वाचस्पत्यम्/औ

विकिस्रोतः तः
Jump to navigation Jump to search
← वाचस्पत्यम्/ओ वाचस्पत्यम्/औ
तारानाथ भट्टाचार्य
वाचस्पत्यम्/क →
पृष्ठ १५६६

औकारः स्वरवर्ण्णभेदः कण्ठौष्ठस्थानयोरुच्चार्य्यः दीर्घः

द्विमात्रत्वात् । प्लुतस्तु त्रिमात्रः । स च उदात्तानुदात्त
स्वरितभेदात् त्रिविधोऽपि अनुनासिकाननुनासिकाभ्यां पुन
र्द्वैविध्यात् षड्विधः एवं प्लुतोऽपि षड्विधः । तेन द्वादश-
विधः । तपरत्वे कारपरत्वे च स्वरूपमात्रपरः । तन्त्रेतस्य
वाचकशब्दा वर्ण्णाभिधाने उक्ता यथा । “ओकारः शक्ति-
कोनादस्तैजसोवामजङ्घकः । मनुरूर्द्धग्रहेशश्च शङ्कुकर्ण्णः
सदाशिवः । अधोदन्तश्च कण्ठौष्ठौ सङ्कर्षणः सरस्वती ।
आज्ञा चोर्द्धमुखी शान्ता व्यापिनी प्रकृतिःपरा । अनन्ता
ज्वालिनी व्योमा चतुर्द्दशी रतिप्रियः । नेत्रमात्राकर्षिणी
च ज्वालामालिनिका भृगुः” । तदधिष्ठातृदेवता च
तत्रैवोक्ता । “औकारे डाकिनी सिंहनादिनी चण्डभेरवी”
तस्य ध्येयरूपं कामधे० त० उक्तं यथा “रक्तविद्युल्लता-
कारमोकारं कुण्डलीं स्वयम् । अत्र ब्रह्मादयः सर्व्वे
तिष्ठन्ति सततं प्रिये! । पञ्चप्राणमयं वर्ण्णं सदाशिवमयं
सदा । सदा ईश्वरसंयुक्तं चतुर्व्वर्गप्रदायकम्” । मातृका-
न्यासेऽधोदन्तपङ्क्तौन्यस्यत्वात्तच्छब्दवाच्यताऽस्येति बोध्यम् ।

अव्य० आ + अव--क्विप् ऊठ् । १ आह्वाने २ संबोधने

मेदि० । ३ विरोधे ४ निर्ण्णये” शब्दरत्ना० । ५ अनन्ते पु०
एकाक्षरकोषः ६ निस्वने पु० मेदि० । ७ पृथिव्यां स्त्री मेदि०
स च “चतुर्द्दशस्वरोयोऽसौ सेतुरौकारसंज्ञितः ।
सचानुस्वारनादाभ्यां शूद्राणां सेतुरुच्यते” तन्त्रसारधृत
कालिकापु० उक्तेः शूद्राणां जप्यमन्त्रभेदः ।

औक्थ त्रि० उक्थ--गर्गा० अपत्येयञ् औक्थ्यः तस्य च्छात्रः

कण्वादि० अण् यञोलुक् । औक्थ्यच्छात्रे

औक्थिक त्रि० उक्थं सामावयवभेदं वेत्त्यधीते वा ठक् ।

१ उक्थाध्यायिनि २ तद्वेत्तरि च । तेषां धर्म्म आम्नाया-
वा ततः ञ्य । औक्थ्य औट्थिकानां धर्म्मे
तदाम्नाये च न० ।

औक्ष न० उक्ष्णां वृषाणां समूहः अण् टिलोपः । १ वृषसमूहे ।

वुञ् । औक्षक तत्स्मूहे न० । तस्येदमण् टिलोपः ।
२ वृषसम्बन्धिनि त्रि० । अपत्ये अणि तु औक्ष्ण इत्येव ।
वेदे क्वचित् इदमर्थेऽणि उपधातोलोपः । “तामौ-
क्ष्णैश्चरुभिः पश्चात्” शत० ब्रा० १, २, ५, २ ।

औखीय त्रि० उखेन प्रोक्तमधीयते छण् । उखप्रोक्त ब्राह्म-

णाध्यायिषु ब० व० ।

औख्य त्रि० उखायां संस्कृतं यत् ततः स्वार्थे ष्यञ् । १ स्था-

लीपक्वेऽन्नादौ । २ नगरीभेदे स्त्री । उख्यायां जातादि
कर्त्त्र्यादि० ढकञ् । औख्येयक तत्रजातादौ त्रि० ।

औघ पु० वहति पुंसि संज्ञायां घ पृषो० ततः स्वार्थेऽण् ।

जलसंघाते “औघ इमाः सर्व्वाः प्रजा निर्वोढा” शत०
ब्रा० १, ८, १, २, “वहतीत्यौघ उदकसंघातः” भा० ।

औच(त)थ्य पु० उतथ्यस्यापत्यम् अण् वेदे पृषो० । उतथ्यापत्ये

दीर्घतमसि “उपस्तुतिरौचथ्यमरुष्येथाः” ऋ० १,
१५ ८, ४, “औचथ्यमुतथ्यपुत्र दीर्घतमसम्” भा० ।
“दस्रा ह यद्रेक्ण औचथ्यः” ऋ० १, ५८, १, उतथ्यस्यैव
नामान्तरमुचथ्येति तेन “उचथ्यानामाङ्गिरसौचथ्यगौत-
मेति” आश्व० श्रौ० १२, ११, १, उक्तम् । तस्य च गोत्रप्रव-
रर्षित्वम् उक्तवाक्यात् । लोके तु उतथ्यः औतथ्यैत्येव ।

औचित्य न० उचितस्य भावःष्यञ् । युक्तत्वे । “एता अपि

यथौचित्यादुत्तमाधममध्यभाः” सा० द० । षित्त्वसामर्थ्यात्
स्त्रीत्वमपि तत्र ङीष् यलोपश्च । औचिती तत्रार्थे ।
सामर्थ्यमौचिती देशः कालोव्यक्तिः स्वरादयः” सा० द०
दृढा० इमनिच् उचितिमाप्यत्र पु० ।

औजसिक त्रि० ओजसा वर्त्तते ठक् । शूरे तेजस्विनि

औजस्य न० ओजस् + स्वार्थेष्यञ् । ओजसि । “दौर्गत्याद्यै

रनौजस्यं दैन्यं मलिनतादिकृत्” सा० द० ।

औज्जयनक त्रि० उज्जयिन्यां जातादि धूमा० वुञ् ।

उज्जयिनोनगरजातादौ ।

औज्जिहानि पुंस्त्री उज्जिहानस्यापत्यमत इञ् । उज्जि-

नापत्ये ततः इञन्तत्वात् यूनि फक् पैलादि० तस्य लुक् ।
तदीययुवापत्येऽपि ।

औड त्रि० उन्द--क नलोपः नि० दस्य ड स्वार्थेऽण् । आर्द्रे

ततः नड़ा० फक् । औडायन आर्द्रस्य युवापत्ये तस्य
विषयोदेशः ऐषुकार्य्या० भक्तल् । ओडायनभक्त तदीये
विषये देशे

औडव पु० ओडव + स्वार्थेऽण् । “औडवः पञ्चभिः प्रोक्तः

स्वरैः षड्डिस्तु षाडवः । सम्पूर्ण्णा सप्तभिः प्रोक्ता राग
जातिस्तिधा मता” सङ्गीतरत्ना० उक्ते रागभेदे । स च
भल्लारादिः इति संगीतदामोदरः ।

औडवि त्रि० ओडवं रागविशेवमनुशीलयति इञ् । ओडव

रागानुशीले । ततः स्वार्थेदामन्या० छ औडवीय । तदर्थे
पृष्ठ १५६७

औडुप त्रि० उडुपेन निर्वृत्तादि सङ्कलादि० अण् । १ चन्द्र-

निर्वृत्ते २ प्लवनिर्वृत्ते ३ तत्सन्निकृष्टदेशे च ।

औडुपिक त्रि० उडुपेन प्लवेन तरति ठक् । १ प्लवेन तारके

उडुपेन हरति उत्सङ्गा० ठक् । २ प्लवेन हारके च त्रि० ।

औडु(दु)म्बर त्रि० उडु(दु)म्बरस्य विकारः रजतादि० अञ् ।

१ ताम्रविकारे पात्रादौ । “गृहीत्वौडु(दु)म्बरं पात्रम्
स्मृतिः “सौवर्ण्णराजतौडुम्बरखाड्गमणिमयानां पात्रा-
णाम्” गोभि० । २ यज्ञाङ्गवृक्षविकारे च । “पश्चात्पतिर-
वस्थाय युगमन्तमौडु(दु)म्बरं शलाटुग्रथ्न मा बध्नाति” गोभि० ।
स्त्रियां ङीप् । औडु(दु)म्बरीं स्पृष्ट्वा गायेत” श्रुतिः ।
“औडु(दु)म्बरीं शाखामुपगूहति” शत० ब्रा० ५, ४, ३, २५,
३ तपस्विविशेषे पु० । “वैखानसा बालिखिल्यौडुम्बराः
फेनपावने । न्यासे कुटीचरः पूर्व्वम् बह्वोदो हंसनिष्क्रियौ”
भाग० ३, १२, २७ । “औडु(दु)म्बराः प्रातरुत्थाय यां
दिशं प्रथमं पश्यन्ति तत आहृनफलादिभिः जीवन्तः”
श्रीधरः । औडुम्बरं तत्फलं तस्येवाकारोऽस्त्यस्य अर्श०
अच् । ४ महाकुष्ठभेदे । “तत्र महाकुष्ठान्यरुणौडुम्बरर्ष्य
जिह्वकपालकाकणपुण्डरीकदद्रुकुष्ठानीति” विभज्य
“पित्तेन पक्वौडुम्बरफलाकृतिवर्णान्यौडुम्बराणीति” तल्लक्ष्म
सुश्रुते उक्तम् । स च रोगः ताम्रस्तेयकर्मविपाकः यथाह
शाता० “औडु(दु)म्बरी ताम्रचौरो नरकान्ते प्रजायते” ।
५ यमभेदे च “औडुम्बराय दध्नाय” यमतर्पणमन्त्रः ।

औडुलोमि पुंस्त्री उडुलोम्नोऽपत्यम् बाह्वा० इञ् ।

उडुलोम्नोऽपत्ये बहुषु अ । डलोमाः उडुलोमान्

औड्र पु० ओड्रदेशानां राजा अण् । १ अड्रदेशनृपे ओड्र

शब्दे विवृतिः २ तद्देशवासिनि च । बहुषु अणो लुक् ।

औत्कण्ठ्य न० उत्कण्ठैव चातुर्व० स्वार्थे ष्यञ् । उत्कण्ठा-

याम् “औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरिः”
भाग० १, ६, १७ । “औत्कण्ठ्याद्देवकीसुतः” १, १०४ ।

औत्कर्ष्य न० उत्कर्ष + स्वार्थेष्यञ् । उत्कर्षे ।

औत्क्षेप पुंस्त्री उत्क्षेपस्य ऊर्द्ध्वक्षेपकस्यापत्यं शिवा० अण् ।

उत्क्षेपकस्यापत्ये स्त्रियां ङीप् ।

औत्तम त्रि० उत्तमेन निर्वृत्तादि सङ्कला० अण् । १ उत्तमेन

निर्वृत्ते २ तत्सन्निकृष्टदेशादौ च ।

औत्तमि पु० उत्तमस्यापत्यम् इञ् । मनुभेदे उत्तमशब्दे

उदा० । “स्वारोचिषश्चौत्तमिश्च तामसोरैवतस्तथा” मनुः
तस्य पत्नो उत्तमी तस्या अपत्यम् ढक् । उत्तमपत्न्यपत्ये
तत्पुत्राश्च “औत्तमेयान् महाराज! दश पुत्रान् निबोध
तान्” हरिवं० ७ अ० उत्तमशब्दे ते च नामतोदर्शिताः ।

औत्तर त्रि० उत्तरत्यस्मात् उद् + तॄ--अपादानेऽप् ततः

स्वार्थेऽण् । उत्तारके “इतरेषामुपदेशेन दुःखादिनिवारके
ऋषौ । “यत्रौत्तराणां सर्वेषामृषीणाम् नाहुषस्य च”
भा० व० १०, ५४६ ।

औत्तरपथिक त्रि० उत्तरपथेन गच्छति तेना हृतं वा ठञ् ।

उत्तरपथेन अर्च्चिरादिमार्गेण १ गन्तरि उपासकभेदे
२ तेनाहृते च ।

औत्तरपदिक त्रि० उत्तरपदं गृह्णाति ठक् । उत्तरपदग्राहके ।

औत्तरवेदिक त्रि० उत्तरवेद्यां भवः ठञ् । उत्तरवेद्यां भवे

कर्मादौ “औत्तरवेदिकं कर्म कृत्वा” शत० ब्रा० ७, ३२, १७

औत्तराधर्य्य न० उत्तरे च अधरे च तेषां भावः ष्यञ् ।

ऊर्द्ध्वनीचभावेन स्थितौ । “संघे चानौत्तराधर्य्ये” पा०

औत्तराह त्रि० उत्तरस्मिन् कालादौ भवः “उत्तरादाहञ्”

पा० उत्तर + आहञ् । उत्तरकालादौ भवे ।

औत्तरेय पु० उत्तराया अपत्यम् ढक् । अभिमन्युसुते विराट

दुहितुरूत्तरायाः पुत्रे परिक्षिन्नृपे “औत्तरेयेण दत्तानि
न्यवसत्तन्निदेशकृत्” भाग० १, १७, ४० । “अवधार्य्य मतिं
कृष्ण औत्तरेयः सतीं व्यधात्” भाग० २, ४, २ ।

औत्तानपाद(दि) पु० उत्तानपादे नृपे भवः अण् । उत्ता-

नपादभवे ध्रुवे “ध्रुवस्योत्तानपादस्य ब्रह्मर्षीणां तथैव च” भा०
अनु० ३ अ० । “उत्तानपाद! भगवांस्तव शार्ङ्गधन्वा”
भाग० ४, १०, २५ । अपत्ये तु इञ् । तत्रैव । “उत्तानपा-
दिर्निर्गत्य ततः काननतो द्विज!” काशी० । तस्य यथा
तपस्यया सर्वनक्षत्राधारतापदप्राप्तिस्तथा वर्णितम् भाग० ४
८, ९, “जाये उत्तानपादस्य सुनीतिःसुरुचिस्तयोः । सुरुचिः
प्रेयसी पत्युर्नेतरा यत्सुतोध्रुवः । एकदा सुरुचेः पुत्र-
मङ्कमारोप्य लालयन् । उत्तमं नारुरुक्षन्तं ध्रुवं राजाभ्य-
नन्दत । तथा चिकीर्षमाणं तं सपत्न्यास्तनयं ध्रुवम् ।
सुरुचिः शृण्वतोराज्ञः सेर्ष्यमाहातिगर्व्विता । न वत्स!
नृपतेर्धिष्ण्यं भवानारोढुमर्हति । न गृहीतोमया यत्त्व
कुक्षावपि नृपात्मज! । बालोऽसि तव नात्मानमन्यस्त्री
गर्भसंवृतम् । नूनं वेद भवान् यस्य दुर्लभेऽर्थेमनोरथः ।
तपसाराध्य पुरुषं तस्यैबानुग्रहेण मे । गर्भे त्वं
साधयात्मानं यदीच्छसि नृपासनम् । श्रीमैत्रेयौवाच ।
मातुः सपत्न्याः सुदुरुक्तिविद्धः श्वसन् रुषा दण्डहतो
यथाऽहिः । हित्वा मिषन्तं पितरं सन्नवाचं जगाम
मातुः स रुदन् सकाशम् । तं निःश्वसन्तं स्फुरिताधरौष्ठं
पृष्ठ १५६८
सुनीतिरुत्सङ्गमुदूह्य बालम् । निशम्य तत्पौरमुखान्नितान्तं
सा विव्यथेयद्गदितं सपत्न्या । सोत्सृज्य धैर्य्यं विललाप-
शोकदावाग्निना दावलतेव बाला । वाक्यं सपत्न्याः स्मरती
सरोजश्रिया दृशा बाष्पकलामुवाह । दीर्घं श्वसन्ती वृजि-
नस्य पारमपश्यती बालकमाह बाला । माऽमङ्गलं तात!
परेषु मंस्था भुङ्क्तेजनोयत् परदुःखदस्तत् । सत्यं सुरु
च्याभिहितं भवान्मेयद्दुर्भगाया उदरे गृहीतः । स्तन्येन
वृद्धश्च विलज्जते यां भार्य्येति वा वोढुमिडस्पतिर्माम् ।
आतिष्ठ तत्तात! विमत्सरस्त्वमुक्तं समात्रापि यदव्यली-
कम् । आराधयाधोक्षजपादपद्मं यदीच्छसेऽध्यासनमुत्तमी
यथा । यस्याङ्घ्रिपद्मं परिचर्य्य विश्वविभावनायात्तगु-
णाभिपत्तेः । अजोऽध्यतिष्ठत् खलु पारमेष्ठ्यं पदं जिता-
त्मश्वसनाभिवन्द्यम् । तथा मनुर्व्वो भगवान् पितामहो
यमेकमत्या पुरुदक्षिणैर्म्मखैः । इष्ट्वाऽभिपेदे दुरवापमन्यतो
भौमं सुखं दिव्यमथापवर्गम् । तमेव वत्साश्रय भृत्य
वत्सलं मुमुक्षुभिर्मृग्यपदाब्जपद्धतिम् । अनन्यभावे
निजधर्म्मभाविते मनस्यवस्थाप्य भजस्व पूरुषम् । नान्यं ततः
पद्मपलाशलोचनाद्दुःखच्छिदं ते मृगयामि कञ्चन ।
योमृग्यते हस्तगृहीतपद्मया श्रियेतरैरङ्ग! विमृग्य माणया ।
एवं संजल्पितं मातुराकर्ण्यार्थागमं वचः । संनियम्या-
त्मनात्मानं निश्चक्राम पितुः पुरात् । नारदस्तमुपाकर्ण्य
ज्ञात्वा चास्य चिकीर्षितम् । स्पृष्ट्वा मूर्द्धन्यघघ्नेन पाणिना-
प्राह विस्मितः । अहोतेजः क्षत्रियाणां मानभङ्गममृष्यता-
म् । बालोऽप्ययं हृदा धत्ते यत् समातुरसद्वचः । श्रीनार-
दौवाच । नाधुनाप्यवमानं ते सम्मानञ्चापि पुत्रक! । लक्ष-
यामः कुमारस्य सक्तस्य क्रीडनादिषु । विकल्पे विद्यमानेऽपि
नह्यसन्तोषहेतवः । पुंसो मोहमृते भिन्ना यल्लोके
निजकर्म्मभिः । परितुष्येत्ततस्तात! तावन्मात्रेण पूरुषः ।
दैवीपसादितं यावद्वीक्ष्येश्वरगति बुधः । अथ मात्रोप-
दिष्टेन योगेनावरुरुत्ससि । यत्प्रसादं स वै पुंसान्दु-
राराध्योमतोमम । मुनयः पदवीं यस्य निःसङ्गेनोरुजन्म-
भिः । न विदुर्मृगयन्तोऽपि तीव्रयोगसमाधिना ।
अतोनिवर्त्ततामेध निबर्न्धस्तव निष्फलः । यतिष्यति मवान्-
काले श्रेयसां समुपस्थिते । यस्य यद्दैवविहितं स तेन
सुखदुःखयोः । आत्मानं तोषयन् देही तमसः पारमृच्छति ।
गुणाधिकान्मुदं लिप्सेदनुक्रोशं गुणाधमात् । मैत्रीं
समानादन्विच्छेन्न तापैरभिमूयते । श्रीध्रुव उवाच । सोऽयं
शमोभगवता सुखदुःखहतात्मनाम् । दर्शितः कृपया पुंसां
दुर्द्दर्शोऽस्मद्विधैस्तु यः । अथापि मेऽविनीतस्य क्षात्रं
घोरमुपेयुषः । सुरुच्या दुर्वचोवाणैर्न भिन्ने श्रयते हृदि ।
पदं त्रिभुवनोत्कृष्टं जिगीषोः साधु वर्त्ममे । ब्रूह्यस्मत्
पितृभिर्ब्रह्मन्नन्यैरप्यनधिष्ठितम् । नूनं भवान् भगवतो-
योऽङ्गजः परमेष्ठिनः । विनुदन्नटते वीणां हिताय
जगतोऽर्कवत् । मैत्रेय उवाच । इत्युदाहृतमाकर्ण्य
भगवान्नारदस्तदा । प्रीतः प्रीत्याह तं बालं सद्वाक्यमनु-
कम्पया । श्रीनारद उवाच । जनन्याभिहितः पन्थाः
सर्वनिःश्रेयसस्य ते । भगवान् वासुदेवस्त्वं भज तं प्रव-
णात्मना । धर्म्मार्थकाममोक्षाख्यं य इच्छेच्छ्रेय आत्म-
नः । एकं ह्येव हरेस्तत्र कारणं पादसेवनम् । तत्तात!
गच्छ भद्रन्ते यमुनायास्तटं शुचि । पुण्यं मधुवनं यत्र
सान्निध्यं नित्यदा हरेः । स्नात्वानुसवनं तस्मिन् कालिन्द्याः
सलिले शिवे । कृत्वोचितानि निवसन्नात्मनः कल्पितासनः ।
प्राणायामेन त्रिवृता प्राणेन्द्रियमनोमलम् । शनैर्व्युद-
स्याभिध्यायेन्मनसा गुरुणा गुरुम् । प्रसादाभिमुखं
शश्वत् प्रसन्नवदनेक्षणम् । सुनसं सुभ्रुवं चारुकपोलं
सुरसुन्दरम् । तरुणं रमणीयाङ्गमरुणौष्ठेक्षणाधरम् ।
प्रणताश्रयणं नृम्णं शरण्यं करुणार्णवम् । श्रीवतसाङ्कं
घनश्यामं पुरुषं वनमालिनम् । शङ्खचक्रगदापद्मैरमि-
व्यक्तचतुर्भुजम् । किरीटिनं कुण्डलिनं केयूरवलया-
न्वितम् । कौस्तुभाभरणग्रीवं पीतकौशेयवाससम् ।
काञ्चीकलापपर्य्यस्तंलसत्काञ्चननूपुरम् । दर्शनीयतमं
शान्तं मनोनयनवर्द्धनम् । पद्भ्यां नखमणिश्रेण्याविल-
सद्भ्यां समर्च्चताम् । हृत्पद्मकर्णिकाधिष्ण्यमाक्रम्या-
त्मन्यवस्थितम् । स्मयमानमभिध्यायेत् सानुरागाबलो-
कनम् । नियतेनैकभूतेन मनसा वरदर्षभम् । एवं
भगवतोरूपं सुभद्रं ध्यायतोमनः । निर्व्वृत्या
परया तूर्णं सम्पन्नं न निवर्त्तते । जपश्च परमोगुह्यः श्रू-
यतां मे नृपात्मज! । यं सप्तरात्रंप्रपठन् पुमान् पश्यति-
खेचरान् । ॐ नमो भगवते वासुदेवाय । मन्त्रेणानेन
देवस्य कुर्य्याद् द्रव्यमयीं बधः । सपर्य्यां विविधैर्द्रव्यैर्द्देश-
कालविभागवित् । सलिलैः शुचिभिर्म्माल्यैर्वन्यैर्मूलफला-
दिभिः । शस्ताङ्कुरांशुकैश्चार्च्चेत्तुलस्या प्रियया प्रभुम् ।
लब्ध्वा द्रव्यमयीमर्च्चां क्षित्यम्ब्वादिषु चार्च्चयेत् ।
आभूतात्मा मुनिः शान्तोयतवाङ्मितवन्यभुक् । स्वेच्छावतार-
चरितैरचितं निजमायया । करिष्यत्युत्तमश्लोकस्तं
ध्यायेद् हृदयंगतम् । परिचर्य्या भगवतो यावतीः
पृष्ठ १५६९
पूर्वसेविताः । ता मन्त्रहृदयेनैव प्रयुञ्ज्यान्मन्त्रमूर्त्तये । एवं
कायेन मनसा वचसा च मनोगतम् । परिचर्य्यमाणो
भगवान् भक्तिमत्परिचर्य्यया । पुंसाममायिनां सम्यग्-
भजतां भाववर्द्धनः । श्रेयोदिशत्यभिमतं यद्धर्म्मादिषु
देहिनाम् । विरक्तश्चेन्द्रियरतौ भक्तियोगेन भूयसा ।
तं निरन्तरभावेन भजेताद्धा विमुक्तये । इत्युक्तस्तं
परिक्रम्य प्रणम्य च नृपार्भकः । ययौ मधुवनं पुण्यं
हरेश्चरणचर्च्चितम् । तपोवनं गते तस्मिन् प्रविष्टोऽन्तःपुरं
मुनिः । अथार्हितार्हणोराज्ञा सुखासीन उवाच ह ।
श्रीनारदौवाच । राजन्! किं ध्यायसे दीर्घं मुखेन
परिशुष्यता । किं वा न रिष्यते कामो धर्मोवार्थेन संयुतः ।
श्रीराजोवाच । सुतोमे बालकोब्रह्मंस्त्रैणेनाकरुणात्मना ।
निर्व्वासितः पञ्चवर्षः सह मात्रा महान् कविः । अप्य
नाथं वने ब्रह्मन्मा खादन्त्यर्भकं वृकाः । श्रान्तं शयानं
क्षुधितं परिम्लानमुखाम्बुजम् । अहो मे वत दौरात्म्यं स्त्री-
जितस्योपधारय । योऽङ्कं प्रेम्णारुरुक्षन्तं नाभ्यनन्दम-
सत्तमः । श्रीनारदौवाच । मा मा शुचः स्वतनयं
देवगुप्तं विशाम्पते! । तत्प्रभावमविज्ञाय प्रावृङ्क्ते यद्यशो-
जगत् । सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभुः ।
एव्यत्यचिरतोराजन्यशोविपुलयंस्तव । इति देवर्षिणा प्रोक्तं
विश्रुत्य जगतां पतिः । राजलक्ष्मीमनादृत्य पुत्रमेवान्वचि-
न्तयत्” । “तत्राभिषिक्तः प्रयतस्तामुपोष्य विभावरीम् ।
समाहितः पर्य्यचरदृष्यादेशेन पुरुषम् । त्रिरात्रान्ते त्रि-
रात्रान्ते कपित्थवदराशनः । आत्मवृत्त्यनुसारेण मासं
निन्येऽर्च्चयन्हरिम् । द्वितीयञ्च तथा मासं षष्ठेषष्ठेऽर्भ-
कोदिने । तृणपर्णादिभिः शीर्णः कृतान्नोऽभ्यर्च्चयद्विभुम् ।
तृतीयञ्चानयन्मासं नवमे नवमे ऽहनि । अब्भक्षौत्तम-
श्लोकमुपधावन् समाधिना । चतुर्थमपि वै मासं द्वादशे
द्वादशेऽहनि । वायुभक्षोजितश्वासोध्यायन् देवमधारयत्!
पञ्चमे मास्यनुप्राप्ते जितश्वासोनृपात्पजः । ध्यायन् ब्रह्म-
पदैकेन तस्थौ स्थाणुरिवाचलः । सर्व्वतोमनआकृष्य हृदि
भूतेन्द्रियाशयम् । ध्यायन् भगवतोरूपं नाद्राक्षीत् किञ्च-
नापरम् । आधारं महदादीनां प्रधानं पुरुषेश्वरम् ।
ब्रह्म धारयमाणस्य त्रयोलोकाश्चकम्पिरे । यदैकपादेन
सपार्थिवात्मजस्तस्थौ तदङ्गुष्ठनिपीडिता मही । ननाम
तत्रार्द्धमिभेन्द्रधिष्ठिता तरीव सव्येतरतः पदेपदे । तस्मिन्न-
भिध्यायति विश्वमात्मनोद्वारं निरुध्यासुमनन्यया धिया ।
लोका निरुच्छासनिपोडिताभृशं सलोकपालाः शरणं ययु-
र्हरिम् । श्रीदेवा ऊचुः । नैवंविदामोभगवन्! प्राणरोधं-
चराचरस्याखिलसत्वधाम्नः । विधेहि तन्नोवृजिनाद्विमोक्षं
प्राप्ता वयं त्वां शरणं शरण्यम् । श्रीभगवानुवाच । मा भैष्ट
बालं तपसोदुरत्ययान्निवर्त्तयिष्ये प्रतियात स्वधाम । यतोहि
वः प्राणनिरोध आसीदौत्तानपादिर्म्मयि संगतात्मा । तएव
मुत्सन्नमयाउरुक्रमे कृतावनामाः प्रययुस्त्रिपिष्टपम् । सहस्र-
शीर्षाऽपि ततोगरुत्मतामधोर्वनं भृत्यदिदृक्षयागतः । स र्व
धिया योगविपाकतीव्रया हृत्पद्मकोशे स्फुरितं तडित्
प्रभम् । तिरोहितं सहसैवोपलक्ष्य बहिः स्थितं
तदवस्थं ददर्श । तद्दर्शनेनागतसाध्वसः क्षिताववन्दताङ्गं
विनमय्य दण्डवत् । दृग्भ्यां प्रपश्यन् प्रपिबन्निवार्भकश्चुम्ब-
न्निवास्येन भुजैरिवाश्लिषन् । स तं विवक्षन्तमतद्विदं
हरिर्ज्ञात्वास्य सर्वस्य च हृद्यवस्थितः । कृताञ्जलिं ब्रह्म-
मयेन कम्बुना पस्पर्श बालं कृपया कपोले । स वै तदैव
प्रतिपादितां गिरं दैबीं परिज्ञातपरात्मनिर्णयः । तं
भक्तिभावोऽभ्यगृणादसत्वरं परिश्रुतोरुश्रवसं ध्रुवक्षिति”ः ।
ततोध्रुवेण स्तुतो भगवान् तस्मै यथा वरंदत्तवांस्तथा वर्णितं
तत्रैव “अथाभिष्टुतएवं वै सत्सङ्कल्पेन धीमता । भृत्यानु-
रुक्तो भगवान् प्रतिनन्द्यैनमब्रवीत् । श्रीभगवानुवाच ।
वेदाहं ते व्यवसितं हृदि राजन्यबालक! । तत् प्रयच्छामि
भद्रं ते दुष्प्रापमपि सुव्रत! । नान्यैरधिष्ठितं भद्र!
यद्भ्राजिष्णु ध्रुवक्षिति । यत्र ग्रहर्क्षताराणां ज्योतिषां
चक्रमाहितम् । मेध्यां गोचक्रवत् स्थास्नुपरस्तात् कल्प
वासिनाम् । धर्मोऽग्निः कश्यपः शक्रो मुनयो ये वनौकसः ।
चरन्ति दक्षिणीकृत्य भ्रमन्तोयत् सतारकाः । प्रस्थिते तु
वनं पित्रा दत्त्वा गां धर्म्मसंश्रयः । षट्त्रिंशद्वर्षसाहस्रं
रक्षिता व्याहृतेन्द्रियः । त्वद्भ्रातर्य्युत्तमे नष्टे मृगयायां
तु तन्मनाः । अन्वेषती वनं माता दावाग्निं सा प्रवे-
क्ष्यति । इष्ट्वा मां यज्ञहृदयं यज्ञैः पुष्कलदक्षिणैः । भुक्त्वा
चेहाशिषः सत्या अन्ते मां संस्मरिष्यसि । ततोगन्तासि
मत्स्थानं सर्वलोकनमस्कृतम् । उपरिष्टादृषिभ्यस्त्वं
यतोनावर्त्तते यतिः”
नक्षत्ररूपतत्सन्निवेशविशेषस्तत्रैव ५ स्क० उक्तो यथा
“अथ तस्मात् (शनिलोकात्) परतस्त्रयोदशलक्षयोजनान्त-
रतो यत्तद्विष्णोः परमं पदमभिवन्दन्ति यत्र महाभागवतो
ध्रुव औत्तानपादिरग्निनेत्रेण प्रजापतिना कश्यपेन
धर्म्मेण च समकालयुग्भिः सह बहुमान दक्षिणतः
क्रियमाण इदानीमपि कल्पजीविनामाजीव्य उपास्ते
पृष्ठ १५७०
तस्य महाननुभाव उपवर्णितः । स हि सर्वेषां ज्योति-
र्गणानां ग्रहनक्षत्रादीनां अनिमिषेणाव्यक्तरंहसा
भगवता कालेन भ्राम्यमाणानां स्थाणुरिवावष्टम्भ
ईश्वरेण विहितः शश्वदवभासते । यथा मेधी-
स्तम्भ आक्रमणपशवः संयोजितास्त्रिभिः सवनैर्यथा
स्थानं मण्डलानि चरन्ति । एवं भगणा ग्रहादय
एतस्मिन्नन्तर्बहिर्योगेण कालचक्र आयोजिता ध्रुवमेवा-
लम्ब्य वायुनोदीर्य्यमाणा आकल्पान्तं परितः क्रामन्ति ।
नभसि यथा मेघाः श्येनादयो वायुवशाः कर्म्मसारथयः
परिवर्त्तन्ते । एवं ज्योतिर्गणाः प्रकृतिपुरुषसंयोगानु-
गृहीताः कर्मनिर्मितगतयोभुवि न पतन्ति । केचिदेतत्
ज्योतिरनीकं शिशुमारसंस्थानेन भगवतो वासुदेवस्य
योगधारणायामनुवर्णयन्ति । यस्य पुच्छाग्रेऽवाक्शिरसः
कुण्डलीभूतदेहस्य ध्रुव उपकल्पितः” ५, २३, १ स्क० अ० ।
सि० शि० सर्वनक्षत्राद्याधारौ द्वौ ध्रुवौ अङ्गीकृतौ यथा
“निरक्षदेशे क्षितिमण्डलोपगौ ध्रुवौ नरः पश्यति दक्षिणे-
तरौ । तदाश्रितं खे जलयन्त्रवत् तथा भ्रमद्भचक्रं
निजमस्तकोपरि । उदग्दिशं याति यथा नरस्तथा तथा स्यान्न-
तमृक्षमण्डलम् । उदग्ध्रुवं पश्यति चोन्नतं क्षितेस्तदन्तरे
योजनजाः पलांशकाः । योजनसंख्या भांशैर्गुणिता स्वपरि-
धिहृता भवन्त्यंशाः । भूमौ कक्षायां वा भागेभ्यो
योजनानि च व्यस्तम्” शि० । “उदग्दिशं याति यथा यथा नर
इत्यनेनापसारयोजनैरनुपातः सूचितः । यदि भूपरिधि-
योजनैच्चक्रांशा लभ्यन्ते तदापसारयोजनैः किमिति ।
फलमक्षांशाः । यदि चक्रांशमितपरिधिना भूपरिधिर्ल-
भ्यते तदाक्षांशैः किमिति फलं निरक्षदेशस्वदेश-
योरन्तरयोजनानि स्युः शेषं स्पष्टम् । एवं निरक्ष-
देशात् क्षितिचतुर्थांशे किल मेरुः । तत्र नवतिः ९०
पलांशाः” पमि० । “सौम्यं ध्रुवं मेरुगताः खमध्ये
याम्यं च दैत्या निजमस्त कोर्ध्वे । सव्यापसव्यं भ्रम-
दृक्षचक्रं विलोकयन्ति क्षितिजप्रसक्तम्” शि० ।

