किमस्येति वाचकत्वं प्रतिपादकत्वम्
इत्यर्थः । परे हि पश्यन्ति, यदि स्वाभाविकः शब्दार्थयोः
सम्बन्धः सङ्केतेनास्माच्छब्दादयमर्थः प्रत्येतव्य इत्येवमात्म-
केनाभिव्यज्येत ततो यत्र नास्ति स सम्बन्धस्तत्र सङ्केत-
शतेनापि न व्यज्येत न हि प्रदीपव्यङ्ग्योघटो यत्र नास्ति
तत्र प्रदीपसहस्रेणापि शक्यो व्यञ्जयितुम् । कृतसङ्केतस्तु
करभशब्दोवारणे वारणप्रतिपादकोदृष्टः सङ्केतकृतमेव
वाचकत्वमिति विमृश्याभिमतमवधारयति, स्थितोऽस्येति ।
अयमभिप्रायः सर्व एव शब्दा सर्व्वाकारार्थाभिधानसमर्था
इति स्थित एवैषां सर्वाकारैरर्थैः स्वाभाविकः सम्बन्धः ।
ईश्वरसङ्केतस्तु प्रकाशकश्च नियामकश्च, तस्य ईश्वरसङ्केता-
सङ्केतकृतश्चास्य वाचकापभ्रं शविभागस्तदिदमाह, सङ्केत-
स्त्वीश्वरस्येति । निदर्शनमाह, यथेति । ननु शब्दस्य
प्राधानिकस्य महाप्रलयसमये प्रथानभावमुपगतस्य शक्ति-
रपि प्रलीना ततोमहदादिक्रमेणोत्पन्नस्य वाचकस्यैव माहे-
श्वरेण सङ्केतेन न शक्या वाचकशक्तिरभिज्वलयितुं विनष्ट-
शक्तित्वादित्या आह, सर्नान्तरेष्वपीति । यद्यपि सह
शक्त्या प्रधानसाम्यमुपगतः शब्द स्तथापि पुनराविर्भावे
पृष्ठ १५५९
तच्छक्तियुक्त एवाविर्भवति, वर्षातिपातसमधिगतमृद्भाव
इवोद्भिज्जोमेघविसृष्टवारिधारावसेकात्तेन पूर्वसम्बन्धसङ्के-
तानुसारेण सङ्कतः क्रियते भगःता इति तस्मात्संप्रति-
पत्तेः सदृशव्यवहारपरम्परया नित्यतया नित्यःशब्दार्थयोः
सम्बन्धः न कूटस्थनित्य इत्यागमिनः प्रतिजानते, न
पुनरागमनिरपेक्षाः सर्गान्तरेष्वपि तादृश एव सङ्केत इति
प्रतिपत्तुमीशत इति भावः” विव० ।
“तज्जपस्तदर्थभावनम्” सू० ।
“प्रणवस्य जपः प्रणवाभिधेयस्य चेश्वरस्य भावनम् । तदस्य
योगिनः प्रणवं जपतः, प्रणवार्थञ्च भावयतश्चित्तमेकाग्रं
सम्पद्यते । तथाचोक्तं ।
“स्वाध्यायाद् योगमासीत योगात् स्वाध्यायमामनेत् ।
स्वाध्याययोगसम्पत्त्या परमात्मा प्रकाशते” इति भा० ।
“वाचकमाख्याय प्रणिधानमाह, तज्जपस्तदर्थभावनम् ।
व्याचष्टे, प्रणवस्येति । भावनं पुनःपुनश्चेतसि निवे-
शनम् । ततः किं सिध्यति इत्यत आह प्रणवमिति ।
एकस्मिन् भगवति आरमति चित्तम् । अत्रैव वैयासिकी-
गाथामुदाहरति, तथा चेति । ततः ईश्वरः समाधितत्-
फलदानेन तमनुगृह्णाति” विव० ।
ओङ्कारस्य माहात्म्यं स्वरूपादिकं ब्राह्मणस० दर्शितं
यथा योगियाज्ञवल्क्यः “प्रणवाद्याः स्मृतामन्त्राश्चतु
र्वर्गफलप्रदाः । तस्माच्च निःसृताः सर्व्वे प्रलोयन्ते च
तत्र वै । मङ्गल्यं पावनं धर्म्यं सर्व्वकामप्रधनम् ।
ओङ्कारं परमं ब्रह्म सर्व्वमन्त्रेषु नायकम् । प्रजापतेर्मु-
खोत्पन्नं तपःसिद्धस्य वै पुरा” । स एव “यथा पर्णं
पलाशस्य शङ्कनैकेन धार्य्यते । तथा जगदिदं सर्व्वमो-
ङ्कारेणैव धार्य्यते । जपेन दहते पापं प्राणायामैस्तथा
मलम् । ध्यानेन जन्मनिर्य्याणं धारणाभिस्तु मुच्यते” ।
मनुः “अकारञ्चाप्युकारञ्च मकारञ्च प्रजापतिः ।
वेदत्रयान्निरदुहत् भूर्भुवःस्वरितीति च । गीता “ॐ
तत् सदिति निर्द्देशोब्रह्मणस्त्रिविधः स्मृतः । ब्राह्मणा-
स्तेन वेदाश्च यज्ञाश्च विहिताः पुरा । तस्मादोमित्युदाहृत्य
यज्ञदानतपःक्रियाः । प्रवर्त्तन्ते विधानोक्ताः सततं ब्रह्म-
वादिनाम्” । योगियाज्ञ० “सिद्धानाञ्चैव सर्व्वेषां
वेदवेदान्तयोस्तथा । अन्येषामपि शास्त्राणां निष्ठाऽथोङ्कार
उच्यते । प्रणवाद्यायतोवेदा प्रणवे पर्य्युपस्थिताः । वाङ्म-
यं प्रणवः सर्व्वं तस्मात् प्रणवमभ्यसेत्” । तथा सएव
“आद्यं यत्राक्षरं ब्रह्म त्रयोयत्र प्रतिष्ठिता । सगुह्योऽन्यस्त्रि-
वृद्वेदोयो वेदैनं स वेदवित् । एक एव तु विज्ञेयः प्रण-
वोयोगसाधनम् । गृहीतं सर्वसिद्धान्तैरितरैर्ब्रह्मवादिभिः ।
वेदभारभरार्त्तो यः स वै ब्राह्मणगर्द्दभः । यो वेत्ति ब्रह्म-
गोप्यन्तं त्रिमात्रार्द्धेषु तिष्ठति” । तथा “त्रिमात्रार्द्धं
परं ब्रह्म मात्राक्षरविवर्जितम् । अचिन्त्यमव्ययं सूक्ष्मं
निस्कलं परमं पदम्” मनुः “क्षरन्ति सर्व्वावैदिक्योजुहो-
तियजतिक्रियाः । त्र्यक्षरं दुष्करं ज्ञेयं ब्रह्म चैव प्रजा-
पतिः” । योगिया० यथाऽमृतेन तृप्तस्य पयसा किं प्रयो-
जनम् । तथोङ्कारविधिज्ञस्य ज्ञानतृप्तिर्न विद्यते । सर्व्व-
मन्त्रप्रयोगेषु ओमित्यादौ प्रयुज्यते । तेन संपरिपूर्ण्णानि
यथोक्तानि भवन्ति हि । यन्न्यूनमतिरिक्तञ्च यत् छिद्रं
यदयज्ञियम् । यदमेध्यमशुद्धञ्च यातयामञ्च यद्भवेत् । तत्त-
दोङ्कारयुक्तेन मन्त्रेणाविकलं भवेत्” । छन्दोगगृह्यपरि-
शिष्टम् “यदोङ्कारमकृत्वा तु किञ्चिदारभ्यते तद्वज्रं भवति
तस्मात् वज्रभयात्भीत ओङ्कारं पूर्ब्बमारभेत्” । गद्यव्यासः
ओङ्कारं स्वर्गद्वारं तस्मात्सर्व्वोष्वेव कर्म्मस्वादौ प्रयु-
ञ्जीत” । छन्दोगगृह्यपरिशिष्टम् “ओङ्कारपूर्ब्बंहि योगो-
पासनं यानि नित्यानि पुण्यतमानि कर्म्माणि
दानयज्ञतपःस्वाध्यायजपध्यानसन्ध्योपासनप्राणायामहोमदेव
पितृमन्त्रोच्चारणब्रह्मारम्भादि यच्चान्यत् किञ्चित्सर्व्वं
प्रणवमुच्चार्य्यप्रवर्त्तयेत् समापयेच्च” । मनुः “प्राक्कूले
पर्य्युपासीनः पवित्रैश्चैव पावितः । प्राणायामैस्त्रिभिः
