महाभारतम्-04-विराटपर्व-024

विकिस्रोतः तः
Jump to navigation Jump to search
← विराटपर्व-023 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-024
वेदव्यासः
विराटपर्व-025 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

द्रौपदीभीमसंवादः ।। 1 ।।
द्रौपद्या भीमंप्रति हटात्कीचकसंहारचोदना ।। 2 ।।

वैशंपायन उवाच।

4-24-1x

आश्वासयंस्तां पाञ्चालीं भीमसेन उवाच ह।
शृणु भद्रे वरारोहे क्रोधात्तत्र तु चिन्तितम् ।। 1 ।।

4-24-1a
4-24-1b

त्वं वै सभागतां दृष्ट्वा मात्स्यानां कदनं महत् ।
कर्तुकामेन भद्रं ते वृक्षश्चावेक्षितो मया ।। 2 ।।

4-24-2a
4-24-2b

तत्र मां धर्मराजस्तु कटाक्षेण न्यवारयत्।
तज्ज्ञात्वाऽवाङ्भुखस्तूष्णीमास्थितोस्मि महानसं ।। 3 ।।

4-24-3a
4-24-3b

शृणुष्वान्यत्प्रतिज्ञातं यद्वदामीह भामिनि ।
धिगस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य च।
यत्ते रक्तौ पुरा भूत्वा पाणी कृतकिणाविमौ ।। 4 ।।

4-24-4a
4-24-4b
4-24-4c

तदद्य मां तु तपति यत्कृतं न मया पुरा।
सभायां स्म विराटस्य करोमि कदनं महत् ।। 5 ।।

4-24-5a
4-24-5b

तत्र मे कारणं भाति कौन्तेयो यत्प्रतीक्षते।
तदहं तस्य विज्ञाय स्थितो धर्मस्य शासने ।। 6 ।।

4-24-6a
4-24-6b

यच्च राज्यात्प्रच्यवनं कुरूणामवधश्च यः।
सुयोधनस्य कर्णस्य शकुनेः सौबलस्य च ।। 7 ।।

4-24-7a
4-24-7b

दुःशासनस्य पापस्य यन्मया न हृतं शिरः ।
तन्मां दहति कल्याणि हृदि शल्यमिवार्पितम् ।। 8 ।।

4-24-8a
4-24-8b

अपि चान्यद्वरारोहे स्मरिष्यसि वचो मम।
पुण्ये तीरे सरस्वत्या यत्प्रतिष्ठाम संगताः ।
तत्राहमब्रवं कृष्णे सर्वक्लेशाननुस्मरन् ।। 9 ।।

4-24-9a
4-24-9b
4-24-9c

न चाहमनुगच्छेयं धर्मराजं युधिष्ठिरम्।
धनञ्जयं च पाञ्चालि माद्रिपुत्रौ च भ्रातरौ।
कृत्वैतां च मतिं कृष्णे युधिष्ठिरमगर्हयम् ।। 10 ।।

4-24-10a
4-24-10b
4-24-10c

परुषं वचनं श्रुत्वा मम धर्मात्मजस्तदा।
हीमान्वाक्यमहीनार्थं ब्रुवन्राजा युधिष्ठिरः ।
सर्वानन्वनयद्भ्रातॄन्मुनेर्धौम्यस्य पश्यतः ।। 11 ।।

4-24-11a
4-24-11b
4-24-11c

मा रोदी राज्ञि लोकानां सर्वागमगुणान्विता।
रक्षितव्यं सहास्माभिः सत्यमप्रतिमं भुवि ।। 12 ।।

4-24-12a
4-24-12b

अनुनीतेषु चास्मासु अनुनीता त्वमप्यसि।
मा धर्मं जहि सुश्रोणि क्रोधं जहि महामते ।। 13 ।।

4-24-13a
4-24-13b

इमं तु समुपालम्भं त्वत्तो राजा युधिष्ठिरः ।
शृणुयाद्यदि कल्याणि कृत्स्नं जह्यात्स जीवितं ।। 14 ।।

4-24-14a
4-24-14b

धनञ्जयो वा सुश्रोणि यमौ चापि सुमध्यमे।
लोकान्तरगतेष्वेषु नाहं शक्ष्यामि जीवितुम् ।। 15 ।।

4-24-15a
4-24-15b

धर्मं शृणुष्व पाञ्चालि यत्ते वक्ष्यामि मानिनि ।। 16 ।।

4-24-16a

दुहिता जनकस्यासीद्वैदेही यदि ते श्रुता।
पतिमन्वचरत्सीता महारण्यनिवासिनम् ।। 17 ।।