औत्पत्तिक उत्पत्त्या भावेन अवियुक्तः ठक् । १ नित्यसंबन्धे

शब्दार्थयोः सम्बन्धस्य नित्यावियुक्तत्वात् औत्पत्तिकत्वम्
जै सू० भाष्ययोर्दर्शितं यथा
“औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धलस्य ज्ञानमुपदेशोऽ-
व्यतिरेकश्चार्थेऽनुपलब्धे तत् प्रमाणं वादरायणस्यानपेक्ष-
त्वात्” । सू०
“औत्पत्तिक” इति नित्यं ब्रूमः, उत्पत्तिर्हि भाव
उच्यते लक्षणया । अवियुक्तः शब्दार्थेयोर्भावैः सम्बन्धः
नोत्पन्नयोः पश्चात् सम्बन्धः, औत्पत्तिकः शब्दस्यार्थेन
सम्बन्धः, तस्य अग्निहोत्रादिलक्षणस्य धर्म्मस्य प्रत्य-
क्षादिभिरनवगतस्य ज्ञानं निमित्तम् । कथं? । उपदेशो
हि भवति, “उपदेशः” इति विशिष्टस्य उच्चारणम् ।
अव्यतिरेकश्च ज्ञानस्य, न, हि तदुत्पन्नं ज्ञानं
विपर्य्येति! यच्च नाम ज्ञानं न तत् शक्यते वक्तुं “न
एतदेवम्” इति, यथा विज्ञायते, न तथा भवति, यथैतन्न
विज्ञायते, तथैतदिति, अन्यदस्य हृदये, अन्यद्वाचि स्यात्,
एवं वदतो विरुद्धमिदं गम्यते, अस्ति नास्ति वेति । तस्मा-
त् तत् प्रमाणमनपेक्षत्वात् । न ह्येवंसति प्रत्ययान्तरम-
प्रेक्षितव्यं, पुरुषान्तरं वापि, अयंप्रत्ययोह्यसौ ।
वादरायणग्र हणंवादरायणस्येदं मतं कीर्त्त्यते वादरायणं
पूजयितुं, नात्मीथं मतं पर्य्युदसितुम् ।
उत्पत्तिर्भावः १ स्वकालः तत्र भवः ठक् । २ स्वभावे
स्वभावस्य यावद्द्रव्यभावित्वात् तथात्वम् । “मातुरनुग्रहा-
दौत्पत्तिकेनैव संहननबलोपेताः पित्रा विभक्ताः” भा०
ग० ५, २, २१, तन्निशम्याथ हर्म्यस्था औत्पत्तिकमनीषया
भाग० ६, ५, १० ।

औत्पात त्रि० उत्पातस्य तज्ज्ञापकशास्त्रस्य व्याख्यानोग्रन्थः

तत्रभवो वा ऋगयना० अण् । १ उत्पातावेदकग्रन्थ-
व्याख्याने ग्रन्थे २ तत्रभवे च ।

औत्पातिक त्रि० उत्पाते दैवारिष्टे भवः ठक् १ दैवारिष्टभवे-

“औत्पातिकं मेघ इवाश्मवर्षम्” रघुः । “औत्पातिकं
तदिह देव । विचिन्तनीयम्” उद्भटः । “औत्पातिके
महाघोरे तथा दुःस्वप्नदर्शने” वटुकस्तवः उत्पाताय
प्रभवति ठक् । उत्पातसम्पादनसमर्थे “प्रयाते तु
ततःस्कन्दे बभूवौत्पातिकं महत्” भा० व० २३० अ० ।

औत्पाद त्रि० उत्पादं तदावेदकग्रन्थं वा वेत्त्यर्धाते वा

तत्रभवो वा ऋगयना० अण् । १ भावानामुत्पादवेत्तरि
२ तदावेदग्रन्थाध्येतरि ३ तत्रभवे च ।

औत्पुट त्रि० उत्पुटेन निर्वृत्तादि सङ्कला० चतुरर्थ्याम् अण् ।

उत्पुटेन उन्मुद्रेण १ निर्वृत्ते २ तत्सन्निकृष्टदेशादौ च ।

औत्पुटिक त्रि० उत्पुटेन हरति उत्सङ्गा० ठक् ।

उत्पुटेन हारके ।

औत्पुतिक त्रि० उत्पुतेन हरति उत्सङ्गा० ठकु । उत्पवनसंस्कारान्वितेन हारके ।

औत्स त्रि० उत्से भवः अञ् । प्रसवणभवे स्त्रियांङीप् ।

औत्सङ्गिक त्रि० उत्सङ्गेन हरति ठक् । क्रोडन हारके ।

पृष्ठ १५७१

औत्सर्गिक त्रि० उत्सर्गं सामान्यविधिमर्हति ष्ठञ् । सामा-

न्यविधियोग्ये स्त्रियां ङीष् ।

औत्सायन पुंस्त्री उत्स ऋषिभेदस्तस्य गोत्रापव्यम् अश्वा० फञ् । उत्सर्षेर्गोत्रापत्ये ।

औत्सुक्य न० उत्सुकस्य भावः ष्यञ् । उत्कण्ठायाम् ।

“औत्सुक्येन कृतत्वरा सहभुवा व्यावर्त्तमाना ह्रिया”
रत्नावली “तमाहितौत्सुक्यमदर्शनेन” रघुः ।
“रथचरणसमाह्वस्तावदौतसुक्यनुन्ना” माघः “इत्यौत्सुक्यादपरि
गणयन् गुह्यकस्तं यथाचे” मेघ० । तच्च अलङ्कारोक्त
व्यभिचारिभावभेदः सा० द० निर्वेदावेगेत्याद्युपक्रमे
“औत्सुक्योन्मादशङ्का” इत्युक्त्वा “इष्टानवाप्तेरौत्सुक्यं कालक्षे-
पासहिष्णुता” लक्षितम् । २ इच्छामात्रे च । “औत्सुक्य-
निवृत्त्यर्थं यथा क्रियासु प्रवर्त्तते लोकः” सा० का० ।
“औत्सुक्यमिच्छा सा च इष्यनाणप्राप्तौ निवर्त्तते इष्य-
माणश्च स्वार्थ इष्टलक्षणत्वात् फलस्य” त० कौ० । “मनो-
यस्येन्द्रियस्येह विषयान् याति सेवितुम् । तस्यौत्सुक्यं
संभवति प्रवृत्तिश्चोपजायते” भा० व० ११४ श्लो० ।

औदक त्रि० उदकेन पूर्णं गृह्णाति उदकस्येदं वा अण् ।

१ उदकपूर्णकुम्भग्राहके “अपरेणाग्निमौदकोऽनुसंव्रज्य
पाणिग्राहं मूर्द्ध्वदेशेऽवसिञ्चति” गोभिलः । “औदको
गृहीतोदकुम्भः” सं० त० रघु० । २ उदकसम्बन्धिनि ।
“औदकेनैव विधिना निर्वपेत् दक्षिणामुखः” मनुः । उदके भवः
अण् । ३ जलभवे च । “यानि चैवं प्रकाराणि स्थलजान्यौ-
दकानि च” “स्थलजौदकशाकानि पुष्पमूलफलानि च” मनुः

औदकि पुंस्त्री “उदङ्क उदक (संज्ञायाम्)” पा० ग० वाह्वा०

अपत्ये इञ् । उदकनामर्षेरपत्ये ततः स्वार्थे दामन्या०
छ । औदकीय तत्रार्थे । एवम् औदङ्कि औदङ्कीय
इत्यपि उदङ्कापत्ये पुंस्त्री ।

औदज्ञायनि पुंस्त्री उदज्ञस्यर्षेरपत्यं तिका० फिञ् । उदज्ञस्यापत्ये ।

औदञ्चन त्रि० उदच्यते उत्क्षिप्य ध्रियतेऽस्मिन् उदञ्चनोजला-

धारः मणिकस्तस्येदम् अण् । मणिकस्थिते जलादौ
(जालारजल) “एनां (शफरीम्) तत आदाय न्यधादौ-
दञ्चनोदके” भाग० ८, ३४, १५ । “औदञ्चनोदके
मणिकस्थजले” श्रीधरः उदञ्चनस्य सन्निकृष्टदेशादि
अरीहणादि० वुञ् । औदञ्चनक मणिकस्य सन्निकृष्ट-
देशादुअ त्रि० ।

औदञ्चवि पुंस्त्री उदञ्चोरपत्यं बाह्वा० इञ् । उदञ्चुनामकर्षेरपत्ये ।

औदञ्चि पुंस्त्री उदञ्चापत्यम् इञ् । १ उदञ्चापत्ये ततः यूनि

फिञ् पैला० तस्य लुक् । २ तदीययुवापत्येऽपि ।

औदनिक त्रि० ओदनाय प्रभवति संतापा० ठञु ।

ओदननिष्पादनाय समर्थे सूपकारे ।

औदन्य पु० उदन्यायुक्ते ऋषौ भवः अण् । पिपामायुक्त

र्षिभवे मुण्डिभे ऋषौ । “एतां ह वै मुण्डिभ औदन्यः
ब्रह्महत्यायै प्रायश्चित्तिं विदाञ्चकार” शत० ब्रा० २३, ३,
५, ६ । तस्यापत्ये तु इञ् । औदन्यि इत्येव तत्रार्थे
ततः युवप्रत्ययस्य फिञः पैला० लुक् । तदीययुवापत्ये च ।

औदपान त्रि० उदपानादागतः शुण्डिका० अण् ।

आयस्थानरूपोदपानादागते १ राजग्राह्यकरादौ । उदपाने
भवः पलद्या० अण् । २ उदपाननामग्रामभवे करादौ
त्रि० । उदपाने जलाधारस्थानभेदे भवः उत्सा० अञ् ।
३ उदपानभवे त्रि० । स्त्रियां सर्वत्र ङीप् ।

औदभृज्जि पुंस्त्री उदभृज्जस्यापत्यम् इञ् । १ उद्भृज्जस्यापत्ये

ततोयुवप्रत्ययस्य पैलादि० लुक् । २ तदीययुवापत्ये च । एवं
औदमज्जि औदमेधि औदव्रजि औदशुद्धि इत्येतेऽपि
शब्दाः तत्तदपत्ये तत्तद्युवापत्ये च ।

औदमेधीय त्रि० उदमेघेरिदम् रैवतिकादि० छ । औदमेधि सम्बन्धिनि ।

औदमेयि पुंस्त्री उदमेयस्यापत्यम् इञ् । उदमेयस्यापत्ये

ततः मनुष्यजातित्वात् स्त्रियां ङीष् ।

औदयिक त्रि० उदये लग्नकाले भवः ठञ् । लग्नकालभवे स्त्रियां ङीप् ।

औदरिक त्रि० उदरे प्रसितः ठक् । आद्यूने, (पेयक)

उदरमात्रपूरणापेक्षके । “ऐश्वर्य्यवन्तं रौद्रं च शूर
चण्डमसूयकम् । एकाशिनमौदरिकमासुरं सत्वमी-
दृशम्” सुश्रुते तस्यासुरसत्वत्वमुक्तम् । अमरे विजिगीषा-
विवर्ज्जितस्य तथात्वमुक्तम् । विजिगीषा च विगानेच्छा
सा च स्वोदरपूरणासक्ततया निन्देच्छा तस्याःत्याग एवास्य
प्रवृत्तिः । “सर्व्वमेवौदरिकस्याभ्यवहार्य्याय कल्पते” नाट०

औदर्य्य त्रि० उदरे भवः यत् उदर्य्यः ततःस्वार्थे अण् ।

१ उदरभवेऽनलादौ । २ अभ्यन्तरप्रविष्टे च । “स त्वया-
राधितः शुक्लोवितन्वन् मामक यशः । छेत्ता ते
हृदयग्रन्थिमौदर्य्यो ब्रह्मभावनः” भाग० ३, २४, ५ ।

औदल त्रि० चिकितगालवकालववमनुतन्तुकुड़िलानां वैश्वा-

मित्रदेवरातौदलेति” आ० श्रौ० १२, १४, २, उक्ते चिकि-
तादीनां षण्णां प्रवरर्षिभेदे ।

औदवापि पुंस्त्री उदवापस्यापत्यम् इञ् । उदबापापत्ये

स्त्रियां ङीप् । तस्येदं रैवतिका० छ । औदवापीय तत्
सम्बन्धिनि त्रि० ।
पृष्ठ १५७२

औदवाहि पु० उदवाहस्यापत्यम् इञ् । ऋग्वेदिनाम्

प्राचीनावीतितया तर्पणीयर्षिभेदे । द्वादशर्षितर्पणा-
नन्तरम् । “प्रार्चानीवीती” “सुमन्तुजैमिनिवैशम्पा-
यनपैलसूत्रभाष्यभारतमहाभारतघर्म्भाचार्याजानन्तिबाह-
विगार्ग्यगौतमशाकल्यबाम्रव्यमाण्डव्यमाण्डुकेया गार्गी
वाचक्नवी बड़वा प्राचीथेयी सुलभा मैत्रेयी कहोलं
कौषीतकं पैङ्ग्यं महापैङ्ग्यं सुयज्ञं साङ्ख्यायनमैतरेयं
महैतरेयं शाकलं बाष्कलं सुजातवक्त्रमौदवाहिं
महौदवाहिं सौजामिं शौनकमाश्वलायनं ये चान्ये
आचार्य्यास्ते सर्वे तृप्यन्त्विति” आश्व० गृ० ३, ४, ४, “त्रयोविंशति
वाक्याति तत्र कहोलादिषु अर्थात् तर्पयामीतिशब्दः
कार्य्यः । सर्व्वत्र प्रतिवाक्यं तर्पणङ्कुर्य्यात् “एकमन्त्राणि
कर्म्माणीति” न्यायात्” नारा० । “औदवाहेश्च शाण्डि-
ल्याच्च शाण्डिल्यः” शत० ब्रा० १४, ७, ३, २६, वंशवर्ण्णने

औदश्वित त्रि० उदश्विति तक्रभेदे संस्कृतः अण् ।

उदश्विद्रूपतक्रे संस्कृतभक्ष्वद्रव्ये । पक्षे ठक् उदश्वित्कोऽप्यत्र
उदश्विदिव अङ्गुल्या० ठक् । औदश्वित्क तत्सदृशे त्रि० ।

औदस्थान त्रि० उदस्थानं शीलमस्य छत्रा० ण । १ उदस्थान-

शीले । उदस्थाने मवः उत्सा० अञ् । २ उदकस्थानभवे च ।

औदार्य्य न० उदारस्य भावः गुणवचनत्वात् ष्यञ् ।

उदारतायाम् । “औदार्य्यञ्च नायकयोरयत्नसिद्धसात्विकाल-
ङ्कारविशेषः । यथाह सा० द० “शोभा कान्तिश्च दीप्तिश्च
माधुर्य्यञ्च प्रगल्भता । औदार्य्यं धैर्य्यमित्थेते सप्तैव स्युर-
यत्नजाः” इति विभज्य । “औदार्य्यं विनयः सदेति”
लक्षितम् । सात्विकपुरुषगुणभेदश्च यथाह तत्रैव ।
“शोभा विलासो माधुर्य्यं गाम्भीर्य्यंधैर्य्यतेजसी ।
ललितौदार्य्यमित्यष्टौ सत्वजाः पौरुषागुणाः” इति विभज्य ।
“दानं सप्रियभाषणमौदार्य्यं शत्रुमित्रयोः समतेति”
लक्षितम् । २ वाक्यस्यार्थसम्पत्तौ च । “ससौष्ठवौदार्य्य विशेष-
शालिनीं विनिश्चितार्थामिति वाचमाददे” किरा० ।
“औदार्य्यमर्थसम्पत्तिः” मल्लि० । तच्च वाग्गुणभेदः “संस्का-
रवत्त्वमोदीर्य्यमित्यादिना” हेमच० वाग्गुणदर्शने उक्तेः ।

औदासीन्य न० उदासीनस्य भावः ष्यञ् । शुभाशुभयोरुपे-

क्षायाम् ताटस्थ्ये । “पर्य्याप्तोऽसि प्रजाः पातुमौदासी-
न्येन वर्त्तितुम्” रघुः । २ राहित्ये ३ रागनिवृत्तौ च
“न च स्वभावप्राप्तहन्त्यथानुरागेण नञः शक्यमप्राप्त-
क्रियार्थत्वं कल्पयितुम्, हननक्रियानिवृत्त्यौदासीन्य-
व्यतिरेकेण” “अभावबुद्धिश्चौदासीन्थकारणम्” “तस्मात्
प्रसक्तक्रियानिवृत्त्यौदासीन्यमेव “ब्राह्मणोन हन्तव्य” इत्या-
दिषु प्रतिषेधार्थं मन्यामहे” इति च शारीरकभाष्यम् ।

औदास्य न० उदास्ते उद् + आस--अच् तस्य भावः ष्यञ् ।

वैराग्ये रागशून्यतायाम् २ मनोयोगविरहे । “औदास्य
संविदबलम्बितशून्यमुद्रामस्मिन्दृशोर्निपतितामवगम्य
भैम्याः” नैष० “क्षौणीविलिखनहेतोर्वयमपि कुब्जाः किमौ-
दास्यम्” पद्यावली ।

औदुम्बरक पु० उदुम्बरस्य विषयोदेशः राजन्या० वुञ् ।

१ उदुम्बरविषये देशे । तस्य ससूह इत्यधिकारात्
राजन्या० वुञ् । २ तत्समूहे न० ।

औदुम्बरायण पुंस्त्री उदुम्बरस्य गोत्रापत्यम् नडा० फक् ।

उदुम्बरस्य गोत्रापत्ये । अनन्तरापत्येतु इञ् । औदुम्बरि
तदीयानन्तरापत्ये पुंस्त्री स्त्रियां ङीप् ।

औद्गात्र न० उद्गातुर्धर्म्म्यम् ऋदन्तत्वात् अञ् । उद्गातुः

ऋत्विग्भेदस्य १ धर्म्म्ये “स्वरित्यौद्गात्र आहवनीये”
कात्या० २५, १, ८, उद्गातृवेदविहिते भ्रेषे स्वरित्याह-
वनीये जुहोति” कर्कः । उद्गातुः कर्म्म मावो वा
उद्गात्रा० अण् । उद्गातुः उच्चैर्गानात्मके २ कर्म्मणि
३ तद्भावे च ।

औद्गाहमानि पुंस्त्री उदगाहमानस्यापत्यम् इञ् ततोयूनि

फक् तस्य पैला० लुक् । १ उद्गाहमानस्यापत्ये २ तदीये
युवापत्ये च स्त्रियां गौरा० ङीष् । ततो मवादौ गहा०
छ । औद्गाहमानीय तद्भवादौ त्रि० ।

औद्ग्रभण त्रि० उद्ग्रहणाय साधु अण् वेदेहस्य भः । ऊर्द्ध्व-

ग्रहणसाधने “सर्वाणि ह वै दीक्षायायजूंष्यौद्ग्रभणानि”
उद्गृभ्नीते वा एषोऽस्माल्लोकाद्देवलोकमभि यद्दीक्षते”
शत० ब्रा० ३, १, ४, १, “औद्ग्रभणानि जुहोति स्थाल्याः
स्रुवेणाकृत्या इति प्रतिमन्त्रम्” कात्या० ७, ३, १६ ।
भत्वाभावे औद्ग्रहणमप्यत्र ।

औद्दण्डक त्रि० उद्दण्डस्य सन्निकृष्टदेशादि अरीहणा० वुञ् ।

उद्दण्डसन्निकृष्टदेशादौ ।

औद्दालक न० उद्दालेन उद्दलनेन निर्वृत्तः अण् संज्ञायां

कन् । “प्रायो वल्मीकमध्यस्थाः कपिलाः स्वल्प-
कीटकाः । कुर्बन्ति कपिलं स्वल्पं तत् स्यादौद्दालकं मधु”
इत्युक्ते वल्मीककीटसम्भृते मधुनि “औद्दालकं रुचि-
करं स्वर्य्यं कुष्ठविषापहम् । कषायमुष्णमम्लञ्च कटुपाकञ्च
पित्तकृत्” तद्गुणा वैद्यकोफाः ज्ञेयाः ।
पृष्ठ १५७३

औद्दालकि पुंस्त्री उद्दालकस्यर्षेरपत्यस् इञ् । उद्दालका-

पत्ये गौतमे ऋषौ स्त्रियां मनुष्यजातित्वात् ङीष । ततः
यूनि फक् । औद्दालकायन तदीययुवापत्ये प्राच्यभरते
तु वह्वच्कत्वात् तस्य बहुषु लुक् । उद्दालकाः । तदीय-
युवापत्यानि प्राच्यानि भारतानि वा

औद्धत्य न० उद्धतस्य भावः । अविनीतभावे तच्च “असूयान्य

गुणर्द्धीनामौद्धत्याद्यसहिष्णता” सा० द० उक्तलक्षणम् ।

औद्धारिक त्रि० उद्धाराय उद्धृत्यदानाय प्रभवति ठञ् ।

विभागकाले उद्धारार्थं देये द्रव्यभेदे । “विप्रस्यौद्धारिकं
देयमेकांशश्च प्रधानतः” मनुः ।

औद्भारि पु० उद्भारस्यर्षेरपत्यम् इञ् । उद्भारर्षेः पुत्रे

खण्डिके ऋषौ । “खण्डिक एवौद्भारिरस्य प्रायश्चित्तं
वेद” शत० ब्रा० १, ८, ३४, १ ।

औद्भिज्ज न० उद्भिद्य जायते जन--ड स्वार्थेऽण् । पांशुलवणे राजनि० ।

औद्भिद न० उद्भिनत्ति उद् + भिद--क--स्वार्थेऽण् । १ पांशुलवणे ।

“औद्भिदं पांशुलवणं यज्जातं भूमितः स्वयम् । क्षारं
गुरु कटुस्निग्धं श्लेष्मलं वातनाशनमिति” तस्य गुणाः
“विदार्य्यमूमिं निम्नां यन्महत्या धारया स्रवेत् । तत्तोय-
मौद्भिदं नाम वदन्तीति महर्षयः” इत्युक्ते २ जलभेदे च
“औद्भिदं वारि पित्तघ्नमविदाह्यतिशीतलम् । प्रीणनं
मधुरं बल्यमीषद्वातकरं लघु” । वैद्यकान्तरम्
सुश्रुते आन्तरिक्षजलमुक्त्वा “तस्यालाभे भौमं तच्चाका-
शगुणबहुलं तत्पुनः सप्तविधम् । तद्यथा कौपं नादेयं
सारसं ताडाकं प्रास्रवणमौद्भिदंचौण्ठ्यमिति । तत्र
वर्षास्वान्तरिक्षमौद्भिदं वा सेवेत महागुणत्वात्” इत्यादि
उक्त्वा “कफघ्न दीपनं हृद्यं लघु प्रस्रवणोद्भवम् । मधुरं
पित्तशमनमविदाह्यौद्भिदम् स्मृतम्” । तद्गुणाः उक्ताः ।
औद्भिदलवणगुणास्तु तत्रैव । “लघु तीक्ष्णोष्णमुत्क्लेदि
सूक्ष्मं वातानुलोमनम् । सुतिक्तं कटुसंस्कारं विद्याल्लव-
णमौद्भिदम्”

औद्भिद्य न० उद्भिदोमावः ष्यञ् । वृक्षादीनामुत्पत्तौ ।

“जैत्रं च म औद्भिद्यं च मे यज्ञेन कल्पन्ताम्” यजु०
१८, ९, उद्भिदोभावः औद्भिद्यं चूतादितरोरुत्पत्तिः
वेददी० ।

औद्याव त्रि० उद्यावस्य व्याख्यानोग्रन्थः तत्र भवो वा

ऋगयना० अण् । १ उद्यावव्याख्यानग्रन्थे २ तत्र भवे च ।

औद्वाहिक त्रि० उद्वाहकाले लब्धं दीयते वा ठञ् ।

विवाहकाले १ लब्धे दीयमानेच “विद्याधनन्तु यद्यस्य तत्तस्यैव
धनं भवेत्! मैत्र्यमौद्वाहिकञ्चैव माधुपर्किकमेव च”
स्मृतिः “पितृद्रव्याविनाशेन यदन्यत् स्वयमर्ज्जयेत् ।
मैत्रमौद्धाहिकञ्चैव दायादानां न तद्भवेत्” याज्ञ० ।
तत्सर्व्वैरविभाज्यम् ।

औद्वेप त्रि० उद्वेप + चतुरर्य्याम् सङ्कला० अण् ।

उद्वेपेन १ निर्वृत्ते २ तत्सन्निकृष्टदेशादौ च

औधस त्रि० ऊधस इदम् अण् । ऊधः सम्बन्धिनि “यवसं

जग्ध्यनुदिनं नैव दोग्ध्यौधसं पयः” भाग० ४, १०, १९,
भवार्थे तु शरीरावयवत्वात् यत् ऊधस्यमित्येव ।
“जधस्यमिच्छामि तवोपभोक्त्वुम्” रघुः । औधस्यमिति
क्वचित् पाठः स्वार्थेऽणन्ततया समर्थ्यः ।

औन्नेत्र न० उन्नेतुः कर्म्म भावो वा उद्गात्रादि० अञ् ।

उन्नेतुः १ कर्म्मणि उन्नयने २ तद्भावे च । तस्य धार्म्माम्
ऋदन्तत्वात् अञ् । ३ उन्नेतुर्धर्म्म्ये च ।

औपकर्ण्णिक त्रि० उपकर्ण्णं प्रायभवः ठक् । कर्ण्णसमीपे

प्रायप्रभवे । “औपकर्ण्णिकलोचनः” । भट्टिः ।

औपकलाप्य त्रि० उपकलापं भवः परिमुस्वा० ञा ।

कलापसमीपभवे ।

औपकायन पुंस्त्री उपकस्य गोत्रापत्यं नडा० फक् । उपकस्य

गोत्रापत्ये । बहुत्वे द्वन्द्वेऽद्वन्द्वे च वा फको लुक् । उपका
उपकायनाः । उपकलामकाः औपकायनलामवायनाः ।

औपगव पुंस्त्री उपगतोगौरस्य उपगुर्गोपः तस्यापत्यम् अण् ।

१ गोपालकपुत्रे २ तद्याजिपुत्रे च लक्षणया उपगुशब्द-
स्तघाजिविप्रोऽपि उपगुशब्देनोच्यते “यं वर्ण्णं याजवेद्यस्तु
स तद्वर्ण्णत्वमाप्नुयात् । सद्योवर्षेणवर्षैश्चेत्येवमेवाब्रवीद्भृगुः”
हारीतोक्तेः । तत्सम्बन्धिनि ३ लक्षणे ४ अङ्के ५ संघे च
तस्यापत्ये तु स्त्रियां ङीष् । औपगवस्येदम् गोत्रचरणात्
वुञ्” पा० वुञ् । औपगवक औपगवसम्बन्धिनि “तत
आगत” इत्यधिकारे “गोत्रादङ्कवत्” पा० वुञ् । औपगवक
ततआगतेऽर्थे । तेषां समूहः गोत्रोक्षोष्ट्रेत्यादिना वुञ् ।
औपगवक तत्समूहे न० औपगवोभक्तिरस्य “गोत्रक्षत्रिया-
ख्येभ्यो बहुलम् वुञ्” पा० । औपगवक तद्भक्तियुक्ते त्रि

औपगवि पुंस्त्री उपगतो गां गिरं पतित्वेन उपगवोगीष्पति-

स्तस्यापत्यम् छात्रो वा इञ् । १ गीष्पतेरपत्ये २ तच्छात्रे
उद्धवे पु० “क्षणमिव पुलिने यमस्वसुस्तां समुषित
औपगविर्निशां ततोऽगात्” भाग० ३, ४, २८ “औपगविरुद्धवः”
श्रीधरः”

औपग्रस्तिक पु० उपग्रस्तं ग्रासकालं भूतः स्वसत्तया

व्याप्तः “तमधीश्चोभृतो भूतोभावो वा” पा० ठञ् ।
उपग्रासकालस्य स्वसत्तया व्यापके १ चन्द्रे २ सूर्य्ये च शब्दर०
पृष्ठ १५७४

औपच(ज)न्धनि पु० उपच(ज)न्धनस्यापत्यम् इञ् । शुक्लयज-

ब्राह्मण वंशीये ऋषिभेदे । “औपच(ज)न्धनेरौपच(ज)
न्धनिः” शत० १४, ५, ५, २१ । १४, ७, ३, २६, ब्राह्मणे च ।

औपचारिक पु० उपचार + स्वार्थे--विनयादि० ठक् ।

उपचारे उपचारश्च लक्षणया बोधनम् सेवनञ्च ।
उपचारः प्रयोजनमस्य ठञ् । उपचारहेतुके त्रि० ।
स्त्रियां ङीप् । औपकारिको उक्तिः ।

औपच्छन्दसिक त्रि० उपच्छन्दसा निर्वृत्तं बा० ठक् ।

उपच्छन्दनेन निर्वृत्ते । “आतन्वानं मुरारिकान्तास्वौप-
च्छसिकं हृदा विनोदम्” छन्दोमञ्ज० । “गड्विषमेऽष्टौ
समे कलास्ताश्च समे स्यु र्नो निरन्तराः । न समात्र
पराश्रिता कला” इति वैतालीयाद्यलक्षणयुक्ते “पर्य्यन्ते र्यौ
तथैव शेषमौपच्छसिकं सुधीभिः” वृ० र० उक्ते २ मात्रावृत्त
भेदे न० । “पुष्पिताग्राभिधं केचिदौपच्छसिकं विदुः”
इत्युक्ते ३ पुष्पिताग्राख्यवर्ण्णवृत्तछन्दोभेदे च ।

औपजानुक त्रि० उपजानु जानुसमीपे प्रायभवः ठक् । जा

नुसमीपपर्य्यन्तव्यापके “पाणी यस्यौपजानुकौ” भट्टिः ।

औपतस्विनि पु० उपतखिनस्यापत्यम् इञ् । उपतस्तिनस्या-

पत्ये रामनामके ऋषौ । “तदुहोवाच राम
औपतस्विनिः” शत० ब्रा० ४, ६, १, ७ ।

औपदेशिक त्रि० उपदेशेन जीवति वेतना० ठक् । उपदेशो-

पजीविनि । उपदेशेन प्राप्तः बा० ठक् । २ उपदेशेन प्राप्ते च

औपद्रविक त्रि० उपद्रवमधिकृत्य कृतोग्रन्थः ठक् । उपद्रवाधि-

कारेण सुश्रुतान्तर्गते ग्रन्थभेदे स च “अथात औप्रद्रविक-
मध्यायं व्याख्यास्यामः” इत्युपक्रम्य उत्तरतन्त्रार्गतः
सुश्रुतकृतः ।

औपद्रष्ट्र्य पु० उपद्रष्टृ + स्वार्थे ष्यञ् । पुरुषमेधीये

देवभेदे । “विविक्त्यै क्षत्तारम्, औपद्रष्ट्यायानुक्षत्तारम्”
यजु० ३०, ९३ । तत्र तदुद्देशेनानुक्षत्ता द्वारपालसेवकः
आलभ्यत्वेन विहितः ।

औपधर्म्म्य औपधर्म्म + स्वार्थे चातुर्व० ष्यञ् । अपकृष्टधर्मे ।

“लोकान् ध्नतां मतिविमोहमतिप्रलोभं वेशं विधाय बहु
भाष्यत औपधर्म्म्यम्” भाग० २, ७, ७८ ।

औपधेनव पु० उपगताधेनुरस्य तस्यापत्यम् अण् । सुश्रुतोक्ते

धन्वन्तरिं प्रति प्रश्नकारके ऋषिभेदे । “काशीराजं
दिवोदासं धन्वन्तरिमौपधेनववैतरणौरभ्रपुष्कलावतकर-
वीर्य्यगोपुररक्षितसुश्रुतप्रभृतयः ऊचुः । “औपघेनवमौ-
रम्रं सौश्रुतं पौष्कलावतम्” सुश्रु० ।

औपधेय न० उपधीयते इत्युपधिः रथाङ्गं ततः स्वार्थे ढञ । रथाङ्गे ।

औपनायनिक त्रि० उपनयनं प्रयोजनमस्य ठक् अनुश०

द्विपदवृद्धिः कुल्लू० वस्तुतः उपनायनशब्दोऽपि उपनय-
नार्थे प्रागुक्तः ततः ठक् इत्येव न्याय्यम् । उपनायन-
प्रयोजनके विधाने “एष प्रोक्तोद्विजातीनामौपनायनिको
विधिः” मनुः । उपनायनाय हितः ठक् । २ उपनयसाधने
च । २ ब्रह्मक्षत्रविशां काल औपनायनिकः परः” याज्ञ० ।

औपनासिक त्रि० उपनासं भवः ठञ् स्त्रियां ङीप् ।

नासासमीपभवे । “द्विर्द्वादश नासायां तासामौपनासिकाश्च-
तस्रस्ताः परिहरेत्” सुश्रुतः ।

औपनिधिक न० उपानधिरेव स्वार्थे ठक् । “वासनस्थमना-

ख्याय हस्तेऽन्यस्य यदर्प्यते । द्रव्यं तदौपनिधिकं प्रतिदेयं
तथैव तत्” याज्ञ० विवृतिरुपनिधिशब्दे दृश्या ।