पूतस्तत ओङ्कारमर्हति” । व्यासः “प्रणवस्य ऋषिर्ब्रह्मा
गायत्री च्छन्द एवच । देवोऽग्निः सर्व्वकार्य्येषु विनियोगः
प्रकीर्त्तितः” । तथा “एवमार्षादिकं स्मृत्वा तत ओङ्कार-
मभ्यसेत् । सार्द्धं त्रिमात्रमुच्चार्य्य दीर्घघण्टानिनादवत्” ।
योगियाज्ञवल्क्यः “त्रिमात्रस्तु प्रयोक्तव्यः सर्व्वारम्भेषु
कर्म्मसु । त्रिस्रः सार्द्धास्तु कर्त्तव्यामात्रास्तत्रार्थचिन्तकैः ।
देवताध्यानकाले तु प्लुतं कुर्य्यान्न संशयः । तैलधारावद-
च्छिन्नं दीर्घघण्टानिनादवत् । अप्लुतं प्रणवस्यान्तं यस्तं
वेद स वेदवित् । आद्यं तत्राक्षरं ब्रह्म त्रयी यत्र प्रतिष्ठिता ।
स गुह्योऽन्यस्त्रिवृद्वेदोयोवैदैनं स वेदवित् । छन्दोगपरिं
शिष्टम् “स्वरितोदात्त एकाक्षर ओङ्कार ऋग्वेदे,
त्रैस्वर्य्योदात्तओङ्कारोयजुर्वेदे, दीर्घोदात्तएकाक्षरः
सामवेदे, संक्षिप्तोदात्तएकाक्षर ओङ्कारः अथर्व्ववेदे”
बौधायनः “अपि वा प्रणवेन त्रिरन्तर्जले पठन् सर्व्वस्मात्
पापात् प्रमुच्यते” । वृहद्यमः “स्वदेहमरणिङ्कृत्वा प्रणव-
ञ्चोत्तरारणिम् । ध्याननिर्म्मन्थनाद्विष्णुं पश्येदग्निनिगूढ-
पृष्ठ १५६०
वत् । गोता “ओमित्येकाक्षरं ब्रह्मव्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन् देहं स याति परमाङ्गतिम्” ।
ओङ्कारस्य मात्राविशेषाभिध्यानफलम् प्रश्नोप निर्ण्णीतं यथा
“एतद्वै सत्यकाम! परञ्चापरञ्च ब्रह्म यदोङ्कारस्तस्मा-
द्विद्वानेतेनैवायतनेनैकतरमन्वेति । स यद्येकमात्रमभिध्या
यीत स तेनैव संवेदितस्तूर्ण्णमेव जगत्वामभिसम्पद्यते ।
तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्य्येण
श्रद्धया सम्पन्नो महिमानमनुभवति । अथ यदि द्विमा-
त्रेण मनसि सम्पद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते ।
स सोमलोकं, म सोमलोके विभूतिमनुमूय पुनरावर्त्तते ।
यः पुनरेतन्त्रिमात्रेणैवोमित्येतेनैवाक्षरेण परं पुरुष-
मभिध्यायीत स तेजसि सूर्य्ये सम्पन्नः । यथा पादो-
दरस्त्वचा विनिर्म्मुच्यत एवं ह वै स पाष्मना विनि-
र्म्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जी-
वघनात् परात् परं पुरिशयं पुरुषमीक्षते तदेतौ श्लोकौ
भवतः । “तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता
अनविप्रयुक्ताः । क्रियासु बाह्यान्तरमध्यमासु सम्यक्
प्रयुक्तस्तु न कम्पते ज्ञः । ऋग्भिरेतं, यजुर्भिरन्तरिक्षं,
स सामभिर्यत्तत्कवयो वेदयन्ते । तमोङ्कारेणैवायतनेना-
न्वेति विद्वान् यत्तच्छान्तमजरममृतमभयं परञ्चेति” उ० ।
“एतत्ब्रह्म वै परञ्चापरञ्च ब्रह्म परं सत्यमक्षरं पुरु-
षाख्यमपरञ्च प्राणाख्यं प्रथमजं यत्तदोङ्कार एवोङ्कारा-
त्मकमोङ्कारप्रतीकत्वात् । परं हि व्रह्मशब्दाद्युपलक्षणा-
नर्हं सर्व्वधर्म्मविशेषवर्जितमतो न शक्यमतीन्द्रियगो-
चरत्वात्केवलेन मनसाऽवगाहितुमोङ्कारे तु विष्ण्वादि-
प्रतीमास्थानीये भक्त्यावेशितव्रह्मभावे ध्यायिनां तत्प्रसी-
दतीत्यवगम्यते शास्त्रप्रामाण्यात् । तथाऽपरञ्च ब्रह्म ।
तस्मात्परञ्चापरञ्च ब्रह्म यदोङ्कार इत्युपचर्य्यते । तस्मा-
देवंविद्वानेतेनैवात्मप्राप्तिसाधनेनैव ओङ्काराभिध्याने-
नैकतरं परमपरमन्वेति ब्रह्मानुगच्छति नेदिष्ठं ह्याल-
म्बनमोङ्कारो ब्रह्मणः । स यद्यप्योङ्कारस्य सकलमात्रा-
विभागज्ञो न भवति तथाप्योङ्काराभिध्यानप्रभावाद्विशि-
ष्टामेव गतिं गच्छति किन्तर्हि यद्यप्येवमोङ्कारमेकमात्रा-
विभागज्ञ एव केवलो ऽभिध्यायीतैकमात्रं सदा ध्यायीत
सतेनैव मात्राविशिष्टोङ्काराभिध्यानेनैव संवेदितः
सम्बोधितस्तूर्ण्णं क्षिप्रमेव जगत्यां पृथिव्यामभिसम्पद्यते
किं मनुष्यलोकमनेकानि जन्मानि जगत्यां तत्र तं पाठकं
जगत्यां मनुष्यलोकमेवोपनयन्ते उपनिगमयन्ति ऋचः
ऋग्वेदरूपा ह्योङ्कारस्य प्रथमा एका मात्रा । तदभि-
ध्यानेन स मनुष्यजन्मनि द्विजाग्र्यः सन् तपसा ब्रह्म-
चर्य्येण श्रद्धया च सम्पन्नो महिमानं विभूतिमनुभवति
न वीतश्रद्धो यथेष्टचेष्टो भवति योगभ्रष्टः कदाचिदपि
न दुर्गतिं गच्छति । अथ पुनर्यदि द्विमात्राविभागज्ञो
द्विमात्रेण विशिष्टमोङ्कारमभिध्यायीत स्वप्नात्मके मनसि
मननीये यजुर्मये सोमदैवत्ये सम्पद्यते एकाग्रतयात्मभावं
गच्छति स एवं सम्पन्नो मृतोऽन्तरिक्षाधारं द्वितीयरूपं
द्वितीयमात्रारूपैरेव यजुर्भिरुन्नीयते सोमलोकं सौम्यं
जन्म प्रापयन्ति तं यजूंषीत्यर्थः । स तत्र विभूति-
मनुभूय सोमलोके मनुष्यलोकं प्रति पुनरावर्त्तते ।
यः पुनरेतमोङ्कारं त्रिमात्रेण त्रिमात्राविषयविज्ञान-
विशिष्टेनोमित्येतेनैवाक्षरेण प्रतीकेन परं सूर्य्यान्तर्गतं
पुरुषमभिध्यायीत तेनाभिध्यानेन प्रतीकत्वेन त्वालम्बनत्वं
प्रकृतमोङ्कारस्य, परञ्चापरञ्च ब्रह्मेति भेदाभेदश्रुतेरोङ्कार-
मिति च द्वितीयानेकशः श्रुता बाध्येत अन्यथा यद्यपि-
तृतीयाभिधानत्वेन करणत्वमुपपद्यते तथापि प्रकृतानु-
रोधात्त्रिमात्रं परं पुरुषमिति द्वितीयैव परिणम्या । “त्यजे-
देकं कुलस्यार्थे” इति न्यायेन । स तृतीयो मात्रारूपस्ते-
जसि सूर्य्ये सम्पन्नो भवति ध्यायमानो मृतोऽपि सूर्य्या
त्सोमलोकादिवन्न षुनरावर्त्तते किन्तु सूर्य्यसम्पन्नमात्र
