महाभारतम्-04-विराटपर्व-057

विकिस्रोतः तः
← विराटपर्व-056 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-057
वेदव्यासः
विराटपर्व-058 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

अर्जुनस्य भीष्मद्रोणादिभिः सह युद्धम् ।। 1 ।। अर्जुनेन कर्णस्य पराभवः ।। 2 ।।









वैशंपायन उवाच।

4-57-1x

अश्वत्थामा ततस्तत्र कर्णं संप्रेक्ष्य वीर्यवान्।
उवाच स्मयमानोऽसौ सूतपुत्रमरिन्दमम् ।।

4-57-1a
4-57-1b

कर्ण यस्त्वं सभामध्ये बह्वबद्धं विकत्थसे।
न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम् ।।

4-57-2a
4-57-2b

एषोऽन्तक इव क्रुद्धः सर्वभूतावमर्दनः ।
संग्रामशिरसो मध्ये दृम्भते केसरी यथा ।।

4-57-3a
4-57-3b

शूरोसि यदि संग्रामे दर्शयस्व सभां विना ।।

4-57-4a

यद्यशक्तोसि संग्रामे पार्थेनाद्भुतकर्मणा।
पुनरेव सभां गत्वा धार्तराष्ट्रेण धीमता।
मातुलं परिगृह्याशु मन्त्रयस्व यथासुखम् ।।

4-57-5a
4-57-5b
4-57-5c

वैशंपायन उवाच।

4-57-6x

एवमुक्तस्तथा कर्णः क्रोधादुद्‌वृत्य लोचने।
द्रोणपुत्रमिदं वाक्यमुवाच कुरुसन्निधौ ।।

4-57-6a
4-57-6b

नाहं बिभेमि बीभत्सोर्न कृष्णाद्देवकीसुतात् ।
पाण्डवेभ्योपि सर्वेभ्यः क्षत्रधर्ममनुव्रतः ।।

4-57-7a
4-57-7b

सत्वाधिकानां पुंसां तु धनुर्वेदोपजीविनाम् ।
गर्जतां जायते दर्पः स्वरश्च न विषीदति ।।

4-57-8a
4-57-8b

पश्यत्वाचार्यपुत्रो मामर्जुनेनातिरंहसा ।
युध्यमानं सुसंयुक्तं जयो वै मय्यवस्थितः ।।

4-57-9a
4-57-9b

वैशंपायन उवाच।

4-57-10x

ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः।
दिव्यमस्त्रं विकुर्वाणः प्रत्ययाद्रथिसत्तमः ।।

4-57-10a
4-57-10b

महात्मानं मन्दबुद्धिर्निश्वसन्धृतराष्ट्रजः।
उवाच स महाराज राजा दुर्योधनस्तदा ।।

4-57-11a
4-57-11b

न विद्मो ह्यर्जुनं तत्र वसन्तं मत्स्यवेश्मनि ।
तेनेदं कर्ण मत्स्यानामग्रहीष्म धनं बहु ।।

4-57-12a
4-57-12b

एवं चेत्तर्हि गच्छामो विसृजन्तो धनं बहु ।
अयशो नातिवर्तेत लोकयोरुभयोरपि ।।

4-57-13a
4-57-13b

किं च युद्धात्परं नास्ति क्षत्रियाणां सुखावहम्।
तस्मात्पार्थेन संग्रामं कुर्महे न पलायनम् ।।

4-57-14a
4-57-14b

एतावदुक्त्वा राजा वै ह्यभियानमियेष सः।
तथा दशसहस्राणि वीराणां हि धनुष्मताम् ।
अभ्यद्रवंस्तदा पार्थं शलभा इव पावकम् ।।

4-57-15a
4-57-15b
4-57-15c

वर्मिता वाजिनस्तत्र संभृताश्च पदातिभिः ।
भीमरूपाश्च मातङ्गास्तोमराङ्कुशपाणिभिः ।

4-57-16a
4-57-16b

अधिष्ठिताः सुसंयत्तैर्हस्तिशिक्षाविशारदैः।
अभ्यद्रवन्सुसंक्रुद्धाश्चापहस्तोद्यतायुधाः ।।