4-24-17a
4-24-17b

वसन्ती च महारण्ये रामस्य महिषी प्रिया।
रावणेन हृता सीता राक्षसीभिश्च तर्जिता।
सा क्लिश्यमाना सुश्रोणी राममेवान्वपद्यत ।। 18 ।।

4-24-18a
4-24-18b
4-24-18c

लोपामुद्रा तथा भीरु भर्तारमृषिसत्तमम्।
भगवन्तमगस्त्यं सा वनायैवान्वपद्यत ।। 19 ।।

4-24-19a
4-24-19b

सुकन्या नाम शर्यातेर्भार्गवच्यवनं वने।
वल्मीकभूतं साध्वी तमन्वपद्यत भामिनी ।। 20 ।।

4-24-20a
4-24-20b

नालायनी चेन्द्रसेना रूपेणाप्रतिमा भुवि।
पतिमन्वचरद्वृद्धं पुरा वर्षसहस्रिणम् ।। 21 ।।

4-24-21a
4-24-21b

नलं राजानमेवाथ दमयन्ती वनान्तरे।
अन्वगच्छत्पुरा कृष्णे तथा भर्तॄंस्त्वमन्वगाः ।। 22 ।।

4-24-22a
4-24-22b

यथैताः कीर्तिता नार्यो रूपवत्यः पतिव्रताः।
तथा त्वमपि कल्याणि सर्वैः समुदिता गुणैः ।। 23 ।।

4-24-23a
4-24-23b

मा दीर्घं क्षम कालं त्वं त्रिंशद्रात्रमनिन्दिते।
पूर्णे त्रयोदशे वर्षे राज्ञां राज्ञी भविष्यसि ।। 24 ।।

4-24-24a
4-24-24b

सत्येन ते शपे चाहं भविता नान्यथेति च ।। 25 ।।

4-24-25a

सर्वासां परमस्त्रीणां प्रामाण्यं कर्तुमर्हसि।
सर्वेषां च नरेन्द्राणां मूर्ध्नि स्थास्यसि भामिनि ।। 26 ।।

4-24-26a
4-24-26b

भर्तृभक्त्या च वृत्तेन भोगानाप्स्यसि दुर्लभान् ।
यातायां तु प्रतिज्ञायां महान्तं भोगमाप्नुयाः ।। 27 ।।

4-24-27a
4-24-27b

गुरुभक्तिकृतं ज्ञात्वा राज्ञां मूर्ध्नि स्थिता भवेः ।। 28 ।।

4-24-28a

द्रौपद्युवाच।

4-24-29x

आर्तप्रलापा कौन्तेय न राजानमुपालभे।
अपारयन्त्या दुःखानि कृतं बाष्पप्रमोचनम् ।। 29 ।।

4-24-29a
4-24-29b

इदं तु दुःखं कौन्तेय ममासद्यं निबोध तत् ।। 30 ।।

4-24-30a

योऽयं राज्ञो विराटस्य सूतपुत्रस्तु कीचकः।
स्यालो नाम प्रवादेन भोजस्त्रैगर्तदेशजः ।। 31 ।।

4-24-31a
4-24-31b

त्यक्तधर्मो नृशंसश्च सर्वार्थेषु च वल्लभः ।
नित्यमेवाह दुष्टात्मा भार्या मे भव शोभने ।
अविनीतः सुदुष्टात्मा मामनाथेति चिन्तयन् ।। 32 ।।

4-24-32a
4-24-32b
4-24-32c

किमुक्तेन व्यतीतेन भीमसेन महाबल।
प्रत्युपस्थितकालस्य कार्यस्यानन्तरो भव ।। 33 ।।

4-24-33a
4-24-33b

ममेह भीम कैकेयी रूपाद्धि भयशङ्किता।
नित्यमुद्विजते राजा कथं नेयादिमामिति ।। 34 ।।

4-24-34a
4-24-34b

तस्या विदित्वा तं भावं स्वयं चानृतदर्शनः ।
कीचकोपि च दुष्टात्मा पुनः प्रार्थयते च मां ।। 35 ।।

4-24-35a
4-24-35b

तमहं कुपिता भीम पुनः कोपं नियम्य च।
अब्रवं कामसंमूढमात्मानं रक्ष कीचक ।। 36 ।।

4-24-36a
4-24-36b

गन्धर्वाणामहं भार्या पञ्चानां महिषी प्रिया ।
ते त्वां निहन्युर्दुर्धर्षाः शूराः साहसकारिणः ।। 37 ।।