एव । यथा पादोदरः सर्पस्त्वचा विनिर्मुच्यते जीर्णत्वग्-
विनिर्म्मुक्तः स पुनर्नवो भवति । एवं ह वै एष यथा
दृष्टान्तः स पाप्मना सर्पत्वक्स्थानीयेनाशुद्धिरूपेण विनिर्मुक्तः
सामभिस्तृतीयमात्रारूपैरूर्द्ध्वमुन्नीयते ब्रह्मलोकं हिरण्य-
गर्भस्य ब्रह्मणो लोकं सत्याख्यम् । स हिरण्यगर्भः सर्वेषां
संसारिणां जीवानामात्मभूतः स ह्यन्तरात्मा लिङ्गरूपेण
सर्वभूतानां तस्मिन् लिङ्गात्मनि संहताः सर्वे जीवाः ।
तस्मात्स जीवघनः स विद्वांस्त्रिमात्रोङ्काराभिज्ञः ।
एतस्माज्जीवघनाद्धिरण्यगर्भात् परात्परं परमात्माख्यं
पुरुषमीक्षते । पुरिशयं सर्बशरीरानुप्रविष्टं पश्यति ध्याय-
मानः । तदेतावस्मिन्यथोक्तार्थप्रकाशकौ मन्त्रौ भवतः ।
तिस्रस्त्रिसङ्ख्याका अकारोकारमकाराख्या ओङ्कारस्य
मात्राः । मृत्युर्यासां विद्यते ता मृत्युमत्यः मृत्युगोच-
रादनतिकान्ता मृत्युगोचरा एवेत्यर्थः । ता आत्मनो
ध्यानक्रियासु प्रयुक्ताः । किञ्चान्योन्यसक्ता इतरेतरस-
म्बद्धाः । अनविप्रयुक्ता विशेषेणैकैकविषय एव प्रयुक्ताः ।
तथा न विप्रयुक्ता अबिप्रयुक्ता नाविप्रयुक्ता अनविप्रयुक्ताः
पृष्ठ १५६१
किन्तहि विशेषैणैकस्मिन्ध्यानकालेऽतिसृष्टाषु क्रियासु
बाह्याभ्यन्तरमध्यमासु जाग्रत्स्वप्नसुषुप्तिस्थानपुरुषाभिध्यान-
लक्षणासु योगक्रियासु सम्यक्प्रयुक्तासु सम्यग्ध्यानकाले
प्रयोजितासु न कम्पते न चलति ज्ञः ज्ञो योगी यथोक्त-
विभागज्ञ ओङ्कारस्येत्यर्थः । न तस्यैवंविदश्चलनमुपप-
द्यते । यस्माज्जाग्रत्स्वप्नसुषुप्तपुरुषाः सह स्थानैर्मात्रा-
त्रयरूपेणोङ्कारात्मरूपेण दृष्टाः । स ह्येवंविद्वान् सर्व्वा-
त्मभूत ओङ्कारमयः कुतो वा चलेत्कस्मिन् वा । सर्व्वार्थ-
सङ्ग्रहार्थो द्वितीयो मन्त्रः । ऋग्भरेतं लोक मनुष्यो-
पलक्षितम् । यजुर्भिरन्तरिक्षं सोमाधिष्ठितम् । सामभिर्य-
त्तद्ब्रह्मलोकमिति तृतीयं कवयो मेधाविनो विद्यावन्त
एव नाविद्वांसोवेदयन्ते । तं त्रिविधलाकमोङ्कारेण
साधनेनापरब्रह्मलक्षणमन्वेत्यनुगच्छति विद्वान् । तेनैवोङ्कारेण
यत्तत्परं ब्रह्माक्षरं सत्यं पुरुषाख्यं शान्तं विभुकं जाग्र-
त्स्वप्नसुषुप्त्यादिविशेषसर्वप्रपञ्चविवर्जितमत एवाऽजरं
जरावर्जितममृतं मृत्युवर्जितमेव । यस्माज्जराविक्रियादिर-
हितमतोऽभयम् । यस्मादेवाभयं तस्मात्परं निरतिश
यम् । तदप्योङ्कारेणायतनेन गमनसाधनेनान्वेतीर्थः” भा० ।
स च सामावयवभेदः ब्रह्मवाचकः आत्मबोधकाक्षररूप-
श्च तदेत् छा० उप० भाष्ययोर्दर्शितं यथा ।
“ओमित्येतदक्षरमुद्गीथमुपासीत” छा० उ० ॥
“ओमित्येतदक्षरमुपासीत । ओमित्येतदक्षरम् । परमात्म-
नोऽभिधानं नेदिष्ठम् । तस्मित् हि प्रयुज्यमाने स प्रसीदति
प्रियनामग्रहण इव लोकः । तदिहेति परं प्रयुक्तमभि-
धायकत्वाद्व्यावर्त्तितं शब्दस्वरूपमात्रे प्रतीयते ।
तथाचार्चादिवत्परस्यात्मनः प्रतीकं सम्पद्यते ।
एवं नामत्वेन प्रतीकत्वेन च परमात्मोपासनसाधनं
श्रेष्ठमिति सर्व्ववेदान्तेष्ववगतम् । जपकर्म्मस्वाध्यायाद्यन्तेषु
बहुशः प्रयोगात्प्रसिद्धमस्यश्रैष्ठ्यम् । अतस्तदेतदक्षरं वर्णा-
त्मकमुद्गीथभक्त्यवयवत्वादुद्गीथशब्दवाच्यमुपासीत । कर्म्मा-
ङ्गावयवभूते ओङ्कारे परमात्मप्रतीके दृढामेकाग्र्यलक्षणां
मतिं सन्तनुयात्” भा० ।
“ओमित्युद्गायति तस्योपव्याख्यानम् । एषां भूतानां
पृथिवी रसः पृथिव्या आपोरसः । अपामोषधयो
रस ओषधीनां पुरुषो रसः, पुरुषस्य वाग्रसो,
वाच ऋग्रस, ऋचः साम रसः, साम्न उद्गीथो रसः ।
स एव रसानां रसतमः परमः परार्द्धोऽष्टमो यदुद्गीथः ।
कतमा कतमर्क्, कतमत्कतमत्सास, कतमः कतम उद्गीथ इति
विमृष्टं भवति । वागेवर्क्, प्राणः साम, ओमित्येतदक्षरमु-
द्गीथः, तद्वा एतन्मिथुनं यद्वाक् च प्राणश्चर्क् च साम च ।
तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे मंसृज्यते यदा वै मिथुनौ
समागच्छत आपयतो वै तावन्योन्यस्य कामम् । आपयिता
ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ।
तद्वा एतदनुज्ञाक्षरं यद्धि किञ्चानुजानात्योमित्येव तदाह
एषो समृद्धिर्यदनुज्ञा, समर्द्धयिता ह वै कामानां
भवति य एतदेबंविद्वानक्षरमुहीथमुपास्ते । तेनेयं त्रयी
विद्या वर्त्तते ओमित्याश्रावयत्योमिति शंसत्योमित्युद्गा-
यत्येतस्यैवाक्षरस्यापचित्यै महिम्ना रसेन” उप० ।
“स्वयमेव श्रुतिरोङ्कारस्योद्गाथशब्दवाच्यत्वे हेतुमाह ।
ओमिति ह्युद्गायति । ओमित्यारभ्य हि यस्मा-
दुद्गायति अत उद्गीथ ओङ्कार इत्यर्थः । तस्याक्षर-
स्योपव्याख्यानमेवमुपासनमेवंविभूत्येवंफलमित्यादिकथ-
नमुपव्याख्यानम् । प्रवर्त्तत इति वाक्यशेषः ।
एषां चराचराणां भूतानां पृथिवी रसो गतिः परायण-
मवष्टम्भः । पृथिव्या आपो रसोऽप्सु ह्योता च प्रोता च
पृथिव्यतस्ता रसः पृथिव्याः । अपामोषधयो रसोऽप्परि-
णामत्वादोषधीनाम् । तासां पुरुषो रसोऽन्नपरिणामत्वा-
त्पुरुषस्य । तत्रापि पुरुषस्य वाग्रसः । पुरुषावयवानां
हि वाक् सारिष्ठा । अतो वाक् पुरुषस्य रस उच्यते ।
तस्या अपि वाचः ऋग्रसः सारतरा । ऋचः साम रसः
सारतरम् । तस्यापि साम्न उद्गीथः प्रकृतत्वादोङ्कारः