4-57-17a
4-57-17b

पञ्च चैनं रथोदग्रास्त्वरिताः पर्यवारयन्।
द्रोणो भीष्मश्च कर्णश्च कुरुराजश्च वीर्यवान् ।।

4-57-18a
4-57-18b

अश्वत्थामा महाबाहुर्धनुर्वेदपरायणः।
इषूंश्च सम्यगस्यन्तो जीमूता इव वार्षिकाः ।।

4-57-19a
4-57-19b

ते लाभमिव मन्वानाः प्रत्यगृह्णन्धनंजयम्।
शरौघानभिवर्षन्तो नादयन्तो दिशो दश ।।

4-57-20a
4-57-20b

ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः।
दिव्यमस्त्रं प्रकुर्वाणः प्रत्ययाद्रथिसत्तमान् ।।

4-57-21a
4-57-21b

यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम्।
तथा गाण्डीवनिर्मुक्तैः शरैराच्छादयद्दिशः ।।

4-57-22a
4-57-22b

न रथानां न चाश्वानां न ध्वजानां न वर्मिणाम्।
अतिविद्धैः शितैर्बाणैरासीदद्व्यङ्गुलिरन्तरम् ।।

4-57-23a
4-57-23b

दैवयोगाद्धि पार्थस्य हयानामुत्तरस्य च।
शिक्षाबलोपपन्नत्वादस्त्राणां वै परिक्रमात्।
ध्वजगाण्डीवयोश्चापि दैव्या शक्त्या च मायया ।।

4-57-24a
4-57-24b
4-57-24c

इतस्ततश्च संयाने दूरे वाऽप्यथवाऽन्तिके।
दुर्गे विषमजाते वा स्थले निम्ने तथा क्षितौ।
न च रुध्येद्गतिस्तस्य रथस्य मनसो यथा ।।

4-57-25a
4-57-25b
4-57-25c

समरेषु तु विद्वांसस्तस्य तांस्तान्परिक्रमान्।
वीर्यमत्यद्भुतं दृष्ट्वा तथा पार्थस्य तद्बलम् ।
त्रेसुरेवं परे भीताः पराङ्मुखरथा अपि।

4-57-26a
4-57-26b
4-57-26c

कालाग्निमिव बीभत्सुं निर्दहन्तमिव प्रजाः ।
नारयः प्रेक्षितुं शेकुर्ज्वलन्तमिव पावकम् ।।

4-57-27a
4-57-27b

तानि भिन्नान्यनीकानि रेजुरर्जुनमार्गणैः।
तिग्मांशोश्च घनाभ्राणि व्याप्तानीव गभस्तिभिः ।।

4-57-28a
4-57-28b

अशोकाना वनानीव सञ्चितैः कुसुमैः शुभैः ।
पार्थः संरञ्जयामास रुधिरेणाकुलं बलम् ।।

4-57-29a
4-57-29b

सहस्रशोऽर्जुनशरैश्छिन्नान्युच्चावचानि च।
छत्राणि च पताकाश्च खेऽभ्युवाह सदागतिः ।।

4-57-30a
4-57-30b

ये ह्यर्जुनबलत्रस्ताः परिपेतुर्दिशो दश।
रथात्तं देशमुत्सृज्य पार्थच्छिन्नयुगा हयाः ।।

4-57-31a
4-57-31b

निकृत्तपूर्वचरणास्ते निपेतुः शितैः शरैः।
शिरोभिः प्रथमं जग्मुर्मेदिनीं जघनैर्हयाः ।।

4-57-32a
4-57-32b

चक्षुर्नासाविषाणेषु दन्तवेष्टेषु च द्विपान्।
मर्मस्वन्येषु चाहत्य तथा निघ्नन्गजोत्तमाः ।।

