युद्धकाण्डे अष्टादशः सर्गः ॥६-१८॥
दिखावट
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टादशः सर्गः ॥६-१८॥
अथ रामः प्रसन्न आत्मा श्रुत्वा वायु सुतस्य ह । प्रत्यभाषत दुर्धर्षः श्रुतवान् आत्मनि स्थितम् ॥६-१८-१॥ मम अपि तु विवक्षा अस्ति काचित् प्रति विभीषणम् । श्रुतम् इच्चामि तत् सर्वम् भवद्भिः श्रेयसि स्थितैः ॥६-१८-२॥ मित्र भावेन सम्प्राप्तम् न त्यजेयम् कथम्चन । दोषो यदि अपि तस्य स्यात् सताम् एतद् अगर्हितम् ॥६-१८-३॥ सुग्रीवस्त्वथ तद्वाक्यमाभाष्य च विमृश्य च । ततः शुभतरम् वाक्यमुवाच हरिपुङ्गवः ॥६-१८-४॥ सुदुष्टो वाप्यदुष्टो वा किम्मेष रजनीचरः । ईदृशम् व्यसनम् प्राप्तम् भ्रातरम् यः परित्यजेत् ॥६-१८-५॥ को वाम स भवेत्तस्य यमेष न परित्यजेत् । वानराधिपते र्वाक्यम् श्रुत्वा सर्वानुदीक्स्य तु ॥६-१८-६॥ ईषदुत्स्मयमानस्तु लक्स्मणम् पुण्यलक्षणम् । इति होवाच काकुत्थ्सो वाक्यम् सत्यपराक्रमः ॥६-१८-७॥ अनधीत्य च शास्त्राणि वृद्धाननुपसेव्य च । न शक्यमीदृशम् वक्तुम् यदुवाच हरीश्वरः ॥६-१८-८॥ अस्ति सूक्ष्मतरम् किम्चिद्यदत्र प्रतिभाति मा । प्रत्यक्षम् लौकिकम् चापि वर्तते सर्वराजसु ॥६-१८-९॥ अमित्रास्तत्कुलीनाश्च प्रातिदेश्याश्च कीर्तिता । व्यसनेषु प्रहर्तारस्तस्मादयमिहागतः ॥६-१८-१०॥ अपापास्तत्कुलीवाश्च मानयन्ति स्वकान् हितान् । एष प्रायो नरेन्द्राणाम् शङ्कनीयस्तु शोभनः ॥६-१८-११॥ यस्तु दोषस्त्वया प्रोक्तो ह्यादानेरिबलस्य च । तत्र ते कीर्तयुष्यामि यथाशास्त्रमिदम् शृणु ॥६-१८-१२॥ न वयम् तत्कुलीनाश्च राज्यकाम्क्षी च राक्षसः । पण्डिता हि भविष्यन्ति तस्माद्ग्राह्यो विभीषणः ॥६-१८-१३॥ अव्यग्राश्च प्रहृष्टाश्च न भविष्यन्ति सम्गताः । प्रणादश्च महानेष ततोऽस्य भयमागतम् ॥६-१८-१४॥ इति भेदम् गमिष्यन्ति तस्मात्प्रोप्तो विभीषणः । न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः ॥६-१८-१५॥ मद्विधा ना पितुः पुत्राः सुहृदो वा भवद्विधाः । एवमुक्तस्तु रामेण सुग्रीवः सहलक्स्मणः ॥६-१८-१६॥ उत्थाअयोदम् महाप्राज्ञः प्रणतो वाक्यमब्रवीत् । रावणेन प्रणिहितम् तमवेहि निशाचरम् ॥६-१८-१७॥ तस्याहम् निग्रहम् मन्ये क्षमम् क्षमवताम् वर । राक्षसो जिह्मया बुद्ध्या सम्दिष्टोऽय मिहागतः ॥६-१८-१८॥ प्रहर्तुम् त्वयि विश्वस्ते विश्वस्ते मयि वानघ । लक्ष्मणे वा महाबाहो स बध्यः सचिवैः सह ॥६-१८-१९॥ रावणस्य नृशम्सस्य भ्राता ह्येष विभीषणः । स सुग्रीवस्य तद् वाक्यय्म् रामः श्रुत्वा विमृश्य च ॥६-१८-२०॥ ततः शुभतरम् वाक्यम् उवाच हरि पुम्गवम् । सुदुष्टो वा अपि अदुष्टो वा किम् एष रजनी चरः ॥६-१८-२१॥ सूक्ष्मम् अपि अहितम् कर्तुम् मम अशक्तः कथम्चन । पिशाचान् दानवान् यक्षान् पृथिव्याम् चैव राक्षसान् ॥६-१८-२२॥ अन्गुलि अग्रेण तान् हन्याम् इच्चन् हरि गण ईश्वर । श्रूयते हि कपोतेन शत्रुः शरणम् आगतः ॥६-१८-२३॥ अर्चितः च यथा न्यायम् स्वैः च माम्सैर् निमन्त्रितः । स हि तम् प्रतिजग्राह भार्या हर्तारम् आगतम् ॥६-१८-२४॥ कपोतो वानर श्रेष्ठ किम् पुनर् मद् विधो जनः । ऋषेः कण्वस्य पुत्रेण कण्डुना परम ऋषिणा ॥६-१८-२५॥ शृणु गाथाम् पुरा गीताम् धर्मिष्ठाम् सत्य वादिना । बद्ध अन्जलि पुटम् दीनम् याचन्तम् शरण आगतम् ॥६-१८-२६॥ न हन्याद् आनृशम्स्य अर्थम् अपि शत्रुम् परम् पत । अर्तो वा यदि वा दृप्तः परेषाम् शरणम् गतः ॥६-१८-२७॥ अरिः प्राणान् परित्यज्य रक्षितव्यः कृत आत्मना । स चेद् भयाद् वा मोहाद् वा कामाद् वा अपि न रक्षति ॥६-१८-२८॥ स्वया शक्त्या यथा तत्त्वम् तत् पापम् लोक गर्हितम् । विनष्टः पश्यतस् तस्य रक्षिणः शरण आगतः ॥६-१८-२९॥ आदाय सुकृतम् तस्य सर्वम् गच्चेद् अरक्षितः । एवम् दोषो महान् अत्र प्रपन्नानाम् अरक्षणे ॥६-१८-३०॥ करिष्यामि यथा अर्थम् तु कण्डोर् वचनम् उत्तमम् ॥६-१८-३१॥ धर्मिष्ठम् च यशस्यम् च स्वर्ग्यम् स्यात् तु फल उदये । सकृद् एव प्रपन्नाय तव अस्मि इति च याचते ॥६-१८-३२॥ अभयम् सर्व भूतेभ्यो ददामि एतद् व्रतम् मम । आनय एनम् हरि श्रेष्ठ दत्तम् अस्य अभयम् मया ॥६-१८-३३॥ विभीषणो वा सुग्रीव यदि वा रावणः स्वयम् । रामस्य वचनम् श्रुत्वा सुग्रीवः प्लवग ईश्वरः ॥६-१८-३४॥ प्रत्यभाषत काकुत्स्थम् सौहार्देन अभिचोदितः । किम् अत्र चित्रम् धर्मज्ञ लोक नाथ शिखा मणे ॥६-१८-३५॥ यत् त्वम् आर्यम् प्रभाषेथाः सत्त्ववान् सपथे स्थितः । मम च अपि अन्तर् आत्मा अयम् शुद्धिम् वेत्ति विभीषणम् ॥६-१८-३६॥ अनुमनाच् च भावाच् च सर्वतः सुपरीक्षितः । तस्मात् क्षिप्रम् सह अस्माभिस् तुल्यो भवतु राघव ॥६-१८-३७॥ विभीषणो महाप्राज्ञः सखित्वम् च अभ्युपैतु नः । ततस् तु सुग्रीव वचो निशम्यत। हरि ईश्वरेण अभिहितम् नर ईश्वरः । विभीषणेन आशु जगाम सम्गमम् । पतत्रि राजेन यथा पुरम् दरः ॥६-१८-३८॥
इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे अष्टादशः सर्गः ॥६-१८॥