सारतरः । एवं स एष उद्गीथाख्य ओङ्कारो भूतादीनामुत्त-
रोत्तररसानामतिशयेन रसो रसतमः परमात्मप्रतीकत्वात्
परार्द्ध्यः अर्द्धं स्थानं परञ्च तदर्द्धञ्च तदर्हतीति परार्द्ध्यः
परमात्मस्थानार्हः परमात्मवदुपास्यत्वादित्यभिप्रायः ।
अष्टमः पृथिव्यादिरससङ्ख्यायां यदुद्गोथः य उद्गीथः ।
वाच ऋग्रस इत्युक्तम् कतमा सा ऋक् कतमत्तत्साम
कतमो वा स उद्गीथः । कतमा कतमेति वीप्सादरार्था ।
ननु “वा बहूनां जातिपरिप्रश्ने डतमच्” पा० न ह्यत्र
ऋग्जातिबहुत्वं कथं डतमच्प्रत्ययः । नैष दोषो जातौ
परिप्रश्नो जातिपरिप्रश्न इत्येतस्मिन् विग्रहे जातावृगव्य-
क्तीनां बहुत्वोपपत्तेः । न तु जातेः परिपश्न इति
विगृह्यते । ननु जातेः परिपश्न इत्यस्मिन्विग्रहे कतमः
कठ इत्याद्युदाहरणमुपपन्न जातौ परिप्रश्न इत्यत्र तु न
युज्यते । तत्रापि कठादिजातावेत व्यक्तिबहुत्वाभिप्रायेण
परिपश्न इत्यदोषः । यदि जातेः परिपश्नः स्यात् कतमा
पृष्ठ १५६२
कतमा ऋगित्यादौ उपसङ्ख्यानं कर्त्तव्यम् स्यात् ।
विमृष्टं भवति विमर्शः कृती भवति । विमर्शे हि कृते
सति प्रतिवचनोक्तिरुपपन्ना वागवर्क्प्राणः सामेति ।
वागृचोरेकत्वेऽपि नाष्टमत्वव्याघातः पूर्व्वस्माद्वाक्यान्त-
रत्वादाप्तिगुणसिद्धये ओमित्येतदक्षरमुद्गीथ इति वाक्
प्राणावृक्सामयोनी इति वागेवर्क्प्राणः सामेत्युच्यते ।
यथाक्रममृक्सामयोन्योर्वाक्प्राणयोर्ग्रहणे हि सर्व्वासा-
मृचां सर्व्वेषाञ्च साम्नामवरोधः कृतः स्यात् । सर्वर्क्सा-
मावरोधे चर्क्सामसाध्यानां च सर्वकर्म्मणामवरोधः कृतः
स्यात् । तदवरोधे च सर्वे कामा अवरुद्धाः स्युः ।
ओमित्येतदक्षरमुद्वीथ इति भक्त्याशङ्का निवर्त्त्यते ।
तद्वैतदिति मिथुनं निर्दिश्यते । किन्तन्मिथुनमित्याह
यद्वाक् च प्राणश्च सर्वर्क्सामकारणभूतौ मिथुनम्
ऋक् च साम चेति ऋक्सामकारणौ ऋक्सामशब्दोक्ता-
वित्यर्थः । न तु स्वतन्त्रम् ऋक् च साम च मिथुनम् ।
अन्यथा हि वाक् च प्राणश्चेत्येकमिथुनमृक्साम चापरं
मिथुनमिति द्वे मिथुने स्याताम् तथा च तदेतन्मिथुनमि-
त्येकवचननिर्द्देशोऽनुपपन्नः आत् । तस्मादृक्सामयोन्योर्वा-
क्प्राणयोरेव मिथुनत्वम् । तदेतदेवंलक्षणं मिथुनमो-
मित्येतस्मिन्नक्षरे संसृज्यते । एवं सर्वकामावाप्तिगुण-
विशिष्टं मिथुनमोङ्कारे संसृष्टं विद्यत इत्योङ्कारस्य
सर्वकामावाप्तिगुणवत्त्वं प्रसिद्वम् । वाङ्मयत्वमोङ्कारस्य
प्राणनिष्पाद्यत्वञ्च मिथुनेन संसृष्टत्वं मिथुनस्य
कामापयितृत्वं प्रसिद्धमिति दृष्टान्त उच्यते । यथा लोके
मिथुनौ मिथुनावयवौ स्त्रीपुमांसौ यदा समागच्छतो
ग्राम्यधर्म्मतया संयुज्येयातां तदाऽऽपयतः प्रापयतोऽन्यो-
न्यस्येतरेतरस्य तौ कामम् । तथा च स्वात्मानुप्रविष्टेन
मिथुनेन सर्वकामाप्तिगुणवत्त्वमोङ्कारस्य सिद्धमित्यभिप्रायः ।
तदुपासकोऽप्युद्गाता तद्धर्म्मा भवतीत्याह आपयिता
ह वै कामानां यजमानस्य भवति य एत दक्षरमेवाप्ति-
गुणवदुद्गीथमुपास्ते तस्यैतद्यथोक्तं फलमित्यर्थः । “तं
यथा यथोपासते तदेव भवतीति” श्रुतेः । समृद्धिमांश्चो-
ङ्कारः कयं? तद्वा एतत्प्रकृतमनुज्ञाक्षरमनुज्ञा च साक्षरञ्च
तत् अनुज्ञानुमतिरोङ्कार इतर्थः । कथमनुज्ञेत्याह श्रुति-
रेव । यद्धि किञ्च यत्किञ्च लोके ज्ञानं धनं वानुजानाति
विद्वान्धनो वा तत्रानुमतिं कुर्वन्नोमित्येव तदाह । तथा च
वेदे यत्रदेवास्त्रयस्त्रिंशदित्योमिति होवाचेत्यादि ।
तथा च लोकेऽपि तवेदं घनं गृह्णामि इत्युक्त ओमि-
त्याह । अत एषा उ एषैव समृद्धिर्यदनुज्ञा या अनुज्ञा
सा समृद्धिस्तन्मूलत्वादनुज्ञायाः समृद्धोऽप्योमित्यनुज्ञां
ददाति तस्मात्समृद्धिगुणवानोङ्कार इत्यर्थः । समृद्धिगुणो
पासकत्वात्तद्धर्म्मा समर्द्धयिता ह वै कामानां यजमा-
नस्य भवति य एतदेवंविद्वानक्षरनुद्गीथमुपास्त इत्यादि
पूर्ववत् । अथेदानीमक्षरं स्तौति उपास्यत्वात्प्ररोच-
नार्थम् । कथं? तेनाक्षरेण प्रकृतेनेयमृग्वेदादिल-
क्षणा त्रयी विद्या विहितं कर्म्मेत्यर्थः । नहि त्रयी
विद्यैवाश्रावणादिभिर्वर्त्तते कर्म्म तु तथा प्रवर्त्तत
इति प्रसिद्धम् । कथमोमित्याश्रावयत्योमिति शंस
त्योमित्युद्गायतीति लिङ्गाच्च सोमयाग इति गम्यते
तच्च कर्म्म एत स्यैवाक्षरस्यापचित्यै पूजार्थम् । परमात्म-
प्रतीकं हि तत् । तदपचितिः परमात्मन एव सा ।
“स्वकर्म्मणा तमभ्यर्च्च्य सिद्धिं विन्दति मानवः” इति
स्मृतेः । महिम्ना रसेन किञ्चैतस्यैवाक्षरस्य महिम्ना
महत्त्वेन ऋत्विग्यजमानादिप्राणैरित्यर्थः” भा० ।
ओम्शब्दस्य मङ्गलं तु नार्थः किन्तु मङ्गलसाधनत्वं
श्रवणेन भवतीत्येतमर्थमभिसन्धाय तदुत्कीर्त्तनम्
अथशब्दवत् । अतएव “ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः
पुरा । कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ”
इत्यत्र ओङ्कारस्य माङ्गलिकत्वमुक्तम् तथाचार्थान्तरे
प्रयुक्तावथोङ्कारशब्दौ श्रुत्या अभिप्रेतार्थसिद्धिरूपमङ्गलं
जनयत इत्याकरे दृश्यम् । “अवर्ण्णातोम् शब्दस्यादेः
पररूपैकादेशः ओम् + कृ--घञ् । ओमित्यस्य करणे
ओङ्कार क्त । ओङ्कृत अङ्गीकृते ओमित्यादावुच्चारणयुक्ते
च त्रि० । स्नवत्यनोङ्कृतं सर्व्वं मनुः ।

