महाभारतम्-04-विराटपर्व-056

विकिस्रोतः तः
← विराटपर्व-055 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-056
वेदव्यासः
विराटपर्व-057 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

अर्जुनेनोत्तरंप्रति द्रोणकर्णादिरथानामसाधारणध्वजचिह्नप्रदर्शनपूर्वकं तत्तन्नामनिर्देशेन तत्तत्पराक्रमवर्णनम् ।। 1 ।।

वैशंपायन उवाच।

4-56-1x

ततस्त्रीणि सहस्राणि रथानां च धनुष्मताम्।
घोराणि कुरुवीराणां पर्यकीर्यन्त भारत ।।

4-56-1a
4-56-1b

कर्णो रथसहस्रेण प्रत्यगृह्णाद्धनञ्जयम्।
भीष्मः शान्तनवो धीमान्सहस्रेण पुरस्कृतः ।।

4-56-2a
4-56-2b

तथा रथसहस्रेण भ्रातृभिः परिवारितः।
पश्चाद्दुर्योधनोऽतिष्ठद्यशसा च श्रिया ज्वलन् ।।

4-56-3a
4-56-3b

अतिष्ठन्निवकाशेषु पादाताः सह वाजिभिः ।
भीमरूपाश्च मातङ्गास्तोमराङ्कुशचोदिताः ।।

4-56-4a
4-56-4b

तानि दृष्ट्वा ह्यनीकानि विततानि महात्मनाम् ।
वैराटिमुत्तरं तं तु प्रत्यभाषत पाण्डवः ।।

4-56-5a
4-56-5b

जाम्बूनदमयी वेदी ध्वजाग्रे यस्य दृश्यते।
शोणाश्चाश्वा रथे युक्ता द्रोण एष प्रकाशते ।।

4-56-6a
4-56-6b

आचार्यो निपुणो धीमान्ब्रह्मविच्छूरसत्तमः।
आहवे चाप्रतिद्वन्द्वो दूरपाती महारथः ।।

4-56-7a
4-56-7b

सुप्रसन्नो महावीरः कुरुष्वैनं प्रदक्षिणम्।
अत्रैव चाविरोधेन एष धर्मः सनातनः ।।

4-56-8a
4-56-8b

यदि मे प्रहरेद्द्रोणः शरीरे मे प्रहृष्यतः ।
ततोऽस्मिन्प्रहरिष्यामि नान्यथा बुद्धिरस्ति मे ।।

4-56-9a
4-56-9b

[सम्पाद्यताम्]

4-56-9 शरीरे प्रहरिष्यतः इति नान्यया युद्धमस्ति मे इति चo धo पाठः ।। 9 ।।

भारताचार्यमुख्येन ब्राह्मणेन महात्मना ।
तेन मे युध्यमानस्य मन्दं वाहय सारथे ।। 4-56-10a
4-56-10b

ध्वजाग्रे सिंहलाङ्गूलो दिक्षु सर्वासु शोभते ।
भारताचार्यपुत्रस्तु सोऽश्वत्थामा विराजते ।। 4-56-11a
4-56-11b


ध्वजाग्रं दृश्यते यत्र बालसूर्यसमप्रभम् ।
दुर्जयः सर्वसैन्यानां देवैरपि सवासवैः ।
तेन मे युध्यमानस्य मन्दं वाहय सारथे ।। 4-56-12a
4-56-12b
4-56-12c

ध्वजाग्रे गोवृषो यस्य काञ्चनोऽभिविराजते ।
आचार्यवरमुख्यस्तु कृप एष महारथः ।। 4-56-13a
4-56-13b

द्रोणेन च समो वीर्ये पितुर्मे परमः सखा।
तेन मे युध्यमानस्य मन्दं वाहय सारथे ।। 4-56-14a
4-56-14b

यस्य काञ्चनकम्बूभिर्हस्तिकक्ष्यापरिष्कृतः।
ध्वजः प्रकाशते दूराद्रथे विद्युद्गणोपमः ।। 4-56-15a
4-56-15b

एष वैकर्तनः कर्णः प्रतिमानं धनुष्मताम्।
दृढवैरी सदाऽस्माकं नित्यं कटुकभाषणः ।। 4-56-16a
4-56-16b

यस्याश्रयबलादेव धार्तराष्ट्रः ससौबलः ।
अस्मान्निरस्य राज्याच्च पुनरद्यापि योत्स्यति ।। 4-56-17a
4-56-17b

एष वै स्पर्धते नित्यं मया सह सुदुर्जयः ।
जामदग्न्यस्य रामस्य शिष्यो ह्येष महारथः ।। 4-56-18a
4-56-18b

सर्वास्त्रकुशलः कर्णः सर्वशस्त्रभृतांवरः ।
युद्धेऽप्रतिमवीर्यश्च दृढवेधी पराक्रमी ।। 4-56-19a
4-56-19b

अद्याहं युद्धमेतेन करिष्ये सूतबन्धुना।
द्रष्टा त्वमावयोर्युद्धं बलिवासवयोरिव ।। 4-56-20a
4-56-20b

महारथेन शूरेण सूतपुत्रेण धन्विना।
तेन मे युध्यमानस्य शीघ्रं वाहय सारथे ।। 4-56-21a
4-56-21b

यस्य चैव रथोपस्थे नागो मणिमयो ध्वजः ।
एष दुर्योधनस्तत्र कौरवो यशसा वृतः ।। 4-56-22a
4-56-22b

लब्धलक्षो दृढं वेधी लघुहस्तः प्रतापवान् ।
तेन मे युध्यमानस्य शीघ्रं वाहय सारथे ।। 4-56-23a
4-56-23b

यस्तु श्वेतावदातेन पञ्चतालेन केतुना ।
वैडूर्यमयदण्डेन तालवृक्षेण राजते ।। 4-56-24a
4-56-24b

हस्तावापी बृहद्धन्वा सेनां तिष्ठति हर्षयन् ।
रामेण जामदग्न्येन द्वैरथेनाजितः पुरा ।। 4-56-25a
4-56-25b

शीघ्रश्च लगुवेधी च लघुहस्तः प्रतापवान् ।
एष शान्तनवो भीष्मः सर्वेषां नः पितामहः ।। 4-56-26a
4-56-26b


ककुदः सर्वसैन्यानां सर्वशस्त्रभृतांवरः ।
जयश्रियाऽवबद्धस्तु सुयोधनवशानुगः ।
पश्चादेष प्रयातव्यो न मे विघ्नकरो भवेत् ।। 4-56-27a
4-56-27b
4-56-27c

इत्येतांस्त्वरितः पार्थः कथयित्वा तु चोत्तरे।
रूपतश्चिह्नतश्चैव युद्धाय त्वरते पुनः ।। 4-56-28a
4-56-28b

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि षट्पञ्चाशोऽध्यायः ।। 56 ।।

विराटपर्व-055 पुटाग्रे अल्लिखितम्। विराटपर्व-057