महाभारतम्-04-विराटपर्व-025

विकिस्रोतः तः
Jump to navigation Jump to search
← विराटपर्व-024 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-025
वेदव्यासः
विराटपर्व-026 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

द्रौपद्या भीमवचनात्कीचकंप्रति नर्तनशालाया उभयोः समागमे संकेतस्थानत्वनिर्धारणेन रात्रौ तत्रागमनचादना ।। 1 ।।









भीम उवाच।

4-25-1x

तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे।
अद्यैनं सूदयिष्यामि कीचकं सह बान्धवैः ।। 1 ।।

4-25-1a
4-25-1b

अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन संविदम् ।
दुःखं शोकं च निर्धूय याज्ञसेनि शुचिस्मिते ।। 2 ।।

4-25-2a
4-25-2b

यैषा नर्तनशालेह मत्स्यराजेन कारिता।
दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति तथा गृहं ।। 3 ।।

4-25-3a
4-25-3b

तत्रास्ति शयनं भीरु दृढाङ्गं सुप्रतिष्ठितम्।
तत्रैनं दर्शयिष्यामि पूर्वप्रेतान्पितामहान् ।
त्वद्दर्शनसमुत्थेन कामेनाकुलितेन्द्रियम् ।। 4 ।।

4-25-4a
4-25-4b
4-24-4c

संकेतं सूतपुत्रस्य कारयस्व शुभानने।
यथा परे न पश्येयुः कुर्वन्तीं तेन संविदम् ।। 5 ।।

4-25-5a
4-25-5b

तथा कुरुष्व कल्याणि यथा सन्निहितो भवेत्।
तथा कुर्याश्च संकेतं सूतपुत्रस्य संवृतम् ।। 6 ।।

4-25-6a
4-25-6b

आवयोः संगमं भीरु यथा मार्त्यो न बुध्यति ।
कीचकस्य विनाशाय तथा कुरु नृपात्मजे ।। 7 ।।

4-25-7a
4-25-7b

वैशंपायन उवाच ।

4-25-8x

तत्र तौ कथयित्वा तु बाष्पमुत्सृज्य दुःखितौ।
रात्रिशेषं तमत्युग्रं धारयामासतुर्हृदि ।। 8 ।।

4-25-8a
4-25-8b

भीमेन च प्रतिज्ञाते कीचकस्य वधे तदा।
द्रौपदी च सुदेष्णायाः प्रविवेश पुनर्गृहम् ।। 9 ।।

4-25-9a
4-25-9b

तस्यां रजन्यां व्युष्टायां प्रातरुत्थाय कीचकः।
गत्वा राजकुलायैव द्रौपदीमिदमब्रवीत् ।। 10 ।।

4-25-10a
4-25-10b

यत्त्वाऽहं पश्यतो राज्ञः पातयित्वा पदाऽहनम् ।
न कंचिल्लभसे नाथमभिपन्ना बलीयसा ।। 11 ।।

4-25-11a
4-25-11b

प्रवादेन तु मात्स्यानामयं राजेति चोच्यते।
अहमेव हि राजा वै मात्स्यानां वाहिनीपतिः ।। 12 ।।

4-25-12a
4-25-12b

सा सुखं प्रतिपद्यस्व दासो भीरु भवामि ते।
न ह्यहं त्वामृते भीरु चिरं जीवितुमुत्सहे ।। 13 ।।

4-25-13a
4-25-13b

अहन्यहनि सुश्रोणि शतनिष्कं ददामि ते।
दासीशतं च ते दद्यां दासानामपि चापरम् ।। 14 ।।

4-25-14a
4-25-14b

रथांश्चाश्वतरीयुक्तानस्तु नौ भीरु संगमः ।
सुदासानां सहस्रं च महिषाणां सहस्रकम् ।। 15 ।।

4-25-15a
4-25-15b

अन्तःपुरसहस्रं च हेमकूटसहस्रकम्।
तुभ्यं दास्यामि सर्वाणि राजार्हाण्यम्बराणि च ।। 16 ।।

4-25-16a
4-25-16b

द्रौपद्युवाच।

4-25-17x

एतन्मे वचनं सत्यं प्रतिपद्यस्व कीचक।
न ते सखा वा भ्राता वा जानीयात्संगमं मया ।। 17 ।।

4-25-17a
4-25-17b

अनुप्रवादाद्भीताऽस्मि गन्धर्वाणां यशस्विनाम् ।
अनुबोधाद्गनर्थः स्यादयशश्च महद्भवेत।
एतन्मे प्रतिजानीहि ततोऽहं वशगा तव ।। 18 ।।

