सामग्री पर जाएँ

वाचस्पत्यम्/ऐ

विकिस्रोतः तः
← वाचस्पत्यम्/ए वाचस्पत्यम्/ऐ
तारानाथ भट्टाचार्य
वाचस्पत्यम्/ओ →
पृष्ठ १५४३

ऐकारः स्वरवर्णभेदः एदैतौ कण्ठतालव्यावित्युक्तेः कण्ठ-

तालुस्थानयोरुच्चार्य्यः । स च दीर्घः द्विमात्रत्वात् प्लुतस्तु
त्रिमात्र इति भेदः । द्विमात्रस्य उदात्तानुदात्तस्वरित-
भेदैः प्रत्येकमनुनासिकाननुनासिकभेदाभ्याञ्च षड्विधः एवं
प्लुतस्यापीति द्वादशविधः । तन्त्रे तस्य वाचकशब्दा उक्ता
यथा । “ऐर्लज्जा भौतिकः कान्ता वायवी मोहिनी विभुः ।
दक्षा दामोदरः प्रज्ञो धरो विकृतमुख्यपि । क्षमात्मको-
जगद्योनिः परः परनिबोधकृत् । ज्ञानामृता कपर्द्दिश्रीः
पीठेशोऽग्निः समातृकः । त्रिपुरा लोहिता राज्ञी वाग्-
भवो भौतिकासनम् । महेश्वरी द्वादशी च विमलश्च
सरस्वती । कामकोटो वामजानुरंशुमान् विजयो जटा” ।
“ऐकारः कोठराक्षी च मालिन्युन्मत्तभैरवी” इति च वर्णा-
भिधा० । मातृकान्यासेऽधरोष्ठे न्यस्यत्वात् तच्छब्दा-
भिधेयता । तस्य ध्येयरूपं काभधेनुत० उक्तं यथा
“ऐकारं परमं दिव्यं महाकुण्डलिनीं स्वयम् । कोटि-
चन्द्रप्रतीकाशं पञ्चप्राणमयं सदा । ब्रह्मविष्णुमयं वर्ण्णं
तथा रुद्रमयं प्रिये! । सदाशिवमयं वर्णं विन्दुत्रय-
समन्वितम्” । तपरत्वे कारपरत्वे च तत्स्वरूपपरः ।

अव्य० आ + इण--विच् । १ आह्वाने २ स्मरणे ३ आमन्त्रणे च

४ महेश्वरे पु० तस्य सर्वगत्वात्तथात्वम् ।

ऐक वि० एक + स्वार्थे अण् । एकशब्दार्थे ततोभवाद्यर्थे गहा०

छ । ऐकीय एकसम्बन्धिनि तद्भवादौ च त्रि० ।

ऐकध्यम् अव्य० एकधा + धास्थाने ध्यमुञ् एकधेत्यर्थे

“ऐकध्यं च श्रपणम्” कात्या० १४, ३, २४ । “एतदैकध्यं
संगृह्य” सुश्रु० । ततः स्वार्थे ड । ऐकध्य तदर्थे न०
“ऐकध्येन श्रपणम्” उक्तकात्या० सूत्रभाष्ये कर्कः ।

ऐकपत्य न० एकपतेर्भावः कर्म वा ष्यञ् । सार्वभौमत्वे

“अप्रतिद्वन्द्वतामैकपत्यञ्च सर्वदेहिनाम्” भाग० ७, ३, ३४ ।
एकपतौ भवः पत्युत्तरपदत्वात् ण्य । एकपतिभवे त्रि० ।

ऐकपदिक त्रि० एकस्मिन् पदे स्थाने विभक्त्यन्ते वा भवः

ठञ् । १ एकस्थानभवे २ एकविभक्त्यन्तपदभवे च । एकपदाय
प्रभवति ठञ् । “कृतोऽप्येकपदिका भवन्ति यथा
व्रततिर्दमूनाः” इत्यादि निरु० “एकार्थमनेकशब्द-
मित्येतदुक्तम् अथ यान्यनेकार्थान्येकपदानि तान्यतो-
ऽनुक्रमिष्यामोऽनवगतसंस्कारांश्च निगमान् तदैकपदिक-
मित्याचक्षते इति निरु० उक्ते अनेकशब्दे एकार्थपरे
समासादिवृत्तिरूपे ३ वाक्यभेदे च ।

ऐकपद्य न० एकपदस्य एकार्थकैकविभक्त्यन्तस्य भावः ष्यञ् ।

संसृष्टार्थत्वे अनेकपादानामेकार्थबोधकतासम्पादने
ससादिभावे ।

ऐकभाव्य न० एको भावो यस्य तस्य भावः ष्यञ् । एकस्वभावत्वे ।

ऐकमत्य न० एकं मतं येषां तेषां भावः ष्यञ् । तुल्यसम्मतौ

“स्वर्गामिणस्तस्य तमैकमत्यात्” रघुः । “ऐकमत्यं हि
नोराजन्! सर्वेषामेव लक्षये” भा० व० ७ अ० । “ऐकमत्यञ्च
सर्वस्य जनस्याथ नृपं प्रति” भा० व० २९८ अ० ।
“सुहृदश्चैकमत्यात्” भा० उ० २२ अ० । “क्वैकमत्यं
महाधियाम्” नीतिः । ऐकमत्यमत्रास्ति अच् । ऐकमत्ययुक्ते
त्रि० । “गर्हेतान्योन्यमतयो मस्त्रिणो ब्रुवते सदा ।
नचैकमत्यः शेषोऽस्ति मन्त्रः सोऽधम उच्यते” रामा० ।

ऐकराज्य न० एकराजो भावः ष्यञ् । चक्रवर्त्तित्वे “यत्-

सुपर्ण्णेयेनैकराज्यमजयो हि ना” आश्व० श्रौ० ५, १९, ४ ।

ऐकलव्य पुंस्त्री एकल्वः अपत्यं गर्गा० यञ् । एकलू-

नामकर्षेर्गोत्रापत्ये स्त्रियां ङीप् यलोपः ऐकलवी ।
ऐकलव्यस्य छात्राः कण्वा० ततोऽण् यलोपः ।
ऐकलव तच्छात्रेषु स्त्रियां ङीप् ।

ऐकशतिक त्रि० एकशतमस्यास्ति ठञ् । एकशतपरिमित-

द्रव्यस्वामिनि । एवमैकसहस्रिकादयोऽपि तत्तत्संख्यद्रव्य-
युक्ते त्रि० ।

ऐकश्रुत्य न० एका श्रुतिर्यत्र तस्य भावः ष्यञ् । “उदात्तानुदात्त

स्वरितानां परः सन्निकर्ष ऐकश्रुत्यम्” आश्व० श्रौ० १, २
९, सूत्रोक्ते स्वरभेदे । एकश्रुतिशब्दे विवृतिः ऐकस्वर्य्य-
मप्यत्र न० ।

ऐकागारिक त्रि० एकमसहायमगारं प्रयोजनमस्य ठञ् ।

चौरे स्त्रियां ङीप् । “ऐकागारिकवद्भूमौ दूराज्जग्मु-
रदर्शनम्” माघः “केनचिदैकागारिकेण हस्तवता” दशकु० ।

ऐकाग्र त्रि० एकाग्र + स्वार्थेऽण् । एकाग्रचित्ते एकतानचित्ते

ऐकाग्र्य न० एकाग्रस्य भावः । अनन्यासक्तचित्तत्वे

एकमात्रालम्बिचित्तत्वे एकाग्रताशब्दे विवृतिरुदाहरणञ्च ।

ऐकात्म्य न० एक आत्मा स्वरूपं यस्य तस्य भावः ष्यञ् ।

१ ऐक्ये २ एकस्वरूपत्वे । “तथैकात्म्यानुभावानां विकल्पर-
हितः स्वयम्” भाग० ६, ८, ३१ । “एतेषां श्रेयआशासे
उतैकात्म्यं महात्मनि” ७, १३, ३९ । “एकात्म्यगमनात्
सद्यः कलुषाद्विप्रमुच्यते” भा० अनु० ३७५ । ३ अभेदे च
पृष्ठ १५४४
“ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्ज्जुनस्य च” भा० आ०
१ अ० । एकआत्मा तस्य भावः । ४ आत्मन एकत्वे
ऐकात्म्यवादः ऐकातत्म्यवादी