4-57-33a
4-57-33b

कौरवाणां गजानां च शरीरैर्गतचेतसाम् ।
क्षणेन संवृता भूमिर्मेघैरिव नभस्थलम् ।।

4-57-34a
4-57-34b

अस्त्रैर्दिव्यैर्महाबाहुरर्जुनः प्रहसन्निव ।
बडबामुखसंभूतः कालाग्निरिव संवृतः ।।

4-57-35a
4-57-35b

यथा युगान्तसमये सर्वं स्थावरजङ्गमम् ।
कालपक्वमशेषेण धक्ष्येदुग्रशिखः शिखी ।।

4-57-36a
4-57-36b

तद्वत्पार्थोऽस्रतेजोभिर्धनुषो निस्वनेन च।
दैवाद्वीर्याच्च बीभत्सुस्तस्मिन्दौर्योधने बले ।।

4-57-37a
4-57-37b

रणे शक्तिममित्राणां प्रणीयोपनिनाय सः।
चेष्टां प्रायेण भूतानां रात्रिः प्राणभृतामिव ।।

4-57-38a
4-57-38b

सोऽतीयात्सहसा शत्रून्सहसा तेऽभिपेदिरे ।
शीघ्रादूरं दृढामोघमस्त्रमस्यातिमानुषम् ।
दृष्ट्वा ते कौरवा भीता अतिमानुषविक्रमम् ।।

4-57-39a
4-57-39b
4-57-39c

खगपत्राभिसंवीतैः खाविष्टैः खगमैरिव।
अर्जुनस्य खमावव्रे लोहितप्राणपैः खगैः ।।

4-57-40a
4-57-40b

अर्जुनेन विनिर्मुक्ताः शरा गाण्डीवधन्वना ।
तार्क्ष्यवेगा इवाकाशे ससञ्जुः परमर्मसु ।।

4-57-41a
4-57-41b

वर्माणि सारथिश्चैव हेमजालानि वाजिनाम् ।
किरीटं सूर्यसंकाशं वैयाघ्रमथ चर्म च ।।

4-57-42a
4-57-42b

ततः सर्वाणि गात्राणि रथस्य द्विषतां शरैः ।
नीहारेणेव भूतानि छन्नानीह चकाशिरे।।

4-57-43a
4-57-43b

सकृदेव न तं शेकुः कथमभ्यसितुं परे ।
अनभ्यस्तः पुनस्तैर्हि रथः सोभिपपात तान् ।।

4-57-44a
4-57-44b

तच्छरा द्विट्शरीरेषु यथा च न ससञ्जिरे ।
द्विधाऽनीकेषु बीभत्सोर्न ससञ्ज रथस्तथा ।।

4-57-45a
4-57-45b

स तद्धि क्षोभयामास विगाह्यारिबलं रथी।
अनन्तवेगो भुजगः क्रीडन्निव महार्णवे ।।

4-57-46a
4-57-46b

अस्यतो नित्यमत्यर्थं सर्वघोषाधिकस्तथा ।
संनादः श्रूयते भूतैर्धनुषश्च किरीटिनः ।।

4-57-47a
4-57-47b

संच्छिन्नास्तत्र मातङ्गा बाणैरल्पान्तरान्तरैः।
संस्यूतास्तत्र दृश्यन्ते मेघा इव गभस्तिभिः ।।

4-57-48a
4-57-48b

दिशोऽनुभ्रमतः सर्वा सव्यदक्षिणमस्यतः।
सततं दृश्यते युद्धे सायकासनमण्डलम् ।।

4-57-49a
4-57-49b

पतन्त्यरूपेषु यथा चक्षूंषि न कदाचन।
नालक्ष्येषु शराः पेतुस्तस्य गाण्डीवधन्वनः ।।

4-57-50a
4-57-50b

महागजसहस्रस्य युगपन्मृद्गतो वनम्।
कौन्तेयरथमार्गस्तु रणे घोरतरोऽभवत् ।।

4-57-51a
4-57-51b

नूनं पार्थजयैषित्वाच्छक्रः सर्वामरैः सह।
हन्त्यस्मानिति मन्यन्ते पार्थेनैवार्दिताः परे ।।