औपनिषत्क त्रि० उपनिषदा तदुक्तोपदेशेन जीवति वेतना०

ठक् । उपनिषदुक्तोपदेशेनोपजीविनि ।

औपनिषद पु० उपनिषत्स्वेवाभिव्यज्य ते शैषिकोऽण् ।

उपनिषन्मात्रवेद्ये १ परमात्मनि । “तन्त्वौपनिषदं पुरुषं पृच्छा-
मि” वृ० उ० । उपनिषत् ब्रह्मविद्या तस्या इदम् । २ ब्रह्म-
प्रतिपादके वाक्यादौ स्त्रियां ङीप् । “विविधाश्चौप-
निषदीरात्मसंसिद्ध्वये श्रुतीः” मनुः । उपनिषदि भवः
प्रकाश्यः तस्याव्याख्यानो ग्रन्थोवा ऋगयना० अण् ।
उपनिषत्प्रकाश्ये ३ ब्रह्मणि तस्याव्याख्याने ४ ग्रन्थे च ।

औपनीविक त्रि० उपनीवि नीविसमीपे प्रायभवः ठक् ।

नीविसमीपे प्रायभवे “औपनीविकमरुन्ध किल स्त्री
वल्लभस्य करमात्मकराभ्याम्” माघः “बद्धोदुर्बलरक्षार्थम-
सिर्येनौपनीविकः” भट्टिः ।

औपपक्ष्य त्रि० उपपक्षं बाहुमूलं तस्येदम् ष्यञ् । बाहु-

मूलसम्बन्धिनि । “तस्मादिमाः प्रजा लोमशा जायन्ते
यस्मादासां पुनरिव श्मश्रूण्योपपक्ष्याणि दुर्वीरणानि
जायन्ते” शत० ब्रा० ११, ४, १, ६ । “उपपक्षं बाहुमूलं
तत्सम्बन्धीनि” भा० ।

औपपत्तिक त्रि० उपपत्त्या कल्पितम् ठक् । उपपत्त्या १ कल्पिते

२ युक्ते । “औपपत्तिकमाहारं प्रयच्छस्वेति भारत!”
भा० अनु० ९२ अ० ।

औपपातिक त्रि० उपपातेन उपपातकेन गोबधादिना

संसृष्टः ठक् । उपपातकैः संसृष्टे “पितृद्विट् पतितः
षण्डो यश्च स्यादौपपातिकः” नार० “यश्च स्यादुपपात-
कीति” प्रकाशवृत पाठः ।

औपबाहवि पुंस्त्री उपवाहोरपत्यम् बाह्वा० इञ् । उचगत बाहोरपत्ये ।

पृष्ठ १५७५

औपभृत त्रि० उपभूता पात्रेण सञ्चितः शैषिकोऽल् । १

उपभृत्पात्रेण सञ्चिते हविरादौ । “ब्रह्मानुज्ञातोऽनुयाजै-
स्त्रिभिश्चरत्यौपभृतं समानीय” कात्या० ३, ५,
२ अव्यर्य्यु रौपभूतमाज्यं सशेषं जुह्वां समानीय” कर्कः ।
तस्येदम् अण् । २ उपभृत्सम्बन्धिनि “औपभृतासादनम्”
कात्या० ५, ४, २८, औपभृतमुपभृत्सम्बन्ध्यासादनम्”
कर्कः । “सव्या श्रोणिरित्यौपभृतानि” कात्या० ६, ७, ७ ।

औपमन्यव पुंस्त्री उपमन्योरपत्यं विदा० अञ् ।

उपमन्योरपत्ये स्त्रियां ङीप् । “प्राचीनशालऔपमन्यवः
सत्ययज्ञः पौलुषिः” । “औपमन्यव! किं त्वमात्मान
मुपास्स्व?” इति च छा० उ० ।

औपमिक त्रि० उपमया निर्द्दिष्टः ठक् । उपमयानिर्द्दिष्टे ।

“अभ्रातृकाया इत्यनिवाहि औपमिकः” “मधु सोममि
त्यौपमिकं माद्यतेः” “पीपिलिकामध्येत्यौपमिकं
पीपिलिका पेलतेर्गतकः” इति च निरु० ।

औपम्य न० उपमा + चातु स्वार्थेष्यञ् । १ उपमायाम्

२ सादृश्ये “प्राणा यथा नोऽभीष्टा भूतानामपि ते तथा ।
आत्मौपम्येन सर्वत्र यां कुर्वन्ति साधवः” हितोप० ।
“आत्मौगम्येन सर्व्वत्रं गीता “सा पूर्णा यदि सामान्य-
धर्म्म औपम्यवाचि च” । “औपम्यवाचिनो लोपसमासे
तद्धिते द्विधा” इति च सा० द० ।

औपयज त्रि० उपयजैदम् अण् । उपयजः सम्बन्धिनि उप

यट् च तच्छब्दे दर्शितः । “मार्जिते प्रेष्यत्यग्नीदौपय-
जानङ्गारानाहरति” कात्या० ६, ९, ७,

औपयिक त्रि० उप + अय--घञ् उपायस्तेन लब्धः ठक्

ह्रस्वश्च । १ उपायलब्धे, २ युक्ते न्यायागतबस्तुनि च ।
“एतत्तव महाराज! पुत्रेषु तेषु चैव हि । वृत्तमौपयिकं
मन्ये भीष्मेण सह भारत!” भा० आ० २०४ अ० । स्त्रियां
ङीप्र । “नचैवौपयिकी भार्य्या मानुषी कृपणा तव”
भा० व० २८० अ० “यदत्रौपयिकं कार्य्यं तच्चिन्तयि-
तुमर्हसि” भा० उ० १७७ अ० । उपायएव विनया०
स्वार्थे ठक् ह्रस्वश्च । ३ उपाये पु० । “शिवमौपयिकं
गरीयसीम्” किरा० । “औपयिकम् उपायम्” मल्लि० ।

औपयौगिक त्रि० उपयोगः प्रयीजनमस्य ठञ् । उपयोग-

निमित्ते “अथातः स्नेहौपयौगिकं चिकित्सितं व्याख्या-
स्यामः” सुश्रु० स्त्रियां ङीष् ।

औपरिष्ट त्रि० उपरिष्टात् भवः अण् । अमेहक्वतसित्रेभ्य

एव” वार्त्ति० नियमात् न त्यप् टिलोपः । उपरिष्टाद्भवे ।

औपरोधिक त्रि० उपरोधः प्रयोजनमस्य ठक् । १ उपरोध-

निमित्ते २ पैलवे दण्डे पु० हेमच० ।

औपल त्नि० उपलादागतः शुण्डिका० अण् । १ आयस्थान

रूपोपलादागते । उपलस्येदम् अण् । २ प्रस्तरसम्बन्धिनि
“यथा प्लवेनौपलेन निमज्जत्युदके तरन्” मनुः ।

औपवसथिक त्रि० उपवसथे भवः ठञ् । उपवसथकर्त्तव्ये

कर्म्मादौ । उपवसथश्च ग्रामः यागपूर्वदिवसश्च उपवसथ-
शब्दे उक्तः । ष्यञ् औपवसथ्य तत्रार्थे । “अग्निप्रणयनीया
औपवसथ्येऽनियमः” आश्व० श्रौ० ४, १, २६ । स्वार्थे
ष्यञ् । “यागपूर्ब्बदिने च । “औपवसथ्येऽह्नि” श्रुतिः ।

औपवस्त्र न० उपवस्त्रमेव प्रज्ञा० अण् । १ उपवस्त्रे

उपवस्तुः कर्म अण् । २ उपवासे । उपवस्ता प्राप्तोऽस्येति
विगृह्य “ऋतोरण्” पा० सूत्रप्रदर्शनं प्रामादिकमेव ।
तत्र ऋतुशब्दस्यैव ग्रहणं न तु ऋदन्तस्य तथात्वे
ऋतोऽण् इत्येव स्यात् आर्त्तवमित्युदाहरणं चासङ्गतम् इति
बोध्यम् “माषान् मधुमसूरांश्च वर्ज्जवेदौपवस्त्रकृत्” स्मृतिः

औपवास त्रि० उपवासे दीयते व्युष्टा० अण् । उपवास-

व्रते दीयमाने द्रव्ये ।

औपवासिक त्रि० उपवासे साघु गुडा० ठञ् । १ उपवासे

साधौ । तस्मै प्रभवति सन्तापा० ठञ् । २ उपवाससमर्थे च

औपवास्य न० उपवास + चातुर्व० स्वार्थेष्यञ् । उपवासे

“लक्ष्मणेन यदानीतं पीत्वा वारि समाहितः ।
औपवास्यं तदाऽकार्षीद्राघवः सह सीतया” रामा० ।

औपवाह्य पु० उपवाह्य एव स्वार्थेऽण् । उपवाहने रथादौ

“औपबाह्यः कुवेरस्य सार्वभौम इनि श्रुतः” रामा० ।
सर्वासु भूमिषु विदितः अण् । सार्वभौम इत्यर्थः ।

औपविन्दवि पुंस्त्री । उपविन्दोरपत्यम् बाह्वा० इञ् ।

उपविन्दोरपत्ये स्त्रियां ङीप् ।

औपवेशिक त्रि० उपवेशेन जीवति वेतना० ठञ् । उपवेशेनोपजीविनि ।

औपश्लेषिक त्रि० उपश्लेषेण निर्वृत्तः ठक् । एकदेशेन

सम्बद्धे आधारभेदे “औपश्लेषिको वैषयिकोऽभिव्यापक-
श्चेत्याधार स्त्रिधा” सि० कौ० ।

औपसंक्रमण त्रि० उपसंक्रमणे दीयते व्युष्टा० अण् ।

उपसंक्रमणे देये स्त्रियां ङीप् ।

औपसद पु० उपसच्छब्दोऽस्मिन्नस्ति विमुक्ता० अण् ।

उपसच्छब्दयुक्ते १ स्वाधाये २ अनुवाके च । उपसत् समीपस्थानं
तदस्त्यस्य प्रज्ञा० अण् । ३ द्वन्द्वे “प्रजापतिकामस्यौ-
पसदः” कात्या० २२, १०, १३ । “औपसदोद्वन्द्वः” कर्कः
पृष्ठ १५७६

औपसर्गिक त्रि० उपसर्गाय प्रभवति सन्तापा० ठञ् ।

उपसर्गसमर्थे । स च सुश्रुतोक्तः रोगभदः यथा “व्याधि-
विशेषास्तु प्रागभिहिताः सर्व एवैते त्रिविधाः साध्या
याप्याः प्रत्याख्येयाश्च तत्रैतान् भूयस्त्रिधा परीक्षेत
किमसावौपसर्गिकः प्राक्कबलोऽन्यलक्षण इति तत्रौप-
सर्गिको यः पूर्वोत्पन्नं व्याधिं जघन्यकालजातो व्याधि-
रुपसृजति स तन्मूल एवोपद्रव सम्भवः” इति । वैद्यकान्तरे
तु “कफोऽनुलोमवातेन यदि पित्तानुगो भवेत् । स्वेद-
शैत्यादिभिर्जुष्टस्तदा भवति मानवः । प्रतिलोमः पुनस्तेन
स्वास्थ्यमायाति तत्क्षणात् । औपसर्गिक एवान्यः सन्निपात
उदाहृतः” इत्युक्ते २ वातादिसन्निपाते च । ३ दैवारिष्ट
सूचके ग्रहदौस्थ्यादौ । ४ उपसर्गसम्बन्धिनि त्रि० शब्द-
कल्पद्रुमः । तन्मूलं मृग्यम् सम्बन्धिन्यर्थे ठकोऽस्मरणात्
कोषान्तराभावाच्च ।

औपस्थान त्रि० उपस्थानं शीलमस्य छत्रा० ण । उपस्थानधीले उपासके ।

औपस्थानिक त्रि० उपस्थानेन सेवनेन जीवति वेतनां०

ठक् । सेवनोपजीविनि ।

औपस्थ्य न० उपस्थस्य भावः कर्म्म वा ष्यञ् । उपस्थव्यापार-

साध्ये सुखे । “औपस्थ्यजैह्म्यकार्पण्यात्” भाग० ७, १५, १६
“औपस्थ्यजैह्म्यं बहु मन्यमानः” भाग० ७, ६, १४ ।
औपस्थ्यंशैश्न्यं जैह्यञ्च सुखम्” श्रीधरः ।

औपहारिक त्रि० उपहाराय साधु ठक् । उपहारार्थे द्रव्ये

“परमान्नेन यो दद्यात् पितॄणामौपाहारिकम्” भा०
अनु० ६०३० श्लो० ।

औपाधिक त्रि० तेन निर्वृत्तः बा० ठञ् । उपाधिकृते

स्त्रियां ङीप् “रूढं सङ्केतवन्नाम सैव संज्ञेति कीर्त्त्यते ।
नैमित्तिकी पारिभाषिक्यौपाधिक्यपि तद्भिदा” शब्दश०
पुरुषस्य बन्धस्तु औपाधिक एव न नैमित्तिकः नापि
तात्त्विकः इत्येतत् सां० सू० माष्ययोर्मिर्ण्णीतं यथा
“न स्वभावतो वद्धस्य मोक्षसाधनोपदेशविधिः” सू०
“दुःखात्यन्तनिवृत्तेर्मोक्षत्वस्योक्ततया बन्धोऽत्र दुःखयो-
गएव तस्य बन्धस्य पुरुषे न स्वांभाविकत्वं वक्ष्यमाणलक्षण
णमस्ति यतो न स्वभावतो बद्धस्य मोक्षाय साधनोपदेश-
स्य विधिरनुष्ठानं नियोज्यानां घटते । न ह्यग्नेः स्वा
भाविकादौष्ण्यान्मोक्षः सम्भवति । स्वाभाविकस्थ यावद्-
द्रव्यभावित्वादित्यर्थः । तदुक्तमीश्वरगीतायाम् ।
“यद्यात्मा मलिनोऽस्वच्छो विकारी स्यात् स्वभावतः ।
न हि तस्य भवेन्मुक्तिर्जन्मान्तरशतैरपि” ।


“यस्मिन् सति कारणविलम्बाद्विलम्बो यस्योत्पत्तौ
न भवति तस्य तत् स्वाभाविकमिति स्वाभाविकत्व
लक्षणम् । ननु सर्वदोपलम्भापत्तेर्दुःखस्य स्वाभाविकत्व-
शङ्कैव नास्तीति चेन्न त्रिगुणात्मकत्वेन चित्तस्य दुःख-
स्वभावत्वेऽपि सत्वाधिक्येनाभिभवात् सदा दुःखानुपलब्धि-
वदात्मनोऽपि तदनुपलब्धिसम्भवात् । दुःखस्वाभाविकत्व-
वादिभिर्बौर्द्धश्चित्तस्यैवात्मताभ्युपगमाच्च । अथैवमात्मना-
शादेव मोक्षोऽस्त्विति चेन्न । अहं बद्धो विमुक्तः स्यामिति
बन्धसामानाधिकरण्येनैव मोक्षस्य पुरुषार्थत्वादिति ।
मवत्वननुष्ठानं तेन किमित्यत आह” भा० ।
“स्वभावस्यानपायित्वादननुष्ठानलक्षणमप्रामाण्यम्” सू० ।
“स्वभावस्य यावद्द्रव्यभावित्वान्मोक्षासम्भवेन तत्साध-
नोपदेशश्रुतेरननुष्ठानलक्षणमप्रामाण्यं स्यादित्यर्थः भा० ।
ननु श्रुतिबलादेवानुष्ठानं स्यात् तत्राह ।
“नाशक्योपदेशविधिरुपदिष्टेऽप्यनुपदेशः” सू० ।
“नाशक्याय फलायोपदेशस्यानुष्ठानं सम्भवति । यत
उपदिष्टेऽपि विहितेऽप्यशक्यओपाये स उपदेशो न भवति ।
किन्तूपदेशाभास एव “बाधितमर्थं वेदोऽपि न बोधय-
तीति” न्यायादित्यर्थः” भा० । अत्र शङ्कते ।
“शुक्लपटवद्वीजवच्चेत्” सू० ।
“ननु स्वाभाविकस्याप्यपायो दृश्यते । यथा शुक्लपटस्य
स्वाभाविकं शौक्ल्यं रागेणापनीयते । यथा च वोजस्य
स्वाभाविक्यप्यङ्कुरशक्तिरग्निनापनीयते । अतः शुक्लपट
वद्बीजवच्च स्वाभाविकस्य बन्धस्याप्यपायः पुरुषे सम्भवतीति
तद्वदेव तत्साधनोपदेशः स्यादिति चेदित्यर्थः” भा०
समाधत्ते ।
“शक्त्युद्भवानुद्भवाभ्यां नाशक्योपदेशः” सू० ।
“उक्तदृष्टान्तयोरपि नाशक्याय स्वाभाविकायोप
देशो लोकानां मवति । कुतः शक्त्यद्भवानुद्भवाभ्याम्
दृष्टान्तद्वये हि शौक्ल्यादेराविर्भावतिरोभावावेव भवतः
न तु शौक्ल्याङ्कुरशक्त्योरभावो भवति । रजकादिव्यापा-
रैर्योगिसङ्कल्पादिभिश्च रक्तपटभृष्टवीजयोः पुनः शौक्ल्याङ्कु-
रशक्त्याविर्भावादित्यर्थः । नन्वेवं पुरुषेऽपि दुःखशक्तिति-
रोभाव एव मोक्षोऽस्त्विति चेन्न दुःखात्यन्तनिवृत्तेरेव लोके
पुरुषर्थत्वानुमानात् श्रुतिस्मृत्योः पुरुषार्थत्वसिद्धेश्च न तु
दृष्टान्तयोरिव तिरोभावमात्रस्येति । किञ्च दुःखशक्तिति-
रीभावमात्रस्य मोक्षत्वे कदाचिद्यीगीश्वरसङ्कल्पादिना
शक्त्युद्भवस्य भृष्टवीजेष्विव मुक्तेष्वपि सम्भवेनानिर्मोक्षाप-
पृष्ठ १५७७
त्तिरिति” मा० । स्वभावतो बन्धं निराकृत्य निमित्तेभ्यो-
ऽपि बन्धमपाकरोति सूत्रजातेन । पुरुषे दुःखस्य नैमि-
त्तिकत्वे ज्ञानाद्युपायोच्छेद्यत्वं न घटेत । अनागता-
वस्थसूक्ष्मदुःखस्य यावद्द्रव्यभावित्वादित्याशयेन नैमित्ति-
कत्वं निराक्रियते ।
“न कालयोगतो व्यापिनो नित्यस्य सर्वसम्बन्धात्” सू० ।
“नापि कालसम्बन्धनिमित्तकः पुरुषस्य बन्धः कुतः?
व्यापिनो नित्यस्य कालस्य सर्व्वावच्छेदेन सर्व्वदा मुक्ता-
मुक्तसकलपुरुषसम्बन्धात् सर्व्वावच्छेदेन सदा
सकलपुरुषाणां बन्धाषत्तेरित्यर्थः । अत्र च प्रकरणे कालदेश-
कर्मादीनां निमित्तत्वसामान्यं नापलप्यते श्रुतिस्मृतियुक्ति-
मिः सिद्धत्वात् । किन्तु यन्नैमित्तिकत्वं पाकजरूपादिव-
न्निमित्तजन्यत्वं तदेब बन्धे प्रतिषिध्यते पुरुषे बन्धस्यौपाधि-
कत्वाभ्युपगमात् । ननु कालादिनिमित्तकत्वेऽपि सहकार्य-
न्तरसम्भवासम्भवाभ्यां व्यवस्था स्यादिति चेत् एवं सति
यत्संयोगे सत्यवश्यं बन्धस्तत्रैव सहकःरिणि लाघवाद्बन्धो
युक्तः पुरुषे बन्धव्यवहारस्यौपाधिकत्वेनाप्युपपत्तेरिति कृतं
नैमित्तिकत्वेनेति” भा० “न देशयोगतोऽप्यस्मात्” सू० ।
“देशयोगतोऽपि न बन्धः कुतः? अस्मात् पूर्व्वसूत्रो-
क्तान्मुक्तामुक्तसर्व्वपुरुषसम्बन्धात् मुक्तस्यापि बन्धापत्तेरि-
त्यर्थः” भा० ।
“नावस्थातो देहघर्मत्वात् तस्याः” सू० ।
“सङ्घातविशेषरूपताख्या देहरूपा यावस्था न तन्निमि-
चतोऽपि पुरुषस्य बन्धः । कुतः? तस्या अवस्थाया
देहधर्मत्वात् अचेतनधर्मत्वादित्यर्थः । अन्यधर्मस्य साक्षाद-
न्यबन्धकत्वेऽतिप्रसङ्गात् । मुक्तस्यापि बन्धापत्तेरित्यर्थः”
भा० । ननु पुरुषस्याप्यवस्थायां किं बाधकं तत्राह ।
“असङ्गोऽयं पुरुष इति” सू० ।
“इति शब्दो हेत्वर्थे । पुरुषस्यासङ्गत्वादवस्थाया
देहमात्रधर्मत्वमिति पूर्वसूत्रेणान्वयः । पुरुषस्यावस्थारूप-
विकारस्वीकारे विकारहेतुसंयोगाख्यः सङ्गः प्रसज्येतेति
भावः । असङ्गत्वे च श्रुतिः । “स यदत्र किञ्चित् पश्य-
त्यनन्वागतस्तेन भवति असङ्गो ह्ययं पुरुष” इति । सङ्गश्च
संयोगमात्रं न भवति । कालदेशसम्बन्धस्य पूर्वमुक्तत्वात् ।
श्रतिस्मृतिषु पद्मपत्रस्थजलेनेव पद्मपत्रस्यासङ्गतायाः पुरु
षासङ्गतायां दृष्टान्तताश्रवणाच्च” भा० ।
“न कर्मणान्यधर्मत्वादतिप्रसक्तेश्च” सू० ।
“न हि बिहितनिषिद्धकर्मणापि पुरुषस्य बन्धः कर्म
णामनात्मधर्मत्वात् । अन्यधर्मेण साक्षादन्यस्य बन्धे च
मुक्तस्यापि बन्धापत्तेः । ननु स्वस्वोपाधिकर्मणा बन्धाङ्गी-
कारे नायं दोष इत्याशयेन हेत्वन्तरमाह । अतिप्रसक्ते-
श्चेति । प्रलयादावपि दुःखयोगरूपबन्धापत्तेश्चेत्यर्थः । सह
कार्य्यन्तरविलम्बतो विलम्बकल्पनं च प्रागेव निराकृतं न
कालयोगत इत्यादिसूत्र इति” भा० ।
नन्वेवं दुःखयेगरूपोऽपि बन्धः कर्मसामानाधिकर-
ण्यानुरोधेन चित्तस्यैवास्तु दुःखस्य चित्तधर्मतायाः सिद्ध-
त्वात् । किमर्थं पुरुषस्यापि कल्प्यते बन्ध इत्याशङ्कायामाह
“विचित्रभोगानुपपत्तिरन्यधर्मत्वे” सू० ।
“दुःखयोगरूपबन्धस्य चित्तमात्रधर्मत्वे विचित्रभोगानुप-
पत्तिः । पुरुषस्य हि दुःखयोगं विनापि दुःखसाक्षात्का-
राख्यभोगस्वीकारे सर्व्वपुरुषदुःखादीनां सर्वपुरुषभोग्यता
स्यान्नियामकाभावात् । ततश्चायं दुःखभोक्तायं च
सुखभोक्तेत्यादिरूपभीगवैचित्र्यं नोपपद्येतेत्यर्थः । अतो
भोगवैचित्र्योपपत्तये भोगनियामकतया दुःखादियोगरूपो
बन्धः पुरुषेऽपि स्वीकार्यः । स च पुरुषे दुःखयोगः
प्रतिविम्बरूप एवेति प्रागेवोक्तम् । प्रतिविम्बश्च स्वोपाधि-
वृत्तेरेव भवतीति न सर्वपुंसां सर्वदुःखभोगः इति भावः ।
“चित्तवृत्तिभोगे च पुरुषस्यानादिः स्वस्वामिभावः सम्बन्धो
हेतुरिति” योगभाष्यादयं सिद्धान्तः सिद्धः । चित्ते च पुरु-
षस्य स्वत्वं स्वभुक्तवृत्तिवासनावत्त्वमिति । यत त चित्त-
स्यैव बन्धमोक्षौ न पुरुषस्येति श्रुतिस्मृतिषु गीयते तद्विम्ब-
रूपदुःखयोगरूपं पारमार्थिकं बन्धमादाय बोध्यम्” भा० ।
साक्षात् प्रकृतिनिमित्तकत्वमपि बन्धस्यापाकरोति ।
“प्रकृतिनिबन्धनाच्चेन्न तस्या अपि पारतन्त्र्यम्” सू० ।
“ननु प्रकृतिनिमित्ताद्बन्धो भवत्विति चेन्न यतस्तस्या
अपि बन्थकत्वे संयोगपारतन्त्र्यमुत्तरत्र वक्ष्यमाणमस्ति ।
संयोगविशेषं विनापि बन्धकत्वे प्रलयादावपि दुःखसम्बन्धप्रस-
ङ्गादित्यर्थः । प्रकृतिनिबन्धना चेदिति पाठे तु प्रकृतिनि-
बन्धना चेद्बद्धतेत्यर्थः” भा० । अतो यत्परतन्त्रा प्रकृ-
तिर्बन्धकारणं सम्भवेत् तस्मादेव संयोगविशेषादौपाधिको
बन्धोऽग्निसंयोगाज्जलौष्ण्यवदिति स्वसिद्धान्तमनेनैव प्रस-
ङ्गेनान्तराल एवावधारयति ।
“न नित्यशुद्धबुद्धमुक्तस्वभावस्य तद्योगस्तद्योगादृते” सू० ।
“तस्मात् तद्योगादृते प्रकृतिसंयोगं विना न पुरुषस्य
तद्योगो बन्धसम्पर्कोऽस्ति । अपि तु स एव बन्धहेतुः । बन्ध-
स्यौपाधिकत्वलाभाय नञ्द्वयेन वक्रोक्ति । यदि हि बन्धः
पृष्ठ १५७८
प्रकृतिसंयोगजन्यः स्यात् पाकजरूपवत् तदा तद्बदेब
तद्वियोगेऽप्यनुवर्त्तेत । न च द्वितीयक्षणादेर्दुःखनाशकत्वं
कल्प्यं कारणनाशस्य कार्यनाशकतायाः कॢप्तत्वेन तेनैवो-
पपत्तावधिकाऽकल्पनात् । वृत्तिर्हि दुःखादेरुपादानम् ।
अतो दीपशिखावत् क्षणभद्भुराया वृत्तेराशुविनाशित्वेनैव
तद्धर्माणां दुःखेच्छादीनां विनाशः सम्भवतीति । अतः
प्रकृतिवियोगे बन्धाभावादौपाधिक एव बन्धो न तु स्वाभा-
विको नैमित्तिको वेति । तथा तत्संयोगनिवृत्तिरेव
साक्षाद्धानोपाय इत्यपि वक्रोक्तिफलम् । तथा च स्मृतिः
“यथा ज्वलद्गृहाश्लिष्टं गृहं विच्छिद्य रक्ष्यते ।
तथा सदोषप्रकृतिविच्छिन्नोऽयं न शोचति” ।
वैशेपिकाणामिव पारमार्थिको दुःखयोग इति भ्रमो मा
भूदित्येतदर्थं नित्येत्यादि । यथा स्वभावशुद्धस्य स्फटिकस्य
रागयोगो न जपायोगं विना घटते तथैव नित्यशुद्धा-
दिस्वभावस्य पुरुषस्योपाधिसंयोगं विना दुःखसंयोगो न
घटते स्वतो दुःखाद्यसम्भवादित्यर्थः तथाह सौरे
“यथा हि केवलो रक्तः स्फटिको लक्ष्यते जनैः” ।
रञ्जकाद्युपधानेन तद्वत् परमपूरुषः” ।
नित्यत्वं कालानवच्छिन्नत्वम् । शुद्धादिस्वभावत्वं च
नित्यशुद्धत्वादिकम् । तत्र नित्यशुद्धत्वं सदा
पापपुण्यशून्यत्वम् । नित्यबुद्धत्वमलुप्तचिद्रूपत्वम् । नित्य-
मुक्तत्वं सदा पारमार्थिकदुःखायुक्तत्वम् । प्रतिविम्बरूपदुः-
खयोगस्त्वपारगार्थिको बन्धः इति भावः । आत्मनो
नित्यशुद्धत्वादौ च श्रुतिः । “अयमात्मा सन्मात्रो नित्य
शुद्धः बुद्धः सत्यो मुक्तो निरञ्जनो विभुरित्यादिः” भा० ।
अयमेव पक्षो वेदान्तिभिरप्यङ्गीकृतः “तद्गुणसारत्वा-
दित्यादि” शा० सूत्रभाष्ये “न हि बुद्धेर्गुणैर्विना केवल-
स्यात्मनः संसारित्वमस्ति बुद्ध्युपाधिधर्म्माध्यासनिमित्तं
हि कर्त्तृत्वभोक्तृत्वलक्षणं संसारित्वमकर्त्तुरभोक्तुश्चासंसा-
रिणोनित्यमुक्तस्य सत आत्मनः” इति “यावदात्मभावि-
त्वादित्यादि” शा० सूत्रभाष्ये च “यावदेव चायं बुद्ध्यु-
पाधिसम्बन्धस्तावदेव चास्य जीवत्वं संसारित्वञ्च ।
परमार्थतस्तु न जीवोनाम बुद्ध्युपाधिपरिकल्पितस्वरूपव्यति-
रेकेण” इति च संसारित्वस्य बुद्ध्युपाधिसंबन्धाधीनतयौपा-
धिकत्वस्योक्तेः । इवांस्तु विशेषः एतन्मते बन्धस्येव जीवभेद-
स्यापि औपाधिकत्वं तदपि शां० सू० भाष्ययोर्निर्ण्णीतं यथा
“अतएव चोपमा(जल)सुर्य्यकादिवत्” सू० “अतएव
चायमात्मा चैतन्यस्वरूपोनिर्विशेषो वाङ्मनसातीतः परप्रति-
षेधेनोपदिश्यते अतएव चास्योपाधिनिमित्तामपारमार्थि-
कीं विशेषवत्तामभिप्रेत्य जलसूर्य्यकादिवदित्युपमोपा
दीयते मोक्षशास्त्रेषु “यथाह्ययं ज्योतिरात्मा विवस्वानपो-
भिन्ना बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपोदेवः
क्षेत्रेष्वेवमजोऽयमात्मेति” । “एकएव तु भूतात्मा भूते
भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवदिति
चैवमादिषु । अत्र पत्यवस्थीयते” भा० । “अम्बुवदग्रहणा-
त्तु न तथात्वम्” सू० । “न जलसूर्य्यादितुल्यत्वमिहोपपद्यते
तद्वदग्रहणात् । सूर्य्यादिभ्योहि मूर्त्तेभ्यः पृथगभूतं विप्र-
कृष्टदेशं मूर्त्तञ्च जलं गृह्यते तत्र युक्तः सूर्य्यादिप्रति-
विम्बोदयोनत्वात्मा मूर्त्तः नचास्मात् पृथग्भूता विप्रकृष्टदेशा-
श्चोपाधयः, सर्व्वगतत्वात् सर्व्वानन्यत्वाच्च तस्मादयुक्तोऽयं
दृष्टान्त इति । अत्र प्रतिविधीयते । भा० “वृद्ध्विह्रासमात्र
मन्तर्भावादुभयसामञ्जस्यादेवम्” सू० । युक्त एव त्वयं दृष्टान्तः
विवक्षितांशसम्भवात् न हि दृष्टान्तदार्ष्टान्तिकयोः क्वचित्-
कञ्चिद्विवक्षितममंशं मुक्त्वा सर्व्वसारूप्यं केनचिद्दर्शयितुं
शक्यते सर्व्वसारूप्ये हृइ दृष्टान्तदार्ष्टान्तिकभावोच्छेद एव
स्यात् । न चेदं स्वमनीषया जलसूर्य्यकादिदृष्टान्तप्रणय
नम् । शास्त्रप्रणीतस्य त्वस्य प्रयोजनमात्रमुपन्यस्यते । किंपु-
नरत्र विवक्षितं सारूप्यमिति? तदुच्यते वृद्धिह्रासमात्रमि
ति । जलगतं हि सूर्य्यप्रतिविम्बं जलवृद्धौ वर्द्धते
जलह्रासे ह्रसते जलचलने चलति जलभेदे भिद्यते इत्येवं
जलधर्म्मानुविधायि भवति न तु परमार्थतः सूर्य्यस्य
तथात्वमस्ति एवं परमार्थतोऽविकृतमेकरूपमपि सद्ब्यह्म देहा-
द्युपाध्यन्तर्भावाद्भजतएवोपाधिधर्म्मान् वृद्धिह्नासादीन्
एवमुभयोर्दृष्टान्तदार्ष्टान्तिकयोः सामञ्जस्यादविरोधः” भा० ।
“दर्शनाच्च” सू० । “दर्शयति च श्रुतिः परस्यैव ब्रह्मणोदेहादिषु
पाधिष्वनुप्रवेशम् “पुरः स चक्रे द्विपदः पुरश्चक्रे चतुष्-
पदः । पुरः स पक्षी भूत्वा पुरः पुरुष अविशदिति”
“अनेन जीवेनात्मनानुप्रविश्येति” च तद्युक्तमेतत्” ।
उपाधिरेव विनया० स्वार्थे ठञ् । साध्यसमव्यापकत्वे सति
साधनाव्यापकत्वरूपे प्रागुक्ते उपाधौ “अनौपाधिको-
व्याप्तिः”, अनुमा० चि० ।

औपाध्यायक त्रि० उपाध्यायादागतः वुञ् । उपाध्यायाल्लब्धे

औपानह्य पु० उपानहे अयम् । “तिदर्थं विकृतेः प्रकृतौ” पा०

इत्यधिकारे ञ्य । उपनद्रूपविकारसाधने तत्प्रकतौ १ मुञ्जे
२ चर्म्मणि न० ।

औपावि पुंस्त्री उपावस्यापत्यम् इञ् । उपावर्षेरपत्ये

“तत्र औपाविनैव जानश्रुतायनेन प्रत्यवरूढम्” शत०
ब्रा० ५, १, १, ५ । स्त्रियां ङीप् ।
पृष्ठ १५७९