ऐकादशिन त्रि० एकादशानां संघ इनि एकादशिनी

खलिनीवत् स्त्रीत्वं सा साधनतयाऽस्त्यस्य अण् । एकादशिनी-
साध्यफले । “द्वे त्वेर्वते एकादशिन्यावालभेत य एवैका-
दशिनेषु कामस्तस्याप्त्यै” शत० ब्रा० १३, ३, ३, ३ तत्रा-
लभ्यद्विविधैकादशसंख्यपपशुभेदाः देवतासहिताः यजु०
२९, ५८, ५९ उक्ता यथा
“आग्नेयः कृष्णग्रीवः १ सारस्वती मेषो २ बभ्रुः सौम्यः ३
पौष्णः श्यामः ४ शितिपृष्ठो वार्हस्पत्यः ५ शिल्पोवैश्वदेव ६
ऐन्द्रोऽरुणो ७ मारुतः कल्माष ८ ऐन्द्राग्नः संहितो ९ ऽधो
रामः सावित्रो १० वारुणः कृष्ण एकशितिपात् ११ पेत्वः” ५८
“अश्वमेधे श्रुतिरस्ति द्वे त्वेवैते एकादशिन्यावालभेतेति”
तयोरेकादशिन्योः पशवस्तद्देवताश्च कण्डिकाद्वयेनो-
च्यन्ते नेनेमानि ब्राह्मणवाक्यानि द्रव्यदेवताप्रति-
पादकानि नतु मन्त्राः । कृष्णा ग्रीवा यस्य स कृष्णग्रीवः
पशुराग्नेयः अग्निदेवत्यः १, मेषी स्वारस्वती स्वरस्वती-
देवताका २ बभ्रुः पिङ्गलवर्णः पशुः सौम्यः सोमदेवत्यः ३
श्यामः कृष्णवर्णः पौष्णः पूषदेवत्यः ४ शिति श्यामं पृष्ठ-
मस्य स शितिपृष्ठः वार्हस्पत्यः वृहस्पतिदेवत्यः ५ शिल्पो
विचित्रवर्णो वैश्वदेवः विश्वदेवदेवत्यः ६ अरुणः रक्तः ऐन्द्रः
इन्द्रदेवत्यः ७ कल्माषः कर्वुरो मारुतः मरुद्देवत्यः ८ संहितः
दृढ़ाङ्गः ऐन्द्राग्नः इन्द्राग्निदेत्यः ९ अधोरामः अधोदेशे
श्वेतः सावित्रः सवितृदेवत्यः १० एकः शितिः श्वेतः पादो-
यस्य स एकशितिपात् एकपदे श्वेतोऽन्यत्र कृष्णः पेत्वः
पतनशीलो वेगवान् पशुः वारुणः वरुणदेवत्यः ११ । एव
मेकादश” वेददी० । “अग्नयेऽनीकवते रोहिताञ्जिरन-
ड्वानधोरामौ सावित्रौ पौष्णौ रजतनाभी वैश्वदेवौ पिशङ्गौ
तूपरौ मारुतः कल्माषः आग्नेयः कृष्णोऽजः सारस्वती
मेषी वारुणः पेत्वः” ५९ । “द्वितीयैकादशिनीपशुदेवानाह ।
रोहिती रक्तोऽञ्जिस्तिलको यस्य सोऽनड्वान् वृषभोऽनीक
वतेऽग्नये आलभ्य अनीकं मुखं सैन्यं वा यस्य सोऽनीक
वान् तस्मै १ अधोरामौ अधोभागे श्वेतौ द्वौ पशू सावित्रौ
सवितृदेवतौ२, ३ । रजतवर्णा नाभिर्ययोस्तौ रजतनाभी द्वौ
पौष्णौ पूषदेवत्यौ४, ५ “पिशङ्गौ पीतौ तूपरौ निःशृङ्गौ वैश्व
देवौ धिश्वदेवदेवत्यौ ६, ७ कल्माषः कर्वुरो मारुतः ८ कृष्णः
श्यामोऽजोमेषः आग्नेयः आग्निदेवत्यः ९ मेषी सारस्वती १०
पेत्वःवेगवान् वरुणदेवत्यः ११ एवमेकादश” इति वेददीपः

ऐकाधिकरण्य न० एकाधिकरणस्य भावः ष्यञ् । एकाधि-

करणवृत्तित्वे सामानाधिकरण्ये । “अथवा हेतुमान्न-
ष्ठविरहाप्रतियोगिना । साध्येन हेतोरैकाधिकरण्यं
व्याप्तिरुच्यते” भाषा० । तुल्यविभक्तिकपदयोः स्वोप-
स्थाप्यार्थयोरभेदबोधकत्वं च ।

ऐकान्तिक त्रि० एकान्तमवश्यं भावी ठञ् । १ अवश्यभव्ये ।

“सुखस्यैकान्तिकस्य च” मनुः । “ऐकान्तिकमात्यन्तिक-
मुभयमाप्नोति कैबल्यम्” सां० का० ऐकान्तिकमववश्यं
भावि” कौ० । एकान्त भूतः स्वसत्तया व्यापी ठञ् ।
२ एकान्तस्य स्वसत्तया व्यापके “कृष्णश्चिअकान्तिकः सुहृत्”
भाग० ३, २, स्त्रियां ङीप् “ऐकान्तिकी हरेर्भक्तिरुत्-
पातायैव कल्पते” वरा० पु० ।

ऐकान्यिक त्रि० एकमन्यत् विपरीतं वृत्तमध्ययनेऽस्य ।

“कर्म्माध्ययने वृत्तम्” पा० ठक् । यस्याध्ययने प्रवृत्तस्य
परीक्षाकाले विपरीतोच्चारणरूपं स्खलनमेकं जातम्
तादृशे कुपाठके छात्रे ।

ऐकायन पुं स्त्री एकस्य तन्नाम्नोमुनेर्गोत्रापत्यम् नडा० फक ।

एकस्यर्षेर्गोत्रापत्ये स्त्रियां टाप् ।

ऐकार्थ्य न० एकार्थस्य भावः ष्यञ् । एकशक्त्या विशिष्टेका-

र्थोपस्थापने एकार्थीभावे । १ एकप्रयोजने च । “२
पणबन्धेनैकार्थ्यं सन्धिः” सि० कौ० ।

ऐकाहिक त्रि० एकाहमधीष्टोभूतोभृतोभावी वा ठञ् ।

१ एकाहसाध्ये यागादौ स्त्रियां ङीप् । ततोऽन्त्यान्यैका-
हिकानि” आश्व० श्रौ० ८, १६, १६, “ताभ्यां पूर्ब्बे
ऐकाहिके” २, १०, १०, “अन्त्यानामैकाहिकानामुत्त
मान्” २ एकाहव्यापके ज्वरादौ “समुद्रस्योत्तरे तीरे
द्विपदोनाम वानरः । ऐकाहिकज्वरं हन्ति तस्य नामानु-
कोर्त्तनात्” । ऐकाहिकज्वरश्च एकाहानन्तरे एकदिनं
व्यापकोज्वरः इति वैद्यके प्रसिद्धम् । एकाहभृते
३ दासे एकाहमधीष्टे सत्कृत्य व्यापारिते ४ अध्यापके
स्वसत्तया एकाह व्याप्तव्यकाले ५ एकाहभाविनि
उतसवाटौ च । एकाहसाध्ययागभेद एकाहः तस्य दक्षिरा
ठञ् ङीप् । ६ एकाहसाध्ययागदक्षिणायां स्त्री ।

ऐक्य न० एकस्य भावः ष्यञ् । १ एकत्वे २ अभिन्नत्वे ३ एकार्थी

भावे च “दैक्यं सोऽन्वये” मुग्ध० “ऐक्यसंयोगनानात्व
समवायविशारदः” भा० स० ५ अ० । ४ ऐकमत्ये सौहार्दे च
“तेषां द्वयोर्द्वयोरैक्य बिभेदे न कथञ्चन” रघुः । एकस्या-
पत्यं गर्गा० यञ् । एकापत्ये पुंस्त्री० स्त्रियां ङीप् यलोप ऐकी ।
पृष्ठ १५४५

