रायोवाजीयम्(स्वादोरित्था)

विकिस्रोतः तः
Jump to navigation Jump to search
रायोवाजीयम्-बार्हद्गिरम्
रायोवाजीयम् - बार्हद्गिरम्.

स्वादोरित्था विषूवतो मधोः पिबन्ति गौर्यः ।
या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यं ॥ ४०९ ॥ ऋ. १.८४.१०

[सम्पाद्यताम्]

टिप्पणी

रायोवाजीयम् (ऊह्यगानम्)

पृष्ठ्यषडहे पंचममहः - अथ बार्हद्गिररायोवाजीये पांक्ते पांक्ते ऽहनि क्रियेते - पांक्ता वै पशवः। पशव एतद् अअहः - पशूनाम् एवावरुद्ध्यै। ते उ अथकारवच् चाध्यर्धेळं च भवतः प्रत्यक्षं शक्वरीणां रूपं शाक्वरे ऽहन्। तेन वै रूपसमृद्धे। तद् आहुस् स वाद्य गोभिः प्रस्नायाद्य आभ्यः पारे प्रतिष्ठां च तीर्थं च विन्देद् इति। गावो वै शक्वर्यः। तासाम् एषा पारे प्रतिष्ठा च तीर्थं च यद् अथकारश् चाध्यर्धा चेळा। निष्टाभिश् शक्वरीभिः पाप्मानं तरति, श्रियम् अश्नुते य एवं वेद। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति॥जैब्रा ३.१०३

इन्द्रो मदायेति स्वादोरित्थेति च पङ्क्तिषु बार्हद्गिरम् - रायोवाजीये ब्रह्मसामाच्छावकसामनी । राजन्यस्य तु इन्द्रो मदायेति पार्थुरश्मं ब्रह्मसाम । वैश्यस्य तु स्वादोरित्थेति रायोवाजीयं ब्रह्मसाम । - आर्षेयकल्पः उपोद्घातः पृ. ७३