ओमन् पु० अव--मनिन् ऊट् गुणः । अवने रक्षणे “घ्रंसमो-

मना वा यो गात्” ऋ० ७, ६९, ४ । “ओमनाऽवनेन
रक्षणेन” भा० “यो वामोमानं दधते प्रियः सन्”
७,६८, ५ । “ओमानं रक्षणम्” भा० । “विश्वेभिर्ग-
न्त्वोमभिर्हुवानः” ऋ० ५, ४३, १३ । “ओमभिः
रक्षणैः” भा० । ओमाविद्यतेऽस्य मतुप् मस्य वः नि०
ननलोपः । ओमन्वत् ओमयुक्ते रक्षके “ओमन्वन्तं
चक्रथुः सप्त वध्रय” ऋ० १०, ३९, ९ । “ओमन्वन्त रक्ष-
णवन्तम्” भा० ओम्ना त्रायते त्रै क नलोपदीर्घौ । ओमात्र
अवनेन त्राणकर्त्तरि त्रि० । “त ओमात्रां कृष्टयोविदुः”
५०, ५, ओमनि हितम् यत् टिलोपः । ओम्य रक्षणहिते
त्रि० “वसूनां रात्रौ स्याम रुद्राणामोम्यायाम्” सांख्या०
पृष्ठ १५६३
श्रौ० सू० १, ६, २ । ततोऽस्त्यर्थेमतुप् पूर्ब्बस्य दीर्घः
ओम्यावत् तद्युक्ते त्रि० । “तप्तघर्म्ममोम्यावन्तमत्रये”
ऋ० १, ११२, ७

ओल पु० ओनत्ति आ + उन्द--क नलोपे पृषो० दस्य

लत्वम् । १ शूरणे (ओल) इति ख्याते कन्दे । २ आर्द्रे--त्रि०
(भिजा) त्रिका० । ओलस्य गुणाः भावप्र० “शूरणः कन्द-
ओलश्च कन्दलोऽर्शोघ्न इत्यपि । शूरणोदोपनोरूक्षः
कषायः कण्डूकृत् कटुः । विष्टम्भी विशदोरुच्यः कफार्शः-
कृन्तनोलघुः । विशेषादर्शसे पथ्यः प्लीहागुल्मविनाशनः ।
सर्वेषां कन्दशाकानां शूरणः श्रेष्ठ उच्यते । दद्रूणां
रक्तपित्तानां कुष्ठानां न हितो हि सः । सन्धानयोगं
सम्प्राप्तः शूरणोगुणवत्तरः” उक्ताः ।

ओलज उत्क्षेपे इदित् भ्वा० पर० सक० सेट् । ओलञ्जति

औलञ्जीत् । ओलञ्जाम्--बभूव आस चकार ।

ओलड क्षेपे इदित् वा चुरा० उभ० पक्षे भ्वादि० पर० सक०

सेट् । ओलण्डयति ते औलिलण्डत् त ओलण्डयाम्
बभूव आस चकार चक्रे । पक्षे ओलण्डति औलण्डीत्
ओलण्डाम् बभूव आस चकार ।

ओल्ल पु० ओल + पृषी० । ओले शूरणे राजनि० ।

ओष पु० उष--घञ् । १ दाहे । “अग्निक्षाराभ्यामोषचोषपरी-

दाहाश्च भवन्ति” । “वैवर्ण्यतोदसुप्तत्वगुरुत्वौषसमन्वितौ”
“तेषां चतुर्ण्णामप्योषचोषपरीदाहधूमायनानि क्षिप्रोत्थान
प्रपाकभेदित्वानि कृमिजन्म च सामान्यानि लिङ्गानि”
सुश्रु० । २ पाके च व्योषः ३ क्षिप्रे न० निघ० ।