ऐक्षव त्रि० इक्षोर्विकारः विल्वा० अण् । इक्षुविकारे

गडादौ इक्षुविकारभेदाश्च इक्षुशब्दे ९०९ पृ० उक्ताः ।
“ऐक्षवं गुडवर्जितम्” “फलान्यगुडमैक्षवमिति” च स्मृतिः ।
२ मद्यभेदे च । “पानसं द्राक्षमाधूकं खार्जूरंतालमैक्षवम् ।
माक्षिकं टाङ्कमाध्वीकमैरेयं नारिकेलजम् । समानानि
विजानीयान्मद्यान्येकादशैव तु । द्वादशन्तु सुरामद्यं
सर्व्वेषामधमं स्मृतम्” पुलस्त्यः । मद्यान्येकादशेत्युक्तिः
अधिकदोषार्था अन्येषामपि मद्यानां मदनपालेन
दर्शितत्वात् । प्रसङ्गात् तान्यत्र गुणसहितानि दर्श्यन्ते ।
“मद्यं हाला सुरा शुण्डा मदिरा वरुणात्मजा । इरा
गन्धोत्तभा कल्या देवस्पृष्टा च वारुणी । मद्यं पित्तकर
प्रायं सरं रोचनदीपनम् । विदाहि सृष्टविण्मुत्रं
तीक्ष्णं वातकफापहम् । विधिना तु युतं पीतं तस्मा-
दमृतसन्निभम् । अन्यथा कुरुते रोगानातपीतं विषोप-
मम् । १ द्राक्षोत्थमविदाहि स्याद्रक्तपित्तेषु शस्यते । बल
पुष्टिकरं मद्यं रक्तार्शोहारि दीपनम् । माध्वीकल्य
गुणं किञ्चित् २ खार्जूरमनिलप्रदम् । तदेव विशदं रुच्यं
श्लेष्मघ्नं कर्षणं लघु । शालिषष्टिकपिष्टादिकृतं मद्यं
सुरा ३ मता । सुरा गुर्वी बलस्तन्यपुष्टिमेदःकफप्रदा ।
ग्राहिणी शोथगुल्मार्शोग्रहणीमूत्रकृच्छ्रनुत् ।
पुनर्णवाशालिपिष्टैर्विहिता वारुणी ४ मता । सुरावद्वारुणी
लध्वी पीनसाध्मानशूलनुत् । प्रसन्ना ५ स्यात्सुरामण्ड-
स्तस्मात्कादम्बरी ६ घना । ७ जङ्गलस्तदधः प्रोक्तो जङ्गला-
न्मेदको ८ धनः । पक्वसो ९ जङ्गलः सारः सुरावीजन्तु
किण्वकम् १० । प्रसन्नानाहपुल्मार्शश्छर्द्यरोचकवात-
जित् । दीपन्याध्मानहृत्कुक्षितोदशूलप्रणाशिनो ।
कादम्बरी गुरुर्वृष्यां दीपनी वातकृत् सरा । जङ्गलः
कफनुद् ग्राही शोफार्शोग्रहणीहरः । मेदको मधुरो
बल्यस्तम्भनः शीतलो गुरुः । पक्वसो हृतसारत्वात् विष्टम्भी
वातबर्द्धनः । किण्वकं वातशमनमहृद्यं दुर्ज्जरं गुरु ।
आक्षिकी ११ सा सुरा या स्यादक्षत्वकशालितण्डुलैः ।
आक्षिकी पाण्डुशोथार्शःपित्तास्रकफकुष्ठनुत् । किञ्चिद्वात-
करी रूक्षा दीपनी रेचनी लघुः । यवपिष्टकृतं मद्यं
प्रोक्तं यवसुरा १२ च सा । काकोलिकी १३ हला ज्ञेया
मैरेयो १४ धान्यजासवः । आसवश्च सुरायाश्च द्वयोरप्येक-
भाजनम् । साधनं तद्विजानीयात्मैरेयमुभयात्मकम् ।
क्वचित्तु धातकीपुष्पं गुड़धान्याम्बुसाधितम् । गुर्व्वी
यवसुरा रूक्षा स्याद्विष्टम्भत्रिदोषकृत् । काकोली वृंहणी
वृष्या दृष्टिमान्द्यप्रदा गुरुः । मैरेयं वृंहणं वृष्यं गुरु
सन्तर्पणं सरम् । मद्यं सर्व्वरसं जातं मधूलकमुदीर्य्यते ।
मधूलकं १५ गुरु स्वादु स्निग्धं शुककफप्रदम् । पर्करो
१६ दीपन स्वादुः पाचतो रोचनो लघुः । स्त्रीविलासकरो
वातशोषवस्तिविकारनुत् । मध्वासवो १७ लघूरूक्षः कुष्ठ
मेहविषापहः । गौड़ोऽ१८ ग्निवर्द्धनो वर्ण बलकृत्तर्पणः
कटुः । तिक्तको वृंहणः स्वादुः सृष्टविण्मूत्रमारुतः ।
इक्षोः शीतरसः १९ पक्वः सीधुः २० पक्वरसः स्मृतः । आमैः
स एव विहितो बुधैः शोतरसो मतः । सीघुः पक्वरसः
श्रेष्ठः स्मराग्निबलवर्णकृत् । वातपित्तकरो हृद्यस्नेह-
नो रोचनो जयेत् । विबन्धमेहशोथार्शःशोथोदर
कफामयान् । तस्मादल्पगुणः शीतरसः संलेखनः
स्मृतः । जाम्बवः क्षौद्रसम्भूतः जम्बूरसगुड़ोद्भवः ।
जाम्बवो २१ बद्धनिष्यन्दः कषायोऽनिलकोपनः । अरिष्टा-
संवसीधूनां गुणान् कर्म्माणि चादिशेत् । बुद्ध्वा
यथास्वं संस्कारमवेक्ष्य कुशलो भिषक् । सान्द्रं विदाहि
दुर्गन्धि विरसं कृमिसङ्कुलम् । अहृद्यं तरुणं रूक्षमुष्णं
दुर्भोजने हितम् । अल्पौषधं पर्य्युषितमत्यर्थपिच्छलञ्च
यत् । कफप्रकोपि तन्मद्यं दुर्जरञ्च विशेषतः । पित्त-
प्रकोपि बहुलं तोक्ष्णमुष्णं विदाहि च । अहृद्यं पेशलं
पूतिकृमिलं विरसं गुरु । तथा पर्युषितं वापि
विन्द्यादनिलकोपनम् । सर्व्वदोषैरुपेतन्तु सर्व्वदोषप्रको-
पणम् । चिरस्थितं यातरसं दीपनं कफवातजित् ।
रुच्यं प्रसन्नं सुरभि मेध्यं सेव्यं महासवम् । तस्मान्नैक-
प्रकारस्य मद्यस्थ रसवीर्य्यतः । स सौक्ष्म्यादौष्णवातत्वाद्
विकाशित्वाच्च वह्निनुत् । समेत्य हृदयं प्राप्य धमनी-
रूर्द्ध्वमार्गगाः । विक्षुभ्येन्द्रिय चेतांसि मदयत्याशु वीर्य्यतः ।
चिरेण श्लेष्मिके पुंसि पातनो जायते मदः । अचिरा
द्वातिके दृष्टः, पैत्तिके शीघ्रमेव च । नवं मद्यमभिष्यन्दि
त्रिदोषजनकं सरम् । अरिष्टं वृंहणं दाहि दुर्गन्धि
विशदं गुरु । जीर्णं तदेव रोचिष्णु कृमिश्लेष्मानिलाप-
हम् । हृद्यं सुगन्धि सुगुणं लघु स्रोतोविशोधनम् ।
सात्विके गीतहास्यादि राजसे साहसादिकम् । तामसे
निन्द्यकर्माणि निद्रादि कुरुते तदा । शुक्रं कफघ्नं
तीक्ष्णोणं लघु रोचनपाचनम् । पाण्डु कृमिहरं रूक्षं
भेदन रक्तपित्तकृत् । गौड़ादिरसयुक्तानि मद्येषूक्तानि
यानि च । यथापूर्बं गुरुतराण्यभिष्यन्दकराणि च ।
पृष्ठ १५४६
स्यात्काञ्जिकन्तु २२ सौवीर २३ मारनालं २४ तु दोषकृत् ।
काञ्जिकं शिशिरस्पर्शं पाचनं रोचनं लघु । तुषोदकं
यवैरामं सतुषैः सकलैः कृतम् । सौवीरकं कृतन्त्वामैः पक्वैर्वा
निस्तुपैर्यवैः । सर्व्वैरसैरसाम्लं २५ स्यात् सौवीरकमिति
क्वचित् । तुषाम्बु दीपनं हृद्यं पाण्डु कृमिगदापहम् ।
सौवीरकं ग्रहण्यर्शोनाशनं भेदि दीपनम् । धान्याम्ल २५
न्धान्ययोनित्वात्प्रीणनं लघु दीपनम् । स्पर्शदाहकर
पानात्पाचनं श्लेष्मनाशनम् । गण्डूषान्मुखवैरस्यदौर्गन्ध्य-
कफकृन्तनम्” । ऐक्षवस्य द्वैविध्यमाह भावप्र० “इक्षोः पक्वैः
रसैः सिद्धः सीधुः पक्वरसश्च सः । आमैस्तैरेव यः सीधुः
स च शीतरसः स्मृतः” इति । इक्षुः काशमूलं तस्येदम्
अण् । ३ काशमूलावयवभूते स्त्रियां ङीप् । इक्षुः इक्षुपत्रा-
कारः अस्त्यस्य अण् । ४ इक्षुपत्राकारे च स्त्रियां ङीप् ।
“ऐक्षव्यौ विधृती” कात्या० ८, १, १४, “विधृती ऐक्षव्यौ
काशमूलावयवभूते अत्र भवतः “काशमयः प्रस्तरः
काशमूलमये विधृती” शाखान्तरीयवाक्यशेषात्” कर्कः ।
अधिकरणमालायां “बर्हिःप्रस्तरयोवन्तराले तिर्य्यक्-
प्रसार्य्यमाणौ दर्भौ विधृती ते अत्र इक्षुपत्ररूपे स्याता
मिति” माधवः । तेनात्र ऐक्षव्यशब्दकल्पनंप्रामादि-
कम् । “द्रोणकलशं वायव्यानिध्मकार्ष्मर्यमयान् परिधीना-
श्ववालं प्रस्तरमैक्षव्यौ विधृती तद्बर्हिरुपसंनद्धं भवति”
शत० ब्रा० ३, ६, ३, १०,

ऐक्षुक त्रि० इक्षौ साधु गुडा० ठञ् । इक्षुसाधुनि क्षेत्रादौ

इक्षुं भारभूतं वहति आवहति वा ठञ् । १ भारभूतेक्षु-
वाहके २ तदावाहके च । इक्षवःसन्त्यस्यां नडादि० छ
कुक् च । इक्षुकीया भूभिस्तस्यां भवः अण् विल्वकादि०
छमात्रस्य लुक् । ऐक्षुक । तादृशभूमिभवे त्रि० ।

ऐक्षुभारिक त्रि० इक्षुभारं वहत्यावहति वा ठञ् । इक्षु

१ वाहके २ तदावाहके च ।

ऐक्ष्वाक पु० इक्ष्वाकोर्गोत्रापत्यम् अण् नि० । १ सूर्य्यवंश्ये नृपे

बहुषु अणोलुक् । “इक्ष्वाकूणां दुरापेऽर्थे त्वदधीनाहि
सिद्धयः” रघुः । इक्ष्वाकोरयं जनपदः । ऐक्ष्वाक २ तद्रा-
जके जनपदे च बहुषु लुक् । तत्र भवः कोपधत्वातण्
ऐक्ष्वाक तज्जनपदभवे बहुषु लुक् । क्वचिन्न लुक् ।
“ऐक्ष्वाकेषु च मैथिलेषु च फलन्त्यस्माकमद्याशिषः” इति
मुरारिः । “ऐक्ष्वाक पुरुषव्याघ्रमतिमानुषविक्रमम्” भा०
शा० २९ अ० । “त्रिशङ्कुर्बन्धुभिर्मुक्त ऐक्ष्वाकः प्रीति-
पूर्व्वकम् भा० अनु० ३ अ० । अत्र ऐक्ष्वाकुरितिपाठस्तु
आर्षत्वात् साधुः

ऐङ्गुद न० इङ्गुद्याः फलम् फले अण् तस्य प्लक्षा० न लुक् । इङ्गुदोवृक्षफले (जिँआपुती)

ऐच्छिक त्रि० इच्छया निर्वृत्तः ठञ् । इच्छया कृते स्त्रियां ङीप्

ऐड पु० इडाशब्दोऽस्त्यत्रानुवाकेऽध्याये वा विमुक्ता० अण् ।

इडाशब्दयुक्ते १ अध्याये २ अनुवाके च एडस्येदम् अण्
३ मेषसम्बन्धिनि त्रि० स्त्रियां ङीप् । इडा + अपत्ये शिवा०
अण् । इडापत्ये पुरूरवसि पु० ।

ऐडक पुंस्त्री एडक एव स्वार्थेऽण् । १ मेषाकारे दक्षिणापथ-

प्रसिद्धे पशुभेदे “त्रयो वा पशवोऽमेध्यादुर्वराह ऐडकः
श्वा च” शत० ब्रा० १२, ४, ६, ४ । एडकस्येदम् अण्
तत्संबन्धिनि त्रि० एडकशब्दे उदा० ।

ऐड(ल)विड(ल) पु० इड(ल) विडा(ला) या अपत्यम् “अवृ-

द्धाभ्यो नदीमानुषीभ्य स्तन्नामिकाभ्यः” पा० ढकोऽपवादः
अण् डलयोरेकत्वस्मरणात् उभयत्र अन्यतरतो वा
डस्य लो वा । कुवेरे । “तस्य प्रौतेन मनसा तान् दत्त्वे
डविडस्ततः” भाग० ४, १२, ८ ।

ऐडिविड पु० सूर्य्यवंश्ये क्षत्रियभेदे “नारीकवच इत्युक्तो निःक्षत्रे

मूलकोऽभवत् । ततोदशरथः पुत्रस्तस्मादिडिविडस्ततः”
भाग० ९, ९, ३२ । सूर्य्यवंशवर्णने ।

