युद्धकाण्डे अष्टादशः सर्गः ॥६-१८॥

विकिस्रोतः तः
Jump to navigation Jump to search

फलकम्:Ramayana

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टादशः सर्गः ॥६-१८॥

अथ रामः प्रसन्न आत्मा श्रुत्वा वायु सुतस्य ह ।
प्रत्यभाषत दुर्धर्षः श्रुतवान् आत्मनि स्थितम् ॥६-१८-१॥

मम अपि तु विवक्षा अस्ति काचित् प्रति विभीषणम् ।
श्रुतम् इच्चामि तत् सर्वम् भवद्भिः श्रेयसि स्थितैः ॥६-१८-२॥

मित्र भावेन सम्प्राप्तम् न त्यजेयम् कथम्चन ।
दोषो यदि अपि तस्य स्यात् सताम् एतद् अगर्हितम् ॥६-१८-३॥

सुग्रीवस्त्वथ तद्वाक्यमाभाष्य च विमृश्य च ।
ततः शुभतरम् वाक्यमुवाच हरिपुङ्गवः ॥६-१८-४॥

सुदुष्टो वाप्यदुष्टो वा किम्मेष रजनीचरः ।
ईदृशम् व्यसनम् प्राप्तम् भ्रातरम् यः परित्यजेत् ॥६-१८-५॥

को वाम स भवेत्तस्य यमेष न परित्यजेत् ।
वानराधिपते र्वाक्यम् श्रुत्वा सर्वानुदीक्स्य तु ॥६-१८-६॥

ईषदुत्स्मयमानस्तु लक्स्मणम् पुण्यलक्षणम् ।
इति होवाच काकुत्थ्सो वाक्यम् सत्यपराक्रमः ॥६-१८-७॥

अनधीत्य च शास्त्राणि वृद्धाननुपसेव्य च ।
न शक्यमीदृशम् वक्तुम् यदुवाच हरीश्वरः ॥६-१८-८॥

अस्ति सूक्ष्मतरम् किम्चिद्यदत्र प्रतिभाति मा ।
प्रत्यक्षम् लौकिकम् चापि वर्तते सर्वराजसु ॥६-१८-९॥

अमित्रास्तत्कुलीनाश्च प्रातिदेश्याश्च कीर्तिता ।
व्यसनेषु प्रहर्तारस्तस्मादयमिहागतः ॥६-१८-१०॥

अपापास्तत्कुलीवाश्च मानयन्ति स्वकान् हितान् ।
एष प्रायो नरेन्द्राणाम् शङ्कनीयस्तु शोभनः ॥६-१८-११॥

यस्तु दोषस्त्वया प्रोक्तो ह्यादानेरिबलस्य च ।
तत्र ते कीर्तयुष्यामि यथाशास्त्रमिदम् शृणु ॥६-१८-१२॥

न वयम् तत्कुलीनाश्च राज्यकाम्क्षी च राक्षसः ।
पण्डिता हि भविष्यन्ति तस्माद्ग्राह्यो विभीषणः ॥६-१८-१३॥

अव्यग्राश्च प्रहृष्टाश्च न भविष्यन्ति सम्गताः ।
प्रणादश्च महानेष ततोऽस्य भयमागतम् ॥६-१८-१४॥

इति भेदम् गमिष्यन्ति तस्मात्प्रोप्तो विभीषणः ।
न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः ॥६-१८-१५॥

मद्विधा ना पितुः पुत्राः सुहृदो वा भवद्विधाः ।
एवमुक्तस्तु रामेण सुग्रीवः सहलक्स्मणः ॥६-१८-१६॥

उत्थाअयोदम् महाप्राज्ञः प्रणतो वाक्यमब्रवीत् ।
रावणेन प्रणिहितम् तमवेहि निशाचरम् ॥६-१८-१७॥

तस्याहम् निग्रहम् मन्ये क्षमम् क्षमवताम् वर ।
राक्षसो जिह्मया बुद्ध्या सम्दिष्टोऽय मिहागतः ॥६-१८-१८॥

प्रहर्तुम् त्वयि विश्वस्ते विश्वस्ते मयि वानघ ।
लक्ष्मणे वा महाबाहो स बध्यः सचिवैः सह ॥६-१८-१९॥