4-57-52a
4-57-52b

घ्नन्तमत्यर्थमहितान्सव्यसाचिनमाहवे।
कालमर्जुनरूपेण ग्रसन्तमिव च प्रजाः ।।

4-57-53a
4-57-53b

कुरुसेनाशरीराणि पार्थेनानाहतान्यपि ।
पेतुः पार्थहतानीव पार्थकर्मानुदर्शनात् ।।

4-57-54a
4-57-54b

ओषधीनां शिरांसीव कालपक्तिसमन्वयात्।
अवनेमुः कुरूणां हि शिरांस्यर्जुनजाद्भयात् ।।

4-57-55a
4-57-55b

चकार चार्जुनः क्रोधाद्विमुखान्रुषितानपि ।।

4-57-56a

अर्जुनेनापि भिन्नानि बलाग्नाणि पुनः क्वचित्।
चक्रुर्लोहितधाराभिर्धरणीं लोहितोत्तराम् ।।

4-57-57a
4-57-57b

लोहितेनापि संपृक्तैः पांसुभिः पवनोद्धतैः ।
तेनैव च समुद्धूतैः सूक्ष्मैर्लोहितबिन्दुभिः ।।

4-57-58a
4-57-58b

लोहितार्द्रैः प्रहरणैः प्रभग्ना लोहितोक्षिताः।
लोहितेषु निमग्नास्ते निहताश्च किरीटिना ।।

4-57-59a
4-57-59b

बभूवुर्लोहितास्तत्र भृशमादित्यरश्मयः।
आकाशं तत्क्षणेनासीत्सन्ध्याभ्रमिव लोहितं ।।

4-57-60a
4-57-60b

अप्यस्तं प्राप्य चादित्यो निवर्तेत न पाण्डवः।
निवर्तन्ते न जित्वारिं नित्यजल्पविचक्षणाः ।।

4-57-61a
4-57-61b

तान्सर्वान्समरे शूरान्पौरुषे पर्यवस्थितान्।
दिव्यैरस्त्रैरमोघात्मा सर्वानार्च्छद्धनुर्धरान् ।।

4-57-62a
4-57-62b

स तु द्रोणं त्रिसप्तत्या नाराचानां समार्पयत्।
अशीत्या शकुनिं चैव द्रौणिमप्याशु सप्तभिः ।।

4-57-63a
4-57-63b

दुःसहं दशभिर्बाणैरर्जुनः समविध्यत ।
दुश्यासनं द्वादशभिः कृपं शारद्वतं त्रिभिः।
भीष्मं शान्तनवं षष्ट्या प्रत्यविध्यत्स्तनान्तरे ।।

4-57-64a
4-57-64b
4-57-64c

स कर्णं कर्णिनाऽविध्यत्पीतेन निशितेन च।
वासविर्द्विषतां मध्ये विव्याध परमेषुणा ।।

4-57-65a
4-57-65b

स कर्णं सतनुत्राणं निर्भिद्य निशितः शरः।
अगच्छद्दानयन्भूमिं चोदितो दृढधन्वना ।।

4-57-66a
4-57-66b

ततोऽस्य वाहान्व्यहनच्चतुर्भिश्चतुरः क्षुरैः ।
सारथेश्च शिरः कायादपाहरदरिन्दमः ।
अर्धचन्द्रेण चिच्छेद चापं तस्य करे स्थितम् ।।

4-57-67a
4-57-67b
4-57-67c

तस्मिन्विद्धे महाभागे कर्णे सर्वास्त्रपारगे।
हताश्वसूते विरथे ततोऽनीकमभज्यत ।।

4-57-68a
4-57-68b

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि सप्तपञ्चाशोऽध्यायः ।। 57 ।।

विराटपर्व-056 पुटाग्रे अल्लिखितम्। विराटपर्व-058