ऐण त्रि० एणस्य कृष्णमृगमेदम् अण् । कृष्णमृगचर्म्मादौ ।

एणशब्दे उदा० ।

ऐणीपचन त्रि० एणीपचनदेशं भवः छाभावपक्षे अण् एणीपचनदेशभवे ।

ऐणेय त्रि० एण्या इदम् ढक् । १ कृष्णमृगचर्म्मादौ “ऐणेयरौर-

वाजानि अजिनानि” गोभि० । २ रतिबन्धभेदे हेम० ।

ऐतर त्रि० इतरस्यादूरभवादौ सङ्कलादि० चतुरर्थ्याम् अण् ।

इतरादूरभवदेशतत्सन्निकृष्टदेशादौ ।

ऐतरेय न० इतरस्य तन्नाम्न ऋषेरपत्यम् शुभ्रा० ढक् ।

१ इतरर्षेरपत्ये । “महिदायः ऐतरेयः छवि तेन प्रोक्तम्
उ० अण् । २ आरण्यकादि व्रताख्यापके ऋग्वेदीयब्राह्म-
णभेदे “ऐतरेयञ्च छान्दोम्यं वृहदारण्यकं दश” इत्युक्ते
तदीये ३ उपनिषद्भेदे ४ वेदशाखाभेदे च तदधीयते इनि ।
ऐतयेरिन् तदध्येतृषु “अन्तरेण हविषी विष्णुमुपां-
श्वैतरेयिणः” आश्व० श्रौ० १, ३, १२ “अग्नीषोमावेवमि-
त्यैतरेयिणः ३, ६, ३ । एकाहांश्चैतरेयिणः” १०, १, १३ ।

ऐतिकायन पुंस्त्री इतिकस्यर्षेर्गोत्रापत्यं नडादि० फक् ।

इतिकर्षेर्गोत्रापत्ये । अनन्तरापत्ये तु इञ् । ऐतिकिरिति

ऐतिशायन पु स्त्री ऐतिकवत् । इतिशर्षेर्गोत्रापत्ये ।

ऐतिहासिक त्रि० इतिहासादागतः इतिहास वेत्त्यधीते वा

ठक् । १ इतिहासग्रन्थलब्धे २ तद्वेत्तरि ३ तदध्येतरि च ।
पृष्ठ १५४७

ऐतिह्य न० इतिह पारम्पर्य्योपदेशः अनिर्द्दिष्टप्रवक्तृकोप-

देश इति यावत् स्वार्थे ष्यञ् । पारम्पर्य्योपदेशे । यथात्र
वटे यक्षः प्रतिवसतीत्यादि परम्परोपदेशमात्रम् न तु के
नाप्येतदुपलभ्य कथितम् । अष्टप्रमाणवादिनः पौरा-
णिका इदं प्रमाणान्तरमुरीचक्रुः तदेतन्मतं सां०
कौ० निराकृतम् यथा “यच्चानिर्द्दिष्टप्रवक्तृकं प्रवादपार
म्पर्य्यमात्रम् इति होचुर्वृद्धा इत्यैतिह्यं यथा इह वटे
यक्षः प्रतिवसतीति न तत् प्रमाणम् अनिर्द्दिष्टप्रव-
क्तृकत्वेन सांशयिकत्वात् आप्तप्रवक्तृकत्वनिश्चये त्वागम
इत्युपपन्नं त्रिविधम् प्रमाणमिति” “स्मृतिः प्रत्यक्षमैतिह्य
मनुमानं चतुष्टयम्” ऐतरे० “ऐतिह्यमनुमानञ्च प्रत्य-
क्षमपि चागमम् । ये हि सम्यक् परीक्षन्ते कुतस्तेषा-
मबुद्धिता” रामा० ।

ऐदंयुगीन त्रि० इदंयुगे साधु प्रतियुगा० खञ् । इदंयुगसाधौ

ऐनस न० एन एव प्रज्ञा० स्वार्थे अण् । पापे ।

ऐन्दव न० इन्दुर्देवताऽस्य । १ मृगशिरोनक्षत्रे २ इन्दुदेव-

ताके हविरादौ त्रि० । तस्येदम् अण् । ३ चान्द्रे मासे पु०
“ऐन्दवस्तिथिभिस्तद्वत् संक्रान्त्या सौर उच्यते” सू० सि० ।
४ चन्द्रसम्बन्धिनि त्रि० । इन्दुःइन्दुलोकप्राप्तिः प्रयोजनमस्य
अण् । ५ चान्द्रायणे व्रतभेदे । “सङ्करापात्रकृत्यासु मासं
शोधनमैन्दवम्” मनुः । “कर्त्तव्यमैन्दवद्वयम्” स्मृतिः
तद्व्रतस्य यथा चन्द्रलोकप्राप्तिफलकत्वं तथा
चान्द्रायणशब्दे वक्ष्यते । ६ सोमराज्याम् स्त्री ङीप् ।

ऐन्द्र त्रि० इन्द्रोदेवताऽस्य अण् । इन्द्रदेवताके १ हविरादौ

“ऐन्द्रं दधि ऐन्द्रं पयः” श्रुतिः । २ ऋग्विशेषे स्त्री ।
“ऐन्द्र्या गार्हपत्यमुपतिष्ठते” श्रुतिः । सा च ऋक्
“कदाचन स्तरीरसीत्यादि” । ३ तद्देवताके ज्येष्ठा-
नक्षत्रे न० “ऐन्द्रे गुरुः शशी चैव प्राजापत्ये
रविस्तथा” प्रा० त० पुरा० । तस्येदम् अण् । ४ इन्द्र-
सम्बन्धिनि त्रि० “ऋद्धं हि राज्यं पदमैन्द्रमाहुः”
“ऐन्द्रं पदं भूमिगतोऽपि भुङ्क्ते” रघुः । ऐन्द्रं स्थान-
मुपासीना ब्रह्मभूता हि ते सदा” “ऐन्द्रस्थानमभिप्रेप्-
सुर्य्यशश्चाक्षयमव्यवम्” मनुः । ५ तच्छक्तिरूपदेवीमूर्त्ति-
भेदे स्त्री ङीप् । “ऐन्द्रीतमसुरेश्वरम्” देवीमा० तन्त्रोक्ते
भूतशुद्ध्यङ्के ६ धारणाभेदे “ऐन्द्र्या धारणया देहं
स्थिरीकृत्येति भूतशुद्धौ” रघु० । तत्र भवः अण् ।
७ अर्ज्जुने ८ वालिवासरे च पु० तयोस्तत उत्पत्तिमत्त्वात् ।
अपत्ये तु इञ् । ऐन्द्रिरित्येव ९ वनार्द्रके न० राजनि० ।
“ज्यैष्ठे मूले च नक्षत्रे चरेद्यदि वृहस्पतिः । ऐन्द्रः
संवत्सरः स स्यात् सर्बमूताशिवप्रदः” विष्णुध० उक्ते
द्वादशवर्षमध्ये १० संवत्सरभेदे पु० । तत्फलञ्च “ज्यैष्ठे
जातिकुलश्रेणी श्रेष्ठा नृपाः सर्वधर्म्मज्ञाः । पीड्यन्ते
सर्वधान्यानि हित्वा कङ्कुशमीजानि” मल० त० ।

ऐन्द्रजालिक त्रि० इन्द्रजालेन चरति ठक् । मायाविनि

(वाजिकर) जटाधरः ।

ऐन्द्रद्युम्न न० इन्द्रद्युम्नमधिकृत्य कृतमाख्यानमण् । इन्द्र-

द्युम्ननृपाधिकारेण कृते आख्याने “व्रोहिद्रोणिकमाख्यान
मैन्द्रद्युम्नं तथैव च” भा० आ० १ अ० । इदञ्चाख्यानं ब्री-
हिद्रोणिकाख्यानात् परं मुद्रितभारते न दृश्यते क्वचित्
पुस्तकान्तरेऽस्ति ।

ऐन्द्रमहिक त्रि० इन्द्रमहः प्रयोजनं कारणंफलं वास्य

ठञ् । १ ऐन्द्रमहकारणके २ तत्फलके च ।

ऐन्द्रवायव त्रि० इन्द्रश्च वायुश्च इन्द्रवायू वायुशब्दयुक्तत्वात्

देवताद्वन्द्वेऽपि नानङ्तौ देवते अस्य अण् । इन्द्रवायुदेव-
ताके हविरादौ । ऐन्द्रवायवपत्रं तत्तस्थ द्वितीयम्”
शत० ब्रा० ४, १, ५, १९ “यदैन्द्रवायवाग्रान् प्रातःसवने”
४, ४, १, १७ ।

ऐन्द्रशर्म्मि पुंस्त्री इन्द्रशर्म्मणोऽपत्यं बाह्वा० इञ्--टिलोपश्च ।

इन्द्रशर्म्मनामकनृपस्यापत्ये स्त्रियां ङीप् ।

ऐन्द्रहव त्रि० ऐन्द्रहव्यस्य छात्रः कण्वा० अण् यञो लुक् ।

ऐन्द्रहव्यछात्रे । इन्द्रहूशब्दे इन्द्रहव्यसाधनं दृश्यम् ।

ऐन्द्राग्न त्रि० इन्द्राग्नी देवते अस्य अण् । इन्द्राग्निदेवताके

हविरादौ । “एता ऐन्द्राग्नी द्विरूपा अग्नीषोमीया”
यजु० २४, ८ “ऐन्द्राग्नः संहितोऽधोरामः” २९, ५८ ।
“ऐन्द्राग्नेन विधानेन” भा० अनु० ६० अ० ।

ऐन्द्रापौष्ण त्रि० इन्द्रश्च पूषा च द्वन्द्वे आनड् इन्द्रापूषाणौ

देवते अस्य अण् उपधाऽतोलोपः । इन्द्रापूषदेवताके
हविरादौ । “ऐन्द्रापौष्णं चरुमिति” शत० ब्रा० ४, २,
५, ५ । “अग्नापौष्णः ऐन्द्रापौष्णः” कात्या० १५, ३, १४
एवम् ऐन्द्रामारुतैन्द्रावार्हस्पत्यादयोऽपि इन्द्रसहित तत्त-
देवताके हविरादुअ त्रि० ।