औपासन त्रि० उपास्यते प्रतिदिनमित्युपासनो गृह्यो-

ऽग्निस्तत्र भवः अण् । गृह्याग्नौ कर्त्तव्ये सायंप्रात-
र्होमादौ कर्म्मणि । गृह्याग्निश्च विवाहाग्निः ।
तत्र कर्त्तव्यं दर्शितं “नौपासनश्रुतेः” कात्या ०१, १, २,
“यदुक्तम् वैतानिकेष्वेवाग्निषुश्रौतं स्मार्तं च कर्त्तव्यमिति
तन्न कुतः? औपासनश्रुतेः यत आहिताग्नेरप्यौपासनः
श्रूयते पितृमेधे “अद्वारेणौपासनं निरस्यतीति” यदि स्मार्त-
मपि वैतानिकेष्वेव क्रियते तदा आहिताग्नेः पितृमेधे
औपासनदर्शनं न स्यात् अस्ति च । तस्मात् स्मार्त्तान्यौपा-
सने कर्त्तव्यानीति तथा च स्मृतिः स्मार्त्तं कर्म्म विवाहाग्नौ
कुर्व्वीत प्रत्यहं गृही । दायकालाहृते वापि श्रौतं वैतानि-
काग्निष्विति” । “तस्मिन् गृह्याणीत्यापस्तम्बस्मरणाच्च” ।
गृहाय हितं गृह्यम् गृहशब्दश्च दम्पत्योर्वर्त्तते तस्मि-
न्नित्यावसथ्ये । अतश्च यत्किञ्चिद्दम्पत्योर्हितं कर्म शान्तिक
पौष्टिक व्रताङ्गहोमादिकं स्मार्त्तं तत् सर्वमावसथ्येऽग्नौ
भवतीति । तथा च खादिरगृह्यसूत्रकारिकायाम्
“होमानात्मार्थपत्न्यर्थान् कृत्स्नानौपासने न च । परार्थाने-
कदेशेऽग्नौ स चान्ते लौकिको भवेत्” अत एव कात्यायनः
(कर्मप्रदापे) “न स्वेऽग्नावन्यहोमः स्यान्मुक्त्वैकां समिदाहु-
तिम् । स्वकर्म्म सत्क्रियार्थश्च यावन्नासौ प्रजायते । अग्नि-
स्तु नामघेयादौ होमे सर्व्वत्र लौकिकः । न हि पित्रा
समानीत पुत्रस्य भवति क्वचित्” । अतश्च सीमन्तोन्नयनमपि
स्मार्ताग्नावेव कार्य्यम् । अपिच आधानेनोत्पादितानां
गार्हपत्यादीनामग्नीनाम् प्रयोजनापेक्षायां सत्यां “गार्हपत्ये
हर्वीषि श्रपयत्याहवनीये जुहोति दक्षिणाग्नावन्वाहार्य्यं
पवतीति” प्रत्यक्षवचननिर्द्दिष्टैरेव प्रयोजनैर्निराक ङ्क्षाणाम्
न सामर्थ्यमात्रेणोक्तादन्यत्र विनियोगः कल्पयितुं शक्यते” ।
तस्मात् स्मार्तान्यौपासन एव कार्य्याणि इति” कर्कः ।
विधानपा० तस्यारम्भकालादि निरूपितं यथा गृह्यपरि-
शिष्टे “अथ नित्यौपासनं तस्य सतयमारम्भं” इति ।
शौनकोऽपि यस्मिन्नह्नि विवाहः स्यात्सायमारभ्य तस्य
तु । परिचर्य्यां विवाहाग्नेर्विदधीत स्वयं द्विजः । यदि
रात्रौ विवाहाग्निरुत्पन्नः स्यात्तथा सति । उपक्रमोत्तर
स्याह्नः सायं परिचरेदमुमिति” । इदमपि नवनाड्यतिक्रमे-
दृष्टव्यम् । तथा चापस्तम्बसूत्रे भाष्यकृत्सुदर्शनाचार्य्यः ।
“अस्यचारम्भणं रात्रावेव यदि नव नाड्योनातीताः ।
अतीताश्चेत् परेद्युः सायमेवाग्निहोत्रबेलायामारम्भ
इति” । अन्यत्रापि । “प्रातर्होमे सङ्गवान्तः कालस्त्वनु-
दिते ऽथ वा । सायमस्तमिते होमः कालस्तु नवनाडि-
केति” । अत्रानुदितहोमकालस्तु वाजसनेयिनां वेदितव्यः ।
तथा च कात्यायनसूत्रम् । “औपासनस्य परिचरणमस्त-
मितानुदितयोरिति” । तेषामौपासनसमारम्भोऽपि
चतुर्थीहोमानन्तरमाहितेऽग्नौ भवति न तु विवाहाग्नौ
“आवसथ्याधानं दारकाले दायाद्यकाले वेति” कात्यायनसूत्रात्
तद्भाष्यमपि । “दारकालश्चतुर्थ्युत्तरकालः । दायाद्यकालो-
धनविभागकाल इति” औपासनात्पूर्ब्बं यदि विवा-
हाग्निः शाम्येत तदा प्रायश्चितमुक्तं विश्वादर्शे “उद्वा-
हौपासनात् पूर्ब्बमनले शान्तिमागते । स्थालीपाकं ततः
कृत्वा ह्यौपासनमथाचरेत् । नवनाडीभ्य ऊर्द्द्वं चेत्स्थाली-
पाकोभवेत्तु वै । औपासने तदा कुर्य्यात् परेद्युः सायमेव-
चेति” । तस्य प्रादुष्करणकाल उक्तः आश्वलायनसूत्रे
“तस्याग्निहीत्रेण प्रादुष्करणहोममकालौ व्याख्याताविति”
तत्कारिकायामपि । “ज्वालयेदपराह्णेऽग्निमस्तं याते
दिवाकरे । पर्य्युह्याग्निं परिस्तीर्य्य पर्य्युक्ष्य च ततः
परमिति” । स्पष्टमाह कात्यायनः । “सूर्य्ये तु शैलमप्राप्ते
षड्विंशद्भिरिहाङ्गुलैः । पादुष्करणमग्नीनां प्रातरासोम-
दर्शनम्” । तथा “दुहित्रा स्तुषया वाग्निविंहारो न
विरुध्यते । निलेपनं च पात्राणामुपलेपनमेव चेति” ।
उक्तकाले प्रादुष्करणाभावे प्रायश्चित्त मुक्तम् आश्वलायन
कारिकायाम् । “प्रायश्चित्तं विशेषेण यत्र नोक्तं
भवेद्बिधिः । होतव्याज्याहुतिस्तत्र भूर्भुवःस्वरितीति
चेति” । कात्यायनः अनुदितास्तमयलक्षणमाह ।
“रात्रेस्तु षोडशे भागे ग्रहक्षनत्रभूषिते । कालं त्वनु-
दितं ज्ञात्वा तत्र होमं प्रकल्पयेत्” । तथा “यावत्सम्यङ्ग-
भासन्ते नभस्यृक्षाणि सर्वतः । न च लौहित्यमायाति
तावत्सायं तु हूयते” । अत्राश्वलायनादीनां होमे मुख्य-
कालमाह चन्द्रिकायामत्रिः “हस्तादूर्द्ध्वं रविर्यावद्भूभिं-
हित्वा न गच्छति । तावद्धोमविधिः पुण्योनान्योऽभ्युदित-
होमिनाम् । रात्रौ प्रदोषो मुख्यःस्यादिति वेदविदो विदु-
रिति” । अत्र गौणकालमाह शौनकः “पश्चादस्तमया-
त्कालोयोभवेत्त्रिमूहूर्त्तकः । स सायंहोमकालःस्यात् प्रदो-
षान्त उदाहृतः । यस्तु षड्नाडिकाकालः पश्चादेवोदया-
द्रवेः । स होमकालो विप्राणां सङ्गवान्त इति स्मृत” इति ।
यदि गौणकालोऽप्यतोतस्तदा गृह्यपरिशिष्टेप्रायश्चित्तमुक्तम्
पृष्ठ १५८०
“नित्यहोममतीत्य मनस्वत्या चतुर्गृहीतं जुहुयात्
द्वादशूरात्रादूर्द्ध्वं पुनराधानमिति” । केचित्तुप्रायश्चित्तं
कृत्वा प्रातर्होमकालात् पूर्व्वं सायंहोमः कार्य्यः सायं
होमात्पूर्ब्बं प्रातर्होमः कार्य्यैत्याहुः “आसायकर्मणः
पातराप्रातः सायकर्म्मणः । आहुतिं नातिपद्येत पार्वणं
पार्वणान्तरादिति” बौधायनस्मृतेरिति । अस्याग्निहोत्र-
वद् विधानं प्रदर्शितं शौनकेन । “अग्निहीत्रवदि-
त्यतेच्छौनकेन प्रपञ्चितम् । पुनः पर्य्युक्ष्य चाङ्गारानु
दगग्नेरपोह्य च । हौम्यानां द्वादशानां तु पक्वमेते-
ष्टधिंश्रयेत् । पयोयवागूः सर्पिश्च ओदनं दधि तुण्ड
लाः । सोमस्तैलमपो व्रीहिर्द्वादशैते तिलायवाः । पय
आदीनि चचारि विदुः पक्वानि याज्ञिकाः । दध्यादीनाम-
पक्वानामधिश्रयणमिष्यते । उल्मुकेनैव ज्वलयेदपक्वं
पक्वमेव च । अधिश्रिते स्नुवेणापः परिषिञ्चेन्नवाधि-
काः । पुनस्त्रिर्ज्वलता तेन परिव्युह्य प्रहृत्य तत् ।
उदर्क्कषं त्रिधोद्वास्याप्यङ्गारानतिसृज्य च । अग्नेःपश्चात्तृणे
ष्वेव निधाय समिधा सह । त्रिवारमेकं संस्कृत्य गृहीत्वा
सायमग्नये (तेषां द्वादशद्रव्याणां मध्वे एकं द्रव्यमित्यर्थः) ।
स्वाहेति मन्त्रमुद्दार्य्य कुर्व्वीत प्रथमप्राहुतिम्! प्रातर्होमे
तु सूर्य्याय स्वाहेति प्रथमाहुतिम् । तूष्णीं प्रजापतिं
ध्यायन्नुभयत्र द्वितीयिकामिति” । अत्रान्योविशेषः स्वशा-
खोक्तोऽवगन्तव्यः । होमस्थानं स्मृत्यर्थसारे “बहुशुष्के
न्धनेनाग्नो सुसमिद्धे हुताशने । अङ्गारे लेलिहाने च
होतव्यं नान्यथा क्वचित् । योऽनर्चिषि जुहोत्यग्नौ व्यङ्गारे
चैव मानवः । मन्दाग्निरामयावीच दरिद्रश्चोपजायते ।
अग्निः प्रदक्षिणावर्त्तः शर्मदश्च शुवावहः” इति । अग्न्युप-
स्थानमन्त्रानाह शौनकः “परिसमुह्य च पर्य्युक्ष्याप्यु-
पतिष्ठेद्धविर्भुजम् । अग्नेः सूक्तैश्च सौरैश्च प्राजापत्यैश्च-
नित्यशः” याज्ञ० । हुत्वाग्नीन् सूर्यदेवत्यान् जपेन्मन्त्रान्
समाहितः” एतद्धोमं प्रशंसत्यङ्गिराः “यद्दद्यात्काञ्चनं
मरुं पृथिवीं च ससागराम् । तत्सायं प्रातर्होमस्य तुल्यं
भवति वा नवेति” । अन्यत्रापि “नाग्निहोत्रात्परोधर्म्मो
नाग्निहोत्रात्परं तपः । नग्निहोत्रात्परं स्नानं नाग्नि-
होत्रात्परा गतिरिति” अकरणे प्रत्यवायमाह गर्नः “कृत-
दारोन तिष्ठेत क्षणमप्यग्निना विना । तिष्ठेत चेहिजोव्रात्य-
स्तथा च पतितो भवेत् । यथा स्नानं यथा सन्ध्या
वेदस्याध्ययनं यथा । तयैवौपासनं कार्य्यं न स्थितिस्तद्वि-
योगतः । यो हि हित्वा विवाहाग्निं गृहस्थ इति म-
न्यते । अन्नं तस्य न भोक्तव्यं वृथापाकोहि स स्मृतः ।
वृथापाकस्य भुञ्जानः प्रायश्चित्तं समाचरेत । प्राणा-
यामशतं कृत्वा घृतं प्राश्य विशुध्यतीति” ।
तस्याशौचेऽपि कर्त्तव्यतामाह याज्ञ० । “वैतानौपासनाः
कार्य्याः क्रियाश्च श्रुतिनोदनात्” । ङीबभाव आर्षः
लोके तु औपासनीत्येव

औपोदिति पुंस्त्री उपोदितस्यापत्यम् इञ् । उपोदितर्षेर-

पत्ये स्त्रियां ङीप् । तस्या अपत्यम् ढक् । औपोदितेयः
तस्या अपत्ये । “उतोहस्माहौपोदितेय एषवाव मह्यं
गा दास्यति” शत० ब्रा० १, ९, ३, १६ ।

औमा(क) त्रि० उमाया विकारः अण्वुञ् वा । अतस्याविकारे ।

औमायन त्रि० उमाया निमित्तं संयोग उत्पातो वा

अश्वा० फञ् । अतस्या निमित्ते संयोगे उत्पाते च
स्त्रियां ङीप् ।

औमीन त्रि० उमानां भवनं क्षेत्रम् खञ् । अतसीभवनेक्षेत्रे ।

औरग न० उरगोदेवताऽस्य अण् । १ सर्पाधिष्ठातृदेवताके

अश्लेषानक्षत्रे । तस्येदम् अण् । २ सर्प सम्बन्धिनि त्रि०
स्त्रियां ङीप् ।

औरभ्र न० उरभ्रस्य मेषस्येदम् अण् । १ मेषलोमजाते

कम्बले २ तत्सम्बन्धिनि त्रि० । “औरभ्रेणाथ चतुरः
शाकुनेनाथ पञ्च बै” मनुः । “वृंहणं मांसमौरभ्रं पित्त-
शेष्मावहं गुरु” सुश्रु० । धन्वन्तरिं प्रति प्रश्नकारकर्षिमध्ये
३ ऋषिभेदे पु० औपधेनवशब्दे उदा० ।

औरभ्रक न० उरभ्राणां समूहः वुञ् । मेषसमूहे ।

औरभ्रिक त्रि० उरभ्रः पण्यमस्य ठञ् । मेषविक्रयोपजी-

विनि “औरभ्रिकोमाहिषिकः परपूर्ब्बापतिस्तथा” मनुः ।
स्त्रियांङीप् ।

औरस पु० उरसा निर्म्मितः यदभावे अण् । “सवर्ण्णायां

संस्कृतायां स्वयमुत्पादयेत्तु यम् । औरसं तं विजानीयात्
पुत्रं प्रथमकल्पितम्” मनूक्ते पुत्रभेदे “औरसः क्षेत्रजश्चैव
दत्तः कृत्रिम एव च” मनुना द्वादशविधपुत्रमध्ये तस्य
प्राथम्योक्तेः “अङ्गादङ्गात् सम्भवति” आत्मा वै जायते
पुत्र” श्रुतेश्च स्वदेहजातत्वेनास्य तथात्वम् । १ उरसा-
निर्म्मितमात्रत्वेन असवर्ण्णागुत्रे परपूर्व्वापुत्रेऽपि
औरसशब्दस्य वृत्तिः अतएव “अर्जुनस्य परपूर्व्वायां नागकन्या-
यामुत्पन्नमैरावतमभिप्रेत्य” भा० भी० ९१ अ० “अजानन्
अर्जुनश्चापि निहतं पुत्रमौरसम्” ऐरावतस्य औरसत्व-
विशेषणम् । “एकएवौरस पुत्रः सर्व्वस्य वसुनः प्रभुः” मनुः
पृष्ठ १५८१
“औरसः क्षेत्रजः पुत्रौ पितृरिक्थस्य भागिनौ” स्मृतिः
औरसे पुनरुत्पन्ने तृतीयांशहराः सुताः” मनुः उरस
इदमण् । २ हृदयभवे त्रि० उरसा नाम पुरोभेदः तत्र
भवः सिन्ध्वा० अण् । ३ औरस उरसापुरोभवे त्रि० ।

औरसिक न० उरएव अङ्गुल्या० स्वार्थे ठक् । १ उरसि ।

इमुसुक्तान्तात् कः” पा० उक्तेरिसुसादिभिन्नचात्
औरस्क इति शब्द कल्पनं प्रामादिकमेव ।

औरस्य न० उरसि भवः शरीरावयवत्वात् यत् ततः स्वार्थे

अण् । उरसिभवे । “हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्च
संयुतम् । औरस्यं तं विजानोयात्” शिक्षा “औरसपुत्रे
तु उरस्य एव “उरसोऽण् चेति” सूत्रे चाद् यद्विधानात्
अतएव औरसपर्य्याये उरस्यशब्द एवामरे बोध्यः तथैव
टोकाकृद्भिर्व्याख्यानात् ।

और्ण्ण(क) त्रि० ऊर्ण्णायाः विकारः अञ् पक्षे वुञ् । मेषलोमविकारे कम्बलादौ ।

और्ण्णावत त्रि० उर्ण्णावतोऽयम् अण् । ऋषिभेदे ततः स्वार्थे

प्यञ् । और्ण्णावत्योऽप्यत्र ।

और्ण्णिक त्रि० ऊर्ण्णायानिमित्तं संयोग उत्पातो वा ठञ् । तन्निमित्तादौ स्त्रियां ङीप् ।

और्द्ध्वकालिक त्रि० ऊर्द्धकाले भवः काश्या० ष्ठञ् ञिटच् ।

ऊर्द्धकालभवे । ष्ठञि स्त्रियां ङीविति भेदः ।

और्द्ध्वदेह त्रि० ऊर्द्धदेहस्येदम् अण् । ऊर्द्धदेहसम्बन्धिनि

“और्द्धदेहनिमित्तार्थमवतीर्य्योदकं नदीम्” रामा०

और्द्ध्वदैहिक त्रि० ऊर्द्ध्वदेहाय साषु--ठञ् । ऊर्द्ध्वदेहप्रापके

शास्त्रोक्ते क्रियादौ मरणोत्तर हि मनुष्याणां प्रथ-
ममातिवाहिकदेहोत्पत्तिस्ततः पूरकपिण्डदानेन प्रेत-
देहप्राप्तिः आद्यादिसपिण्डान्तक्रियाभिः प्रेतदेहनि-
वृत्त्या भोगदेहपाप्तिस्तत्र च पूर्ब्बोत्तरभवे क्रिये हेतू ।
तदेतत् शुद्धितत्त्वे निर्ण्णीतं यथा ।
“अत्रेदं वीजं पूर्ब्बक्रियायाआतिवाहिकदेहत्यागोत्तर-
देहान्तरजननं, मध्यक्रियायाअपि प्रेतत्वपरिहारोत्तर-
देहान्तरजननं ततश्चैकयैव तत्सिद्धौ पुनस्तत्करणं वचना-
भावेऽनर्थकम् । तथाच विष्णुधर्म्मोत्तरम् “तत्क्षणा-
देव गृह्णाति शरीरमातिवाहिकम् । ऊर्द्ध्वं व्रजन्ति भूतानि
त्रीण्यस्मात्तस्य विग्रहात्” । त्रीणि भूतानि त जोवाय्वा-
काशानि, पृथिवीजले तु अधीगच्छतः । तत्क्षणात् मृत्युक्ष-
णात् । तथा “आतिवाहिकसंज्ञोऽसौ देहोभवति भार्गव! ।
केवलं तन्मनुष्याणां नान्येषां प्राणिनां क्वचित्” । तथा
“प्रेतपिण्डैस्तथा दत्तैर्देहमाप्नोति भार्गवः । भोगदेह-
मिति प्रोक्तं क्रमादेव न संशयः । प्रेतपिण्डा न दीयन्ते
यस्य तस्य “विमोक्षणम् । श्माशानिकेभ्योभूतेभ्यआकल्वं
नैव विद्यते । तत्रास्य यातना घोरा शीतवातातपोड़वाः ।
ततः सपिण्डीकरणे बान्धवैस्तु कृते नरः । पूर्णे संवत्
सरे देहमतोऽन्यं प्रतिपद्यते । ततः स नरके याति स्वर्गे
वा स्वेन कर्म्मणा” । तथा वायुपुराणम् “पूरकेण तु
पिण्डेन देहोनिष्पाद्यते यतः । कृतस्य करणायोगात्
पुनर्नावर्त्तयेत् क्रियाम्” । अतएवातिवाहिकदेहपरि-
त्यागाय तत्कालीनकर्म्मासमर्थपुत्रसत्त्वेऽप्यन्येन दाहादि
क्रियते । “पितृमातृसपिण्डैस्तु समानसलिलैर्नृप । सं
घातान्तर्गतैर्व्वापि राज्ञा वा धनहारिणा । पूर्व्वाः क्रि
यास्तु कर्त्तव्याः पुत्त्राद्यैरेव चोत्तराः” ।
तत्र क्रियाश्च त्रिविधाः विष्णुपुराणे दर्शिता यथा
“पूर्व्वाः क्रिया मध्यमाश्च तथा चैवोत्तराः क्रियाः ।
त्रिप्रकाराः क्रिया ह्येतास्तासां भेदान् शृणुष्व मे ।
आदाहवार्य्यायुधादिस्पर्शाद्यन्ताश्च याः क्रियाः । ताः पूर्व्वा-
मध्यमा मासिम्यस्येकोद्दिष्टसंज्ञिताः । प्रेते पितृत्वमापन्ने
सपिण्डीकरणादनु । क्रियन्ते याः क्रियाः पित्र्याः प्रो-
च्यन्ते ता नृपोत्तराः । पितृमातृसपिण्डैश्च समान-
सलिलैर्न्नृप । संघातान्तर्गतैर्व्वापि राज्ञा वा धनहा-
रिणा । पूर्व्वाः क्रियास्तु कर्त्तव्याः पुत्राद्यैरेव चोत्तराः ।
दौहित्रैर्वा नरश्रेष्ठ! कार्य्यास्तत्तनयैस्तथा । मृताहानि तु
कर्त्तव्याः स्त्रीणामप्युत्तराः क्रियाः । प्रतिसंवत्सरं
राजन्! एकोद्दिष्टं विधानतः” । आदाहेति दाहावध्रशौ
चान्तविहितवार्य्यायुधादिस्पर्शाद्यन्तास्ताः पूर्ब्बाः, मासिमा-
सीत्येकादशाहादिसपिण्डनान्तप्रेतक्रियोपलक्षणम् ।
सपिण्डनोत्तराः पार्ब्बणादिक्रिया उत्तराः । अत्र पुत्त्रादि-
सपिण्डादयः पूर्ब्बाः क्रिया अवश्यं कुर्य्युः । मध्यमक्रिया-
यामनियमः । उत्तरक्रियायां पुत्त्रादयो भ्रातृसन्ततिपर्य्यन्ता-
नियताः । श्राद्धविवेकेऽप्येवम् । दौहित्रैर्वेति वाशब्दः
समुच्चयार्थः तेन दौहित्रोऽप्युत्तरक्रियायां नियताधिकारी” ।
अत्राधिकारिणश्च एकोद्दिष्टशब्दे १५ २५ पृ० उक्ताः
“अकरोत् स तदौर्द्ध्वदैहिकम्” रघुः । अनुशतिका० द्विपदवृद्धि-
रिति मल्लि० अनुगतिकादिगणे तस्य पाठाभावेऽपि आकृति-
गणत्वात् तत्सिद्धिरिति तस्याशयः । किन्तु बहुपु स्थलेषु
एकपदवृद्धियुक्तंदृश्यते तेन उभयमपि साधु इति तत्त्वम् ।
“भृत्यानामुपरोधेन यत्करोत्यौर्द्धदेहिकम् । तद्भवत्यसुखो-
दर्कं जीवतश्च मृतस्य च” मनुः । उपानहौ च वस्त्रञ्च
प्रतिगृह्यौर्द्धदेहिकम्” भारते अनु० पर्व्वणि ६२२९ श्लो०
पृष्ठ १५८२

और्द्ध्वदमिक त्रि० ऊर्द्धदमे भवः “ऊर्द्धात् दमाच्च देहाच्च लोको-

त्तरपदात्तथा” त्युक्तेः ठक् । ऊर्द्धदमभवे त्रि० स्त्रियां ङीप्

और्द्ध्वस्रोतसिक त्रि० ऊर्द्धस्रोतसि ऊर्द्धरेतसि प्रसक्तः

ठक् । शैवे शिवभक्ते त्रिका० ।

और्व पु० उर्व्वस्यापत्यम् ऋष्यण् । १ उर्व्वर्षेरपत्ये गोत्रापत्ये तु

विदा० अञ् । २ उर्व्वगोत्रापत्ये उभयतः स्त्रियां ङीप् ।
उर्व्यां भवः अण् । ३ पांशुलवणे न० राजनि० । ४ उर्वी-
भवमात्रे त्रि० । उरुतोजातः ऊरु + अण् संज्ञापूर्व्वक-
विधेरनित्यत्वान्न गुणः । भूगुवंश्ये ५ ऋषिभेदे । तत्र भवः
अण् । ६ बाड़वानले । तदुत्पत्तिकथा ऊरुजशब्दे १३८५
पृ० उक्ता ततो बाड़वनलोत्पत्तिकथा तु भा० आ० १८०१८१
अ० उक्ता यया “ब्राह्मण्युवाच । “नाहं गृह्णामि वस्ताता
दृष्टीर्नास्मि रुषान्विता । अयन्तु भार्गवो नूनमूरुजः कुपितोऽद्य
वः । तेन चक्षूंषि वस्ताता! व्यक्तं कोपान्महात्मना ।
स्मरता निहतान् बन्धूनादत्तानि न संशयः । गर्भानपि
यदा नूनं भृगूणां घ्नत पुत्त्रकाः! । तदायमूरुणा गर्भो
मया वर्षशतं धृतः । षडङ्गश्चाखिलो वेद इमं गर्भस्थ-
मेव ह । विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया ।
सोऽयं पितृबधाद्व्यक्तं क्रोधाद्वो हन्तुमिच्छति । तेजसा
तस्य दिव्येन चक्षूंषि मुषितानि वः । तमिमं तात
याचध्वमौर्व्वं मम सुतोत्तमम् । अयं वः प्रणिपातेन
तुष्टोदृष्टीः प्रमोक्ष्यति । वशिष्ठ उवाच । एवमुक्तास्ततः सर्व्वे
राजानस्ते तमूरुजम् । ऊचुः प्रसीदेति तदा प्रसादञ्च
चकार सः । अनेनैव च विख्यातो गाम्ना लोकेषु सत्त-
मः । स और्व्व इति विप्रर्षिरूरुं भित्त्वा व्यजायत ।
चक्षूंषि प्रतिलब्ध्वा च प्रतिजग्मुस्ततो नृपाः” ।
“इच्छन्नपचितिं कर्त्तुं भृगूणां भृगुनन्दनः । सर्व्वलोक-
विनाशाय तपसा महतैधितः । तापयामास ताल्ल्ॐकान्
सदेवासुरमानुषान् । तपसोग्रेण महता नन्दयिष्यन्
पितामहान् । ततस्तं पितरस्तात! विज्ञाय कुलनन्दनम् ।
पितृलोकादुपागम्य सर्व्व ऊचुरिदं वचः । पितर
ऊचुः । और्व्व! दृष्टःप्रभावस्ते तपसोग्रस्य पुत्त्रक! ।
प्रसादं कुरु लोकानां नियच्छ क्रोधमात्मनः । नानीशै-
र्हि तदा तात भृगुभिर्भावितात्मभिः । बधो ह्युपेक्षितः
सर्व्वैः क्षत्रियाणां विहिंसताम् । आयुषा विप्रकृष्टेन यदा
नः खेद आविशत् । तदास्माभिर्व्वधस्तात! क्षत्त्रियैरी-
प्सितः स्वयम् । निखातं यच्च वै वित्तं भृगुभिर्भृगुवेश्मनि ।
वैरायैव तदा न्यस्तं क्षत्त्रियान् कोपयिष्णुभिः । किं हि
वित्तेन नः कार्य्यं स्वर्गेप्सूनां द्विजोत्तम । यदस्माकं
धनाध्यक्षः प्रभूतं धनमाहरत् । यदा तु मृत्युरादातु
न नः शक्नोति सर्वशः । तदास्माभिरयं दृष्ट उपाय-
स्तात! सम्मतः । आत्महा च पुमांस्तात! न लोकाल्लँभते
शुभान् । ततोऽस्माभिः समीक्ष्यैवं नात्म नात्मा निपा-
तितः । न चैतन्नः प्रियं तात! यदिदं कर्त्तुमिच्छसि ।
नियच्छेदं मनः पापात् सर्व्वलोकपराभवात् । मा
बधीः क्षत्त्रियांस्तात! न लोकान् सप्त पुत्त्रक! ।
दूषयन्तं तपस्तेजः क्रोधमुत्पतितं जहि” ।
“और्व्व उवाच । उक्तवानस्मि यां क्रोधात् प्रतिज्ञां पितर-
स्तदा । सर्व्वलोकविनाशाय न सा मे वितथा भवेत् ।
वृथारोषप्रतिज्ञो वै नाहं भवितुमुत्सहे । अनिस्तीर्णो
हि मां रोषो दहेदग्नि रिवारणिम् । यो हि कारणतः
क्रोधं संजातं क्षन्तुमर्हति । नालं स मनुजः सम्यक्
त्रिवर्गं परिरक्षितुम् । अशिष्टानां निहन्ता हि शिष्टानां
परिरक्षिता । स्थाने रोषः प्रयुक्तः स्यान्नृपैः सर्व्वजिगी-
षुभिः । अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा ।
आरावं मातृवर्गस्य भृगूणां क्षत्त्रियैर्बधे । संहारो हि यदा
लोके भृगूणां क्षत्त्रियाधमैः । आगर्भोच्छेदनात् क्रान्त-
स्तदा मां मन्युराविशत् । संपूर्णकोपाः किल मे मातरः
पितरस्तथा । भयात् सर्व्वेषु लोकेषु नाधिजग्मुः
परायणम् । तान् भृगूणां यदा दारान् कश्चिन्नाभ्युपप-
द्यते । माता तदा दधारेयमूरुणैकेन मां शुभा । प्रति-
षेद्धा हि पापस्य यदा लोकेषु विद्यते । तदा सर्व्वेषु
लोकेषु पापकृन्नोपपद्यते । यदा तु प्रतिषेद्धारं पापो न
लभते क्वचित् । तिष्ठन्ति बहवो लोकास्तदा पापेषु
कर्म्मसु । जानन्नपि च यः पापं शक्तिमान्न नियच्छति ।
ईशः सन् सोऽपि तेनैव कर्म्मणा सम्प्रयुज्यते । राजभि-
श्चेश्वरैश्चैव यदि वै पितरो मम । शक्तैर्न शकितास्त्रातु-
मिष्टं मत्वेह जीवितम् । अत एषामहं क्रुद्धो लोकाना-
मीश्वरो ह्यहम् । भवताञ्च वचो नालमहं समतिवर्त्तितुमुं ।
ममापि चेद्भवेदेवमीश्वरस्य सतो महत । उपेक्षमाणस्य
पुनर्लोकानां किल्वषाद्भयम् । नन्वद्यं मन्युजो मेऽग्निर्लो-
कानादातुच्छति । दहेदेष च मामेव निगृहीतः स्वतेजसा
भवतां च विजानामि सर्वलोकहितेप्सुताम् । तस्माद्विदद्ध्व
यच्छ्रेयो लोकानां मम चेश्वराः! । पितर ऊचुः । य एष
मन्युजस्तेऽग्निर्लोकानादातुमिच्छति । अप्सुतं सुञ्च भद्रन्ते
लोका ह्यप्सु प्रतिष्ठिताः । आपोमयाः सर्वरसाः सर्व्वमापो-
पृष्ठ १५८३
मयं जगत् । तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विज-
सत्तम! । अयं तिष्ठतु ते विप्र! यदीच्छसि महोदधौ ।
मन्युजोऽग्निर्द्दहन्नापो लोका ह्यापोमयाः स्मृताः ।
एवं प्रतिज्ञा सत्येयं तवान्घ! भविष्यति । न चैवं सा
भरा लोका गमिष्यन्ति पराभवम् । वशिष्ठ उवाच ।
ततस्तं क्रोधजं तात! और्व्वोऽग्निं वरुणालये । उत्स-
सर्ज्ज स चैवाप उपयुङ्क्ते महोदधौ । महद्धयशिरो
भूत्वा यत्तद्वेदविदो विदुः । तमग्निमुद्गिरन् वक्त्रात्
पिबत्यापो महोदधौ” ।
बाड़वानलस्य स्थितिस्थानम् सि० शि० उक्तम् भूमेर्याम्येऽर्द्धे
सप्तद्वीपसमुद्राणां स्थितिकीर्त्तनान्ते “स्वादूदकान्तर्बडवा-
नन्तोऽसौपाताललोकाः पृथिवीपुटानि” इति । और्वस्य
च प्रवरर्षित्वम् आर्षेयशब्दे उक्तम् । “जामदग्नावत्सा-
स्तेषां पञ्चार्षेयो भार्गवच्यावनाप्नवानौर्वजामदग्नेति च
आश्व० श्रौ० १२, १०, ६, ९ और्वमधिकृत्य कृतोग्रन्थः
अण् । भारतान्तर्गते और्वचरिताख्याने । “तापत्यमथ-
वासिष्ठमौर्वं चाख्यानमुत्तमम्” भा० आ० १ । तच्चाख्यानं
भा० आ० १८९ अध्यायादौ दृश्यम् ।

और्वश पु० उर्व्वशी तच्छब्दोऽस्त्यत्र विमुक्ता० अण् । और्वशी

शब्दयुक्ते १ स्वाध्याये २ अनुवाके च । उर्व्वश्या इदम्
अण् । २ उर्व्वशीसम्बन्धिनि त्रि० ।

और्वशेय पु० उर्व्वश्या अपत्यम् ढक् । १ अगस्त्ये मुनौ हेमच०

तस्य च उव्वशीं दृष्ट्वा मित्रावरणयोः स्खलितरेतोजा
त तया तथात्वम् तत्प्रमाणञ्चागस्तिशब्दे ४७ पृ० उक्तम् ।
ऐलशब्दे दर्शितेषु उर्वशीगर्भजातेषु पुरूरवसः सुतेषु
२ आयुरादिषु षट्सु च