4-24-37a
4-24-37b

एवमुक्तस्तु दुष्टात्मा कीचकः प्रत्युवाच ह।
नाहं बिभेमि भैरन्ध्रि गन्धर्वाणां शुचिस्मिते ।। 38 ।।

4-24-38a
4-24-38b

शतं सहस्रमपि वा गन्धर्वाणामहं रणे।
समागतं हनिष्यामि त्वं भीरु कुरु मे क्षणम् ।। 39 ।।

4-24-39a
4-24-39b

इत्युक्ता चाब्रवं सूतं कामातुरमहं पुनः।
न त्वं प्रतिबलस्तेषां गन्धर्वाणां यशस्विनाम् ।। 40 ।।

4-24-40a
4-24-40b

धर्मे स्थिताऽस्मि सततं कुलशीलसमन्विता।
नेच्छामि किंचिद्वध्यं त्वां तस्माज्जीवसि कीचक ।। 41 ।।

4-24-41a
4-24-41b

एवमुक्तस्तु दुष्टात्मा प्रहस्य स्वनवत्ततः।
न तिष्ठिति स सन्मार्गे न च धर्मं बुभूषति ।। 42 ।।

4-24-42a
4-24-42b

पापात्मा पापकारी च कामराजवशानुगः ।
अविनीतश्च दुष्टात्मा प्रत्याख्यातः पुनः पुनः ।। 43 ।।

4-24-43a
4-24-43b

दर्शनेदर्शने हन्याद्यदि जह्यां च जीवितम्।
धर्मे प्रयतमानानां महान्धर्मो नशिष्यति ।। 44 ।।

4-24-44a
4-24-44b

समयं रक्षमाणानां दारा वो न भवन्ति च ।
भार्याजां रक्ष्यमाणायां प्रजा भवति रक्षिता।
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ।। 45 ।।

4-24-45a
4-24-45b
4-24-45c

वंदतां वर्णधर्मांश्च ब्राह्मणानां च मे श्रुतम् ।
क्षत्रियस्य सदा धर्मो नान्यो दस्युनिबर्हणात् ।। 46 ।।

4-24-46a
4-24-46b

पश्यतो धर्मराजस्य कीचको माऽन्वधावत ।
तवेव च समक्षं वै भीमसेन महाबल ।। 47 ।।

4-24-47a
4-24-47b

त्वया चाहं परित्राता भीम तस्माञ्जटासुरात् ।। 48 ।।

4-24-48a

जयद्रथं तथैव त्वमजैषीर्भ्रातृभिः सह।
जहीममपि पापिष्ठं योयं मामवमन्यते ।
कीचको राजवाल्लभ्याच्छोककृन्मम भारत ।। 49 ।।

4-24-49a
4-24-49b
4-24-49c

कीचकं कामसन्तप्तं भिन्धि कुम्भमिवाश्मनि ।
यो निमित्तमनर्थानां बहूनां मम भारत ।। 50 ।।

4-24-50a
4-24-50b

तं चेञ्जीवन्तमादित्यः प्रातरभ्युदयिष्यति ।
विषमालोड्य पास्यामि मा कीचकवशंगमम् ।। 51 ।।

4-24-51a
4-24-51b

श्रेयो हि मरणं मह्यं भीमसेन तवाग्रतः ।
इत्युक्त्वा प्रारुदत्कृष्णा भीमस्योरसि संश्रिता ।। 52 ।।

4-24-52a
4-24-52b

भीमश्च तां परिष्वज्य महत्सान्त्वं प्रयुज्य च।
कीचकं मनसाऽगच्छत्सृक्किणी परिलेलिहन् ।। 53 ।।

4-24-53a
4-24-53b

आश्वासयित्वा बहुशो भृशमार्तां सुमध्यमाम्।
हेतुतत्वार्थसंयुक्तैर्वचोभिर्द्रुपदात्मजाम् ।। 54 ।।

4-24-54a
4-24-54b

प्रमृज्य वदनं तस्याः पाणिनाऽश्रुसमाकुलम्।
उवाच चैनां दुःखार्तां भीमः क्रोधसमन्वितः ।। 55 ।।

4-24-55a
4-24-55b

।। इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि चतुर्विशोऽध्यायः ।। 24 ।।

[सम्पाद्यताम्]

4-24-24 मा दीर्घं क्षम कालं त्वं मासमर्धं च संमितमिति झo पाठः ।। 24 ।। 4-24-26 प्राधान्यं कर्तुमर्हसि इति खo पाठः ।। 26 ।। 4-24-33 दुःखस्यान्तकरो भवेति धo पाठः ।। 33 ।।

विराटपर्व-023 पुटाग्रे अल्लिखितम्। विराटपर्व-025