ऐन्द्रायण पु० इन्द्रस्यापत्यम् बा० फक् । इन्द्रापत्ये ततः

चतुरर्थ्यां अरीह० वुञ् । ऐन्द्रायणक तेन निर्वृत्तादौ त्रि०
पृष्ठ १५४८

ऐन्द्रि पु० इन्द्रस्यापत्यम् इञ् । १ जयन्ते २ अर्ज्जुने ३ वाहि-

वानरे ४ काके च” मेदिनिः । तत्र काके । “ऐन्द्रिः किल
नस्वैस्तस्याः” रघुः । जयन्ते “कामस्तु कमलेक्षणः ।
ऐन्द्रिमभ्यर्द्दयामास वाणैराशीविषोपमैः” हरिवं० १३२
अ० अर्ज्जुने “सम्मोहनं शत्रुसहोऽन्यदस्त्रं प्रादुश्चका-
रैन्द्रिरवारणीयम्” भा० वि० ६६ अ० ।

ऐन्द्रिय त्रि० इन्द्रियेण प्रकाश्यते अण् । १ इन्द्रियप्रकाश्ये

प्रत्यक्षात्मके ज्ञानभेदे तस्येदम् अण् । २ इन्द्रियसंबन्धिनि
त्रि० “चतुर्थस्त्वैन्द्रियः सर्गः” भा० ३, १०, १६ । स सर्गः
“मनसश्चेन्द्रियाणाञ्चेति” भाग० ३, १५, २६, उक्तः । स
च तैजसएव “तैजसानीन्द्रियाण्येव” भा० ३, २५, ३१,
उक्तेः । इन्द्रियमेव स्वार्थेऽण् । ३ इन्द्रिये न० । “वैका-
रिकं तामसमैन्द्रियं सृजे” भाग० ५, २४, १७ ।

ऐन्द्रियक त्रि० इन्द्रियेण प्रकाश्यः वुञ् । इन्द्रियप्रकाश्ये

१ प्रत्यक्षात्मके ज्ञाने २ तद्विषये च “स च परिणामभेद ऐन्द्रि-
यक इति नास्ति प्रत्यक्षाद्यनवरुद्धोविषय इति” सां० कौ०
“यथा मनोरथः स्वप्नः सर्व्वमैन्द्रियकं मृषा” भाग०
७, २, ४४

ऐन्द्री स्त्री इन्द्रस्येयम् इन्द्रोदेवताऽस्या वा अण् ङीप् ।

१ शच्याम् । २ ज्येष्ठायां तारायां ३ पूर्वस्यां दिशि ४
अलक्ष्म्याम् त्रिका० । इन्द्रवारुण्यां (राखालससा) रत्नमा०
६ सूक्ष्मैलायाम्” राजनि० । ऐन्द्रशब्दोक्तार्थेषु च ।

ऐन्धायन पुं स्त्री इन्धस्यर्षेर्गोत्रापत्यम् नडा० फक् । इन्ध-

नामर्षेर्गोत्रापत्ये स्त्रिया टाप् ।

ऐन्य त्रि० इने सूर्य्ये स्वामिनि वा भवः कुर्व्वा० ण्य । १ सूर्य्यभवे २ स्वामिभवे च ।

ऐभावत पु० इभावतोऽपत्यम् अण् । ऋषिभेदे प्रतोदर्शे ।

“तद्धैतत् पपच्छुः सुप्ताः शार्ञ्जयः प्रतीदर्शमैभावतम्”
शत० ब्रा० २, ८, २१३ ।

ऐभी स्त्री इभ इभवाचकशब्दः अस्त्यस्याः प्रज्ञा० अण् ङीप् ।

१ हस्तिघोषलतायाम् राजनि० इभस्येयम् अण् ङीप् ।
२ हस्तिसम्बन्धिनि त्रि० ।

ऐर त्रि० इरायाम् अन्ने पृथ्व्यां जले वा भवः अण् । १ अन्न-

मवे मण्डे २ तत्पूर्णे ब्रह्मलोकस्थे सरसि न० । “तदैरं
मदीयं सरः” छान्दो० उ० । “तत् तत्रैव इरान्नं तन्मय
ऐरोमण्डस्तेन पूर्णमैरम् मदीयं तदुपयोगिनां मदकरं
हर्षोत्पादकं सरः” भा० । तेन ऐरमित्येकं पदम्
मदीयमित्यपरं पदम् ऐरंमदीयमित्येकशब्दकल्पनं प्राना-
दिकमेव । ३ भूमिभवे ४ जलभवे च त्रि० ।

ऐरक्य त्रि० एरका + भतार्थे कुर्व्वादि० ण्य । एरकाभवादौ त्रि० ।

ऐरावण पु० इरा सुरा वनमुदकं यत्र तत्र भवः अण् ।

पूर्व्वपदादिति णत्वम् । १ इन्द्रगजे ऐरावते । इरया
उदकेन वणते शब्दाथते वण--अच् इरावणः समुद्रस्तत्र
भवः अणित्येव न्याय्यम् । “श्वेतैर्दन्तेश्चतुर्भिस्तु
महाकायस्ततः परम् । ऐरावणो महानागोऽभवत् वज्र-
भृता धृतः” भा० आ० १८ अ० । तस्य क्षीरसमुद्रोद्भवत्वेन
सुरासमुद्रोद्भवत्वाभावात् । सुरेवापेयत्वात् वनमुदकमस्य तत्र
मवः अण् णत्वमित्यपि साषु । प्रागुक्ता क्षीरस्वाम्युक्ता-
व्युत्पत्तिस्तु काल्पनिकी सुरासमुद्रेतस्याजातत्वात् । २ सर्प-
भेदे “वासुकिस्तक्षकश्चैव नानश्चैरावणस्तथा” भा० स० ९
अ० । वरुणलोकवर्णने ।

ऐरावत त्रि० इरा जलानि भूम्ना सन्त्यस्य इरा + मतुप् मस्य

व इरावान् समुद्रस्तत्र भवः अण् । समुद्रजाते इन्द्रगजे ।
“प्रावृषेस्यं पयोवाहं विद्युदैरावताविव” ऐरावतास्फा-
लनविश्लथं हरिः” रघुः । “ऐरावतस्फालनकर्कशेस”
कुमा० “कुर्वन् कामं क्षणमुखपटप्रीतिमैरावतस्य” मेघ० ।
३ नारङ्गेवृक्षे ४ नकुचद्रुमे च गेदि० । ५ पञ्चकलमात्रा-
प्रस्तारे आदिलघुके अन्त्यगुरुद्वयके प्रथमे भेदे पु०
६ ऋजुदीर्घे शत्रुधनुषि मेदि० । इरावत्याः नद्याः सन्नि-
कृष्टोदेशः अण् । ७ मरुस्थलभेदे न० । “बभूव परमाश्वाना
मैरावतपथे यथा” भा० व० १६२ अ० तत्र भवः “धन्वयोपधा-
द्वुञ्” पा० वुञ् । ऐरावतक ऐरावतरूपधन्वदेशभवे त्रि० ।

ऐरावती स्त्री इराः सन्त्यस्य भूम्ना मतुप् मस्व वः इरावान्

मेघः तत्र भवा अण् । १ विद्युति । २ ऐरावतयोषाया च
मेदि० ३ वटपत्रीवृक्षे राजनि० । ४ पाञ्चालदेशस्थे नदीभेदे ।

ऐरिण न० इरिणे उषरे भवम् अण् । लवणभेदे । (पाङ्गा)

राजनि०

ऐरेय न० इरायामन्ने भवम् ढक् । १ अन्नपिष्टभवे मद्ये ।

इराभूमि स्तत्र भवः ढक् । २ मङ्गले पु० ३ अन्नादौ त्रि०

ऐर्म्य न० इर्स्माय हितम् ष्यञ् । “महावीर्य्यस्तुवरकः कुष्ठ-

मेहापहः परः । सोन्तर्धूमस्तस्य मज्जा तु दग्धः क्षिप्त-
न्तैले सैन्धवं चाञ्जनञ्च । ऐर्म्यं हन्यादिम्मनक्तान्ध्य-
काचान्नीलीरोग तैमिरं चाञ्जनेन” सुश्रुतोक्ते अञ्जनभेदे
अञ्जनेन नेत्रे लेपनेन ।

ऐल पु० इलाया अपत्यम् शिवा० अण् । १ बुधपुत्रे पुरूरवसि ।

“सोमपुत्राद्बुधाद्राजंस्तस्यां जज्ञे पुरूरवाः । जनयित्वा
सुतं सा तमिला सुद्युम्नतां गता” हरिवं० १७८ अ०
इड़ाशब्दे विवृतिः । “षट्सुता जज्ञिरे चैलादायुर्धी-
मानमावसुः । दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः”
भा० आ० ७५ अ० । इला पृथ्वो तर्स्या भवः । २ भौमे
पृष्ठ १५४९
मङ्गले । इलानामन्नानां समूहः अण् । ३ अन्नसमूहे न० ।
इलायाः पृथिव्याइदम् अण् । ४ पृथिवीजाते अन्ने च ।
“ये पथां पथि रक्षस ऐलबृदा आयुर्युधः” यजु० १६, ६०,
ऐलमन्नसमूहमन्नं वा बिभ्रति ऐलभृतः परोक्षवृत्त्या
भतकारयोर्बदकारौ । डलयोरैक्यात् ऐडशब्दोऽप्य्क्नार्थेषु

ऐलवालुक एलवालुकमेव स्वार्थे अण् । एलवालुके (लालुका)

मगन्धिद्रव्ये शब्दरत्ना० ।

ऐलविल न० राजभेदे । “भरतश्चापि दौष्मन्तिर्लेभे भूमिशया

दसिम् । तस्माल्लेभे च घर्म्मज्ञो राजन्नैलविलस्तथा ।
ततश्चैलविलाल्लेभे” भा० शा० १६१ अ० । असिविद्यावंश-
वर्ण्णने । २ कुवेरे च । “बरासनगतं तत्र यथैवैलविलं
तथा” हरिवं० १७७ अ० । ऐडविडशब्दे व्युत्पत्तिः ।