औलपि पु० उलपस्य कलाप्यन्तेवासिविशेषस्यापत्यम् इञ् ।

उलपापत्ये ततः स्वार्थे दामन्या० छ । औलपीय तदर्थे
बहुगु तस्यलुक् । औलपय इत्यादि ।

औलपिन् पु० ब० व० । उलपेन प्रोक्तं छन्दोऽधीयते

कलाअन्तेवासित्वात् णिनि । उलपप्रोक्तछन्दोध्यायिषु

औलान न० अवलम्बनं वेदे पृषो० । अवलम्बने । “विद्वान्

पथ ऋतुशोदेवयानानयौलानं दिविधे” ऋ० १०, ९८, ११ ।

औलूक न० उलूकानां समूहः खण्डिका० अञ् । पेचकसमुदाये

औलूक्य पु० उलूकर्षेरपत्यम् गर्गा० यञ् । उलूकनामर्षेर-

रपत्ये कणादे वैशेषिकसूत्रकारे तस्य छात्रः कण्वादि०
अण् । ततो यञो लुक् । औलूक औलूक्यच्छात्रे वैशे-
षिकसतामिज्ञे । उलूक इति ह्रखमध्यं केचिदाहुः
औलूक्यदर्शनन्तु वैशेषिकदर्शनं तत्प्रतिपाद्यविघया उच्यन्ते
“आथातो धर्म्मं व्याख्यास्यामः” । १ सू०
“तापत्रयपराहता विवेकिनस्तापत्रयनिवृचिनिदानमनुसन्द-
धाना नानाश्रुतिस्मृतीतिहासपुराणेष्वात्मतत्त्वसाक्षात्कार-
मेव तदुपायमाकलयाम्बभूवुः । तत्प्राप्तिहेतुमपि पन्थान
जिज्ञासामानाः परमकारुणिकं कणादं मुनिमुशसेदु-
रथ कणादो मुनिस्तत्त्वज्ञानवैराग्यैश्वर्य्यसम्पन्नः षण्णां
पदार्थानां साधर्म्म्यवैधर्म्म्याभ्यां तत्त्वज्ञानमेवात्मतत्त्व-
साक्षात्कारप्राप्तये परमः पन्था इति मनसिकृत्य तच्च
निवृत्तिलक्षणाद्धर्मादेतेषामनायायेन सेत्स्यतीति लक्षणतः
स्वरूपतश्च धर्ममेव प्रथममुपदिशाम्यनन्तरं षडपि
पदार्थानुद्देशलक्षणपरीक्षाभिरुपदेक्ष्यामीति हृदि निधाय
तेषामवधानाय प्रतिजानीते । अथातो धर्ममित्यादि” उप०
“यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्भः” । २ सू०
“को धर्मः किंलक्षणश्चेति? सामान्यतः शिष्यजिज्ञा-
सायां यतोऽभ्युदयनिश्रेयससिद्धिरित्युपतिष्ठते” तथा च
यतोऽभ्युदयसिद्धिर्यतश्च निःश्रेयससिद्धिस्तदुभयं धर्मः
एवं पुरुषार्थासाधारणकारणं धर्म इति वक्तव्ये
परमपुरुषार्थयोः सुखदुःखाभावयोर्विशेषतः परिचयार्थ
मभ्युदयनिःश्रेयससिद्धिरित्युक्तं स्वर्गापवर्गयोरेवान्येच्छा-
नधीनेच्छाविषयत्वेन परमपुरुषार्थत्वात् । साधयिष्यते
च दुःखाभावस्यापि पुरुषार्थत्वम्” उपस्करः ।
“तद्वचनादाम्नायस्य प्राभाण्यम्” । ३ सू०
“ननु निवृत्तिलक्षणी घर्मस्तत्त्वज्ञानद्वारा निःश्रेयसहेतु-
रित्यत्र श्रुतिः प्रमाणं श्रुतेरेव प्रामाण्ये वयं विप्रति-
पद्यामहे अनृतव्यावातपुनरुक्तदोषेभ्यः, पुत्रेष्टौ कृताया-
मपि पुत्रानुत्पादादनृतत्वम् “उदिते जुहोति अनुदिते
जुहोति समयाध्युषिते जुहोतीति” विधेः प्राप्त एवोदिता-
दिकाले होमो व्याहन्यते “श्यावोऽस्याहुतिमभ्यवहरति
य उदिते जुहोति योऽनुदिते जुहोति श्यावशवलाव-
स्याहुतिमभ्यवहरतो यः समयाध्युषिते जुहोति” इत्या-
दिना । तथा “त्रिः प्रथमामन्वाह त्रिरुत्तमामन्वाह”
इत्यनेन प्रथमोत्तमसामिधेन्योस्त्रिरुच्चारणाभिधानात्
पौनरुक्त्यमेव । न चाम्नायप्रामाण्यप्रतिपादकं किञ्चि-
दस्ति प्रमाणम् नित्यत्वे विप्रतिपत्तौ नित्यनिर्द्दोषत्वमपि
सन्दिग्धं पौरुषेयत्वे तु भ्रमप्रमादविप्रतिपत्तिकरणापाट-
वादिसम्भावनया आप्नोक्तत्वमपि सन्दिग्धमेवेति न निःश्रे-
यसं न वा तत्र तत्त्वज्ञानं द्वार न वा धर्म इति
पृष्ठ १५८४
सर्वमेतदाकुलमत आह । तदुद्वचनादाम्नायस्येत्यादि ।
तदित्यनुपक्रान्तमपि प्रसिद्धिसिद्धतयेश्वरं परामृशति यथा
“तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः” इति गौत
मीयसूत्रे तच्छब्देनानुपक्रान्तोऽपि वेदः परामृश्यते ।
तथा च तद्वचनात्तेनेश्वरेण प्रणयनादाम्नायस्य वेदस्य
प्रामाण्यं यद्वा तदिति सन्निहितं धर्म्ममेव परामृशति
तथाच धर्म्मस्य वचनात् प्रतिपादनात् आम्नायस्य
वेदस्य प्रामाण्यं यद्धि वाक्यं प्रामाणिकमर्थं प्रतिपादयति
तत्प्रमाणमेव यत इत्यर्थः । ईश्वरस्तदाप्तत्वञ्च साधयि-
ष्यते यच्चोक्तमनृतव्याघातपुनरुक्तदोषेभ्य इति तत्रा-
नृतत्वे जन्मान्तरीयफलकल्पनं कर्मकर्तृसाधनवैगुण्य-
कल्पनं वा श्रौतात् साङ्गात् कर्मणः फलावश्यम्भाव-
निश्चयात् न च कारीरीवदैहिकमात्रफलकत्वं तत्र
हि शुष्यच्छस्यसञ्जीबनकामस्याधिकारः पुत्रेष्टौ पुत्रकाम-
स्येतिविशेषात् नच व्याघातोऽपि उदितादिहोमं विशे-
षतः प्रतिज्ञाय तदन्यकाले होमानुष्ठाने “श्यावोऽस्याहु-
तिमभ्यवहरति” इत्यादिनिन्दाप्रतिपादनात् न च
पुनरुक्ततादोषोऽपि एकादशसामिधेनीनां प्रकृतौ पाठात्
“पञ्चदशावरेण वाग्वज्रेणावबाधे तमिमं भ्रातृव्यम्”
इत्यत्र सामिघेनीनां पञ्चदपत्वस्य प्रथमोत्तमसामिधेन्यो-
स्त्रिरभिधानमन्तरेणानुपपत्तेस्तथाभिधानात्” । उपस्क० ३ ।
शिष्याकाङ्क्षानुरोधेन स्वरूपतोलक्षणतश्च धर्म्मं व्याख्या-
याभिधेयसम्बन्धफलप्रतिप्रादानायाह “धर्म्मविशेषप्रसूतात्
द्रव्यगुणकर्म्मसामान्यविशेषसमवायानां पदार्थानां
माधर्ह्मवैधर्म्माभ्यां तत्त्वज्ञानान्नि श्रेयमम्” ४ सू ।
“एतादृशं तत्त्वज्ञानं वैशेषिकशास्त्राधीनमिति तस्यापि निःश्रे-
समहेतुत्वंदण्डापूपायितम् । तत्त्वं ज्ञायतेऽनेनेति
करणव्युत्पत्त्याशास्त्रपरत्वे धर्म्मविशेषपसूतादित्यनेनानन्वयापत्तेः ।
सर्व्वपदार्थप्रधानो द्वन्द्वश्चात्र समासः सर्वपदार्थतत्त्वज्ञा-
नस्य निःश्रेयसहेतुत्वात् तदत्र शास्त्रनिःश्रयेसयो-
र्हेतुहेतुमद्भावः शास्त्रतत्त्वज्ञानयोर्व्यापारव्यापारिभावः
निःश्रेयसतत्त्वज्ञानयोः कार्य्यकारणभावः द्रव्यादिपदार्थ-
शास्त्रयोः प्रतिपाद्यप्रतिपादकभावः सम्बन्धोऽवगम्यते
एतेषाञ्च सम्बद्धानां ज्ञानान्निःश्रेयसार्थिनामिह शास्त्रे प्रवृ-
त्तिः । मोक्षमाणाश्च मुनेर्गृहीताप्तभावा एव शास्त्रे प्रव-
र्त्तन्ते । निःश्रेयसमात्यन्तिकी दुःखनिवृत्तिः । दुःखनि-
वृत्तेश्चात्यन्तिकत्वं समानाधिकरणदुःखप्रागभावासमान-
कालीनत्व युगपदुत्पन्नसमानाधिकरणसर्वात्मविशेषगुण-
ध्वससमानकालीनत्वं वा । अशेषविशेषगुणध्वंसावधिक-
दुःखप्रागभावो वा मुक्तिः नचासाध्यत्वान्नायं पुरुषार्थः,
कारणविघटनमुखेन प्रागभावस्यापि साध्यत्वात् नच तस्य
प्रागभावत्वक्षतिः प्रतियोगिजनकाभावत्वेन तथात्वात्,
जनकत्वञ्च स्वरूपयोग्यतामात्नम्, नहि प्रामभावश्चरमसामग्री
येन तस्मिन् सति कार्य्यमवश्यम्भवेत् तथा सति कार्य्यस्या-
प्यनादित्वप्रसङ्गात् तथाच यथा सहक रिवितहादियन्तं
कालं नाजीजनत् तथाग्रेऽपि तद्विरहान्न जनयिष्यति हेतू-
च्छेदे पुरुषव्यापारात् इत्यस्यापि प्रागभावपरिपालन एव
तात्पर्य्यात्, अत एव गौतमीयद्वितीयसूत्रे “दुःखजन्म
प्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्ततापाये तदनन्तरापाया-
दपवर्गः” इत्यत्र कारणाभावात् कार्य्याभावाभिधानं
दुःखप्रागभावरूपामेव मुक्तिं द्रढयति नहि दोषापाये
प्रवृत्त्यपायः, प्रवृत्त्यपाये जन्मापायः, जन्मापाये दुःय्यापाय
इत्यत्रापायो ध्वंसः किन्त्वनुत्पत्तिः साध प्रागभाव एव न
च प्रतियोग्यप्रसिद्धिः सामान्यतो दुःखत्वेनैव प्रतियोगिप्र-
सिद्धेः प्रायश्चित्तवत् तत्रापि प्रत्यवायध्वंसद्वारा दुःखाः-
नुत्पत्तेरेवापेक्षितत्वात् लोकेऽहिकण्टकादिनिवृत्तेर्दुःखा-
नुत्पत्तिफलकत्वदर्शनात् दुःखसाधननिवृत्त्यर्थमेव प्रेक्षा-
वतां प्रवृत्तेः । केचित्तु दुःखात्यन्ताभाव एव मक्तिः
सच यद्यपि नात्मनिष्ठस्तथापि लोष्टादिनिष्ठ एवात्मनि
साध्यते सिद्धिश्च तस्य दुःखप्रागभावासहवर्त्तिदुःखध्वंस
एव तस्य तत्सम्बन्धतयोपगमात् तस्मित् सति तत्र दुःखा-
त्यन्ताभावप्रतीतेः एवञ्च सति “दुःखेनात्यन्तं विमुक्तश्च-
रति” इत्यादिश्रुतिरप्युपपादिता भवतोत्याहुः तन्न
दुःखात्यन्ताभायस्यासाध्यत्वेनापुरुषार्थत्वात् दुःखध्वंसस्य च न
तत्र सम्बन्धत्वं परिभाषापत्तेः “दुःखेनात्यन्तं विमुक्तश्चरति”
इति श्रुतेर्दुःखप्रागभावस्यैव कारणविघटनमुखेनात्यन्ता-
भावसमानरूपत्वतात्पर्य्यकत्वात् । नन्द्वयं न पुरुषार्थः
निरुपाधीच्छाविषयत्वाभावात् दुःखकाले सुखं तावन्नोत्पद्यते
इति सुखार्थिनामेव दुःखाभावार्थं प्रवृत्तेरिति चेन्न
वैपरीत्यस्यापि सुवचत्वात् सुखेच्छापि दुःखाभावौपाधि-
कीत्येव किं न स्यात् शोकाकुलानां सुखविमुखानामपि
दुःखाभावमात्रमभिसन्धाय विषभक्षणोद्बन्धनादौ प्रवृत्ति-
दर्शनात् । ननु पुरुषार्थोऽप्ययं ज्ञायमान एव मुक्तेस्तु
दुःखाभावस्य ज्ञायमानतैव नास्ति अन्यथा मूर्च्छाद्यवस्था-
र्थमपि प्रवर्त्तेतेरि चेन्न श्रुत्यनुमानाभ्यां ज्ञायमानस्यावे-
द्यत्वानुपपत्तेः । अस्ति हि श्रुतिः “दुःखेनात्यन्त विमुक्त-
पृष्ठ १५८५
श्चरति” “तसेव विदित्वाऽतिमृत्युमेति” इत्यादिका ।
अनुमानमप्यस्ति दुःखसन्ततिरत्यन्तमुच्छिद्यते सन्ततित्वात्
प्रदीपसन्ततिवदित्यादि चरमदुःखध्वंसस्य दुःखसाक्षात्का-
रेण क्षणं विषर्यकरणात् प्रत्यक्षवेद्यताऽपि । योगिनां
योगजधर्म्मबलेनागामिनो दुःखध्वंसस्य प्रत्यक्षोपगमाच्च ।
तथापि तुल्यायव्ययतया नायं पुरुषार्थो दुःखवत्
सुखस्यापि ज्ञाने द्वयोरपि समानसामग्रीकत्वादिति चेत्
उत्सगतो वीतरागाणां दुःखदुर्द्दिनभीरूणां सुखखद्यो-
तिकामात्रेऽलम्प्रत्ययवतां तत्र प्रवृत्तेः । ननु तथापि
दुःखनिवृत्तिर्न पुरुषार्थः, अनागतदुःखनिवृत्तेरशक्यत्वात्
अतीतदुःखस्यातीतत्यात् वर्त्तमानदुःखस्य पुरुषत्रयत्नमन्त-
रेणैव निवृत्तेरिति चेन्न हेतूच्छेदे पुरुषव्यापारात् प्राय-
श्चित्तवत् तथाहि सवासनं मिथ्याज्ञानं संसारहेतुस्तदु-
च्छेदश्चात्मतत्त्वज्ञानात् तत्त्वज्ञानं च योगविधिसाध्यमिति
तदर्थं प्रवृत्त्युपपत्तेः” उपस्करः कियदन्तरे च
“धर्मविशेषप्रसूतादिति तत्त्वज्ञानादित्यस्य विशेषणं तत्र
धर्मविशेषो निवृत्तिलक्षणो धर्मः यदि तु तत्त्वं ज्ञाय-
तेऽनेनेति तत्त्वज्ञानं शास्त्रमुच्यते तदा धर्मविशेष ईश्व-
रनियोगप्रसादरूपो वक्तव्यः श्रूयते हीश्वरनियोगप्रसाद-
वधिगम्य कणादो महर्षिः शास्त्रं प्रणीतवानिति तत्त्व-
ज्ञानमात्मतत्त्वसाक्षात्कार इह विवक्षितस्तस्यैव सवासन-
मिथ्याज्ञानोन्मूलनक्षमत्वात् “तमेव विदित्वाऽतिमृत्युमेति
नान्यः पन्था विद्यतेऽनाय” इत्यत्र “द्वे ब्रह्मणी वेदि
तव्ये” इत्यत्र च वेदनपदस्य साक्षात्कारपरत्वात् “पश्य
त्यचक्षुः” इत्यत्रापि तथा । सच शास्त्रान्मनननिदिध्या-
सनादिपरम्परयेति हेतुपञ्चम्या तथैवाभिधानात्” उप०
न्यायकन्दल्यां प्रयोजनसूत्रमित्थं विवृतं यथा
“तच्चेश्वरनोदनाभिव्यक्ताद्धर्म्मादेवेति” भाष्यप्रतीकव्याख्या-
याम् “यस्य वस्तुनो यो भावस्तत् तस्य तत्त्वम् साधारणो-
धर्म्मः साधर्म्यम् असाधारणोधर्म्मो वैधर्म्यं तयोस्तत्त्व-
ज्ञानं निःश्रेयसहेतुः विषयसंयोगजं सुखं तावत् क्षणि-
कंविनाशि दुःखबहुल खर्गादिपदं प्राप्यमपि सप्रक्षयं,
सातिशयञ्च तथा च कस्यचित्स्वर्गमात्रमपरस्य स्वर्गराज्यम्
अतस्तदपि सततंप्रच्युतिशङ्कया परसमुत्कर्षोपतापाच्च
दुःखाक्रान्तं न निश्चितं श्रेयः । आत्यन्तिकी दुःखनिवृत्तिर-
सह्यसंवेदननिखिलदुःखासवेदनारूपत्वादपरावृत्तेश्च निश्चितं
श्रेयः तस्य कारणं द्रव्यादिस्वरूपज्ञानम् । एतेनैतत् प्रत्युक्त
मण्डनेन यदुक्तं विशेषगुणनिवृत्तिलक्षणा मुक्तिरुच्छेद-
पक्षान्न भिद्यत इति । विशेषगुणोच्छेदे हि सति आत्मनः
स्वरूपेणावस्थानं नोच्छेदोनित्यत्वात् नचायमपुरुषार्थः
समस्तदुःखोपरमस्य पुरुषार्थत्वात् समस्तसुखाभावादपुरु-
षार्थत्वमिति चेत् न सुखस्यापि क्षयितया बहुलप्रत्यनीक-
तया साधनप्रार्थनाशतपरिक्लिष्टतया च सदा दुःखा-
क्रान्तस्य विषमिश्रस्येव मधुनोदुःखपक्षे निक्षेपात्” ।
कियदन्तरे तत्रैव । “तत् निःश्रेयसं धर्म्मादेव भवति द्रव्यादि त
त्त्वज्ञानं तस्य कारणत्वेन निःश्रेयससाधनम् इत्यभिप्रायः
तत्त्वतोज्ञातेषु बाह्याध्यात्मिकेषु विषयेषु दोषदर्शनाद्विर-
क्तस्य समीहानिवृत्तावात्मज्ञस्य तदर्थानि कर्म्माण्यकुर्व्वत-
स्तत्परित्यागसाधनानि च श्रुतिस्मृत्युदितानि असकल्पित
फलान्युपाददानस्यात्मज्ञानमभ्यस्य तः प्रकृष्टविनिवर्त्तकधर्म्मो-
पचये सति परिपक्वात्मज्ञानस्यात्यन्तिकशरीरवियोगसम्भ-
वाद्दृष्टोहि विषयाणामहिकण्टकादीनां, परित्यागो-
विषयदोषदर्शनादभिसन्धिकृतनिवर्त्तकात्मविशेषगुणात् प्रय-
त्नात् तेन शरीरादीनामात्यन्तिकः परित्यागोविषयदोष-
दर्शनपूर्वकानभिसन्धिकृतनिवर्त्तकात्मविशेषगुणनिमित्तविघात
इति मोक्षाधिकारे वक्ष्यामः । धर्म्मोऽपि केवलं न
तावन्निश्रेयसं करोति यावदीश्वरेच्छया नानुगृह्यते
तेनेदमुक्तम् ईश्वरनोदनेत्यादि । नोद्यन्ते प्रेर्य्यन्ते स्वकार्य्येषु
प्रवर्त्त्यन्तेऽनया भावा इति नोदना ईश्वरस्य नोदना ईश्व-
रेच्छाविशेषः अभिव्यक्तिः कार्य्यारम्भं पत्याभिमुख्यम् ईश्व-
नोदनयाऽभिव्यक्तात् ईश्वरेच्छाविशेषेण कार्य्यारम्भाभि-
मुखीकृताद्धर्म्मादेव निःश्रेयसं भवतीति वाक्ययोजना” ।
एवं विषयप्रयोजनादिकं चतुःसूत्र्यामभिहितं तत्र प्रति-
पाद्यविषयाश्च सर्वद० दर्शिता यथा
इह खलु निखिलप्रेक्षावन्निसर्गप्रतिकूलवेदनीयतया
निस्विलसंवेदनसिद्धं दुःखं जिहासंस्तद्धानोपायं जिज्ञा
सुः परमेश्वर साक्षात्कारमुपायमाकलयति “यदा चर्म्मवदा-
काशं वेष्टयन्तीह मानवाः! तदा शिवमभिज्ञायदुःखस्या-
न्तोभविष्यति” इत्यादिवचननिचयप्रामाण्यात् । परमेश्वर-
साक्षात्कारश्च श्रवणमननभावनाभिर्भावनीयः यदाह
“आगमेनानुमानेन ध्यानाभ्यासरसेन च । त्रिधा
प्रकल्पयन् प्रज्ञां लभते योगमुत्तममिति” तत्र
भननमनुमानाधीनमनुमानञ्च व्याप्तिज्ञानाधीनं व्याप्तिज्ञानञ्च
पदार्थविषेकापेक्षम् । अतः पदार्थषट्कम्” । “अथाटो
धर्म्मं व्याख्यास्याम इत्यादिकायां दशलक्षण्यां
कणभक्षेण भगवता व्यवस्थापि तत्राह्निकद्वयात्मके प्रथमे
पृष्ठ १५८६
ऽध्याये समवेताशेषपदार्थकथनमकारि । तत्रापि प्रथमा-
ह्निके जातिमन्निरूपणं, द्वितीयाह्निके जातिविशेषनिरू-
पणम् । आह्निकद्वययुक्ते द्वितीयेऽध्याये द्रव्यनिरूपणं,
तत्रापि प्रथमाह्निके भूतविशेषलक्षणं, द्वितीये दिक्काल-
प्रतिपादनम् । आह्निकद्वययुक्ते तृतीये आत्मान्तःकरण-
लक्षणं, तत्राप्यात्मलक्षणं प्रथमे, द्वितीये अन्तःकरण-
लक्षणम् । आह्निकद्वययुक्तेचतुर्घे शरीरतदुपथोगिविवेचनं,
तत्रापि प्रथमे तदुपयीगिविवेचनं द्वितीये शरीरविवेचनम् ।
आह्निकद्वयवति पञ्चमे कर्म्मप्रतिपादनं, तत्रापि प्रथमे
शरीरसम्बन्धिकर्म्मचिन्तनं, द्वितीये मानसकर्मचिन्तनम् ।
आह्निकद्वयशालिनि षष्ठे श्रौतधर्मनिरूपणं, तत्रापि प्रथमे
दानप्रतिग्रहधर्मविवेकः, द्वितीये चातुराश्रम्योचितधर्मनिरू-
पणम् । तथाविधे सप्तमे गुणसमवायप्रतिपादनं, तत्रापि
प्रथमे बुद्धिनिरपेक्षगुणप्रतिपादनं, द्वितीये तत्सापेक्षगुण-
प्रतिपादनं समवायप्रतिपादनञ्च । अष्टमे निर्विकल्पकस-
विकल्पकप्रत्यक्षप्रमाणचिन्तनम् । नवमे वुद्धिविशेषप्रतिपा-
दनम् । दशमे अनुमानभेदप्रतिपादनम् । तत्र उद्देशो
लक्षणं परीक्षा चेति त्रिविधास्य शास्त्रस्य प्रवृत्तिः । ननु
विभागापेक्षया चातुर्विध्ये वक्तव्ये कथं त्रैविध्यमुक्तमिति
चेन्मैवं मंस्थाःविभागस्य विशेषोद्देश एवान्तर्भावात् । तत्र
द्रव्यगुणकर्मसामान्यविशेषसमवाया भावा इति षडेवै ते
पदार्था इत्युद्देशः । किमत्र क्रमनियमे कारणम् । उच्यते
समस्तपदार्थायतनत्वेन प्रधानस्य द्रव्यस्य प्रथममुद्देशः ।
अनन्तरं गुणत्वोपाधिना सकलद्रव्यवृत्तेर्गुणस्य, तदनु सामा-
न्यवत्त्वसाम्यात् कर्मणः, पश्चात्तत्त्रितयाश्रितस्य सामान्यस्य,
तदनन्तरं समवायाधिकरणस्य विशेषस्य, अन्ते अवशिष्टस्य
समवायस्येति क्रमनियमः । ननु षडेव पदार्था इति कथं
कथ्यते, अभावस्यापि सद्भावादिति चेन्मैवं वीचः नञर्थानु-
ल्लिखितधीविषयतया भावरूपतया षडेवेति विवक्षितत्वात्
तथापि कथं षडेवेति नियम उपपद्यते विकल्पानुपपत्तेः
तथाहि नियमव्यवच्छेद्यं प्रमितं न वा प्रमितत्वे कथं
निषेधः अप्रमितत्वे कथन्तराम्, नहि कश्चित् प्रेक्षावान्
मूषिकविषाणं प्रतिषेद्धं यतते, ततश्चानुपपत्तेर्नो नियम इति
चेन्मैवं भाषिष्ठाः सप्तमतया प्रमिते अन्धकारादौ भावत्वस्य
भावतया प्रमिते शक्तिसादृश्यादौ सप्तमत्वादेश्च निषेधा-
दिति कृतं विस्तरेण ।
तत्र द्रव्यादित्रितयस्य द्रव्यत्वादिर्जातिर्लक्षणम् । द्रव्यत्वं
नाम गगनारविन्दसमवेतत्वे सति नित्यगन्धासमवेतम् ।
(गगनसमवेतत्वे सति पद्मसमवेतत्वेसति नित्यत्वे सति
गन्धासमवेतत्वं द्रव्यत्वलक्षणम् । सत्तारूपजातिव्यवच्छेदाय
गन्धासमवेतत्वमुक्तम् कालिकसम्बन्धेन द्रव्यत्वस्य गन्धवृत्ति-
त्वादसम्भववारणाय गन्धसमवेतत्वमुक्तम् संयोगादेर्गन्धा-
समवेतत्वेन गगनादिसमवेतत्वेनातिप्रसङ्गवारणाय
नित्यत्वे सतीति विशेषणम् । पद्मत्वपृथिवीत्वजातौ
पद्मसमवेतत्वस्य नित्यत्वस्य गन्धासमवेतत्वस्य च सत्त्वा-
दतिप्रसङ्गवारणाय गगनसमवेतत्वे मतीति विशेषणम्
गगनपरिमाणस्य नित्यस्य गन्धासमनेतस्य तथात्ववारणा-
यारविन्द समवेतत्वे सतीति विशेषणम् इतिबोध्यम्) ।
गुणत्वं नाम समवायिकारणासमवायिकारणभिन्नसमवेतस-
त्तासाक्षाद्व्याप्यजातिः । (सत्तासाक्षाद्व्याप्यस्य समवायिका-
रणद्रव्यसमवेतस्य द्रव्यत्वस्य, असमवायिकारणसमवेतस्य
कर्मसमवेतस्य कर्म्मत्वस्य च तथात्ववारणाय तदुभयभिन्न-
समवेतत्वं जातौ विशेषणम् गुणत्वस्य तु तथात्वम्
गुणेषु ज्ञानादिषु असमवारिकारणभिन्नेषु समवेतज्ञान-
त्वादेः सत्तासाक्षाद्व्याप्यत्वेऽपि नातिप्रसङ्गः) कर्मत्वंना-
मानित्यसमवेतत्वसहितसत्तासाक्षाद्व्याप्यजातिः । (अनि-
मात्रसमवेतत्वे सति सत्तासाक्षाद्व्याप्यजातित्वम् कर्मत्व
लक्षणम् द्रव्यत्वस्य गुणत्वस्य च नित्यमात्रसमवेतत्वाभा-
वान्न तथात्वम् । संयोगत्वादेस्तथात्वेऽपि सत्तासाक्षाद्व्याप्य-
त्वाभावान्नातिप्रसङ्गः) सामान्यन्तु प्रध्वंसप्रतियोगित्वर-
हितमनेकसमवेतम् । (संयोगविभागादौ अनेकससवेतेऽ-
तिप्रसङ्गवारणाय ध्वंसप्रतियोगित्वरहितेति अत्यन्ता-
भावे तथात्ववारणाय समवेतत्वं विशेषणम्) ।
विशेषो नामान्योन्याभावविरोधिसामान्यरहितः समवेतः ।
समवायस्तु समवायरहितः सम्बन्ध इति षण्णा लक्षणानि
व्यवस्थितानि ।
“द्रव्यं नवविधं पृथिव्यप्तेजोवाय्वाकाशकालदिगात्मम-
नांसीति । तत्र पृथिव्यादिचतुष्टयस्य पृथिवीत्वादिजातिर्ल-
क्षणम् । पृथिवीत्वं नाम पाकजरूपसमानाधिकरणद्रव्यत्व-
साक्षाद्व्याप्यजातिः । अप्त्वं नाम सरित्सागरसमवेतत्वे
सति सलिलसमवेतं सामान्यम् । तेजस्त्वं नाम चन्द्र-
चामीकरसमवेतत्वे सति ज्वलनसमवेतं सामान्यम् ।
वायुत्वं नाम त्वगिन्द्रियसमवेतद्रव्यत्वसाक्षाद्व्याप्यजातिः ।
आकाशकालदिशामेकैकत्वादपरजात्यभावात् पारिभाषिक्य-
स्तिस्नः संज्ञा भवन्ति आकाशः कालो दिगिति ।
सयोगाजन्यजन्यविशेषगुणसमानाधिकरणविशेषाधिकरणमाका
पृष्ठ १५८७
शम् । विभुत्वे सति दिगसमवेतपरत्वासमवायिकारणाधि-
करणम् कालः । अकालत्वे सत्यविशेषगुणा महती दिक् ।
आत्ममनसोरात्मत्वमनस्त्वे । आत्मत्वं नाम अमूर्त्तसभ-
वेतद्रव्यत्वापरजातिः । मनस्त्वं नाम द्रव्यसमवायिका-
रणत्वरहिताणुसमवेतद्रव्यचापरजातिः । रूपरसगन्ध-
स्पर्शसङ्ख्यापरिमाणपृयक्त्वसंयोगविभागपरत्वापरत्वबुद्धिसुख-
दुःखेच्छाद्वेषप्रयत्नाश्च कण्ठोक्ताः सप्तदश चशब्दसमुच्चिताः
गुरुत्वद्रवत्वस्नेहसंस्कारादृष्टशब्दाःसप्तैवेत्येवं चतुर्विंशति-
र्गुणाः । तत्र रूपादिशब्दान्तानां रूपत्वादिजातिर्लक्ष-
णम् । रूपत्वं नाम नीलसगवेतगुणत्वापरजातिः ।
अनया दिशा शिष्टानां लक्षणानि द्रष्टव्यानि । कर्म
पञ्चविधम् उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनभेदात् ।
भ्रमणरेचनादीनां गमन एवान्तर्भावः । उत्क्षेपणादी-
नामुत्क्षेपणत्वादिजातिर्लक्षणम् । तत्र उत्क्षेपणं नाम
ऊर्द्ध्वदेशसंयोगासमवायिकारणप्रमेयसमवेतकर्मत्वापरजातिः ।
एवमवक्षेपणादीनां लक्षणं कर्त्तव्यम् । सामान्यं द्विविधं
परमपरञ्च परं सत्ता द्रव्यगुणसमवेता गुणकर्मसमवेता
वा । अपरं द्रव्यत्वादि तल्लक्षणं प्रागेवोक्तम् । विशेषाणाम-
नन्तत्वात् समवायस्य चैकचाद्विभागो न सम्भवति तल्ल-
क्षणञ्च प्रागेवावादि । (सर्व्वत्रापरत्वं व्याप्यत्वम् अल्प-
देशवृत्तित्वं वा) ।
“द्वित्वे च पाकजोत्पत्तौ विभागे च विभागजे । यस्य
न स्खलिता बुद्धिस्त्वं वै वैशेषिकं विदुरिति” आभाण-
कस्य सद्भावात् ष्ट्वित्वाद्युत्पत्तिप्रकारः प्रदर्श्यते । तत्र प्रथ-
ममिन्द्रियार्थसन्निकर्षस्तस्वादेकत्वसामान्यज्ञानं ततोऽपेक्षा-
बुद्धिः ततो द्वित्वोत्पत्तिस्ततो द्वित्वसामान्यज्ञानं तस्मात्
द्वित्वगुणज्ञानं ततः संस्कारः” । तदाह
“आदाविन्द्रियसन्निकर्षघटनादेकत्वसामान्यधीरेकत्वोभयगो-
चरा मतिरतो द्वित्वं ततो जायते । द्वित्वत्वप्रमितिस्ततोऽ-
नु परतो द्वित्वप्रमानन्तरं द्वे द्रव्ये इति धीरिय निगदिता
द्वित्वोदयप्रक्रियेति” ।
द्वित्वादेरपेक्षाबुद्धिजन्यत्वे किं प्रमाणम् । अत्राहुरा-
चार्य्याःअपेक्षाबुद्धिर्द्वित्वादेरुत्पादिका भवितुमर्हति व्यञ्ज-
कत्वानुपपत्तौ तनानुविधीयमानत्वात् शब्दं प्रति संयोग-
वदिति” । वयन्तु ब्रूमः द्वित्वादिकमेकत्वद्वयविषयानित्य-
बुद्धिव्यङ्ग्यं भवात अनेकाश्रितगुणत्वात् पृथक्त्वादिवदिति ।
निवृत्तिक्रमो निरूप्यते अपेक्षाबुद्धित एकत्वसामान्य-
ज्ञानस्य द्वित्वोत्पत्तिसमकालनिवृत्तिः अपेक्षाबुद्धेर्द्वित्वसा-
मान्यज्ञानात् द्वित्वगुणबुद्धिसमसमयं द्वित्वस्यापेक्षाबुद्धिनि-
वृत्तेर्द्रव्यबुद्धिसमकालं गुणबुद्धेः, द्रव्यबुद्धितः संस्कारोत्पत्ति-
समकालं द्रव्यबुद्धेस्तदनन्तरसंस्कारादिति । तथाच संग्रहः
“आदावपेक्षाबुद्ध्या हि नश्येदेकत्वजातिधीः । द्वित्वोद-
यसमं पश्चात् सा च तज्जातिबुद्धितः । द्वित्वाख्यगुणधी-
काले ततो द्वित्व निवर्त्तते । अपेक्षाबुद्धिनाशेन द्रव्य-
धीजन्मकानतः । गुणबुद्धिर्द्रव्यबुद्ध्या संस्कारोत्पत्तिका-
लतः । द्रव्यबुद्धिश्च संस्कारादिति नाशक्रभो मतः” इति ।
बुद्धेर्बुद्ध्यन्तरविनाश्यत्वे संस्कारविनाश्यत्वे च प्रमाणं
विवादाध्यासितानि ज्ञानानि उत्तरोत्तरकार्य्यविनाश्यानि
क्षणिकविभुविशेषगुणत्वात् शब्दवत् । द्रव्यारम्भकसंयो-
गप्रतिद्वन्द्विविभागजनककर्मसमकालमेकत्वसामान्यचिन्तया
आश्रयनिवृत्तेरेव द्वित्वनिवृत्तिः कर्मसमकालमपेक्षा-
बुद्धिचिन्तनादुभाभ्यामिति सक्षेपः । अपेक्षावुद्धिर्नाम
विनाशकविनाशप्रतियोगिनी बुद्धिरिति बोद्धव्यम् ।
अथ द्व्यणुकनाशमारभ्य कतिभिः क्षणैः पुनरन्यद् द्व्य-
णुकमुत्पद्य रूपादिमद्भवतीति जिज्ञासायामुत्पत्तिप्रकारः
कथ्यते । नोदनादिक्रमेण द्व्यणुकनाशः नष्टे द्व्यणुके
परमाणावग्निसंयोगात् श्यामादीनां निवृत्तिः निवृत्तेषु
श्यामादिषु पुनरन्यस्मादग्निसंयोगाद्द्रव्यादीनामुत्पत्तिः
उत्पन्नेषु रक्तादिषु अदृष्टवदात्मसंयोगात् परमाणौ द्रव्या-
रम्भणाय क्रिया तया पूर्व्वदेशाद्विभागः विभागेन पूर्ब्ध-
देशसंयोगनिवृत्तिः तस्मिन्निवृत्ते परमाण्वन्तरेण संयोगो-
त्पत्तिः संयुक्ताभ्यां परमाणुभ्यां द्व्यणुकारम्भः आरब्धे
द्व्यणुके कारणगुणादिभ्यः कार्य्यगुणादीनां रूपादीना-
मुत्पत्तिरिति यथाक्रमं नव क्षणाः । दशक्षणादिप्रकारान्तरं
विस्तरमयान्नेह प्रतन्यते । इत्थं पीलुपाकप्रक्रिया
पीठरपाकप्रक्रिया तु नैयायिकधीसम्मता ।
विभागजविभागो द्विविधः कारणमात्रविभागजः
कारणाक रणविभागजश्च । तत्र प्रथमः कथ्यते कार्य्यव्याप्ते
कारणे कर्मोत्पन्नं यदावयवान्तराद्विभागं विधत्ते न
तदाकाशादिदेशाद्विभागः । यदा त्वाकाशादिदेशाद्विभागः न
तदावयवान्तरादिस्थिति नियमः कर्म्मणो गगनविभागा
कर्तृत्वस्य दव्यारम्भकसयोगविरोधिविभागारम्भकत्वेन धूमम्य
धूमध्वजवर्गेणेव व्यभिचारानुपलम्भात ततश्चावयवकर्म
अवयवान्तरादेव विभागं करोति नाकाशादिदेशात् तस्माद्वि-
भागाद्द्रव्यारम्भकसयोगनिवृत्तिः ततः कारणाभावात्
कार्याभाव इति न्यायादवयविनिवृत्तिः निवृत्तेऽवयविनि तत्का-
पृष्ठ १५८८
रणयोरवयवयोर्वर्त्तमानो विभागः कार्यविनाशविशिष्टं
कालं स्वतन्त्रं वावयवमपेक्ष्य सक्रियस्यैवावयवस्य कार्यसंयुक्ता
दाकाशदेशाद्विभागमारभते न निष्क्रियस्य, कारणाभावात् ।
द्वितीयस्तु हस्ते कर्म्मोत्पन्नमवयवान्तराद्विभागं कुर्व्वत्
आकाशादिदेशेभ्यो विभागानारभते, ते कारणाकारणवि-
भागाः । कर्म यां दिशं प्रति कार्य्यारम्भाभिमुखतामपेक्ष्य
कार्य्याकार्य्यविभागमारभते यथा हस्ताकाशविभागाच्छरी-
राकाशविभागः न चासौ शरीरक्रियाकार्य्यस्तदा तस्य
निष्क्रियत्वात् नापि हस्तक्रियाकार्य्यः व्यधिकरणस्य कर्मणो
विभागकर्तृत्वानुपपत्तेः अतः पारिशेष्यात् कारणाकारण-
विभागस्य कारणत्वमङ्गीकरणीयम् ।
यदवादि अन्धकारादौ भावत्वं निषिध्यत इति
तदसङ्गतं तत्र चतुर्द्धा विवादसम्भवात् तथाहि द्रव्यं तम इति
भाट्टाः वेदान्तिनश्च भणन्ति, आरोपित नीलरूपमिति श्रीध-
राचार्य्याः आलोकज्ञानाभाव इति प्राभाकरैकदेशिनः
आलोकाभाव इति नैयायिकादयः इति चेत्तत्र द्रव्यत्वपक्षो
न घटते विकल्पानुपपत्तेः द्रव्यं भवदन्धकारं द्रव्याद्यन्यतम-
मन्यद्वा नाद्यः यत्रान्तर्भावोऽस्य तस्य यावन्तो गुणास्तावद्गुण
कत्वप्रसङ्गात् न च तमसो द्रव्यवहिर्भाव इति साम्प्रतं निर्गु-
णस्य तस्य द्रव्यत्वासम्भवेन द्रव्यान्तरत्वस्य सुतरामसम्मवात् ।
ननु तमालश्यामलत्वेनोपलभ्यमानं तमः कथं निर्गुणं, स्या-
दिति, नीलं नभ इतिवत् भ्रान्तिरेवेत्यलं वृद्धबीबधया ।
अत एव नारोपितनीलरूपं तमः अधिष्ठानप्रत्ययमन्तरेणा-
रोपा योगात् बाह्यालोकसहकारिरहितस्य चक्षुषो रूपारोपे
सामर्थ्यानुपलम्भाच्च । न चायमचाक्षुषः प्रत्ययः तदनु-
विधानस्यानन्यथासिद्धत्वात् । न च विधिप्रत्ययवेद्यत्वायो
गो भावे इति साम्प्रतं प्रलयविनाशावधानादिषु व्यभि-
चारात् । अत एव नालोकज्ञानाभावः अभावस्य प्रतियो-
गिग्राहकेन्द्रियग्राह्यत्वनियमेन मानसत्वप्रसङ्गात् । तस्मा-
दालोकाभाव एव तमः न चाभावे भावधर्माध्यारोपो दुरु-
पपादः दुःखाभावे सुखत्वारोपस्य संयोगाभावे विभाग-
त्वाभिमानस्य च दृष्ठत्वात् । नचालोकाभावस्य घटाद्य-
भाववद्रूपवदभावत्वे नालोकसापेक्षचक्षुर्जन्यज्ञानविषयत्वं
स्यादित्येषितव्यं, यद्ग्रहे यदपेक्षं चक्षुस्तदभावग्रहेऽपि
तदपेक्षत इति न्यायेनालोकग्रहे आलोकापेक्षाया अभावेन
तदभावग्रहेऽपि तदपेक्षाया अभावात् । न चाधिकरण-
ग्रहणावश्यम्भावः अभावप्रतीतावधिकरणग्रहणावश्यंभावा-
नङ्गीकारादपरथा निवृत्तः कोलाहल इति शब्दप्रध्व स-
प्रत्यक्षो न स्यादिति अप्रामाणिकं तव वचनं परम् ।
तत्सर्व्वमभिसन्धाय भगवान् कणादः प्रणिनाय सूत्रं
द्रव्यगुणकर्मनिष्पत्तिवैधर्म्म्यादभावस्तम इति प्रत्ययवेद्य-
त्वेनापि निरूपितम् ।
अभावस्तु निशेधमुखप्रमाणगम्यः सप्तमो निरूप्यते ।
स चासम्बन्धत्वेसत्यसमवायः (अनुयोगित्वप्रतियोगित्वतादा-
त्न्यान्यतमसम्बन्धेन समवायशून्यत्वमसमवायत्वम्) स च संक्षे-
पेतो द्विविधः संसर्गाभावान्योन्याभावभेदात् संसर्गाभावोऽपि
त्रिविधः प्राक्प्रध्वंसात्यन्ताभावभेदात् तत्रानित्यः
अनादितमः प्रागभावः, उत्पत्तिमान् विनाशो प्रध्वसः,
प्रतियोग्याश्रयोऽभावोऽत्यन्ताभावः । नन्वन्योन्याभाव
एवात्यन्ताभाव इति चेत् अहो राजमार्ग एव भ्रमः अन्यो-
न्याभावो हि तादात्म्यप्रतियोगिकः प्रतिषेधः यथा घटः
पटात्मा न भवतीति ससर्गप्रनियोगिकः प्रतिषेधोऽत्यन्ता-
भावो यथा वायौ रूपसम्बन्धो नास्तीति । न चास्य
पुरुषार्थौपयिकत्वं नास्तीत्याशङ्कनीयं दुःखात्यन्तो-
च्छेदापरपय्यायनिःश्रेयसरूपत्वेन परमपुरुषार्थत्वात्” ।
शास्त्रान्ते च १० अ० २ आह्निके “दृष्टानां दिष्ट-
प्रयोजनानां दृष्टामावे प्रयोगोऽभ्युदयाय” ९ सू० ।
“दृष्टानां प्रमाणत उपलब्धानां यागदानस्नानादीनां दिष्ट-
प्रयोजनानां दिष्टमुपदिष्टं प्रयोजनं येषां तेषाम् तथाहि
“स्वर्गकामोयजेत” “अग्निहोत्रं जुहुयात् स्वर्गकाम”
इत्यादौ विधिसमभिव्याहृतमेव फलम्, क्वचिदार्थवादिकं
यथा “यएता रात्रीरधीयोत तस्य पितरोघृतकुल्यामधुकु-
ल्याःक्षरन्ति” इत्यादौ, क्वचिच्चौपपादनिकम्, यथा “विश्व
जिता यजेत” इत्यादौ, अत्र हि न विधिसमभिव्याहृत
नाप्यर्थवादोपस्थितमित्यौपपादनिकं काल्पनिकं स्वर्गम्यैव
स्वतः सुन्दरस्य फलस्य कल्पनीयत्वात्, तथाचाशुतरविना-
शिनामेतेषां कर्म्मणां चिरभाविने फलाय कारणत्वमनु-
पपद्यमानमतएषां प्रयोगोऽनुष्ठानमभ्युदयायापूर्व्वायेत्यर्थः ।
ननु श्रुतिप्रामाण्ये सति स्यादेवं तदेव तु दुर्लभं नहि
मीमांसाकानामिव नित्यनिर्द्दोषत्वेन श्रुतिप्रामाण्यं त्ववेष्यते
पौरुषेयत्वेनाभ्युपगमात्, पुरुषस्य च भ्रमप्रमादविप्रलि-
प्सादिसम्भवादत आह दृष्टाभाव इति दृष्टं पुरुषान्तरे-
ऽस्मदादो भ्रमप्रसादविप्रलिप्सादिकं पुरुषदूषणं तदभावे
सतीत्यर्थः । क्षितिकर्तृत्वेन वेदवक्तृत्वेन वाऽनुमितस्य
पुरुषधौरेयस्य निर्द्दोषत्वेनैवोपस्थितेः, तथा च तद्वचसां न
निरभिधेयता न विपरीताभिधेयता न तिष्प्रयोजनाभिधे-
पृष्ठ १५८९
वता, भूतेन्द्रियमनसां दोषात् भ्रमप्रमादकरणापाटवादि-
प्रयुक्ता एव वचसामविशुद्धसः सम्भाव्यन्ते, न चेश्वरवचसि
तासां सम्भवः, तदुक्तम् “रागाज्ञानादिभिर्वक्ता ग्रस्तत्वाद-
नृतं वदेत् । ते चेश्वरे न विद्यन्ते स ब्रूयात् कथमन्यथेति” ।
ननु तेनेश्वरेण वेदस्य प्रणीत इत्यत्रैव विप्रतिपत्तिरत-
आह । उप० “तद्वचनादाम्रायस्य प्रामाण्यमिति” १० सू० ।
“इति शास्त्रपरिसमाप्तौ । तद्वचनात्तेनेश्वरेण वचनात्
प्रणयनादाम्नायस्य वेदस्य प्रामाण्यं तथाहि वेदास्ता-
वत् पौरुषेया वाक्यत्वादितिसाधितं नचास्मदादयस्तेषां
सहस्रशाखावच्छिन्नानां वक्तारः सम्भाव्यन्ते, अतीन्द्रि-
यार्थत्वात्, नचातीन्द्रियार्थदर्शिनोऽस्मदादयः । किञ्च-
प्रोक्तावेदा महाजनपरिगृहीतत्वात् यन्नाप्तोक्तं न तन्म-
हाजनपरिगृहीतं महाजनपरिगृहीतञ्चेदं तस्मादाप्तो-
क्तम् । स्वतन्त्रपुरुषप्रणीतत्वञ्चाप्तीक्तत्वम् ।
महाजनपरिगृहीतत्वञ्च सर्व्वदर्शनान्तःपातिपुरुषानुष्ठी-
यमानार्थत्वम्, क्वचित् फलाभावः कर्म्मकर्तृसाधनवै-
गुण्यादित्युक्तम् । कर्तृस्मरणाभावान्नैवमिति चेन्न कर्तृ-
स्मरणस्य पूर्ब्बमेव साधितत्वात्, तत्प्रणितत्वञ्च स्वतन्त्र-
पुरुषप्रणीतत्वादेव सिद्धस्, न त्वस्मदादीनां सहस्रशाख-
वेदप्रणयने स्वातन्त्र्यं संभवतीत्युक्तत्वात् । किञ्च
प्रमाया गुणजन्यत्वेन वैदिकप्रमायाअपि गुणजन्यत्वमाव-
श्यकं तत्र च गुणोवक्तृयथार्थवाक्यार्थज्ञानमेव वाच्य-
स्तया च तादृश एव वेदे वक्ता, यः स्वर्गापूर्व्वादिविष-
यकसाक्षात्कारवान्, तादृशश्च नेश्वतादन्य इति सुष्ठु” ।