रावणस्य नृशम्सस्य भ्राता ह्येष विभीषणः ।
स सुग्रीवस्य तद् वाक्यय्म् रामः श्रुत्वा विमृश्य च ॥६-१८-२०॥

ततः शुभतरम् वाक्यम् उवाच हरि पुम्गवम् ।
सुदुष्टो वा अपि अदुष्टो वा किम् एष रजनी चरः ॥६-१८-२१॥

सूक्ष्मम् अपि अहितम् कर्तुम् मम अशक्तः कथम्चन ।
पिशाचान् दानवान् यक्षान् पृथिव्याम् चैव राक्षसान् ॥६-१८-२२॥

अन्गुलि अग्रेण तान् हन्याम् इच्चन् हरि गण ईश्वर ।
श्रूयते हि कपोतेन शत्रुः शरणम् आगतः ॥६-१८-२३॥

अर्चितः च यथा न्यायम् स्वैः च माम्सैर् निमन्त्रितः ।
स हि तम् प्रतिजग्राह भार्या हर्तारम् आगतम् ॥६-१८-२४॥

कपोतो वानर श्रेष्ठ किम् पुनर् मद् विधो जनः ।
ऋषेः कण्वस्य पुत्रेण कण्डुना परम ऋषिणा ॥६-१८-२५॥

शृणु गाथाम् पुरा गीताम् धर्मिष्ठाम् सत्य वादिना ।
बद्ध अन्जलि पुटम् दीनम् याचन्तम् शरण आगतम् ॥६-१८-२६॥

न हन्याद् आनृशम्स्य अर्थम् अपि शत्रुम् परम् पत ।
अर्तो वा यदि वा दृप्तः परेषाम् शरणम् गतः ॥६-१८-२७॥

अरिः प्राणान् परित्यज्य रक्षितव्यः कृत आत्मना ।
स चेद् भयाद् वा मोहाद् वा कामाद् वा अपि न रक्षति ॥६-१८-२८॥

स्वया शक्त्या यथा तत्त्वम् तत् पापम् लोक गर्हितम् ।
विनष्टः पश्यतस् तस्य रक्षिणः शरण आगतः ॥६-१८-२९॥

आदाय सुकृतम् तस्य सर्वम् गच्चेद् अरक्षितः ।
एवम् दोषो महान् अत्र प्रपन्नानाम् अरक्षणे ॥६-१८-३०॥

करिष्यामि यथा अर्थम् तु कण्डोर् वचनम् उत्तमम् ॥६-१८-३१॥

धर्मिष्ठम् च यशस्यम् च स्वर्ग्यम् स्यात् तु फल उदये ।
सकृद् एव प्रपन्नाय तव अस्मि इति च याचते ॥६-१८-३२॥

अभयम् सर्व भूतेभ्यो ददामि एतद् व्रतम् मम ।
आनय एनम् हरि श्रेष्ठ दत्तम् अस्य अभयम् मया ॥६-१८-३३॥

विभीषणो वा सुग्रीव यदि वा रावणः स्वयम् ।
रामस्य वचनम् श्रुत्वा सुग्रीवः प्लवग ईश्वरः ॥६-१८-३४॥

प्रत्यभाषत काकुत्स्थम् सौहार्देन अभिचोदितः ।
किम् अत्र चित्रम् धर्मज्ञ लोक नाथ शिखा मणे ॥६-१८-३५॥

यत् त्वम् आर्यम् प्रभाषेथाः सत्त्ववान् सपथे स्थितः ।
मम च अपि अन्तर् आत्मा अयम् शुद्धिम् वेत्ति विभीषणम् ॥६-१८-३६॥

अनुमनाच् च भावाच् च सर्वतः सुपरीक्षितः ।
तस्मात् क्षिप्रम् सह अस्माभिस् तुल्यो भवतु राघव ॥६-१८-३७॥

विभीषणो महाप्राज्ञः सखित्वम् च अभ्युपैतु नः ।
ततस् तु सुग्रीव वचो निशम्यत।
हरि ईश्वरेण अभिहितम् नर ईश्वरः ।
विभीषणेन आशु जगाम सम्गमम् ।
पतत्रि राजेन यथा पुरम् दरः ॥६-१८-३८॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे अष्टादशः सर्गः ॥६-१८॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

बाहरी कडियाँ[सम्पाद्यताम्]