ऐलाक त्रि० ऐलाक्यस्य छात्रः कण्वा० अण् यञोलोपः ।

ऐलाक्यछात्रे ।

ऐलिक पु० इलिन्यां भवः ठक् पुंवत् । इलिन्यपत्ये

दुष्मन्तादिपितामहे तंसौ राजनि “इलिनीगाम तस्यासीत्
कन्या वै जनमेजय! । ब्रह्मवादिन्यधि स्त्री च तंसुस्ता-
मभ्यगच्छत । तंसोः सुरोधो राजर्षिर्घर्म्मनेत्रः प्रताप-
वान् । ब्रह्म वादी पराक्रान्तस्तस्य भार्य्योपदानवी ।
उपदानवी सुतान् लेभे चतुरस्त्वैलिकात्मजात् । दुष्मन्तमथ
सुष्यन्तं प्रवीरमनघं तथा” हरिव० ३२

ऐलेय पु० इलायाः अपत्यम् ढक् । १ भौमे मङ्गले इलायां

भवः ढक् । २ एलुवालुके गन्धद्रव्ये न० शिवादौ०
इलाशब्दस्तु भानुपुत्रीडापरस्तेन ततोऽणेवेति भेदः ।

ऐश त्रि० ईशस्येदम् अण् । ईशसंबन्धिनि “सुरसरिदिव

तेजो वह्निनिष्ठ्यूतमैशम्” रघुः “यो लोकवीरसमितौ
धनुरैशमुग्रम्” भाग० ९, १०, ६ । एवमैशानैश्वरादयोऽ-
प्यत्र स्त्रियां ङीप् । ऐशानी “पूर्व्वोत्तरयोरन्तरालदिशि
“ऐशानीक्रमतो रेखोत्तराग्रा देवमण्डले । नैरृतीक्रमतो-
रेखा प्रागग्रा पितृमण्डले” स्मृतिः । “ऐशान्यां मरणं
ध्रुवं निगदितं दिग्लक्षणं खञ्जने” ति० त० बर्धकृत्यम् ।
ईश्वरसम्बन्धिनि त्रि० “पश्य मे योगमैश्वरम्” गीता
“ऐश्वरं धनुरभाजि यत्त्वया” रघुः २ दुर्गायां स्त्री ॥