औलूखल त्रि० उलूखले क्षुण्णं शैषिकोऽण् । १ उलूखलेपिष्ट-

यावकादौ । उलूखले भवः अण् । २ उलूखलभवे
शब्दादौ च । “अभिषुणतौलूखलानुद्गायता” कात्या०
१०, ३, ११, । “उलूखलेभंवा औलूखलाः ध्वनयः” कर्कः

औवेणक न० “अपरान्तकमुल्लोप्यं मद्रकं प्रकरीं तथा ।

औवेणकं सरोविन्दुमुत्तरं गातकानि च” या० उक्ते गीतिभेदे

औशनस न० उशनसा शुक्रेण प्रोक्तम् अण् । शुक्रेण प्रणीते

१ उपपुराणे “तयैवोशनसेरितम्” कूर्म्मपु० २ दण्डप्रणयनरूपे
शास्त्र च । ३ धर्म्मशास्त्रभेदे तच्च प्रतिलोमजातवर्ण्णसङ्कर
विभागप्रतिपादकप्रायम् । उशनसा दृष्टं साम अण् ।
४ उशनसा दृष्टे सामनि । तस्येदम् अण् । ५ तत् सम्ब-
न्धिनि त्रि० । “व्युह्य चौशनसं व्यूहम्” भा० व०
२८४ अ० । “लोकमौशनसं दिव्यं शक्रलोकञ्च गच्छति”
षा० अनु० १०७ अ० । उशनसि भवः अण । ६ शुक्रभवे
स्त्रियां ङीप् सा च ७ देवयान्याख्यायां तदीय दुहितरि
“विद्ध्यौशनसि! भद्रन्ते न त्वमर्होऽस्मि भाविनि!” भा०
आ० ८१ अ० देवयानीं प्रति कचोक्तिः ।

औशिज पु० उशिगेव प्रज्ञा० अण् । १ इच्छायुक्ते । “औशि-

जाय बणिजे दीर्घश्रवसे” ऋ० १, १११, ११ । २ प्रवरर्षिभेदे
“काक्षीवतामाङ्गिरसौचय्यगौतमौशिजकाक्षीवतेति” आश्व०
श्रौ० १२, ११, ३ ।

औशीनर पु० उशीनरस्यापत्यम् उत्सा० अञ् । उशीनरस्या-

पत्येषु शिविप्रभृतिषु । उशीनरनृपश्च १३७५ पृ० उशीनर-
शब्दे उक्तः । तत्सुताश्च “उशीनरस्य पत्न्यस्तु पञ्च
राजर्षिवंशजाः । नृ गा कृमिर्नवा दर्वा पञ्चमी तु दृशद्वती ।
उशीनरस्य पुत्रास्तु पञ्च तासु कुलोद्वहाः । तपसा चैव
महता जाता वृद्धस्य चात्मजाः । नृगायास्तु नृगःपुत्रः
कृम्याः कृमिरजायत । नवायास्तु नवः पुत्रोदर्वायाः सुव्रतो
ऽभवत् । दृशद्वत्यास्तु संजज्ञे शिविरौशीनरो नृपः”
हरिवं०३१ अ० उक्ताः तच्चरितञ्च भा० वन० १९६ अ० ।
“देवानां कथा संजाता महीतलं गत्वा महीपतिं शिवि-
मौशीनरं साध्वेनं जिज्ञासिष्याम इति । एवं भो
इत्युक्त्वा अग्नीन्द्रावुपातिष्ठेताम् । अग्निः कपोतरूपेण
तमभ्यधावदामिषार्थमिन्द्रः श्येनरूपेण । अथ कपोतो
राज्ञो दिव्यासनासीनस्य उत्सङ्गं न्यपतत् । अथ पुरो-
हितो राजानमव्रवीत् । प्राणरक्षार्थं श्येनाद्भीतो भवन्तं
प्राणार्थी प्रपद्यते । वसु ददातु अन्तवान् पार्थिवोऽस्य
निष्कृतिं कुर्य्यात् । घोरं कपोतस्य निपातमाहुः । अथ
कपोतो राजानमब्रवोत् । प्राणरक्षार्थं श्येनाद्भीतो भवन्तं
प्राणार्थी प्रपद्ये । अङ्गैरङ्गानि प्राप्यार्थी मुनिर्भूत्वा प्रा-
णांस्त्वां प्रपद्ये । स्वाध्यायेन कर्षितं व्रह्मचारिणं मां विद्धि ।
तपसा दमेन युक्तमाचार्य्यस्याप्रतिकूलभाषिणम् एवं युक्तम-
पापं मां विद्धि । गदामि वेदान् विचिनोमि छन्दः सर्वे
वेदा अक्षरशो मे अधीताः । न साधु दानं श्रोत्रियस्य
प्रदानं मा प्रदाः श्येनाय न कपोतोऽस्मि । अथ श्येनो
राजानभव्रवीत् । पर्य्यायेण वसतिर्म्मा भवेषु सर्गे जातः
पूर्व्वमस्मात् कपोतात् । त्वमाददानोऽथ कपोतमेनं मा
त्वं राजन्! विघ्नकर्त्ता भवेथाः । राजोवाच । केनेदृशी
जातु पुरा हि दृष्टा वागुच्यमाना शकुनेन संस्कृता । यो
वै कपोतोवदतेमाञ्च श्येन उभौ विदित्वा कथमस्तु
साधु । नास्य वर्षति वर्षकाले नास्य वीजं रोहति काल
उप्तम् । भीतं प्रपन्नं योहि ददाति शत्रवे न त्राणं
पृष्ठ १५९०
लभते त्राणमिच्छन् स काले । जाता ह्रस्वा प्रजा प्रमी-
यते सदा न वै बासं पितरोऽस्य कुर्वते । भीतं प्रपन्न
योहि ददाति शत्रवे नास्य देवाः प्रतिगृह्णन्ति हव्यम् ।
मोघमन्नं विन्दति चाप्रचेताः स्वर्गाल्लोकाद्भ्रश्यति शीघ्र-
मेव । भीतं प्रपन्नं यो हि ददाति शत्रवे सेन्द्रा देवाः
प्रहरन्त्यस्य वज्रम् । उक्षाणं पक्त्वा सह ओदनेन अस्मात्
कपोतात् प्रति ते नयन्तु । यस्मिन् देशे रमसेऽतीव श्येन!
तत्र मांसं शिवयस्ते वहन्तु । श्येन उवाच । नोक्षाणं
राजन् प्रार्थयेयं न चान्यदन्यन्मांसमधिकं वा कपोतात् ।
देवैर्दत्तः सोऽद्य ममैष भक्ष्यस्तन्मे ददस्व शकुनानामभावात् ।
राजोवाच । उक्षाणं वेह तमनूनं नयन्तु ते पश्यन्तु
पुरुषा ममैव । भयाहितस्य दायं ममान्तिकात्त्वां प्राप-
यन्तु त्वं ह्येनं मा हिंसीः । त्यजे प्राणान्नैव दद्यां
कपोतं सौम्यो ह्ययं किन्नु जानामि श्येन! । यथा क्लेशं मा
कुरुष्वेह सौम्य! नाहं कपोतमर्पयिष्ये कथञ्चित् । यथा
मां हि वै साधुवादैः प्रसन्नाः प्रशंसेयुः शिवयः कर्म्मणा
त । यथा श्येन! प्रियमेव कुर्य्यां प्रशाधि मां यद्वदेस्तत्
करोमि । श्येन उवाष । ऊरोर्दक्षिणादुत्कृत्य स्वपि-
शित तावद्राजन्! यावन्मांसं कपोतेन समम् । तथा
तस्मात् साधु त्रातः कपोतः प्रशंसेयुः शिवयः कृतञ्च प्रियं
स्यान्ममेति । अथ स दक्षिणादूरोरुत्कृत्य स्वमांसपेशीं
तुलया धारयन् गुरुतर एव कपोत आसीत् । पुनरन्य-
दुच्चकर्त्त गुरुतर एव कपोतः । एवं सर्व्वं समधिकृत्य
शरीरं तुलायामारोपयामास तत्तथापि गुरुतर एव कपोत
आसीत् । अथ राजा स्वयमेव तुलामारुरोह । न च
व्यलीकमासीद्राज्ञ एतद्वृत्तान्तं दृष्ट्वा त्रात इत्युक्त्वा प्रालीयत
श्येनः । अथ राजा अव्रवीत् कपोतं विद्युः शिवयस्त्वां
कपोत! पृच्छामि ते शकुने! को नु श्येनः । नानीश्वर
ईदृशं जातु कुर्य्यादेतं प्रश्नं भगवन्मे विचक्ष्व । कपोत
उवाच । वैश्वानरोऽहं ज्वलनो धूमकेतुरथैव श्येनो वज्र
हस्तः शचीपतिः । साधु ज्ञातुं त्वामृषभं सौरथेयं नौ
जिज्ञासया त्वत्सकाशं प्रपन्नौ । यामेतां पेशीं मम
निष्क्रयाय प्रादाद्भवानसिनोत्कृत्य राजन् । एतद्वो लक्ष्म
शिवं करोमि हिरण्यवर्णं रुचिरं पुण्यगन्धम् । एतासां
प्रजानां पालयिता यशस्वी सुरर्षीणामथ सम्मतो भृशम् ।
एतस्मात् पार्श्वात् पुरुषो जनिष्यति कपोतंरोमेति च तस्य
नाम । कपोतरोमाणं शिविनौद्भिदं पुत्त्रं प्राप्स्यति
नृपवृषं संहननं यशोदीप्यमानं द्रष्टासि शूरमृषभं सौर-
थानाम्” उशीनरशब्दे दर्शिततच्चरितमेवंरूपं तच्च
शिवेरेवेति बहुभिःकल्प्य ते तत्र पितापुत्रयोरभेदोपचारात्
उशीनरशब्दप्रयोगात् इति । वस्तुतः कल्पभेदात् उशीनरस्य
तत्पुत्रशिवेश्च तथा चरितमित्यविरोधः । अयञ्च ययातेर्दौ-
हित्रः तेन च ययातेः पुणयक्षये स्वर्गात् पतने तस्मै स्वपुण्य
दत्त्वाऽसौ पुनः स्वर्गलोकं प्रापितः तत्कथा यथा ।
“पृच्छामि त्वां शिविरौशीनरोऽहं ममापि लोकायदि सन्तीह
तात! । यद्यन्तरोक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां
तस्य धर्म्मस्य मन्ये । यथातिरुवाच । यत्त्वं वाचा हृदये-
नापि साधून् परीप्समानान्नावमंस्था नरेन्द्र! । तेनानन्तादि-
वि लोकाः श्रितास्ते विद्युद्रूपाः स्वनवन्तोमहान्तः । शिवि-
रुवाच । तांस्त्वंलोकान् प्रतिपद्यस्व राजन् मयादत्तान्यदि
नेष्टः क्रयस्ते । नचाहं तान् प्रतिपत्स्येह दत्त्वा यत्र
गत्वा नानुशोचन्ति धीराः” “अन्ते च यजातिरस्मि नहुषस्य
पुत्रः पूरोः पिता सार्वानौमस्त्विहासम् । गुह्यं चार्थं
मामकेभ्यो ब्रवीमि माताम होऽहं भवतां प्रकाशम्” भा०
आ० ९३ अ० । उशीनरस्य गोत्रापत्यम् इञ् । औशीन-
रितद्गोत्रापत्ये पुंस्त्री स्त्रियां ङीप् । “शूद्रायां गौतमो
यत्र महात्मा संशितव्रतः । औशीनर्य्यामजनयत् काक्षीवा-
द्यान् सुतान् मुनिः” भा० स० २० अ० । तस्यापत्यम् अत
इञपि । औशीनरि शिविनृपे । “आर्ष्णिषेणो दिलीपश्च
महात्मा चाप्युशीनरः । औशीनरिः पुण्डरीकः शर्यातिः
शरभः शुचिः” भा० स० ८ । यमसभावर्णने ।

औशीर न० वश--ईरन् किच्च ततः स्वार्थे प्रज्ञाद्यण् । १ समुदि-

तयोः शय्यापीठयोः क्षीरस्वामी । २ शय्यायाम् ३ आसने च
पृथक् इति सुभूतिः । “अभ्यवहार्य्य परमान्नमौशीरेऽद्य-
कामचारः कृतोऽभूत्” दशकुमा० । उशीरमिवाकारो
स्त्यस्य अण् । ४ चामरे तस्यनलदमूलाकारत्वात्तथात्वम् ।
औशीरं चामरमस्त्यस्य अच् । ५ चामरदण्डे
अमरः । हेमच० दण्डार्थतोक्तिश्चामरदण्डपरा “छत्रं वेष्टन-
मौशीरमुपानद्व्यजनानि च । यातयामानि देयानि
शूद्राय परिचारिणे” भा० श० ६० अ० । उशीरस्येद-
मण् । ६ उशीरजे “स्तनन्यस्तौशीरम्” शकु० ।