4-25-18a
4-25-18b
4-25-18c

कीचक उवाच।

4-25-19x

एवमेतत्करिष्यामि यथा सुश्रोणि भाषसे।
एकोऽहमागमिष्यामि शून्यमावसथं तव ।। 19 ।।

4-25-19a
4-25-19b

समागमार्थं रम्भोरु त्वया मदनदर्पितः।
यथा त्वां नैव पश्येयुर्गन्धर्वाः सूर्यवर्चसः ।। 20 ।।

4-25-20a
4-25-20b

द्रौपद्युवाच।

4-25-21x

यदेतन्नर्तनागारं मात्स्यराजेन कारितम्।
दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति स्वकं गृहं ।। 21 ।।

4-25-21a
4-25-21b

निशायां तत्र गच्छेथा गन्धर्वास्तन्न जानते।
तत्र दोषः परिहृतो भविष्यति न संशयः ।। 22 ।।

4-25-22a
4-25-22b

एकस्त्वं नर्तनागारं रात्रौ संकेतमाव्रज ।
तत्राहं भविता तुभ्यं वशगा नात्र संशयः ।। 23 ।।

4-25-23a
4-25-23b

कीचक उवाच।

4-25-24x

तथा भद्रे करिष्यामि यथा त्वं भीरु वक्ष्यसि।
एकः सन्नर्तनागारमागमिष्यामि भामिनि।
समागमार्थं सुश्रोणि शपे च सुकृतेन मे ।। 24 ।।

4-25-24a
4-25-24b
4-25-24c

यथा त्वां नावबुध्यन्ति गन्धर्वा वरवर्णिनि।
सत्यं ते प्रतिजानामि गन्धर्वेभ्यो न ते भयम्।
अलंकरिष्याम्यद्याहं त्वत्समागमनाय वै ।। 25 ।।

4-25-25a
4-25-25b
4-25-25c

वासांसि च विचित्राणि मनोज्ञानि तवापि च।
यथा मां न त्यजेथास्त्वं तथ रंस्ये त्वया सह ।। 26 ।।

4-25-26a
4-25-26b

द्रौपद्युवाच।

4-25-27x

तथा चेदप्यहं सूत दर्शयिष्यामि ते सुखम्।
यन्नानुभूतं भवता जन्मप्रभृति कीचक ।। 27 ।।

4-25-27a
4-25-27b

वैशंपायन उवाच।

4-25-28x

तमर्थमपि जल्पन्त्या द्रौपद्याः कीचकस्य ह।
क्षणमात्रं तदभवन्मासेनैव समं नृप ।। 28 ।।

4-25-28a
4-25-28b

कीचकोऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः।
सैरन्ध्रीरूपिणीं मूढो मृत्युं तां नावबुद्धवान् ।। 29 ।।

4-25-29a
4-25-29b

गन्धाभरणमाल्येषु व्यासक्तः स विशेषतः।
अलंचक्रे तदाऽऽत्मानं सत्वरः काममोहितः ।। 30 ।।

4-25-30a
4-25-30b

तस्य तत्कुर्वतः कर्म कालो दीर्घ इवाभवत्।
अनुचिन्तयतश्चापि तामेवायतलोचनाम् ।। 31 ।।

4-25-31a
4-25-31b

आसीदभ्यधिका चापि श्रीः श्रियं प्रमुमुक्षतः ।
निर्वाणकाले दीपस्य वर्तीमिव दिधक्षतः ।। 32 ।।

4-25-32a
4-25-32b

कृतसंप्रत्ययस्तस्याः कीचकः काममोहितः।
नाजानात्पतनं स्वस्य चिन्तयंस्तां शुभाननाम् ।। 33 ।।

4-25-33a
4-25-33b

ततस्तु द्रौपदी गत्वा भीमसेनं महानसे।
उपातिष्ठत कल्याणी कौरव्यं पतिमन्तिकात् ।। 34 ।।

4-25-34a
4-25-34b

तमुवाच सुकेशान्ता कीचकस्य कृतो मया।
सङ्गमो नर्तनागारे यथाऽवोचः परन्तप ।। 35 ।।

4-25-35a
4-25-35b

कालेन नियतं बद्धः कामेन च बलात्कृतः।
शून्यं स नर्तनागारमागमिष्यति कीचकः।
एको निशि महाबाहो कीचकं तं निषूदय ।। 36 ।।