ऐश्वर्य्य न० ईश्वरस्य भावः ष्यञ् । १ प्रभुत्वे “तस्मै निशाच-

रैश्वर्य्यं प्रतिशुश्राव राघवः” रघु० । इच्छानभिघातात्मके
२ ईश्वरधर्मे ३ अणिमादौ च “ऐश्वर्य्यश्य समग्रस्य वीर्य्यस्य
यशसः श्रियः” इति पुरा० । ऐश्वर्य्यञ्च द्विविधं नित्यं
नित्येश्वरानुध्यानमन्यं योगजं वा तत्र नित्यैश्वर्य्यर्मश्वरस्य
स्वाभाविकम् “स्वाम्यं यस्य निजं जगत्सु” आत्मत० । योगजञ्च
बुद्धेः सात्विकगुणभेदः यथोक्तम् “अध्यवसायो बुद्धिर्धर्म्मो-
ज्ञानं विराग ऐश्वर्य्यम् । सात्विकमेतद्रूपम् तामसमस्माद्वि-
पर्य्यस्तम्” सां० का० । व्याख्यातञ्चेदं वाचस्पतिना “ऐश्वर्य्य-
मपि बुद्धिधर्मः यतोऽणिमादिप्रादुर्भावः । तत्राणिमा
अणुभावः यतः शिलामपि प्रविशति । लघिमा लघुभावः यतः
सूर्य्यमरीचिमालम्ब्य सूर्य्यलोकं याति । महिमा महतो-
भावः यतोमहान् संभवति । प्राप्तिरङ्गुल्यग्रेण स्पृशति
चन्द्रम् । प्राकाम्यमिच्छानभिघातो यतोभूमावुन्मज्जति
निमज्जति यथोदके । वशित्वं भूतभौतिकं वशीभवत्य-
स्यावश्यम् । ईशिचं भूतभौतिकानां प्रभवस्थितिमीष्टे
यच्च कामावसायित्वं सत्यसङ्कल्पता यथास्य सङ्कल्पो भवति
भूतेषु तथैव भूतानि भवन्ति । अन्येषां निश्चया निश्चेतव्य-
मनुविधीयन्ते योगिनस्तु निश्चेतव्याः पदार्था निश्चयमिति
चत्वारः स त्विका बुद्धिधर्म्मा” ।
पातञ्जलसूत्रभाष्यविवरणेषु कारणफलसहितं तस्य
स्वरूपादिकं दर्शितं यथा । “कायाकाशयोः सम्बन्धसं-
यमाल्लघुतूलसमापत्तेश्चाकाशगमनम्” ४१ सू० ।
“यत्र कायस्तत्राकाशं तस्यावकाशदानात् कायस्य तेन
सम्बन्धप्राप्तिस्तत्र कृतसंयमो जित्वा तत्सम्बन्धं लघुषु
तूलादिष्वापरमाणुभ्यः समापत्तिं लब्ध्वा जितसम्बन्धो लघु
र्भवति लघुत्वाच्च जले पादाभ्यां विहरति ततस्तूर्णनाभि
तन्तुमात्रे विहृय रश्मिषु विहरति ततो यथेष्टमाकाश-
गतिरस्य भवतीति” भा० ४१ ।
“कायाकाशसम्बन्धसंयमाद्वा लघुनि वा तूलादौ
कृतसंयमात्समापत्तिं चेतसस्तत्समलघुतां लब्ध्वेति सिद्धि-
क्रममाह जल इति” वि० ४१ ।
“बहिरकल्पिता वृत्तिर्म्महाविदेहा ततः प्रकाशावरणक्षय”
सू० “शरीराद्बहिर्मनसोवृत्तिलाभोविदेहा नाम धारणा सा
यदि शरीरप्रतिष्ठस्य मनसोबहिर्वृत्तिमात्रेण मवति सा
कल्पितेत्युच्यते या तु शरीरनिरपेक्षा बहिर्भूतस्यैव मनसो
बहिर्वृत्तिः सा खल्वकल्पिता । तत्र कल्पितया साधयतृ-
कल्पितां महाविदेहामिति यया परशरीराण्याविशन्ति
योगिनः ततश्च धारणातः प्रकाशात्मनोबुद्धिसत्वस्य
यदावरणं क्लेशकर्म्मविपाकत्रयं रजस्तमोमूलं तस्य च
क्षयोभवति” भा० ४२ ।
“अपरमपि परशरीरावेशहेतुसंयमं क्लेशकर्म्मविपाक-
क्षयहेतुं विदेहामाह शरीरादिति । अकल्पिताया
पृष्ठ १५५०
महाविदेहाया य उपायस्तत् प्रदर्शनाय कल्पितां विदेहा-
माह सा यदीति । वृत्तिमात्रं कल्पनाज्ञानमात्रं तेन
महाविदेहामाह या त्विति । उपायोपेयते कल्पिता-
कल्पितयोराह तत्रेति । किं परशरीरावेशमात्रमिती
नेत्याह ततश्चेति । ततोधारणातो महाविदेहायै मनसि
प्रवृत्ते सिद्धे क्लेशश्च कर्म्म च ताभ्यां विपाकत्रयं जात्यायु-
र्भोगाः तदेतद्रजस्तमोभूल विगलितरजस्तमसः सत्वमात्रात्
विबेकख्यातिमात्रसमुत्पादात्तदेतद्विपाकत्रयं रजस्तमोभूल-
तया तदात्मकं सद्वुद्धिसत्वमावृणोति तत्क्षयाच्च निरावरणं
योगिचित्तं यथेच्छं विहरति जानाति” वि० “स्थूलस्वरूप-
सूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः” मू० ४३ । “तत्र पार्थि-
वाद्याः शब्दादयोविशेषाः सहकारादिभिर्धर्म्मैः स्थूलशन्देन
परिभाषिता एतद्भूतानां प्रथमं रूपं द्वितीयं रूपं स्वसा-
मान्यं मूर्त्तिर्भूमिः स्नेहोजलं वह्निरुष्णता वायुः प्रणामी
सर्व्वतीगतिराकाशैत्येतत् स्वरूपशब्देनीच्यते अस्य सामा-
न्यस्य शब्दादयोविशेषाः तथाचोक्तम् “एकजातिसम-
न्वितानामेषां धर्म्ममात्रव्यावृत्तिरिति” सामान्यविशेषस-
मुदयोऽत्र द्रष्टव्यः । द्विष्ठोहि समूहः प्रत्यस्तमितभेदाव-
यवानुगतः शरीरं वृक्षोयूथं वनमिति शब्देनोपात्तभेदा-
वयवानुगतः समूह उभये देवमनुष्याः समृहस्य देवा
एकोभागो मनुष्या द्वितीयोभागस्ताभ्यामेवाभिधीयते समूहः ।
स च भेदाभेदविवक्षित आम्राणां वनं ब्राह्मणानां सङ्घ “आम्रवन
ब्राह्मणसंघ” इति स पुनर्द्विविधोयुतसिद्धावयवोऽयुतसिद्धावयवश्च
युतसिद्धावयवः समूहोवनं सङ्घ इति । अयुतसिद्धावयवः सङ्घातः
शरीरं वृक्षः परमाणुरिति । अयुतसिद्धावयवभेदानुगतः
ममूहो द्रव्यमिति पतञ्जलिः । एतत्स्वरूपमित्युक्तम् । अथ
किमेषां सूक्ष्मरूपं? तन्मात्रं भूतकारणं तस्यैकोऽवयवः
परमाणुसामान्यविशेषात्मा अयुतसिद्वावयवभेदानुगतः
समुदाय इत्येवं सर्व्वतन्मात्राणि एतत् तृतीयम् । अथ भूता-
नां चतुर्थं रूपं ख्यातिक्रियास्थितिशीलगुणाः कार्य्यस्व
भावानुपातिनोऽन्वयशब्देनोक्ताः । अथैषां पञ्चमरूपमर्थ
वत्त्वं भोगापवर्गार्थता गुणेष्वन्वयिनी गुणास्तन्मात्रभूतभौ-
तिकेष्विति सर्वमर्थवत् । तेष्विदानीं भूतेषु पञ्चसु पञ्चरूपेषु
सयमात्तस्य तस्य रूपस्य स्वरूपदर्शनं जयश्च प्रादुर्भवति तत्र
पञ्चभूतस्वरूपाणि जित्वा मूतजयी भवति तज्जयाद्वत्सानु-
सारिस्थ इव गावोऽस्य सङ्गल्पानुविधायिन्योभूतप्रकृतयो
भवन्ति” भा० । स्थूलञ्च स्वरूपञ्च मूक्ष्मञ्चान्वयश्चार्थं-
वत्त्वञ्चेति स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वानि तेषु संय-
मात्तज्जयः । स्थूलमाह तत्रेति पार्थिवाः पाथसीया-
स्तैजसा वायवीया आकाशीयाः शब्दस्पर्शरूपरसगन्धा
यथासम्भवं विशेषाः षड्जगान्धारादयः शीतोष्णादयो
नीलपीतादयः कषायमधुरादयः सौरभादयश्च, एते हि
नामरूपप्रयोजनैः परस्परतोमिद्यन्तैति विशेषाः एतेषां
पञ्च पृथिव्यां, गन्धवर्ज्जञ्चत्वारोऽप्सु, गन्धरसवर्जं त्रयस्तेज-
सि, गन्धरसरूपवर्जं द्वौ नभस्वति, शब्दएवाकाशे । तत्र त
ईदृशा विशेषाः सहकारादिभिर्घर्म्मैः स्थूलशब्देन
परिभाषिताः शास्त्रे तत्रापि पार्थिवास्तावद्धर्म्माः ।
“आकारो गौरवं रौक्षं वरणं स्थैर्य्यमेव च । वृत्तिभेदः
क्षमा कार्ष्ण्यं काठिन्यं सर्व्वभोग्यता” । अपां धर्म्माः
“स्नेहः सौक्ष्म्यं प्रभा शौक्ल्यं मार्द्दवं गौरवञ्च यत् ।
शैत्यं रक्षा पवित्रत्वं सन्धानं चौदका गुणाः” ।
तैजसाधर्म्माः “ऊर्द्ध्वभाक् पाचकं दग्धृ पावकंलघु भास्वरम् ।
प्रध्वंस्योजस्वि वै तेजः पूर्व्वाभ्यां भिन्नलक्षणम्” ।
वायवीयाधर्म्माः “तिर्य्यग्यानं पवित्रत्वमाक्षेपो नोदनं
बलम् । चलमच्छायता रौक्ष्यं वायौ धर्म्माः पृथग्विधाः” ।
आकाशीया धर्म्माः “सर्व्वतो गतिरव्यूहो विष्टम्भश्चेति
च त्रयः । आकाशधर्म्मा व्याख्याता पूर्ब्बधर्म्मविलक्षणाः
इति । तत्र आकारप्रभृतयो धर्म्मास्तैः सहेति आकार
सामान्यविशेषो गोत्वादि । द्वितीयरूपमाह । द्वितीयं
रूपं स्वसामान्यं मूर्त्तिः सांसिद्धिकं काठिन्यं, स्नेहः जलं
मृज्जलजपुष्टिर्बलाधानहेतुः । वह्निरुष्णता औदर्य्येशौर्य्ये
भौमे च सर्व्वत्रैव तेजसि समवेतोष्णतेति सर्व्वञ्चैतद्धर्म्म-
धार्म्मणोरभेदविवक्षयाभिधानम् । वायुः प्रणामी वहन
शीलः तदाह “चलनेन तृणादीनां शरीरस्याटनेन च ।
सर्व्वगं वायुसामान्यं नामित्वमनुमीयते” सर्व्वतो-
गतिराकाशः सर्व्वत्र शब्दोपलब्धिदर्शनात् श्रोत्रा-
श्रयाकाशगुणेन हि शब्देन पार्थिवादिशब्दोपलब्धि-
रित्युपपादितमधस्तात् एतत् स्वरूपशब्देनोक्तम् ।
अस्यैव मुर्त्त्यादिसामान्थस्य शब्दादयः षड्जादयः उष्ण-
त्वादयः शुक्लचादयः कषायत्वादयः सुरभित्वादयो
मूर्त्त्यादीनां भेदाः सामान्यान्यपि मूर्त्त्यादोनि जम्बीरप-
नसामलकफलादीनि रसादिभेदात् परस्परं व्यावर्त्तन्ते तेनै-
तेषाम् एते रसादयो विशेषाः तथा चोक्तम् “एजजाति सम
न्वितानां प्रत्येकं पृथिव्यादीनामेकैकया जात्या मूर्त्ति स्नेहा-
दीनां समन्वितानामेषां षड्जादिधर्म्ममात्रव्यावृत्तिरिति ।
तदेवं सामान्यं मूर्त्त्याद्युक्तं विशेषाश्च शब्दादय उक्ताः ।
पृष्ठ १५५१
ये चाहुः “सामान्यविशेषाश्रयो द्रव्यमिति” तान् प्रत्याह
सामान्यविशेषसमुदायोऽत्र दर्शने द्रव्यम् येऽपि तदाश्रयो
द्रव्यमास्थिषत तैरपि तत्समुदायोऽनुभूयमानो नापह्नोतव्यः
नच तदपह्नवे तदाधारो द्रव्यमिति भवति तस्मात्तदेवास्तु
द्रव्यं न तु ताभ्यां, तत्समुदायाच्च तदाधारमपरद्रव्यमुपल-
भामहे ग्रग्वेभ्यो ग्रावसमुदायादिवच्च तदाधारमपरं
पृथग्विधं शिखरं समूहो द्रव्यमित्युक्तम् । तत्र समूह
मात्रं द्रव्यमिति म्रमापनुत्तये समूहविशेषीद्रव्यमिति
निर्द्धारयितुं समूहप्रकारानाह । द्विष्ठोहीति यस्मादेवं
तस्मान्न समूहमात्रं द्रव्यमित्यर्थः । द्वाभ्यां प्रकाराभ्यां
तिष्ठतीति द्विष्ठः । एकं प्रकारमाह । प्रत्यस्तमितेति प्रत्य-
स्तमितोभेदो येषामवयवानां ते तथोक्ता प्रत्यस्तमितभेदा
अवयवा यस्य स तथोक्तः एतदुक्तं भवति शरीरवृक्षयूथ
वनशब्देभ्यः समूहः प्रतीयमानोऽप्रतीतावयवभेदस्तद्वा-
चकशब्दाप्रयोगात् समूह एकोऽवगम्यते इतियुतायुतसिद्धा
वयवत्वेन चेतनाचेतनत्वेनचोदाहरणचतुष्टयम् । युतायुत-
सिद्धावयवत्वञ्चाग्रे वक्ष्यते । द्वितीयं प्रकारमाह । शब्दे-
नोपात्तभेदावयवानुगतः समूहः उभये देवमनुष्या इति
देवमनुष्याः इति हि शब्देनोभयशब्दवाच्यस्य समूहस्य
भागौ भिन्नावपात्तौ । ननूभयशब्दात्तावदवयवभेदो न
प्रतीयते तत्कथमुपात्त भेदावयवानुगत इत्यतआह । ताभ्यां
भागाभ्यामेव समूहोऽभिधीयते उभयशब्देन भागद्वयवाचि
शब्दसहितेन समूहोवाच्यः वाक्यस्य वाक्यार्थवाचकत्वा-
दिति भावः । पुनर्द्वैविध्य माह स चेति । भेदेन चाभेदेन
च विवक्षितमाह । आम्राणां वनं ब्राह्मणानां समूहः
इति । भेदएव षष्ठीश्रुतेः । यथा गर्गाणां गौरिति । अभेद
विवक्षितमाह । आम्रवनम् । आम्राश्च ते वनञ्चेति समूह
समूहिनोरभेदं विवक्षित्वा सामानाधिकरण्यमित्यर्थः ।
विधान्तरमाह । स पुनर्द्बिविधः युतसिद्धावयवः समूहः
युतसिद्धाः पृथक्सिद्धाः सान्तराला अवयवा यस्य स
तथोक्तः यूथं वनमिति सान्तराला हि तदवयवा वृक्षाश्च
गावश्चायुतसिद्धावयवश्च समूहो वृक्षोगौः परमाणुरिति
निरन्तराह तदवयवाः सामान्यविशेषा वा सास्रादयोवेति ।
तदेतेषु समूहेषु द्रव्यभूत समूहं निर्धारयति अयुतसिद्धेति
तदेवं प्रासङ्गिकं द्रव्यं व्युत्पाद्य प्रकृतमुपसंहरति एतत्-
स्वरूपमित्युक्तमिति । तृतीयं रूपं विवक्षुः पृच्छति
अथेति । उत्तरमाह । तन्मात्रमिति । तस्यैकोऽवयवः
परिणामभेदः परमाणुसामान्यं मूर्त्तिः । शब्दादयोविशेषाः
तदात्मानः अयुतसिद्धा निरान्तरायेऽवयवाः सामान्यविशे-
षास्तद्भेदेष्वनुगतः समुदायः यथा च परमाणुः सूक्ष्मं
रूपम् एवं सर्वतन्मात्राणि सूक्ष्मं रूपमिति उपसंह-
रति एतदिति । अथ भूतानां चतुर्यं रूपं ख्यातिक्रिया
स्थितिशीलागुणाः कार्य्यस्वभावमनुपतितुमनुगन्तुं शीलं
येषां ते तथोक्ताः अतएपान्वयशब्देनोक्ताः । अथैषां पञ्चमं
रूपसर्थवत्त्वं विवृणोति भोगेति । नन्वेवमपि सन्तु-
गुणा अर्थवन्तस्तत्कार्य्याणां तु कुतोऽर्थवत्त्वमित्यत आह ।
गुणा इति । भौतिका गोघटादयः । तदेवं संयमविषय
मुक्त्वा स यमं तत् फलञ्चाह तेष्विति । भूतप्रकृतयो-
भूतस्वभावाः” ४३ वि० ॥
“ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्म्माऽनभिघातश्च” सू०
“तत्राऽणिमा भवत्यणुः । लघिमा लघुर्भषति । महिमा
महान् भवति । प्राप्तिरङ्गुल्यग्रेणापि स्पृशति चन्द्रमसम् ।
प्राकाम्यमिच्छानभिघातः भूमावुन्मज्जति मज्जति यथोदके ।
वशित्वं भूतभौतिकेषु वशीभवत्यस्यावश्यमथान्येषाम् ईशित्वं
तेषां प्रभवाप्ययव्यूहानामीष्टे यच्च कामावसायित्वं सत्य
सङ्कल्पता यथासङ्कल्पस्तथाभूतप्रकृतीनामवस्थानम् । न च
शक्तोऽपि पदार्थविपर्य्यासं करोति, कस्मात् अन्यस्य यथा
कामावसायिनः पूर्वसिद्धस्य तथा भूतेषु सङ्कल्पादिति ।
एतान्यष्टावैश्वर्य्याणि । कायसम्पद्वक्ष्यमाणा तद्वर्म्मानभिघातश्च
पृथ्वी मूर्त्त्या न निरुणद्धि योगिनः, शरीरादिक्रियाः शिला-
मप्यनुविशतीति, नापः स्निग्धाः क्लेदयन्ति, नाग्निरुष्णो-
दहति न वायुः प्रणामी वहत्यनावरणात्मकेऽप्याकाशे
भवत्यावृतकायः सिद्धानामप्यदृश्योभवति” भा० ।
“सङ्कल्पानुविधाने मूतानां किं योगिनः सिध्यतीत्यत आह
“स्थूलसंयमविजयाच्चतस्रः सिद्धयो भवन्तीत्याह ।
तत्राणिमा १ महानपि भवत्यणुः । लघिमा २ महानपि
लघुर्भूत्वेषीकातूल इवाकाशे विहरति । ३ महिमाऽ-
ल्पोऽपि नागनगगगनपरिमाणो भवति । पाप्तिः ४ सर्वे-
भावाः सन्निहिता भवन्ति योगिनस्तद्यथा भूमिष्ठ
एवाद्भुल्यग्रेण स्पृशति चन्द्रमसम् । स्वरूपसंयमविजयात्
सिद्धिमाह । प्राकाम्यमिच्छानभिघातो ५ नास्य रूपं भूतस्वरूपै
र्मूर्त्त्यादिभिरभिहत्यते भूनावुन्मज्जति मज्जति च
यथोदके । सूक्ष्मविषयसंयमजयात् सिद्धिमाह वशित्व”
भूतानि पृथिव्यादीनि भौतिकानि गोघटादीनि तेषु वशी
स्वतन्त्रीभवति ६ । तेषां त्ववश्यं तत्कारणतन्मात्र-
पृथिव्यादिपरमाणुवशीकारात्तत्कार्य्य वशीकारस्तेन यानि
पृष्ठ १५५२
यथावस्थापयति तानि तथावतिष्ठन्ते इत्यर्थः । अन्वय-
विषयसंयमजयात् सिद्धिमाह ईशितृत्वं ७ तेषां भूतभौ-
तिकानां विजितमूलप्रकृतिः सन् यः प्रभव उत्पादो यश्चा-
पायोविनाशो यश्च व्यूहो यथावदवस्थारूपः तेषामीष्टे ।
अर्थवत्त्वसंयमात् सिद्धिमाह । यच्च कामावसायित्वं ८ सत्य-
सङ्कल्पता विजितगुणार्थवत्त्वो हि योगी यद्यदर्थतया
सङ्कल्पयति तत्तस्मै प्रयोजनाय कल्पते । विषमप्यमृत-
कार्य्ये सङ्कल्प्य भोजयन् जीवयतीति । स्यादेतद् यथा
शक्तिविपर्य्यासङ्करोत्येवं पदार्थविपर्य्यासमपि कस्मान्न
करोति तथाच चन्द्रमसमादित्यं कुर्य्यात् कुहूञ्च सिनीवाली-
मित्यत आह न च शक्तोऽपीति । न खल्वेते यत्रकामाव-
सायिनस्तत्र तत्रभवतः परमेश्वरस्याज्ञामतिक्रमितुमुत्स-
हन्ते । वस्तुपदार्थानां जातिदेशकालावस्थाभेदेनानियतस्व-
भावा इति युज्यते तासु तदिच्छानुविधानमिति ।
एतान्यष्टावैश्वर्य्याणि तद्धर्म्मानभिघात इति अणिमादि
प्रादुर्भाव इत्यनेनैव तद्धर्म्मानभिघातसिद्धौ पुनरुपादानं
कायसिद्धिवत् एतत् सूत्रोपनिबद्धसकलविषयसंयमफल-
वत्त्वज्ञापनाय । सुगममन्यत्” ॥ ४४ वि० ।
वेदान्तिमते नित्यैश्वर्य्यमीश्वरस्यैव योगिनान्तु ऐश्वर्य्यं
तदधीनमित्यतोन जगत्सर्ज्जने तेषां शक्तिः । यथोक्तं
शारीरकसूत्रभाष्येषु
“जगद्व्यापारवजं प्रकरणादसन्निहितत्वाच्च” सू० । “ये
सगुणब्रह्मोपासनात् सहैव मनसेश्वरसायुज्यं व्रजन्ति किन्नु
एषां निरवग्रहमैश्वर्थ्यं? भवत्याहोस्वित् सावग्रहमिति
संशयः । किन्तावत् प्राप्तं निरङ्कुशमेवैषामैश्वर्य्यं भवितुम-
र्हति “आप्नोति स्वाराज्यम्” “सर्व्वेऽस्मै देवाबलिमावहन्ति”
“तेषां सर्व्वेषु लोकेषु कामचारोभवतीत्यादि” श्रुतिभ्यः ।
इत्येवं प्राप्ते पठति जगद्व्यापारवर्जमिति । जगदुत्-
पत्त्यादिव्यापारं वर्जयित्वाऽन्यदणिमाद्यात्मकमैश्वर्य्यं
मुक्तानां भवितुमर्हति जगद्व्यापारस्तु नित्यसिद्धस्यैवेश्वरस्य ।
कुतः? तस्य तत्र प्रकृतत्वादसन्निहितत्वाच्चेतरेषाम् ।
परएवहीश्वरो जगद्व्यापारेऽधिकृतः तमेव प्रकृत्योत्-
पत्त्याद्युपदेशान्नित्यशब्दनिबन्धनत्वाच्च तदन्वेषणविजि-
ज्ञासनपूर्ब्बकमितरेषामादिमदैश्वर्य्यं श्रूयते तेनास-
न्निहितास्ते जगद्व्यापारे । समनस्कत्वादेव चैषामनैक
मत्ये कस्य चित् स्थित्यभिप्रायः कस्यचित्संहाराभिपाय
इत्येवं विरोधोऽपि कदाचित् स्यात् । अथ कस्यचित्सङ्क-
ल्पमन्वन्यस्य सङ्कल्प इत्यविरोधः समर्थ्येत । ततः पर-
मेश्वराहृततन्त्रत्वमेवेतरेषामिति व्यवतिष्ठते” भा० ।