औषणशौण्डी स्त्री ऊषण एव स्वार्थेऽण् औषणे कटुरसे

शौण्डी ७ त० । शुण्ठ्याम् तस्याः कटुरसत्वात्तथात्वम् ।

औषदश्वि पु० ओषदश्वस्य नृपस्यापत्यम् इञ् । ओषदश्वि

नृपभेदापत्ये वसुमति यथातिदौहित्रे । “पृच्छामि त्वां
बसुमानौषदश्विर्य्यद्यस्ति लोके यदि मे नरेन्द्र ।” भा० आ०
पृष्ठ १५९१
९३ अ० । अग्य च यथा ययातिर्मातामहस्तथा
औशीनरिशब्दे दर्शितः । तत्र भवच्छब्देनैतस्यापि परामर्शात्
ध न० ओषधेरिदम् “ओषधेरजातौ” पा० अण् । ओषधि-
जाते १ अन्नादौ २ रोगनाशके द्रव्यभेदे । स्वार्थेऽण् ।
३ ओषधौ च । औषधशब्दार्थश्च सुश्रुते दर्शितः
“एवमेतत्पुरुषोव्याधिरौषधम् क्रियाकाल इति चतु
ष्टयं व्याख्यातम्” इत्युक्त्वा “औषधग्रहणात् द्रव्यगुणरस
वीर्य्यविपाकप्रभवानामादेशः” इत्युक्तम् । तेन द्रव्यमात्रसाध्य-
स्यौषधत्वम् । अतएव तैलघृतजलविषविशेषाणामप्यौ-
षधत्वम् । “रोगमादौ परीक्षेत ततोऽनन्तरमौषधम् । ततः
कर्म्म मिषक् पश्चात् ज्ञानपूर्ब्बं समाचरेत्” चक्रद० परि
पाटीमुक्त्वा रोगभेदेन औषधविशेषा उक्तास्तत एव
तेऽधिगम्याः । तदुपयोगिभूम्यादिकं सुश्रुते दर्शितं यथा
“अथातो भूमिप्रविभागविज्ञानीयमध्यायं व्याख्यास्यामः
श्वभ्रशर्कराश्मविषमवल्मीकश्मशानाद्यायतनदेवतायतनसिक-
ताभिरनुपहतामनूषरामभङ्गुरामदूरोदकां स्निग्धां प्ररो-
हवतींमृर्द्वी स्थिरां समां कृष्णां गौरीं लोहितां वा
भूमिमौषधार्थं परीक्षेत तस्यां जातमपि कृमिविषशस्त्रात-
पपवनदहनतोयसम्बाधमार्गैरनुपहतमेकरसं पुष्टंपृघ्वगाढ-
मूलमुदीच्यां चौषधमाददीतेत्यौषधभूमिपरीक्षाविशेषः
सामान्यः । विशेषतस्तु तत्राश्मवती स्थिरा गुर्व्वी श्यामा
कृष्णा वा स्थूलवृक्षशस्यप्राया स्वगुणभूयिष्ठा । स्निग्धा शीतला
सन्नोदका स्निग्धशष्यतृणकोमलवृक्षप्राया शुक्लाऽम्बुगुण
मूयिष्ठा । नानावर्ण्णा लघ्वश्मवती प्रविरलाल्पपाण्डु-
वृक्षप्ररोहाऽग्निगुणभूयिष्ठा । रूक्षा भस्मरासभवर्णा
तनुरूक्षकोटराल्परसवृक्षप्रायाऽनिलगुणभूयिष्ठा । मृद्वी
सभा श्वभ्रवत्यव्यक्तरसजला सर्वतोऽसारवृक्षा महापर्वत-
दृक्षप्राया श्यामा चाकाशगुणभूयिष्ठा । तत्र केचिदाहु-
राचार्य्याः । प्रावृड्वर्षाशरद्धेमन्तवसन्तग्रीष्मेषु यथासंख्यं
मूलपत्रत्वक्क्षीरसारफलान्याददीतेति तत्तु न सम्यक्
कस्मात्सौम्याग्नेयत्वाज्जगतः । सौम्यान्यौषधानि सौम्येषु
ऋतुष्वाददीताग्नेयान्याग्नेयेष्वेवमव्यापन्नगुणानि भवन्ति ।
सौम्यान्यौषधानि सौम्येषु ऋतुषु गृहीतानि सोमगुणभूयि-
ष्ठायां भूमौ जातान्यतिमधुरस्रिग्धशीतानि जायन्ते ।
एतेन शेषं व्याख्यातम् । तत्र पृथिव्यम्बुगुणभूयिष्ठायां भूमौ
जातानि विरेचनद्रव्याण्याददीताग्न्याकाशमारुतगुणभूयि-
ष्ठायां वमनद्रव्याणि । उभयगुणभूयिष्ठायामुभयतोभागानि ।
आकाशगणभूयिष्ठायां संशमनान्येवं बलवत्तराणि भवन्ति ।
सर्वाण्येव चाभिनवान्यन्यत्र मधुघृतगुडपिप्पलीविड-
ङ्गेभ्यः । सर्वाण्येव सक्षीराणि वीर्य्यवन्ति तेषाम-
सम्पत्तावनतिक्रान्तसंवत्सराण्याददीतेति । भवन्ति चात्र ।
गोपालास्तापसा व्याधा ये चान्ये वनचारिणः ।
मूलाहाराश्च ये तेभ्यो भेषजव्यक्तिरिष्यते । सर्वावयव-
साध्येषु पलाशलवणादिषु । व्यवस्थितो न कालोऽस्ति
तत्र सर्वो विधीयते । गन्धवर्णरसोपेता षड्विधा भूमि-
रिष्यते । तस्माद्भूमिस्वभावेन वीजिनः षड्रसैर्युताः ।
अव्यक्तः किल तोयस्य रसो नित्यं विनिश्चितः । रस एव
सचाव्यक्तो व्यक्तो भूमिरसाद्भवेत् । सर्वलक्षणसम्पन्ना
भूमिः साधारणा स्मृता । द्रव्याणि यत्र तत्रैव तद्गु-
णानि विशेषतः । विगन्धेनापरामृष्टमविपन्नं
रसादिभिः । नवं द्रव्यं षुराणं वा ग्राह्यमेव विनिर्दिशेत् ।
विड़ङ्गं पिप्पली क्षौद्रं सर्प्पिश्चाप्यनवं हितम् । शेषम-
न्यत्त्वभिनवं गृह्णीयाद्दोषवर्जितम् । जङ्गमानां वयःस्थानां
रक्तरोमनखादिकम् । क्षीरमूत्रपुरीषाणि जीर्णाहारेषु
संहरेत् । प्लुतमृद्भाण्डफलकशङ्कुविन्यस्तभेषजम् । प्रश-
स्तायां दिशि शुचौ भेषजागारमिष्यते” ।
औषघग्रहणे परिभाषादिकमुक्तं भावप्र० यथा
“प्रशस्तदेशे सञ्जातं प्रशस्तेऽहनि चोद्धृतम् । अल्पमात्रं
बहुगुणं गन्धवर्णरसान्वितम् । दोषघ्नमग्लानिकरमधिकं
न विकारि यत् । समीक्ष्य काले दत्तञ्च भेषजं स्याद्गुणा-
वहम् । आग्नेया विन्ध्यशैलाद्याः सौम्यो हिमगिरिः
स्मृतः । अतस्तदौषधानि स्युरनुरूपाणि हेतुभिः ।
आग्नेयाः अधिकाग्न्यंशाः सौम्यः अधिकसोमांशः ।
औषधयो एवौषधानि । अत्र स्वार्थेअण् । अनुरूपाणि
सदृशानि । अन्वेष्वपि प्ररोहन्ति वनेषूपवनेषु च ।
गृह्णीयात्तानि सुमनाः शुचिः प्रातः सुवासरे । आदित्य
सम्मुखो मौनी नमस्कृत्य शिवं हृदि । साधारणधरा-
द्रव्यं गृह्णीयादुत्तराश्रितम् । साधारणधराद्रव्यम्
सर्वभूमिभवन्द्रव्यम् । उत्तराश्रितं स्वस्मात् उत्तरदि-
ग्भवम् । वल्मीककुत्सितानूपश्मशानोषरमार्गजाः ।
जन्तुवह्निहिमव्याप्ता नौषध्यः कार्य्यसाधिकाः । शरद्य-
खिलकार्य्यार्थं ग्राह्यं सरसमौषधम् । विरेकवमना-
र्थन्तु वसन्तान्तः समाहरेत् । वसन्तान्तः वसन्तमध्ये
समाहरेत् संगृह्णीयात् । अतिस्थूलजटा याः स्युस्तासां
ग्राह्यास्त्वचो ध्रुवम् । गृह्णीयात् सूक्ष्ममूलानि
सकलान्यपि बुद्धिमान् । अन्यच्च । महान्ति येषां मूलानि
पृष्ठ १५९२
काष्ठगर्भाणि सर्व्वतः । तेषान्तु वल्कलं ग्राह्यं ह्रस्व
मूलानि सर्ब्बशः । न्यग्रोधादेस्त्वचो ग्राह्या सारःस्या
द्वीजकादितः । तालीसादेश्च पत्राणि फलं स्यात् त्रिफ-
लादितः । क्वचिन्मूलं क्वचित् कन्दः क्वचित् पत्रं
क्वचित् फलम् । क्वचित् पुष्पं क्वचित् सर्ब्बं क्वचित् सारः
क्वचित् त्वचः । चित्रकं शूरणं निम्बो वाला च त्रिफला
क्रमात् । धातकी कण्टकारी च खदिरः क्षीरपादपः ।
क्वचिन्निम्बस्य गृह्णीयात् पत्राभावे त्वचामपि । बालम्फ-
लन्तु विल्वस्य पक्वमारम्बधस्य च । अङ्गेऽनुक्ते जटा
ग्राह्या भागेऽनुक्तेऽखिलं समम् । पात्रेऽनुक्ते मृदः
पात्रं कालेऽनुक्ते त्वहर्मुखम् । नवान्येव हि योज्यानि
द्रव्याण्यखिलकर्मसु । विना विड़ङ्गकृष्णाभ्यां गुडधान्या
ज्यमाक्षिकैः । धान्यमन्नम् । पुराणन्तु प्रशस्तं स्यात्ताम्बूल-
ङ्काञ्जिकन्तथा । शुष्कन्नवीनद्रव्यन्तु योज्यं सकलकर्मसु ।
आर्द्रन्तु द्विगुणं युञ्ज्यादेष सर्व्वत्र निश्चयः । गुडूची
कुटजी बाला कूष्माण्डश्च शतावरी । अश्वगन्धा सहचरी
शतपुष्या प्रसारिणी । प्रयोक्तव्या सहैवार्द्रा द्विगुणं
नैव कारयेत् । सहचरी कुरण्टकः (कटरै आ) इतिलोके ।
वासानिम्बपटोलकेतकलबला कुष्माण्डकेन्दी वरी वर्षाभूः
कुटजाश्च कन्दसहिता सा पूतिगन्धा मृता । ऐन्द्री
नागबला कुरुण्टक पुरी छत्रामृता सर्व्वदा । सार्द्रा एवतु
कुत्रचित् द्विगुणिता कार्य्येषु योज्या बुधैः । ऐन्द्री इन्द्रवा-
रुणी । वरी शतावरी पूतिमन्धा गन्धप्रसादनी
नागबला (गुलशकरि) कुरण्टकः (पीतपुष्पझाँटि) (कटसरैआ)
पुरी गुग्गुलुः । घृतन्तैलञ्च पानीयं कषायं व्यञ्जनादिकम् ।
पक्त्वा शीतीकृतं चोष्णं तत्सर्व्वं स्याद्विषोपमम् ।
द्रव्याणां परीक्षा । सूक्ष्मास्थिमांसला पथ्या सर्वकर्म्मणि
पूजिता । क्षिप्ताम्भसि निमज्जेद्या भल्लातक्य स्तथोत्तमाः ।
वराहमूर्द्धवत्कन्दो वारहीकन्दसंज्ञकः । सौवर्चलन्तु काचाभं
सैन्धवं स्फटिकप्रभम् । सुवर्णच्छविकं ज्ञेयं स्वर्णमाक्षिकमुत्त-
मम् । इन्द्रपुष्पप्रतीकाशा मनोह्वा चोत्तमा मता । श्रेष्ठं
शिलाजतु ज्ञेयं प्रक्षिप्तं न विशीर्य्यते । तोयपूर्णे कांस्यपात्रे
प्रतानेन विवर्द्धते । कर्पूरस्तुवरः स्निग्धः एला सूक्ष्म-
फला वरा । श्वेषचन्दनमत्यन्तं सुगन्धि गुरु पूजितम् ।
रक्तचन्दनमत्यन्तं लोहितम्प्रवरं मतम् । काकतुण्डानिभः
स्निग्धोऽगुरुः श्रेष्ठो गुरुर्मतः । सुगन्धि लघु रूक्षञ्च
सुरदारु वरं मतम् । सरलं स्लिग्धमत्यर्थं सुगन्धि च गुणाव-
हम् । अतिपीता प्रशस्ता तु ज्ञेया दारुनिशांबुधैः ।
जातीफलं गुरु स्निग्घं समं शुभ्रान्तरं वरम् । मृद्धीका-
सोत्तमा ज्ञेया या स्याद्गोस्तानसन्निभा । करमर्द्दफलाकरा
मध्यमा सा प्रकीर्त्तिता । गोस्तनसन्निभा । (मुनक्वा) इति
लोके । करमर्द्दफलाकारा । (करोन्दीदाख) इति
लोके । खण्डन्तु विमलं श्रेष्ठं चन्द्रकान्तसमप्रभम् ।
गव्याज्यसदृशं रुच्यगन्धं मधु वरम्मतम् । अथ स्वभावतो
हितानि । शालीनां लोहितः षालिः षष्ठिकेषु
च यष्टिका । शूकधान्येष्वपि यवोगोधूमः प्रवरो मतः ।
शिम्बीधान्ये वरो मद्गो मसूरश्चाढ़की तथा । रसेषु मधुरः
श्रेष्ठो लवणेषु च सैन्धवम् । दाड़िमामलकन्द्राक्षास्वर्ज्जू-
रञ्च परूषकम् । राजादनं मातुलङ्गं फलवर्गेषु शस्यते ।
परूषकं (फालसा) इति लोके । राजादनं (खिरिणी) इति
लोके । मातुलुङ्गं (वीजपूरा) इतिलौके । पत्रशाकेषु
वास्तूकं जीवन्ती पोतिका वरा । पटीलं फलशाकेषु कन्द-
शाकेषृ शूरणम् । एणः कुरङ्गो हरिणो जाङ्गलेषु
प्रशस्यते । पक्षिणां तित्तिरिर्लावो वरो मत्स्येषु रोहितः ।
हरिणस्ताम्रवर्णः स्यादेणः कृष्णतया मतः । कुरङ्गस्ताम्र
उद्दिष्टो हरिणः कृत्तिको महान् । जलेषु दिव्यं दुग्धे
षु गव्यमाज्येषु गोभवम् । तैलेषु तिक्तजन्तैलमैक्षवेषु
सिता हिता । अथ स्वभावादहितानि । शिम्बीषु माषान्
ग्रीष्मर्त्तौ, लवणेष्वौषरं त्यजेत् । फलेषु लकुचं शाके
सार्षपं न हितम्मतम् । गोमांसं ग्राम्यसांसेषु नहितं महिषी-
वसा । मेषीपयः कुसुम्भस्य तैलन्त्याज्यञ्च फाणितम् ।
इक्षुरसः परिपक्वो योऽर्द्धघनःत त्फाणितम् तद्धि (छोया-
राव) इति लोके । अथ संयोगविरुद्धानि । मत्स्यमानू
पमांसञ्च दुग्धयुक्तं विवर्ज्जयेत् । कपोतं सर्षपस्नेहभ-
र्ज्जितं परिवर्जयेत् । मत्स्यानिक्षोर्विकारेण तथा क्षौद्रेण
वर्ज्जयेत् । सक्तून् मांसपथोयुक्तानुष्णैर्दधि विवर्ज्जयेत् ।
उष्णैर्न्नभोऽम्बुना क्षौद्रं पायसं कृशरान्वितम् । रम्भाफलं
त्यजेत् तक्रं दधि विल्वफलान्वितम् । दशाहमुषितं सर्पिः
कांस्ये, मधुघृतंसमम् । कृतान्नञ्च कषायञ्च पुनरुष्णीकृतं
त्यजेत् । एकत्र बहुमांसानि विरुध्यन्ते परस्परम् । म
धुसर्पिर्वसातैलं पानीयं वा पयस्तथा । अथ भेषजग्रह-
णसङ्केतः । लवणं सैन्धवं प्रोक्तं चन्दनं रक्तचन्दनम् ।
चूर्णलेहासवस्नेहाः साध्या धवलचन्दनैः । कषायले
पयोः प्रायो युज्यते रक्तचन्दनम् । अन्तःसम्भार्ज्वने
ज्ञेया ह्यजमोदा यवानिका । बहिःसम्भार्ज्जने सैव
विज्ञातव्याजमोदिका । पयः सर्पिः प्रयोगेषु गव्यमेवहि
पृष्ठ १५९३
गृह्यते । अथ प्रतिनिधिः । चित्रकाभावती दन्ती क्षारः
शिखरिजोऽथवा । अभावे धन्वयासस्य प्रक्षेप्तव्या दुरा-
लभा । शिस्वरी अपामार्गः । तगरस्याप्यभावे तु कुष्ठं
दद्याद्भिषम्बरः । मूर्वाभावे त्वचो ग्राह्या जिङ्गिनीप्रभवा
बुधैः । अहिंस्राया अमावे तु मानकन्दः प्रकीर्त्तितः ।
लक्षणाया अभावे तु नीलकण्ठशिखा मता । नीलक-
ण्ठशिखा मयुरशिखा । बकुलाभावतो देयं कल्हारो-
त्पलपङ्कजम् । नीलोत्पलस्याभावे तु कुसुदं देयमिष्यते ।
जातिपुष्यं न यत्रास्ति लवङ्गं तत्र दीयते । अर्क्कपर्णादि
पयसो ह्यभावे तद्रसो मतः । पौष्कराभावतः कुष्ठं तथा
लाङ्गल्यभावतः । स्थौणेयकस्याभावे तु भिषग्भिर्दीयतेऽ
गदे । चविकागजपिप्यल्यौ पिप्यलीमूलवत् स्मृतौ ।
अभावे सोमराज्यास्तु प्रपुन्नाटफलं मतम् । यदि न स्या-
द्दारुनिशा तदा देया निशा बुधैः । सोमराजी वाकुची ।
प्रपुन्नाटफलं चक्रमर्द्दफलम् । दारुनिशा दारुहरिद्रा
निशा हरिद्रा । रसाञ्जनस्याभावे तु सम्यग्दार्व्वी प्रयुज्यते
सौराष्ट्र्यभावतो देया स्फटिका तद्गुणा जनैः । सौरष्ट्री
(सोरटीमाटी) इति लोके । स्फटिका (फटिकारी) इति
लोके । तालोशपत्रकाभावे स्वर्णताली प्रशस्यते । भार्ग्य-
भावे तु तालीसं कण्टकारी जटाऽथ वा । रुचकामावतो
दद्याल्लवणं पांशुपूर्व्वकम् । अभावे मधुयष्ट्यास्तु
घातकीञ्च प्रयोजयेत् । रुचकं(चीहार) इति लोके पांशुल-
वणं (खारी) अथ वा (रेह इति लोके । अम्लवेतसका-
भावे चुक्रं दातव्यसिष्यते । द्राक्षा यदि न लभ्येत
प्रदेयं काश्मरीफलम् । तयोरभावे कुसुमं बन्धूकस्य मतं
बुध्रैः । लवङ्गकुसुमं देयं नखस्याभावतः पुनः । कस्तू-
र्प्यभावे कक्कोलं क्षेपणीयं विदुर्बुधाः । कक्कोलस्याप्य
भावे तु जातीपूष्पं प्रदीयते । सुगन्धीमुस्तकं देयं
कर्पूराभावतो बुधैः । कर्पूराभावतो देयं ग्रन्थिपर्णं
विशेषतः । कुङ्कुमाभावतो दद्यात् कुसुम्भकु-
सुमं नवम् । श्रीखण्डचन्दनाभावे कर्पूरं देयमिष्यते ।
अभावेत्वेतयोर्वैद्यः प्रक्षिपेत् रक्तचन्दनम् । रक्तचन्द-
नकाभावे नवोशीर विदुर्बुधाः । मुस्ता चातिविषाभावे
शिवाभावे शिवा मता । अभावे नागपुष्यस्य पद्मकेशरमिष्यते ।
मेदा जीवककालोली ऋद्धिद्वन्द्वेऽपि वा सति । वरी विदार्य्य
श्वगन्धा वाराही च क्रमात् स्मृता । वरी शतावरी ।
वारह्याश्च तथाभावे चम्मकारालुको मतः । वाराहीकन्द
संज्ञस्तु पश्चिमे गृष्टिसंज्ञकः । वाराहीकन्दएवान्य-
श्चर्म्मकारालुको मतः । अनूपसम्भवे देशे वराह इव
लोमवान् । भल्लातकासम्भत्वे तु रक्तचन्दनमिष्यते ।
भल्लाताभावतश्चित्रं नलश्चेक्षोरभावतः । सुवर्णाभावतः खर्ण-
माक्षिकं प्रक्षिपेत् बुधः । श्वेतन्तु माक्षिकं ज्ञेयं बुधैः
रजतवत् ध्रुवम् । माक्षिकस्याप्यभावे तु प्रदद्यात् स्वर्णगै-
रिकम् । सुवर्णमथ वा रौप्यं मृतं यत्र न लभ्यते । तत्र
कान्तेन कर्म्माणि भिषक्कुर्य्याद्विचक्षणः । कान्ताभावे
तौक्ष्णलोहं योजयेद्वैद्यसत्तमः । अभावे मौक्तिक-
स्यापि मुक्ताशुक्तिं प्रयोजयेत् । मधु यत्र न लभ्येत तत्र
जीर्णगुड़ो मतः । मत्स्याण्ड्यभावतो दद्युर्मिषजः
सितशर्क्कराम् । असम्भवे सितायास्तु बुधैः खण्डं प्रयुज्यते ।
क्षाराभावे रसो मौद्गो मासूरो वा प्रदीयते । अत्र प्रो
क्तानि वस्तूनि यानि तेषु च तेषु च । योज्यमेकतराभावे
परं वैद्येन जानता । रसवोर्थ्यविपाकाद्यैः समं द्रव्यं
विचिन्त्य च । युञ्ज्याद्विविधमन्यच्च द्रव्याणान्तु
रसादिवित् । योगे यदप्रधानं स्यात्तस्य प्रतिनिधिर्म्मतः ।
यत्तु प्रधानं तस्यापि सदृशं नैव गृह्यते । याधेरयुक्तं
यत् द्रव्यं गुणोक्तमपि तत् त्यजेत् । अनुक्तमपि युक्तं
यत् यौजयेत् तद्रसादिवित् । द्रव्यगतपञ्चपदार्थ-
कर्म्माण्याह । द्रव्ये रसो गुणो वीर्य्यविपाकः शक्तिरेव च ।
पदार्थाः पञ्च तिष्ठन्ति स्वंस्वं कुर्व्वन्ति कर्म्म च” ।
“वीर्य्यवन्त्यौषधिनीव विकारे सान्निपातिके” कुमा० ।
“द्वेष्योऽपि सम्मतः शिष्टस्तस्यार्त्तस्य यथौषधम्” रघुः ।
“विषस्य विषमौषधम्” उद्भटः “भवौषधात् श्रोत्रमनोऽभि-
रामात्” भाग० १, १, “औषधं जाह्नवीतोयं वैद्योनाराय-
णः खयम्” पुरा० । संसाररूपदुःखदायकरोगनिवारके
४ परमेश्वरे च “औषधं जगतां सेतुः” विक्ष्णु० सं० ।

औषधि स्त्री आ + ओषधि--प्रा० स० । सम्यगोषधौ । “विर-

मन्ति न ज्वलितुमौषधयः” किरा० वा ङीप् । औषधी ।

औषर न० उषरे भवः अण् । पांशुलवणे राजनि० ।

औषरक न० औषरमिव कन् । (खारी) लवणभेदे राजनि०

औषस न० उससि भवः सन्धिवेलेत्यादिना योगविभागात्

अण् । १ उषसिभवे । वस्तुतः भवार्थे “कालाट्ठञ्” पा० उक्तेः
ठञ् स्यात् तेन ऊषस इदम् इत्यण् इत्युचितम् । २ उषः
सम्बन्धिनि । “अनुदितौषसरागेति “औषसातपभयादप-
लीनम्” इति च” किरा० स्त्रियां ङीप् । “या
मोषाः पत्न्यौषसी सा” शत० ब्रा० ६, १, ३, ८, उ षस् +
बा० यत् स्वार्थे अण् । औषस्य उषोभवे त्रि० ।
पृष्ठ १५९४

औष(स्त)स्त्य त्रि० उषस्तेरिदम् अण् ष्यञ् वा । उषस्तिचरि-

तात्मके छा० उ० ब्राह्मणकाण्डभेदे । तच्च “उषस्तिर्हचा-
क्रायणः” इत्यादि, तत्रत्यं ब्राह्मण “औषस्ते(स्त्ये)
काण्डेऽविदुषामपि आर्त्विज्यदर्शनात्” छा० उ० भा० ।

औषसिक त्रि० उषसा चरति ठक् टिलोपः । १ उषसाचारि-

णि । उषसि भवः कालाट्ठज्” पा० ठञ् । २ उषसिभवे च ।

औषिक त्रि० उषा उषसि भवः ठञ् । उषाभवे स्त्रियां ङीप्

औष्ट्र न० उष्ट्रस्येदम् अण् । उष्ट्रदुग्धादौ । “औष्ट्रं दुग्वं

लघु स्वादु लवणं दीपनं तथा । कृमिकुष्ठकफानाहशोथो
दरहरं सरम्” भावप्र० । “अनिर्द्दशायाः गोः क्षीर-
मौष्ट्रमैकशफं तथेति” मनुः उष्ट्रशब्देविवृतिः ।

औष्ट्रक न० उष्ट्राणां समूहः गोत्रोक्षोष्ट्रेत्यादिना वुञ् ।

उष्ट्रसमूहे । उष्ट्रस्य विकारोऽवयवोवा वुञ् । २ उष्ट्र-
विकारे ३ तदवयवे च त्रि० ।

औष्ट्ररथ न० उष्ट्ररथस्येदम् “पत्रपूर्व्वादञ्” पा० रथादित्य-

नुवृत्तौ अञ् । उष्ट्रवाह्यरथसम्बन्धिनि ।

औष्टायण पुंस्त्री उष्ट्रस्यापत्यम् बा० फक् । उष्ट्रापत्ये ततः

चतुरर्थ्याम् अरोहणादि० वुञ् । औष्ट्रायणक तत्सन्नि-
कृष्टदेशादौ त्रि० ।

औष्ट्रिक त्रि० उष्ट्रेभवः ठक् । उष्ट्रभवे दध्यादौ “विपाके

कटु सक्षारं गुरु भेद्यौष्ट्रिकं दधि” सुश्रुतः ।

औष्ठ त्रि० ओष्ठ ओष्ठाकारोस्त्यस्य प्रज्ञा० अण् । ओष्ठा-

कारकाष्ठाबयवयुक्ते आश्विनग्रहपात्रे । “औष्ठमाश्विनम्”
कात्या० ९, २, ७, “औष्ठावयवयुक्तमाश्विनग्रहपात्रम्” कर्कः
“तद्दिदेबत्यमौष्ठमाश्विनपात्रम्” शत० ब्रा० ४, १, ५, १९ ।

औष्ठ्य त्रि० ओष्ठे भवः यत् स्वार्थे अण् । ओष्ठभवे उवर्ण्ण

पवर्गयोः “ओष्ठजावुपू” इतिशिक्षोक्तेस्तयोस्तथात्वम्

औष्णिज न० उष्णिज् + प्रज्ञा० स्वार्थेऽण् । उष्णिगर्थे ।

औष्णिह त्रि० उष्णिहि भवः उत्सा० अञ् तस्येदमण् वा ।

१ उष्णिक्छन्दोमवे २ तत्सम्बन्धिनि च । उष्णिहा स्तुत्यः
अण् । ३ उष्णिक्छन्दसा स्तुत्ये सवितरि “सवित्र उष्णि-
हाय” यजु० १९, ६ ।

औष्णीक त्रि० उष्णीषे शोभते अण् पृषो० । १ उष्णीष-

धारिणि २ तद्धारिजनपदविशेषे ३ तन्नृपे च “औष्णी-
कानन्तवासांश्च योधकान् पुरुषादकान्” भा० स० ५० ।

औष्ण्य न० उष्णस्य भावः गुणवचनत्वात् ष्यञ् । उष्णस्पर्शे

स च “उष्णस्पर्शस्तु तेजसः” इत्युक्तेः तेजसएव स्वाभावि-
कधर्म्मः ततसंयोगादितरेषामौपाधिकः । सुश्रुते तत्कार्य्य-
पित्तस्य धर्म्मैत्युक्तं यथा “औष्ण्यतैक्ष्ण्यरौक्ष्यला-
घववैशद्यगुणलक्षणं पित्तं तस्य समानयोनिः कटुकोरसः
सोऽस्यौष्ण्यादौष्ण्यं वर्द्धयति” सुश्रु० ।

औष्म्य न० ऊष्णणोभावः ऊष्मैव वा ष्यञ् । उष्णस्पर्शे । “पूर्व-

राजवियोगौष्म्यं कृत्स्नस्य जगतोहतम्” रघुः । उष्णस्पर्शो
यद्यपि तेजोयोगात् भवति तथापि देहस्य तथा स्पर्शः
सशदशाङ्गसूक्ष्मदेहसंयोगादेव तथोक्त शा० सूत्रभाष्ययोः
“अस्यैव चोपपत्तेरेष ऊष्मा” सू० “अस्यैव च सूक्ष्मशरीरस्यैष
ऊष्मायमेतस्मिन् जीवच्छरीरे संस्पर्शेनोष्णिमानं विजानाति
तथाहि मृतावस्थायामवस्थितेऽपि देहे विद्यमानेष्वपि च
रूपादिषु देहगुणेषु नोष्मोपलभ्यते जीवदवस्थायामेव
तूषलभ्यते इत्यत उपपद्यते प्रसिद्धशरीरव्यतिरिक्तव्यापाश्रय
एवैष ऊष्मेति तथा च श्रुतिः “उष्ण एव जीविध्वञ्छीतो-
मरिष्यन्निति” भा० । तदुपाधिकत्वात् जीवस्यापि ऊष्मत्वं
व्यवह्रियते इत्युक्तं प्राक् ।
इति वाचस्पत्ये औकारादिशब्दार्थसङ्कलनम् ।
इति श्रीतारानाथ--तर्कवाचस्पति--भट्टाचार्य्य--विरचिते वाचस्पत्येऽभिधाने
स्वरवर्ण्णादिशब्दार्थसङ्कलनं समाप्तम् ।
ॐ तत्सत् [Page१५९५+ ३७]
वर्णः स्वरः कालः स्थानम् आभ्यन्तरप्रयत्नः बाह्यप्रयत्नाः ।
उदात्तानुदात्तस्वरिताः एकमात्रोह्रस्वः कण्ठः विवृतम् संवारनादघोषाः अल्पप्राणश्च
उदा० ३ द्विमात्रोदीर्घः कण्ठः विवृतम् संवारनादघोषाः अल्पप्राणश्च
अ ३ उदा० ३ त्रिमात्रःप्लुतः सः तत् ते सच
उदा० ३ एकमात्रोह्रस्वः तालु तत् ते सच
उदा० ३ २ द्विमात्रोदीर्घः तत् तत् ते सच
इ ३ उदा० ३ त्रिमात्रःप्लुतः तत् तत् ते सच
उदा० ३ एकमात्रोह्रस्वः ओष्ठौ तत् ते सच
उदा० ३ द्विमात्रोदीर्घः तौ तत् ते सच
उ ३ उदा० ३ त्रिमात्रःप्लुतः तौ तत् ते सच
उदा० ३ एकमात्रोह्रस्वः मूर्द्धा तत् ते सच
उदा० ३ द्विमात्रोदीर्घः सः तत् ते सच
ऋ ३ उदा० ३ त्रिमात्रःप्लुतः सः तत् ते सच
उदा० ३ एकमात्रोहस्वः दन्तमूलम् तत् ते सच
ऌ ३ उदा० ३ त्रिमात्रःप्लुतः तत् तत् ते सच
अस्य दीर्घाभावेऽपि लकारद्वययोगात् द्विमात्रता दन्तमूलम् तत् ईषत्स्पृष्टं च ते सच
उदा० ३ द्विमात्रोदीर्घः कण्ठतालुनी विवृतम् ते सच
ए ३ उदा० ३ त्रिमात्रःप्लुतः कण्ठतालुनी तत् ते सच
उदा० ३ द्विमात्रोदीर्घः कण्ठतालुनी तत् ते सच
ऐ ३ उदा० ३ त्रिमात्रःप्लुतः कण्ठतालुनी तत् ते सच
उदा० ३ द्विमात्रोदीर्घः कण्ठोष्ठौ तत् ते सच
ओ ३ उदा० ३ त्रिमात्रःप्लुतः कण्ठौष्ठौ तत् ते सच
उदा० ३ द्विमात्रोदीर्घः कण्ठौष्ठौ तत् ते सच
औ ३ उदा० ३ त्रिमात्रःप्लुतः कण्ठौष्ठौ तत् ते सच
एषामनुनासिकत्वे उदा० यथाप्राप्तम् यथास्थानं नासिकाऽपि तत् यथप्राप्तं बाह्याः
अनुस्वारस्य नासिका स्पृष्टम् संवारनादघोषा महाप्राणश्च
: विसर्गस्य कण्ठः स्पृष्टम् विवारश्वासाघोषा महाप्राणश्च
+ क + ख जिह्वामूलम् स्पृष्टम् विवारादयः महाप्राणश्च
पँ फँ औष्ठौ स्पृष्टम् विवारादयः महाप्राणश्च
अर्द्धमात्रा कण्ठमूलम् स्पृष्टम् विवारश्वासाघोषा अल्पप्राणश्च
अर्द्धमात्रा तत् तत् विवारादयः महाप्राणश्च
सा तत् तत् संवारनादघोषा अल्पप्राणश्च
सा तत् तत् संवारादयः महाप्राणश्च
सा तत् नासा च तत् संवारादयः अल्पप्राणश्च
अर्द्धमात्रा तालु तत् विवारादयः अल्पप्राणश्च
सा तत् तत् विवारादयः महाप्राणश्च
सा तत् संवारादयः अल्पप्राणश्च
वर्णः स्वरः कालः स्थानम् आभ्यन्तरप्रयत्नः बाह्यप्रयत्नाः ।
अर्द्धमात्रा तालु स्पृष्टम् संवारादयः महाप्राणश्च
साः तालु नासा च तत् संवारादयः अल्पप्राणश्च
सा मूर्द्धा तत् विवारादयः अल्पप्राणश्च
सा सः तत् विवारादयः महाप्राणश्च
सा सः तत् संवारादयः अल्पप्राणश्च
सा सः तत् संवारादयः महाप्राणश्च
सा सः नासा च तत् संवारादयः अल्पप्राणश्च
सा दन्तमूलम् तत् विवारादयः अल्पप्राणश्च
सा तत् तत् विवारादयः महाप्राणश्च
सा तत् तत् संवारादयः अल्पप्राणश्च
सा तत् तत् संवारादयः महाप्राणश्च
सा तत् नासा च तत् संवारादयः अल्पप्राणश्च
सा औष्ठौ तत् विवारादयः अल्पप्राणश्च
सा तौ तत् विवारादयः महाप्राणश्च
सा तौ तत् संवारादयः अल्पप्राणश्च
सा तौ तत् संवारादयः महाप्राणश्च
सा तौ नासा च तत् संवारादयः अल्पप्राणश्च
सा तालु ईषत् स्पृष्टम् विवारादयः अल्पप्राणश्च
सा मूर्द्धा ईषत् स्पृष्टम् विवारादयः अल्पप्राणश्च
सा दन्तमूलम् तत् ते सच
सा दन्तोष्ठौ तत् ते सच
यवलानामनुनासिकत्वे यथास्थानं नासाऽपि तत् ते सच
सा तालु अर्द्धस्पृष्टम् विवारादयः महाप्राणश्च
सा मूर्द्धा तत् ते सच
सा दन्तमूलम् तत् ते सच
सा कण्ठः अर्द्धस्पृष्टम् संवारादयः महाप्राणश्च
कँ खँ गँ घँ रूपयमानाम् सा यथास्थानं नासिका च स्पृष्टम् यथाप्राप्तं बाह्याः
ह्ण ह्न ह्म ह्य ह्र ह्ल ह्व उरः यथास्थानञ्च यथाप्राप्तम् संवारादयः महाप्राणश्च
उदात्तादीनां सूचक चिह्नानि तु ऊर्द्ध्वरेखाचिह्नितः अकरादिवर्ण उदात्तः,
अधोरेखाचिह्नितः अनुदात्तः, ऊर्द्ध्वाधोरेखारहितः खरित इति ।
तत्र अचामेव स्वरकृतविभागः, न तु व्यञ्जनानां तेषामुदात्तादिस्वराभावात् ।
पृष्ठ १५९७
स्वरवर्णविभागादि ।
स्वरवर्ण्णा अकारादयः औकारान्ताः शिक्षाभते
द्वारिंशतिस्त्रयोविंशतिर्वा “स्वरा विंशतिरेकश्च “दुःस्पृष्टश्चेति
विज्ञेय ऌकारःप्लुत एव चेति” च शिक्षोक्तेः । तथाहि
ह्रस्वदीर्घप्लुतभेदेन अ, इ, उ, ऋ, इत्येते द्वादश
ऌकारः ह्रस्व एव तस्य दीर्घाभावात् । ए, ऐ, ओ औ,
इत्येते दीर्घप्लुतभेदात् अष्टौ इत्येकविंशतिः ऌकारस्य
लकारद्वययुक्तत्वेन ईषत्स्पृष्टतया दुष्पृष्टत्वेन द्वाविंशतिः
प्लुतत्वे त्रयोविंशतिर्भेदाः स्थूलाः । तेषां च प्रत्येकमुदा-
त्तानुदात्तस्वरितभेदैः त्रैविध्येन ६६ भेदाः ६९ वा
भेदाः । पुनस्तेषामनुनासिकाननुनादिकभेदाभ्यां द्वैवि-
ध्यात् १३२ । १३८ वा सूक्ष्मा भेदाः सर्व्वेषाञ्चैषां स्वयं
राजमानत्वात् उदात्तादिस्वरवत्त्वाच्च स्वरशब्दवाच्यता ।
तन्त्रमते तु अनुस्वारविसर्गसहिताः अ, आ, इ,
ई, उ, ऊ, ऋ, ॠ, ऌ, ॡ, इत्येते दश ए, ऐ,
ओ, औ, इत्येते चत्वारः इत्येते षोडश । पाणि-
नीयमते ऌकारस्य यथा दीर्घत्वामावेऽपि लकारद्वययुक्त
ह्रस्वऌकारैकमात्रया द्विमात्रत्वसाम्यात् दीर्घत्वव्यवहार-
स्तथा ऌकारादिशब्दे उक्तः । अनुस्वारविसर्गयोश्च अक्ष-
रसमाम्नायसूत्रेषु अ, इ, उण्, इत्यादिष्र माहेश्वरेषु
चतुर्द्दशसु सूत्रेषु आम्नानाभावेऽपि भाष्यकृता अट्सूप-
संख्यानेऽपि न स्वरवर्ण्णत्वम् “अयोगवाहा विज्ञेया
आश्रवस्थानभागिनः” इत्युक्त्या स्वयंविराजमानत्वाभावात्
उदात्तादिस्वरवत्त्वाभावाच्च । तयोः स्वरवर्ण्णत्वाभावेऽपि
अट्सूपसंख्यानञ्च षत्वणत्वकार्य्यार्थम् । तेन हवींषि इत्यादौ
अनुस्वारव्यवधानेऽपि षत्वम् । अत्र च नुम्स्थानिकानुस्वा-
रस्यैव निमित्तता न तद्भिन्नस्य, तेन सुहिंसु पुंसु इत्यादौ
न षत्वम् । णत्वं तु सर्व्वानुस्वारव्यवायेऽपि तेन तृंहणं
वृंहणमित्यादौणत्वम् “अट्कुप्वाङ्नुम्व्यवायेऽपीत्युक्तेः तत्र
अड्ग्रहणेनैवानु स्वारप्राप्तेरनुस्वारमात्रव्यवाये णत्वार्थं नुम्
ग्रहणम् न तु षत्वैव नुम्स्थानिकस्यैव ग्रहणमित्युक्तोदा-
हृतौ णत्वम् । सर्व्वेषां स्वरवर्ण्णोच्चारणे विवृतं दूरावस्था-
नरूपम् आभ्यन्तरप्रयत्नः “विवृतमूष्मणां खरणाञ्च” इति
“अचोऽस्पष्टाः इति चोक्तेः । एषां बाह्यप्रयत्नास्तु घोषनाद-
संवाराः “कण्ठमन्ये तु घोषाः स्युः संवृता नादभागिनः”
इत्युक्तेः । यथा चैषां दूरावस्थानं तथा सरलायामस्मा-
भिरुक्तं तच्च आभ्यन्तरप्रयत्नशब्दे उक्तम् । एतेषामुच्चारण-
स्यानानि प्रदर्श्यन्ते । अ इति वर्णः कण्ठमूलोच्चार्य्यः
“जिह्वामूले तु कुः प्रोक्तः” इत्युक्तेः । तत्र अ इति ह्रस्व-
वर्ण्णः एकमात्रत्वात् । स च उदात्तानुदात्तस्वरितभेदात्-
त्रिधा, त्रिविधोऽपि अनुनासिकाननुनासिकरूपद्वैविध्यात्
षड्विधः । एवं आ इति दीर्घः द्विमात्रत्वात् तस्य च
तथैव षड्विधत्वम् । अ ३ प्लुतवर्ण्णः त्रिमात्रत्वात् तस्यापि
उक्तरीत्या षाड्विध्यम् तथा च ऐत्येतत् अष्टादशानां
संज्ञा पारिभाषिकी कारतकारपरत्वे स्वरूपपरता । एवम्
इ, इति तालव्यः “इचुयशानां तालु” इत्युक्तेः । तस्यापि
इ, ई, इ ३ इति ह्रस्वदीर्घप्लुतसंज्ञा एकमात्रद्विमात्र
त्रिमात्रताभेदात् तेषाञ्च प्रत्येकमुक्तरीत्या षाड्विध्यमित्यष्टा-
दशविधता । तथाच इ, इति अष्टादशानां संज्ञा तपरत्वे
कारपरत्वे च स्वरूपपरता । उ इति वर्ण्ण ओष्ठोचार्य्यः
“ओष्ठजावुपू” इत्युक्तेः स च ह्रस्वदीर्घप्लुतरूपः
एकमात्रद्विमात्रत्रिमात्रताभेदात् त्रिविधः तेषां प्रत्येकमुक्तरीत्या
षाड्विध्यमित्याष्टादशविधता । एवञ्च उ, इत्यष्टादशानां
संज्ञा तपरत्वे कारपरत्वे च स्वरूपपरता । ऋ, इति
मूर्द्धस्थानोच्चार्य्यं “ऋढुरसानां मूर्द्ध्वा” इत्युक्तेः स
च ह्रस्वदीर्घप्लुतरूपः त्रिधा एकमात्रत्वादिभेदात् ।
तेषाञ्च प्रत्येकमुक्तरीत्या षाडिध्यात् अष्टादशविधता ।
“ऋऌवर्णयोर्मिथः सावर्ण्यम्” इत्युक्तेः ऌकारस्य
वक्ष्यमाणद्वादशभेदसहिता अष्टादशभेदाः तेन ऋ इति त्रिं
शतां संज्ञा इति भेदः । तपरत्वे कारपत्ये च स्वरूपपरता ।
ऌवर्णः दन्तमूलोच्चार्य्यः “ऌतुलसानां दन्तः” इत्युक्तेः
तस्य दीर्घाभावात् ह्रस्वप्लुतभेदेन द्वैविध्यम् तयोश्च प्रत्ये-
कमुक्तरीत्या षाड्विध्यात् द्वादशविधतेति ऌवर्णः द्वादशानां
संज्ञा तपरत्वे कारपरत्वे च स्वरूपपरता । अ, इ, उ, ऋ, ऌ,
इत्येषां वर्ण्णपरत्वे अष्टादशादीनामुक्तानां संज्ञा । अधिकं
सूचीपत्रे दृश्यम् एप्रभृतीनां विभागादि तत्तच्छब्दादौ उक्तः
अकारादीनामनुक्ता वाचकशब्दाः तन्त्रोक्ता वर्ण्णा-
भिधाने दर्शितास्तेऽत्र क्रमेणोच्यन्ते यथा