4-25-36a
4-25-36b
4-25-36c

तं मूतपुत्रं कौन्तेय कीचकं मददर्पितम्।
गत्वा त्वं नर्तनागारं निर्जीवं कुरु पाण्डव ।। 37 ।।

4-25-37a
4-25-37b

गर्वितः मूतपुत्रोऽसौ गन्धर्वानवमन्यते।
स त्वं प्रहरतांश्रेष्ठ नालं नाग इवोद्धर ।। 38 ।।

4-25-38a
4-25-38b

अस्रं दुःखाभिभूताया मम मार्जस्व भारत।
बाहुवीर्यानुरूपं च दर्शयाद्य पराक्रमम्।
आत्मनश्चैव भद्रं ते कुरु मानं कुलस्य च ।। 39 ।।

4-25-39a
4-25-39b
4-25-39c

भीम उवाच।

4-25-40x

स्वागतं ते वरारोहे यन्मां वेदयसे प्रियम्।
नह्यस्य कंचिदिच्छामि सहायं वरवर्णिनि ।। 40 ।।

4-25-40a
4-25-40b

सा मे प्रीतिस्त्वयाऽऽख्याता कीचकस्य समागमे।
हत्वा हिडिम्बं या प्रीतिर्ममासीत्सा शुचिस्मिते ।। 41 ।।

4-25-41a
4-25-41b

सत्यं भ्रातॄंश्च पुत्रांश्च पुरस्कृत्य शपामि ते।
कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा ।। 42 ।।

4-25-42a
4-25-42b

प्रसह्य निहनिष्यामि केशवः केशिनं यथा।
रहस्यं वा प्रकाशं वा सूदयिष्यामि कीचकम् ।। 43 ।।

4-25-43a
4-25-43b

अहं भद्रे हनिष्यामि कीचकं मदनान्वितम्।
यस्त्वां कामाभिभूतात्मा दुर्लभामभिमन्यते ।। 44 ।।

4-25-44a
4-25-44b

अथ चेदवबुध्यन्ति सूतपुत्रं मया हतम्।
निर्मनुष्यं करिष्यामि मत्स्यानामिदमालयम् ।। 45 ।।

4-25-45a
4-25-45b

मया हतांश्चेन्मात्स्यांस्तु धार्तराष्ट्रो विबुध्यति।
दुर्योधनं ततो हत्वा सानुबन्धं सबान्धवम्।
कुरुणामखिलं राज्यं प्रतिपत्स्यामि भामिनि ।। 46 ।।

4-25-46a
4-25-46b
4-25-46c

नाहं शक्तोऽनुनयितुं कुन्तीपुत्रं युधिष्ठिरम्।
कामं सत्यमुपासीत कुन्तीपुत्रो युधिष्ठिरः ।
काममन्ये ह्युपासन्तु विनीता धर्मचारिणः ।। 47 ।।

4-25-47a
4-25-47b
4-25-47c

त्वां तु दुःखमिदं प्राप्तां नाहं शक्नोम्युपेक्षितुम्।
निर्वृता भव पाञ्चालि कीचकस्य वधात्पुनः ।। 48 ।।

4-25-48a
4-25-48b

द्रौपद्युवाच।

4-25-49x

कीचकस्य वधं भीम यदि जानन्ति नागराः।
त्वया कृतं महाबाहो नाहं जीवितुमुत्सहे ।। 49 ।।

4-25-49a
4-25-49b

कथं सत्याच्च नापेयाद्राजाऽयं मत्कृते प्रभो।
निशि गूढं तथा भीम कीचकं तं निपातय ।। 50 ।।

4-25-50a
4-25-50b

अनुबुद्धे हि कौन्तेयो धर्मराजो युधिष्ठिरः।
पुनर्वनं व्रजेद्धीमाननुजैः परिवारितः ।। 51 ।।

4-25-51a
4-25-51b

कश्च धर्मपरं ज्येष्ठमतिवर्तेत भारत।
भीम भीताऽस्मि संबोधात्साधु मा चापलं कृथाः ।। 52 ।।

4-25-52a
4-25-52b

यथा न कश्चिञ्जानीते सूतपुत्रं त्वया हतम्।
तथा कुरुष्व कौरव्य बलवन्नरिमर्दन ।
अदृश्यमानस्त्वंतस्य भिन्धि प्राणानरिन्दम ।। 53 ।।

4-25-53a
4-25-53b
4-25-53c

।। इति श्रीमन्महाभारते विराटपर्वणि
कीचकवधपर्वणि पञ्चविंशोऽध्यायः ।। 25 ।।

विराटपर्व-024 पुटाग्रे अल्लिखितम्। विराटपर्व-026