ऐषमस् अव्य० अस्मिन् वत्सरे नि० । वर्त्तमानवत्सरे । ततः

भवार्थेट्युल् तुट्च । ऐषमस्तन तद्भवे स्त्रियां ङीप् ।
पक्षेत्यप् । ऐषमस्त्य तत्रार्थे त्रि० स्त्रियां टाप् ।

ऐषीक न० इषीकमेव स्वार्थे अण् । इषीकाशब्दार्थे ।

ऐषुकारि पु० इषुकारस्यापत्यम् इञ् । शरकारापत्ये तस्य

विषयोदेशः भक्तल् । ऐषुकारिभक्त तद्विषये देशे ।

ऐषुकार्य्यादि पु० पाणिन्युक्ते विषये देशेऽर्थे भक्तल्प्रत्ययनिमित्ते

शब्दगण भेदे । स च गणः “ऐषुकारि, सारस्यायन ।
चान्द्रायण । द्व्याक्षायण । त्र्याक्षायण । औडायन ।
जौलायन । खाडायन । दासमित्रि दासमित्रायण शौद्रा-
यण द्राक्षायण, शायण्डायन । तार्क्ष्यायण । शौभ्रायण ।
सौवीर । सौवीरायण । शयण्ड । शौण्ड । शयाण्ड ।
वैश्व मानव । वैश्व धेनव । नड । तुण्डदेव । विश्वदेव ।
सापिण्डि” ।

ऐष्टिक पु० इष्टेर्व्याख्यानो ग्रन्थः द्व्यच्कत्वात् ठक् । इष्टेर्व्या-

ख्याने १ ग्रन्थे इष्टाय हितम् ठक् । इष्टरूपयागादे-
र्हिते २ अन्तर्विदिके कर्मभेदे “दानधर्मं निषेवेत नित्य-
मैष्टिकपौर्त्तिकम्” मनुः । “अस्ति तावत् प्राचीनवंशशाला
तस्यामाहवनीयाद्यग्नित्रयमैष्टिकवेदिश्च” यजु० ५, १४ वेददी
इष्ट्यै प्रभवति ठक् । ३ इष्टिसाधनसमर्थेप्रयोगे च ।
“यजमानशब्दादैष्टिकेषु निगमेषु” आश्व० श्रौ० ५, ३, ७, ।
तेषां समावापादि यथार्थमभिधानमैष्टिके तन्त्रे” ४, १, ९ ।

ऐहलौकिक त्रि० इहलोके भवः ठञ् द्विपदवृद्धिः ।

इहलोकजाते “ऐहलौकिकमेवेह उताहो पारलौकिकम्”
भा० व० ३८१ अ० । “ऐहलौकिकमीहन्ते मांसशोणित-
वर्द्धनम्” भा० व० ११८ अ० । स्त्रियां ङीप् ।

ऐहिक त्रि० इह भवः कालाट्ठञ् । १ इहलोकभवे २ गृहीत-

शरीरसम्बन्धिनि स्रक्चन्दनादिसुखानुभवादौ च । “क्कचि
द्रुमवदैहिकार्थेषु गृहेषु” भाग०५, १४, ३२ । “यथैहि-
कामुष्मिककामलम्पटः” भाग० ५, १९, १४ । इह विदितः
ठञ् । ३ इहविदिते ४ “ऐहिकब्रह्मघ्नपतेर्दाहादिनिषेधात्
जन्मान्तरीणतत्पापवत एव सहमरणेनोद्धारः” शु० त०
रघु० । स्त्रियां ङीप् ।
इति वाचस्पत्ये ऐकारादिशब्दार्थसङ्कलनम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/ऐ&oldid=85289" इत्यस्माद् प्रतिप्राप्तम्