ओषण पु० उष--ल्यु । कटुरसे (झाल) इति ख्याते १ रसभेदे ।

गौ० ङीष् । ओषणी (पुडिया) २ शाकभेदे स्त्री ।
“ओषणी कफवातनुत्” राजबल्लभः ।

ओषधि(धी) स्त्री ओषः पाको धीयतेऽत्र ओष + धा--कि

जातिविषयत्वाद् स्त्रीत्वे वा ङीष् ओषधी च । फलपाका-
न्ते व्रीहियवादौ स्थावरभेदे । ओषधिश्च स्थावरभेदो
यथाह सुश्रुतः “तासां स्थावराश्चतुर्विधाः वनस्पतयो वृक्षा
वीरुध ओषधयः । तास्वपुष्पाः फलसन्तो वनस्पतयः ।
पुष्पफलवन्तो वृक्षाः प्रतानवत्यः स्तम्बिन्यश्च वीरुधः ।
फलपाकान्ता ओषधयः” मनुरप्याह “उद्भिज्जाः स्थाव-
राज्ञेया वीजकाण्डप्ररोहिणः । ओषध्यः फलपाकान्ता
बहुपुष्पफलोपगाः । अपुष्पाः फलवन्तो ये ते वनस्पतयः
स्मृताः । पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः । गुच्छ
गुल्मं तु विविधं तथैव तृणजातयः । वीजकाण्डरुहा-
श्चैव प्रताना वल्ल्य एव च । तमसा बहुरूपेण वेष्टिताः
कर्म्महेतुना । अन्तःसंज्ञाभवन्त्येते सुखदुःखसमन्विताः” ।
ओषधीनामुत्पत्तिः तन्निर्वचनञ्च” “तां (आहु-
तिम्) हैनां नाभिराधयांचकार केशमिश्रेव हास
तां व्यौक्षदोषं धयेति तत ओषधयः समभवंस्तस्मा-
दोषधयो नाम” शत० ब्रा० २, २, ३, ५ दर्शितम् ।
“ताञ्चाहुतिं तस्मिन्नग्नौ व्यौक्षत् अत्यजत् इदमाहुतिद्रव्यम्
ओषं पक्वं कृत्वा धय पिवेति अग्नौ प्रक्षिप्तात्तस्मादोषधयः
पृथिव्यां समभवन्” भा० । निरु० “या ओषधीः पूर्वजा-
ताः” इत्येतामृचमधिकृत्य अन्याऽपि निरुक्तिर्दर्शिता
“ओषधय ओषं धयन्तीति वौषत्येनाधयतोति वा दोषंधय-
न्तीति वा” । सर्वत्र पृषो० । भाग० ३, १० अ० स्थावराणां
षड्भेदा उक्ताः यथा “सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषां
चयः । वनस्पत्योषधिलतात्वक्सारा वीरुधोद्रुमाः ।
उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशेषिणः” १९, २०, श्लो० ।
“मुखमेव मुख्यः प्रथमः मुख्यसर्गः तस्थूषां स्थावरा-
णाम् । षडविधत्वमेवाह ये पुष्पं विना फलन्ति ते
वनस्पतयः, १ ओषधयः फलपाकान्ताः २, लता आरोहणा-
पेक्षाः ३ त्वक्सारा वेण्वादयः४ लता एव काठिन्येना-
रोहणानपेक्षा वीरुधः, ५ ये पुष्पैः फलन्ति ते द्रुमाः ६
तेषां साधारणलक्षणमाह ऊर्द्ध्वं स्रोत आहारसञ्चारो येषां
ते तमःप्रधाना अव्यक्तचैतन्या अन्तःस्पर्शमेव जानन्ति
नान्यत् तदप्यन्तरेव न बहिः, विशेषिणः अव्यवस्थितपार-
णामाद्यनेकभेदवन्तः” श्रीधरः । तत्र भैषज्योपयोगिनीः
कतिचिदोषधीः सुश्रुतो लक्षणसहिता दर्शयामास यथा
“अथ वक्ष्यामि विज्ञानमोषधीनां पृथक् पृथक् । मण्डलैः
कपिलैश्चित्रैः सर्पाभा पञ्चपर्णिनी । पञ्चारत्निप्रमाणा या
विज्ञेयाऽजगरी१ बुधैः । निष्पत्रा कनकाभासा मूले द्व्यङ्गु-
लसम्मिता । सर्पाकारा लोहितान्ता श्वेतकापोति २ रुच्यते ।
द्विपर्णिनीं मूलभवामरुणां कृष्णमण्डलाम् । द्व्यरत्निमात्रां
जानोयाद्नोनसीं ३ गोनसाकृतिम् । सक्षीरां रोमशां मृद्वीं
रसेनेक्षुरसोपमाम् । एवंरूपरसाञ्चापि कृष्णकापोति ४ ।
मादिशेत् । कृष्णसर्पस्वरूपेण वाराही ५ कन्दसम्भवा ।
एकपत्रा महावीर्य्या भिन्नाञ्जनसमप्रभा । छत्रातिच्छत्रक ६, ७
विद्याद्रक्षोघ्ने कन्दसम्भवे । जरामृत्युनिवारिण्यौ श्वेत-
कापोतिसंस्थिते । कान्तर्द्वादशभिः पत्रैर्म्मयूराङ्गरुहो-
पमैः । कन्दजा काञ्चनक्षीरी कन्या ८ नाम महौषधी ।
करेणुः ९ सुबहुक्षीरा कन्देन गजरूपिणी । हस्तिकर्ण-
पृष्ठ १५६४
पलाशस्य तुल्यपर्णा द्विपर्णिनी । अजास्तनाभकन्दा तु
सक्षीरा क्षुपरूपिणी । अजा १० महौषधी ज्ञेया शङ्खकुन्दे-
न्दुपाण्डुरा । श्वेतां विचित्रकुसुमां काकादन्या समां क्षु-
पाम् । चक्रका ११ मोषधीं विद्याज्जरामृत्युनिवारिणीम् ।
मूलिनी पञ्चभिः पत्रैः सुरक्तांशुककोमलैः । आदित्य-
पर्णिनी १२ ज्ञेया सदादित्यानुवर्त्तिनी । कनकाभा जलान्तेषु
सर्वतः परिसर्पति । सक्षीरा पद्मिनीप्रख्या देवी ब्रह्म-
सुवर्चला १३ । अरत्निमात्रक्षुपका पत्रैर्द्व्यङ्गुलसम्मितैः ।
पुष्पैर्नीलोत्पलाकारैः फलैश्चाञ्जनसन्निमैः । श्रावणी १४ महती
ज्ञेया कनकाभा पयस्विनी । श्रावणीपाण्डुराभासा
महाश्रावणिलक्षणा । गोलोमी १५ चाजलोमी १६ च रोमशे
कन्दसम्भवे । हंसपादी १७ च विच्छिन्नैः पत्रैर्मूलसमुद्भवैः
अथवा शङ्खपुष्पी च १८ समाना सर्वरूपतः । वेगेन महता-
विष्टा सर्पनिर्म्मोकसन्निभा । एषा वेगवती १९ नाम जायते
ह्यम्बुदक्षवे । सप्तादौ सर्वरूपिण्यो याह्यौषध्यः प्रकी-
र्त्तिताः । तासामुद्धरणं कार्य्यं मन्त्रेणानेन सर्वदा ।
महेन्द्ररामकृष्णानां वारणानां गवामपि । तपसा तेजसा
वापि प्रशाम्यध्वं शिवाय वै । मन्त्रेणानेन मतिमान्
सर्व्वानप्यभिमन्त्रयेत् । अश्रद्दधानैरलसैः कृतघ्नैः पापकर्म्म-
भिः । नैवासादयितुं शक्याः सोमाः २० सीमसमास्तथा ।
पीतावशेषममृतं देवैर्ब्रह्मपुरोगमैः । निहितं सोमवीर्य्यासु
सोमे चाप्यौषधीपतौ । देवसुन्दे ह्रदवरे तथा सिन्धौ
महानदे । दृश्यते च जलान्तेषु मध्ये ब्रह्मसुवर्च्चला ।
आदित्यपर्णिनी ज्ञेया तथैव हि हिमक्षये । दृश्यतेऽ-
जगरी नित्यं गोनसी चाम्बुदागमे । काश्मीरेषु सरो
दिव्यं नाम्ना क्षुद्रकमानसम् । करेणुस्तत्र कन्या च छत्रा-
तिच्छत्रके तथा । गोलोमी चाजलीमी च महती श्रावणी
तथा । वसन्ते कृष्णसर्पाख्या गोनसी च प्रदृश्यते ।
कौशिकीं सरितं तीर्त्त्वा सञ्जयन्त्यास्तु पूर्व्वतः । क्षितिप्रदेशो
वल्मीकैराचितो योजनत्रयम् । विज्ञेया तत्र कापोती
श्वेता वल्मीकमूर्द्धसु । मलये नलसेतौ च वेगवत्योषधी
ध्रुवा । कार्त्तिक्यां पौर्णमास्याञ्च भक्षयेत्तामुपोषितः ।
सोमवच्चात्र वर्त्तेत फलं तावच्च कीर्त्तितम् । सर्वा विचे-
यास्त्वौषध्यः सोमे चाप्यर्बुदे गिरौ । सशृङ्गैर्देवचरितैर-
म्बुदानीकभेदिमिः । व्याप्तस्तीर्थैश्च विख्यातैः सिद्धर्षि-
सुरसेवितैः । गुह्याभिर्भीमरूपाभिः सिंहनादितकुक्षिभिः ।
गजालोडित तोयाभिरापगाभिः समन्ततः । विविधैर्धातु-
भिश्चित्रैः सर्वत्रैवोपशोभितः । नदीसु शैलेष सरस्सु वापि
पुण्येष्वरण्येषु तथाश्रमेषु । सर्वत्र सर्वाः परिमार्गितव्याः
सर्वत्र भूमिर्हि वसूनि धत्ते” । शारिवाप्रभृत्योषधीनां
लक्षणादिकं भावप्र० दर्शितं तत्तच्छब्दे उक्तं यथास्थानं
वक्ष्यते च । वैदिककर्म्मोपयोगिन्य ओषधयो ग्राम्यारण्य-
भेदेन चतुर्दशविधाः यथा “तिलमाषव्रीहियवाः प्रिय-
ङ्गवो गोधूमाश्चेति सप्त ग्राम्याः ओषधयः । वेणुश्यामाक
नीवारजर्त्तिला गवेधुका मर्कटका गार्मुताश्चेति सप्त
आरण्याः ओषधयः” इति तैत्तरीयसंभाष्ये ४ र्थ
काण्डे ५ प्रपाठके ६ अनुवाके । “अथौषधीनामधि-
पस्य वृद्धौ” “महीषधीं नक्तमिवात्मभासः” कुमा०
“भोगीव मन्त्रौषधिरुद्धवीर्य्यः” । “नवोदयं नाथमिवो-
षधीनाम्” रघुः । ओषधीनामृतुभेदे गुणविशेषा
ॠतुशब्दे १४३५ पृ० उक्ताः । २ देवपत्न्याञ्च । “देवानां हैता-
मग्रे पत्नीर्देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽङ्गिरस्वद्दधु-
स्ताभिरेवैनामेतद्दधाति ता है ता ओषधय एवौषधयो वै
देवानां पत्न्य ओषधिभिर्हीदं सर्वं हितमोषधिभिरेवैना-
मेतद्दथाति” शत० ब्रा० ६, ५, ४, ४ ।