“अःश्रीकण्ठः सुरेशश्च ललाटं चैकमातृकः । पूर्णो

दरी सृष्टिमेषौ सारखतप्रियंवदः । महाब्राह्मी वासुदेवो-
धनेशः केशवोऽमृतम् । कीर्त्तिर्निवृत्तिर्वागीशो नरका-
रिर्हरोमरुत् । ब्रह्मा रामानुजोह्रस्व कामश्च प्रणवाद्यकः ।
ब्रह्माणी कामरूपश्च कामेशीवासिनी वियत् । विश्वेशः
श्रीविष्णुकण्ठौ प्रतिपत्तिथिरश्विनी । अर्कमण्डलं वर्णाद्यो
ब्राह्मणः कामकर्षिणी” ।
पृष्ठ १५९८

“आकारोविजयोऽनन्तोदीर्घच्छायोविनायकः । क्षीरो-

दधिपयोदश्च पाशोदीर्घास्यवृत्तके । प्रचण्डएकजोरुद्रो-
नारायणैभेश्वरः । प्रतिष्ठा मानदा कान्तो विश्वान्त-
कगजा न्तकौ । पितामहोद्विठान्तोभ्रूः क्रिया कान्तिश्च
सम्भवः । द्वितीया मानदा काशी विघ्नराजः कुजीवि
यत् । सुरान्तकश्च हृदयञ्चाङ्गुष्ठोभगमालिनी ।

“इःसू क्ष्मा शाल्मली विद्या चन्द्रः पूषा सुगुह्यकः । सुमित्रः

सुन्दरोधीरः कोटरी कोटरःपयः । भ्रुमध्योमाधवस्तुष्टि-
र्दक्षनेत्रञ्च नासिका । शान्तः कान्तिः कामिनी च
कामोविघ्नविनायकः । नेपालो भरणीरुद्रोनित्यक्लिन्ना च
पोवकः” ।

“ईर्मूर्त्तिः स्त्री महामाया लोलाक्षी वामलोचनम् ।

गोविन्दः शेखरः पुष्टिः सुभद्रा रत्नसंज्ञकः । विष्णुर्लक्ष्मी-
र्महेशश्च वह्निशुद्ध्वःपरापरः । कालोत्तरी भेरुरण्डा रतिश्च
पाण्डुवर्द्धनः । शिवोत्तमः शिवा तुष्टिश्चतुर्थी विन्दुमा-
लिनी । वैष्णवी वल्लवी जिह्वा कामकला सनादिका ।
पावकः कोटरः कीर्त्तिर्मोहिनी कालकारिका । कुचद्वन्द्वं
तर्ज्जनीशो शात्तिस्त्रिपुरसुन्दरी ।

“उः शङ्करोवर्त्तुलाक्षो भूतःकल्याणवाचकः । अमरेशोदक्ष-

कर्ण्णः षड्वक्त्रोमोहनः शिवः । उग्रःप्रभुर्धृतिर्विष्णुः विश्व-
कर्म्मा महेश्वरः । शत्रुघ्नश्च कटिः पुष्टिः पञ्चमी वह्निवा-
सिनी । कामघ्नः कमलावेशो मोहिनी विघ्नहृन्मही ।
तटसूः कुटिला श्रोत्रं पारहीनो वृषोहरः” ।

“ऊःकण्टकोरतिः शान्तिः क्रोधनोमधुसूदनः । कामः

राजकुजेशश्च महेशोवामकर्णकः । अर्घोशीभैरवः सूक्ष्मो
दीर्घषोणा सरस्वती । विलासिनी विघ्नकर्त्ता लक्षणो
रूपकर्षिणी । महाविद्येश्वरी षष्ठी षण्डोभूःकान्य-
कुब्जकः” ।

“ऋःसुदीर्घमुखी रुद्रोदेवमाता त्रिविक्रमः । भारभूतिः

क्रिया हारोरेचिका नासिका धृतिः । एकपादः शिरो-
माला मण्डना शान्तिनी जलम् । कर्णः कामलता मेघो-
निवृत्तिर्गणनायकः । रोहिणी शिवदूवी च पूर्ण्णा गिरिश्च
सप्तमी” ।

“ॠःक्रोधी तिथीशोवाणीवामनो गोमुखी धृतिः । ऊर्द्ध्व-

मुखो निशानाथः पद्ममाला विनष्टधीः । शशिनी मोचिका
श्रेष्ठा दैत्यमाता प्रतिष्ठिता । एकदन्ताह्वयोमाता-
त्वरिता मिथुनोदया । कोमला श्यामला मेधा तारका-
पतिरष्टमी । ब्रह्माण्यमरकीलाले पावकोगन्धक षणा ।

ऌःस्थाणुः श्रीधरः शुद्धो मेघोधूम्रो वकोवियत् ।

देवयोनिर्दक्षगण्डोरुद्रः काकोदरी शुभा । शान्तिकृत्
स्वस्तिका शक्रो माया च भ्रामरी शुभा । विश्वेश्वरो दीर्घ-
जिह्वा महास्त्री लाङ्गली परा । चन्द्रिका पार्थिवोघूम्या
द्विदन्तः कामवर्द्धनः । शुचिस्मिता च नवमी कान्तिरायत-
केश्वरः । चित्तस्याकर्षणकरी तुरीया कुलसुन्दरी” ।

ॡकारः कमलाकर्षी हृषीकेशोमधुव्रतः । सूक्ष्मा कान्ति-

र्वामगण्डोरुद्रःकामोदरी शुभा । दशमी सुस्थिरोमाता
नीलपीतोगजाननः । कामिनी विश्वपः कालोनित्यशुद्धः
शुचिः कृती । सूर्य्योधैर्य्याकर्षिणी च एकाक्षी दनुजप्रसूः” ।
एकारादीनां वाचका तत्तच्छब्दे उक्ता । एषामधिष्ठातृदेव-
ताश्च तत्रैवोक्ता यथा “अकारे भीषणा कीर्त्तिर्विद्युज्जि-
ह्वेति कीर्त्तिता । आकारे तामसी कालजिह्वाग्रा
कालभैरवी । इकारे गजिनी चण्डा ज्ञेया रुद्रभयङ्करी ।
ईकारे सूचिनी ख्याता चण्डीग्रा धूम्रभैरवी । उकारे
कालरक्ताख्या प्रचण्डा चण्डवल्लभा । विद्या ह्यूकारगा
प्रोक्ता तालजङ्घा कपालिनी । ऋकारे कालिका देवी
पितृकालो भयङ्करो । ऋकारे स्यान्महारीद्री ज्वालिनी
योगिनीत्यपि । संहारिणी ऌकारे स्यान्मेघनादोग्रवासिनी ।
रुद्रचण्डा कालरात्री ॡकारे च कपालिनी” ।
एकारादीनमधिष्ठातृदेवताश्च एकारादिशब्दानामादौ दर्शिताः
अकारादीना ध्येयरूपञ्च कामधेनुतन्त्रे दर्शितं यथा

“शृणु तत्त्वमकारस्य अतिगोप्यंवरानने! । शरच्-

चन्द्रप्रतीकाशं पञ्चकोशमयं सदा । पञ्चदेवमयं वर्णं
शक्तित्रयसमन्वितम् । निर्गुणं त्रिगुणोपेतं स्वयं
कैवल्यमूर्त्तिमत् । विन्दुतत्त्वमयं वर्णं स्वयंप्रकृतिरूपकम्” ।

“आकारं परमाश्चर्य्यं शङ्खज्योतिर्मयं प्रिये! । ब्रह्मविष्णु

मयं वर्णं तथा रुद्रमयं प्रिये! । पञ्चप्राणमयं वर्णं
स्वयं परमकुण्डलीम्” ।

“इकारं परमानन्दं सुगन्धकुसुमच्छविम् । हरिब्रह्ममयं

वर्णं सदारुद्रयुतं प्रिये ॥ सदा शक्तिमयं देवि! गुरुब्रह्म
मयं तथा । सदाशिवमयं वर्णं परं ब्रह्मसमन्वितम् ।
हरिब्रह्मात्मकं वर्णं गुणत्रयसमन्वितम् । इकारं परमे-
शानि! स्वयं कुण्डलीमूर्त्तिकम्” ।

“ईकारं परमेशानि स्वयं परमकुण्डलीम् । ब्रह्मावष्णु-

मयं वर्णं तथा रुद्रमयंसदा । पञ्चदेवमयंवर्णं पीत
विद्युल्लताकृतिम् । चतुर्ज्ञानमयं वर्णं पञ्चप्राणमयं
सदा” ।
पृष्ठ १५९९

“उकारं परमेशानि! अधःकुण्डलिनीं स्वयम् । पीतचम्पक-

सङ्काशं पञ्चदेवमयंसदा । पञ्चप्राणमयं देवि!
चतुर्वर्गप्रदायकम् ।

“शङ्खकुन्दसमाकारमूकारं परकुण्डलीम् । पञ्चप्राण

मयं वर्णं पञ्चदेवमयं सदा । पञ्चप्राणयुतं वर्णं पीत
विद्युल्लतां यथा । धर्मार्थकाममोक्षस्य सदा सुखप्रदायकम्”।

“ऋकारं परमेशानि कुण्डलीमूर्त्तिधारकम् । अत्र व्रह्मा

च विष्णुश्च रुद्रश्चैव वरानने! । सदाशिवमयं वर्णं
सदाईश्वरसंयुतम् । पञ्चवर्णमय वर्णंचतुर्ज्ञानमयं तथा । रक्त
विद्युल्लताकारमूकारं प्रणमाम्यहम् ।

“ॠकारं परमेशानि! स्वयं परमकुण्डलीम् । पीतवि-

द्युल्लताकारं पञ्चदेवमयम् सदा । चतुर्ज्ञानमयं वर्णं
पञ्चप्राणयुतं सदा । त्रिशक्तिसहितं वर्णं प्रणमामि
सदा प्रिये ।

“ऌकारं चञ्चलापाङ्गि! कुण्डलीं परदेवताम् । अत्र

ब्रह्मादयः सर्व्वे तिष्ठन्ति सततं प्रिये! । पञ्चदेवमयं वर्णं
चतुर्ज्ञानमयं सदा । पञ्चप्राणयुतं वर्णं तथा
गुणत्रयात्मकम् । विन्दुत्रयात्मकं वर्णं पीतविद्युल्लतां यथा ।

ॡकारं परमेशानि! पूर्णचन्द्रसमप्रभम् । पञ्चदेवात्मकं वर्णं

पञ्चप्राणात्मकं सदा । गुणत्रयात्मकं वर्णं तथा विन्दु-
त्रयात्मकम् । चतुर्ब्बर्गप्रदं देवि! स्वयं परमकुण्डलीम् ।
एकारादीनां ध्येयरूपाण्येकारादिशब्देषु उक्तानि” ।
इति वाचस्पत्ये स्वरविभागादि ।
व्यञ्जनवर्ण्णविभागादि
व्यञ्जनवर्ण्णाः त्रिविधाः स्पर्शान्तस्थोष्मभदात् तत्र कादयो
मावसानाः स्पर्शाः, यरलवा अन्तःस्था शषसहा ऊष्माणः ।
“आत्मा बुद्ध्या समेत्यार्थान् मनोयुङ्क्ते विवक्षया । मनः
कायाग्निमाहन्ति स प्रेरयति मारुतम् । सोदीर्ण्णोमूर्द्ध्न्य-
भिहतो वक्त्रमापद्य मारुतः । वर्ण्णान् जनयते तेषां विभागः
पञ्चधा मतः । स्वरतः कालतः स्थानात् प्रयत्नानुपदानतः”
इति शिक्षोक्तेः सर्वेषां वर्ण्णाना प्राणवायुजन्यत्वम् । तथाहि
चेतनेन ज्ञातार्थविवक्षया तद्बोधकशब्दनिष्पादनाय प्रे-
रितमन्तःकरण मूलाधारस्थितमनलं चालयति तच्चालित-
श्चानलस्तत्स्थलस्थानिलचालनाय प्रभवति तच्चालितेन
चानिलेन तत्रैव सूक्ष्मरूपेणोत्पादितः शब्दः परा
वागित्यभिधीयते । ततोनाभिदेशपर्य्यन्तं चलितेन तेन तद्द श
संयोगादुत्पादितः शब्दः पश्यन्तीति कीर्त्त्यते एतद्द्व-
यस्य सूक्ष्मसूक्ष्मतरतया ईश्वरयोगिमात्रगम्यता नास्म-
दीयश्रुतिगोचरता । ततस्तेनैव हृदयदेशं परिसरता
हृदयसंयोगेन निष्पादितः शब्दो मध्येत्युच्यते सा च
स्वकर्णपिधानेन ध्वन्यात्मकतया सूक्ष्मरूपेण कदाचिदस्मा-
कमपि समधिगम्या । ततो मूर्द्धपर्य्यन्तमाक्रमता तेन
आहत्य मूर्द्धानं तत्प्रतिघातेन ततः परावृत्य मुखविवरे
कण्ठादितत्तत्स्थानेषु स्वाभिघातेनोत्पादितः शब्दो
वैखरीत्युच्यते । इत्येवं वर्ण्णोत्पत्तिस्तेषाञ्च विभागः पञ्चधा
तद्यथा स्वरतः १ उदात्तानुदात्तस्वरितभेदात् अचां
त्रैविध्यम् तथाकालतोऽपि २ त्रैविध्यम् “उदात्तमनुदात्तञ्च
स्वरितञ्च स्वरास्तथा । ह्रस्वोदीर्घः प्लुतश्चेति कालतो
नियमा अचि” इत्युक्तेः अचामेव स्वरवत्त्वात्तथात्वम्
कालस्तु उच्चारणकालभेदः स च यद्यपि अचामेवोक्तस्तथापि
“एकमात्रोभवेद् ह्रस्वोद्विमात्रोदीर्घ उच्यते । त्रिमात्रस्तु
प्लुतोज्ञेयो यञ्जनञ्चार्द्धमात्रकम्” इत्युक्तेः व्यञ्जनाना-
मप्यर्द्धमात्राकालेनोच्चार्य्यत्वात् कालकृतविभागोऽस्त्येव ।
मात्राकालस्तु “दशगुर्वक्षरैः पाणःषड्भिः प्राणैर्विनाड़िका”
इत्युक्तेः विनाड़िकायाः पलात्मिकायाः षष्टितमभागरूपका-
लार्द्धभागो मात्रा “द्विमात्रो दीर्घ उच्यते” इत्युक्तेः दीर्षस्य
गुरुतया पलषष्टितमभागत्वात् तथा च १५ पञ्चदशानु-
पलात्मककालः अर्द्धमात्राकालः त्रिंशदनुपलात्मकः कालः
एकमात्राकालः, विपलात्मकः कालः द्विमात्रकालः
सार्द्धविफलात्मक कालः त्रिमात्रकालः । तत्तत्कालो-
च्चार्य्यत्वात् वर्ण्णानां कालकृतविभागवत्त्वम् । इत्यास्तु
विशेषः स्वराणामिव व्यञ्जनानां न ह्रस्वादिविभागः
किन्तु सर्वेषामर्द्धमात्रत्वमेवेति । स्थानतो(३)विभागो
यथा “कष्टौ स्थानानि वर्ण्णानामुरः कण्ठः शिरस्तथा ।
जिह्वामूलञ्च दन्ताश्च नासिकौष्ठौ च तालु चेति” सामा-
न्यत उक्त्वा वर्णभेदेन स्थानविशेषः शिक्षायामुक्तः यथा
“हकारं पञ्चमैर्य्युक्तमन्तःस्थाभिश्च संयुतम् । औरस्यन्तं
विजानीयात् कण्ठ्यमाहुरसंयुतम् । कण्ठ्यावहाविचुय-
शास्तालव्या ओष्ठजावुपू । स्युर्मूर्द्धन्या ऋट्रषा हन्त्या
ऌतुलसाः स्मृताः । जिह्वामूले तु कुः प्रोक्तः दन्तोष्ठ्यो
वः स्मृतो वुधैः । ए ऐ तु कण्ठ्यतालव्यावोऔ कण्ठो
ष्ठजौ स्मृतौ । अर्द्धमात्रा तु कण्ठ्या स्यादेकारैकारयो
पृष्ठ १६००
र्भवेत् । ओकारौकारयोस्तद्वदिति” “अनुस्वारयमानाञ्च
नासिका स्थानमुच्यते । अयोगवाहा विज्ञेया आश्रय-
स्थानभागिनः” इति च । यद्यपि सर्ब्बेषां वर्णानामुच्चारणे
कण्ठव्यापार आवश्यकस्तथापि चकाराद्युच्चारणे ताल्वा-
दिव्यापारोऽधिकोऽप्यपेक्षित इति तन्मात्रामात्रकृतत्वेन
वर्णानां वैलक्षण्यम् । “जिह्वामूले तु कुः प्रोक्तः” इति
पाणिनिशिक्षाभिधानात् कवर्गस्य कण्ठमूलीयत्वम् कण्ठ्य-
त्वव्यवहारस्तु कण्ठशब्दस्य कण्ठमूलपरतया भाक्त एव
तवर्गस्य दन्तभूलीयत्वेऽपि दन्त्यत्ववत् अन्यथा भग्नदन्तस्य
तदनुच्चारापत्तेः । जिह्वामूलीयस्य आश्रयस्थानभागित्वेनोक्तेः
तदाश्रयस्य कोरपि जिह्वामूलस्थानत्वौचित्यात् । दन्तो-
ष्ठ्योवैत्यादाबुभयोरेव वकारस्थानत्वं नतु प्रत्येकस्थ तथासति
दन्त्यौष्ठ्यैत्येव परिशिक्ष्येत । अतस्तस्य दन्तौष्ठोभवकार्य्य-
भाक्त्वम् एवमग्रेऽपि द्रष्टव्यम् । यमानां प्रातिशाख्यप्रसि-
द्धानां कँखँगँघँ इत्येषां यम्प्रत्त्याहारसंज्ञाबोधितानाञ्च
नासिकापि स्थानमधिकमुपदिश्यते । तत्र च यमेत्युपलक्षणम्
“अमोऽनुनासिका नह्रौ” इत्युक्त्या हकाररकारभिन्नानाम्
अम्प्रत्याहारबोधितानाम् नासिकास्थानत्वविधानात्
नासामनुगतः स्थानत्वेनेत्यनुनासिक शब्दव्युत्पत्त्या नासि-
कास्थानत्वप्राप्तेश्च । तत्र नह्राविति पुनः हकाररकारयोः
पर्य्युदासः । “मुखनासिकावचनोऽनुनासिकः” पा० सूत्रे
मुखपदस्य कण्ठादितत्तत्स्थानपरतया यमानामुभयस्था-
नत्वम् । अयोगवाहा अनुस्वाराः विसर्गाश्च जिह्वामूली-
योपाध्मानीययोरपि विसर्गविशेषरूपत्वेनाश्रयस्थान भागि-
त्वम् । आश्रयस्थानभागित्वञ्च यमाश्रित्यैते उच्चार्य्यन्ते
तत्स्थानभागित्वमतः विसर्गस्य कखयोः परयोर्जिह्वामूलो-
च्चार्य्यमाणयोराश्रयत्वेन तत्स्थानभागित्वात् जिह्वामूलीय-
रूपान्वितनामता समुन्नेया । पफयोः परयोरोष्ठोच्चार्य्यमा-
णायोराश्रयत्वेनोपाध्मानीयता । उश्च पश्च आध्मायेते
अनेन स्थानेनेति व्युत्पत्तेः उपाध्मानशब्द ओष्ठवचनः ।
तत्स्थानोच्चार्य्यत्वादन्वितनामता चावधेया । अतएव
कौमुद्यां “जिहुमूलीयस्य जिह्वामूलमुपाध्मानीयस्योष्ठौ” इत्यु-
क्तम् । यद्यपि सर्व्वेषां वर्णानामाकाशस्थानत्वं
करणत्वञ्च कण्ठादीनां तदुत्पत्तौ युक्तं तथापि तेषां स्थानत्व-
व्यवहारः ताल्वादौ वर्णाभिव्यञ्जकवर्णजनकवायुसंयोगा-
धारे वर्णाधारत्वारोपेण भाक्त एव । तत्तत्स्थानेषु
जिह्वाग्रादिसम्बन्धेन वर्णोत्पत्त्या जिह्वाग्रादिस्थिते
तत्सम्बन्धजनकप्रयत्नविशेषे आभ्यन्तरप्रयत्नवाच्ये स्पृष्टता-
दावेव करणत्वव्यवहारः इति मञ्जूषायां स्थितम् ।
प्रयत्नाः ४ आभ्यन्तरप्रयत्नाः अनुप्रदानानि ५ बाह्यप्रयत्नास्त
रपि वर्ण्णानां विभागः । तत्र वर्ण्णभेदे प्रयत्नभेदादिकं
बाह्याभ्यन्तरप्रयत्नस्वरूपनिरूपणपूर्व्वशं शब्दार्थरत्नेऽणा-
भिर्निरूपितं यथा
आभ्यन्तरप्रयत्नास्तु वर्णोत्पत्तेः प्राग्भाविनः, बाह्यास्तु
तदुत्पत्तेः पश्चाद्भाविन इति विवेकः । तथा हि नाभि-
देशात् प्रयत्नप्रेरितः प्राणवायुरूर्द्ध्वमाक्रमन्नुरःप्रभृतीनि
स्थानान्याहत्य वर्णान् तदभिव्यञ्जकध्वनींश्च उत्पाद-
यति तत्र वर्णोत्पत्तेः प्राक् जिह्वाग्रोपाग्रमध्यमूलानि
तत्तद्वर्णोत्पत्तिस्थानं ताल्वादिकं यदा सम्यक् स्पृशन्ति
तदा स्पृष्टता प्रयत्नः, यदा ईषत् स्पृशन्ति तदा ईषत्-
स्पृष्टता, तेषां समीपावस्थाने संवृतता, दूरावस्थाने विवृतता
इत्येवनाभ्यन्तरप्रयत्नभेदैः वर्णानां भेदाः । अतएव
इचवर्गयशानां तालव्यत्वाविशेषेऽपि चवर्गोच्चारणे कर्त्तव्ये
तालुस्थाने जिह्वाग्रादीनां सम्यक्स्पर्शः, यकारो-
च्चारणे तु ईषत्स्पर्शः, शकारोच्चारणे समीपावस्थानम्
इवर्ण्णोच्चारणे दूरावस्थानमिति भेदः । एतेषां चाभ्यन्तरत्वम्
ओष्ठप्रभृतिकाकलीध्वनिजनककाकलस्थानपर्य्यन्तरूपास्या-
न्तर्गततत्तत्स्थानेषु जिह्वाग्रादीनां प्रागुक्तस्पर्शादिचतुष्टय-
रूपाभ्यन्तरकार्य्यकारित्वात् वर्णोत्पत्त्यव्यवहितप्राग्भावि-
त्वाच्च बोध्यम् । विवारसंवारौ तु गलबिलस्य विकाशावि-
काशात्मकौ बाह्यौ प्रयत्नौ विवृतसंवृताभ्यां भिन्नायेव
तयोः समीपदूरावस्थानात्मकत्वादिति विवेक्तव्यम् ।
अथ वर्ण्णभेदेनाभ्यन्तरप्रयत्नभेदस्तावदभिधीयते । तत्र
कादिमावसानानां स्पृष्टता, अतएव तेषां सम्यक्स्पर्श-
वत्त्वेन स्पर्शपदवाच्यता । यणः ईषत्स्पृष्टता । तेषा-
ञ्च स्पृष्टविवृतयोर्म्मध्यस्थितत्वेन लौकिकव्यवहारेष्वपि
शषसहानां वर्ग्याणाञ्च मध्यस्थितत्वेन चान्तःस्थाशब्द-
वाचाता । शसषहानाम् अचाञ्च विवृतता । शषसहानाञ्च
ऊष्मशब्दाभिधेयवायुप्रधानत्वात् ऊष्मशब्दवाच्यता । अचाञ्च
स्वयंराजमानत्वात् उदात्तादिस्वरवत्त्वाच्च स्वराभिधेयता
“अचः स्वयं विराजन्ते” इत्युक्तेः “उदात्तमनुदात्तञ्च
स्वरितञ्च स्वरास्त्रयः । ह्रस्वोदीर्घः प्लुतश्चेति कालतो
नियमा अचि” इति चोक्तेः । तत्र ह्रस्वस्य संवृतता । “संवृतं
त्वेकमात्रंस्यात् विवृतन्तु द्विमात्रकम्” इत्युक्तेः ह्रस्वस्यैक-
मात्रतया प्रयोगे संवृतता प्रक्रियायान्तु विवृततैव । तत्र
मूलं “अचोऽस्पृष्टा यणस्त्वीषन्नेमस्पृष्टाः शतस्तथा ।
पृष्ठ १६०१
शेषाः स्पृष्टा हलः प्रोक्ता” इति शिक्षावाक्यमेव वोध्यम् ।
अत्राचः स्पर्शाभावरूपविवृतत्ववन्तः यणः यरलवास्त्वीषत्
पृष्टा इत्यर्थः नेमैत्यर्द्धवाची । शलः शषसहा नेमस्पृष्टा
अर्द्धस्पृष्टा अर्थादर्द्धविवृताः “स्वराणामूष्मणाञ्चैव विवृतं
करणं स्मृतम्” इत्येकवाक्यत्वात् । एते च स्थानप्रयत्नाः
सवर्णसंज्ञायामुपयुक्ताः । बाह्यप्रयत्नास्तु आन्तरतम्यपरी-
क्षायामेवोपयोगिनैति “तुल्यास्यप्रयत्नं सवर्णमिति” पा०
सूत्रभाष्यादौ स्पष्टम् । तेन तकारस्थाने विवारश्वासघो-
षाल्पप्राणरूपबाह्यप्रयत्नसाम्येन चकारटकारादेश इति
“स्थानेऽन्तरतमः” इति सूत्रभाष्ये स्पष्टम् बहुसमान-
धर्म्मत्वमेवान्तरतम्ये हेतुरिति बोध्यम् ।
बाह्याः प्रयत्नाश्चाष्टविधाः काकलकाधास्थलगलबिल
सङ्कोचविकाशश्वासोत्पादकध्वनिविशेषघोषाल्पघोषप्राणा-
ल्पचमहत्त्वरूपकार्य्यकरा यथाक्रमं विवारसंवारश्वास-
नादघोषाघोषाल्पप्राणमहाप्राणनामानो मन्तव्याः ।
प्रयत्नप्रेरितो बायुर्व्वर्णानभिव्यञ्ज्य यत्नविशेषेण गलबिल-
विकाशादीनपि सम्पादयति अतो गलबिलविकाशादि-
करत्वादास्यवहिर्द्देशकार्य्यकरत्वात् चैते बाह्या इति ।
ते च “खयां यमाः खयः + कँपौ विसर्गः शरएव च ।
एतेश्वासानुप्रदाना अघोघाश्च बिवृण्वते । कण्टम्, अन्ये
तु घोषाः स्युः संवारा नादमागिनः । अयुग्मा वर्गयम-
गायणश्चाल्पासवः स्मृताः” इतिसिद्धान्तकौमुद्युक्तदिशाव-
सेयाः । खयां स्थाने जाता ये यमाः कँ खँ गँ घँ इत्येते
प्रातिशाख्यप्रसिद्धाः स्वयः, जिह्वामूलोयोपध्मानीयविसर्गाः
शरः शषसाश्च एते श्वासा अघोषाः कण्ठं विवृण्वत च ।
अन्ये एतद्भिन्नाः सर्वेवर्णा घोषसंवारनादरूपबाह्यप्रयत्न-
वन्तः । वर्गीयप्रथमतृतीयपञ्चमवर्णाः पूर्व्वोक्ताः प्रथम-
तृतीयवर्गजातयमाश्च यणः यरलवाः एते अल्पप्राणा-
स्तद्भिकाः सर्व्वे महाप्राणाः इति विवेकः ।
तदेवं परस्परविभाजकैर्बाह्याभ्यन्तरप्रयत्नैः स्वरकाल-
विशेषैर्वर्ण्णानां परस्परविलक्षणरूपता । प्रासद्धा हि वर्ण्णाः
पुरस्कृत्यैव कञ्चिद्विशेषम् विलक्षणतामासादयन्ति तत्र
वर्ण्णविभाजकानि सूचोपत्रे दृश्यानि
ताव्यादौ विन्यस्तवर्ण्णानां फलमुक्तं वृत्तरत्ना० टी० यथा
गणप्रसङ्गेनाक्षरशुद्धिरप्यभिधीयते “अक्षरे परिश्रुद्धे च
नायको भूतिमृच्छात इत्युक्तेरक्षरश्रुर्द्धेरावश्यकत्वात् ।
“अवणात् सस्पत्तिर्भवति शमिवर्णाद्धनशतान्युवर्णाद-
ख्यातिः, सरभसमृवर्णात् वराहतात् । तथाह्येचः सौख्यं
ङ्ञणरहितादक्षरगणात् पदादौ विन्यासात् भरबह-
लपूर्बैर्विरहितात्” । भरबहलास्तत्पूर्वाणि यान्यच
राणि तैर्विरहितादित्यर्थः । हल्वर्णानां फलान्युक्तानि-
तत्रैव । “कः खो गो घश्च लक्ष्मीं वितरति, वियशोङ,
स्तथा चः सुखं छः प्रीतिं, जोमित्रलाभं, भयमरण-
करौ झ्ञो, टठौ खेददुःखे, । डः शोभां, ढो विशोभां,
भ्रमणमथ च णस्तस्तु ख, थस्तु युद्धं, दो, धः, सौख्यं,
मुदं, नः, सुखभयमरणक्लेशदुःखं पवर्गः । या लक्ष्मीं,
रस्तु दाहं, व्यसनमथ लवौ शः सुखं, षस्तु खेदं,
सःसौख्यं, हस्तु खेदं, विलयमपि च लः, क्षः समृद्धिं
करोति । संयुक्तं चेह न स्यात् सुखभरणपटुर्वर्णविन्या-
सयोगं पद्यादौ, गद्यवक्त्रे, वचसि च सकले, प्राकृतादौस-
मोऽयम्” । एतेषां फलाधारनिरूपणमपि तत्रैव “नायको
वर्ण्यते यत्र फलं तस्य समादिशेत् । अन्यथा तु कृते
काव्ये कवेर्दोषावहं फलम्” । तस्य प्रतिप्रसवोऽप्युक्तः ।
“देवता वर्ण्यते यत्र क्वापि काव्ये कवीश्वरैः । मित्रामित्र-
विचारा वा न तत्र फलकल्पना । देवतावाचकाः शब्दा ये
च भद्रादिवाचकाः” ।
इति वाचस्पत्ये व्यञ्जनवर्णविभागादि ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/औ&oldid=85291" इत्यस्माद् पुनः प्राप्तिः