ओषधिगर्भ पु० ओषधीनां गर्भ उत्पत्तिर्यस्मात् । १ चन्द्र

तत्किरणसम्पर्कादोषधीनामुत्पत्तेस्तस्य तथात्वम् । २ सूय्य
च । तस्य च वृष्टिद्वारा ओषधीगर्भधायकत्वात् “अपां
गर्भं दर्शतमोषधीनाम्” ऋ० १, १६४, ५२ मन्त्रे सूर्य्य-
स्यौषधीगर्भाधायकत्वोक्तेश्च तथात्वम् ।

ओषधिज त्रि० ओषधिभ्यो जायते जन + ड ५ ब० । ओषधी-

जाते १ औषधे २ तज्जाते वह्नौ पु० । ज्वलयतौषधि-
जेन वह्निना” माघः ।

ओषधिपति पु० ६ त० । चन्द्रे तस्य किरणेनौषधीनामाप्याय-

नात् “अमायां तु सदा सोम ओषधीः प्रतिपद्यते ।
तमोषधिगतं गावःपिबन्त्यमृतवत् तथा” कालमा० सोमो-
त्पत्तिवाक्याच्च तथात्वम् “अपमार्गमोषधिपतिः स्म करैः” ।
माघः ओषधीनाथौधघीपादयोऽत्र । २ कर्पूरे ३
सोममलतायाञ्च । यथा च चन्द्रस्यौषधिपतित्वं तथा हरिवं०
२५ अ० अत्रेः सोमोत्पत्तिमुपवर्ण्य उक्तं यथा “तस्य
यच्च्यावितं तेजः पृथिवीमन्वपद्यत । ओषध्यस्ताः समुत्प-
न्नास्तेजसा प्रज्वलन्त्युत । ताभिर्धार्य्यास्त्रयोलोकाः प्रजा-
श्चैव चतुर्विधाः । पोष्टा हि भगवान् सोमो जगतां
जगतीपते! । स लब्धतेजा भगवान् संस्तवैस्तैश्च कर्म्मभिः ।
तपस्तेपे महाभागः पद्मानां दशतोर्दश । हिरण्य-
वर्णा यादेव्यो धारयन्त्यात्मना जगत् । विघुस्तासामभूत्
पृष्ठ १५६५
देवः प्रख्यातः स्बेन कर्म्मणा । ततस्तस्मै ददौ राज्य
ब्रह्मा ब्रह्मविदां वरः । वीजौषधीनां विप्राणामपाञ्च
जनमेजय! । सोऽभिषिक्तो महाराज राज्येन द्विजराज-
राट् । त्रीन् लोकान् भासयामास खभासा भास्वतां
वरः” । काशीख० १४ अ० सोमोत्पत्तिमुक्त्वोक्तम् । “तस्य
यत् प्लावितं तेजः पृथिवीमन्वपद्यत । तेनोषध्यः समु
द्भूता याभिः संधार्य्यते जगत् । स लब्धतेजा भगवान्
ब्रह्मणा वर्द्धितः स्वयम् । तपस्तेपे महाभागः पद्मानां
दशतीर्दश । अविमुक्तं समासाद्य क्षेत्रं परमपावनम् ।
संस्थाप्य लिङ्गममृतं चन्द्रेशाख्यं खनामतः । वीजौष-
धीनां तोयानां राजाऽभूदग्रजन्मनाम् । प्रसादाद्देवदेवस्य
विश्वेशस्य पिनाकिनः । तुष्टेन देवदेवेन स्वमोलौ यो
धृतः सदा । आदाय तां कलामेकां जगत् संजोवनीं
पराम् । पश्चाद्दक्षेण शप्तोऽपि मासान्ते क्षयमाप्य च ।
आप्याय्यतेऽसौ कलया पुनरेव यया शशी” ।

ओषधिप्रस्थ पु० ओषधियुक्तं प्रस्थमत्र । हिमालयराजधान्याम्

“तत् प्रयातौषधीप्रस्थं स्थितये हिमवत्पुरम्” “आसे
दुरोषधिप्रस्थम्” “इत्यौषधिप्रस्थविलासिनीनाम्” कुमा० ।

ओषम् अव्य० उष--णमुल् । अभीक्ष्णं पक्त्वेत्यर्थे “ओशं-

धयेति” शत० ब्रा० वाक्यम् ओषधिशब्दे दर्शितम् ।

ओषिष्ठ त्रि० उष--दाहे णिनि अतिशयेन ओषी इष्ठन्

डिद्वत्त्वात् टिलोपः । दाहकतरे “ओषिष्ठहनं शिनिकशा-
भ्याम्” तैत्ति० १, ४, ३६, १ ।

ओष्ट्राविन् त्रि० उष + करणे ष्ट्रन् तदस्त्यस्य विनि । “छन्दो-

विन् करणे ओष्ट्रमेखलादिति” वार्त्ति० दीर्घः ।
दाहकरणयुक्ते । “पुनरोष्ट्राविन्यक्षत” श्रुतिः सि० कौ० ।

ओष्ठ पु० उष्यते उष्णाहारेण उष--कर्म्मणि थल् । (ओठ)

दशनच्छदे । “अवनिष्ठीवतोदर्पाद्द्वावोष्ठौ च्छेदयेत् नृपः”
मनुः । निरुपपदोष्ठशब्दश्च प्रायेण उत्तोरष्ठएव कविभिः
प्रयुज्यते । “ताम्रौष्ठपर्य्यस्तरुचःस्मितस्य” कुमा० । “ओष्ठेन
रामो रामौष्ठविम्बचुम्बनचुञ्चुना” माघः । उपपदे तूभयतः
“उमामुखे विम्बाफलाधरौष्ठे” कुमा० । अधरौष्ठ उत्तरोष्ठ
इत्यादि । “यस्याधरौष्ठः पतितः क्षिप्तश्चार्द्धं तथोत्तरः ।
उभौ वा जाम्बवाभासौ दूर्लभं तस्य जीवितम्” सुश्रुतः ।
ओष्ठस्य स्वाङ्गत्वात् संयोगोपधत्वेऽपि उपसर्ज्जने स्त्रियां
वा ङीष् । “विम्बोष्ठी चारुनेत्रा गजपतिगमना दीर्घके-
शी सुमध्या” महाना० । समासे उत्तरपदस्थेऽस्मिन्
पुर्वस्थावर्ण्णस्य वा पररूपम् । विम्बौष्ठः विम्बोष्ठः । शरी-
रावयवत्वात् भवादौ यत् । ओष्ट्य तद्भवे त्रि० उवर्णे
पवर्गे च “ओष्ठजावुपू” शिक्षोक्तेः तयोस्तत्रभवत्वात्तथा-
त्वम् । ओष्ठे प्रसितः कन् । ओष्ठकः ओष्ठसंस्कारप्रसिते
त्रि० । औष्ठस्य मूलं जाहच् । ओष्ठजाह तन्मूले न० ।

ओष्ठकोप पु० ओष्ठस्य कोपो यत्र । सुश्रुतोक्ते मुखरोगभेदे ।

मुखरोगनिरूपणे तत्रोक्तं यथा
“तत्रौष्ठकोपा वातपित्तश्लेष्मसन्निपातरक्तमांसमेदोऽभिधा-
तनिभित्ताः । कर्कशौ परुषौ स्तब्धौ कृष्णौ तीव्ररुगन्वितौ ।
दाल्येते परिपुट्येते ओष्ठौ मारुतकोपतः १ । आचितौ
पिडकाभिस्तु सर्षपाकृतिभिर्भृशम् । सदाहपाकसंस्रावौ
नीलौ पीतौ च पित्ततः २ । सवर्णाभिस्तु चोष्येते पिडकामि-
रवेदनौ । कण्डूमन्तौ पिच्छिलौ च शीतलौ कफजौ ३ गुरू ।
सकृत्कृष्णौ सकृत्पीतौ सकृच्छ्वेतौ तथैव च । सन्निपातेन ४
विज्ञेयावनेकपिड़काचितौ । खर्ज्जूरफलवर्णाभिः पिडकाभिः
समाचितौ । रक्तोपसृष्टौ ५ रुधिरं स्रवतः शोणितप्रभौ ।
मांसदुष्टौ ६ गुरू स्थूलौ मांसपिण्डवदुद्गतौ । जन्तवश्चात्र
मूर्च्छन्ति सृक्वस्योभयतो मुखात् । मेदसा ७ घृतमण्डाभौ
कण्डूमन्तौ स्थिरौ मृदू । अच्छस्फटिकसङ्काशमास्रावं
स्रवतो गुरू । क्षतजाभौ विदीर्य्येते पाट्येते चाभिघा-
ततः ८ । ग्रथितौ च समाख्यातावोष्ठौ कण्डूसमन्वितौ” ।
६ त० ओष्ठरोगादयोऽप्यत्र ।

ओष्ठपुष्प पु० अष्ठोपमानं पुष्पं यस्य । बन्धुकवृक्षे । राजनि०

ओष्ठी स्त्री ओष्ठ इवाचरति ओष्ठ + क्विप् ततः अच् गौरा०

ङीष् । विम्बफलनामके (तेलाकुचा) वृक्षे । रत्नमाला ।

ओष्ठोपमफला स्त्री ओष्ठ उपमीयतेऽनेन ओष्टोपमं फलं

यस्याः । विम्बिकालतायाम् (तेलाकुचा) जटाधरः ।

ओष्ण पु० ईषदुष्णः आ + उष्ण प्रा० स० । ईषदुष्णे ।

ओह पु० आ + वह घञर्थे क संप्र० । १ सम्यग्वहने । “दस्रा-

गोरोहेण तौग्र्यो न जीव्रिः” ऋ० १, १८०, ५ ।
“ओहेन वहनेन” भा० । कर्त्तरि मूलविभु० क । २ वाहके
३ प्रापके च त्रि० । “ऋध्यामा त ओहैः” ऋ० ४, १०, १ ।
“ओहैः इन्द्रादिप्रापकैःस्तोमैः” भा० ।

ओहब्रह्मन् पु० ऊह एषां ब्रह्मेति वा निरुक्तोक्तेः पृषो० ।

ऊहब्रह्मयुक्ते । “वेद्याभिरोहब्रह्मणो विचरन्तु त्वे”
निरु० १३, १३, । धृता श्रुतिः । स्तोत्रेण” भा० ।

ओहस् त्रि० आ + ऊह असुन् । बहनसाधने स्तोत्रादौ । “न ये

देवास ओहसा” ऋ० ६, ६८, ९, “ओहसा बहनसाधने-
नाभ० इति वाचस्पत्ये ओकारादिशब्दार्थसङ्कलनम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/ओ&oldid=85290" इत्यस्माद् प्रतिप्राप्तम्