महाभारतम्-04-विराटपर्व-019

विकिस्रोतः तः
Jump to navigation Jump to search
← विराटपर्व-018 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-019
वेदव्यासः
विराटपर्व-020 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

कीचकगृहंप्रति प्रस्थितया द्रौपद्या तेन स्वस्यादूषणाय सूर्यादिदेवताप्रार्थना ।। 1 ।।
सूर्येण तद्रक्षणाय निगूढस्य रक्षसः प्रेषणम् ।। 2 ।।
कीचकेन द्रौपदींप्रति स्ववशीभवनयाचनम् ।। 3 ।।
तथा तदनङ्गीकाररोषात्तस्याः पादेन ताडनम् ।। 4 ।।
सूर्यदूतेन रक्षसा कीचकस्य भूमौ निपातनम् ।। 5 ।।
युधिष्ठिरेन कीचकजिघांसोर्भीमस्य संकेतेन प्रतिषेधनम् ।। 6 ।।








वैशंपायन उवाच।

4-19-1x

अकीर्तयत सुश्रोणी धर्मं शक्रं दिवाकरम्।
मारुतं चाश्विनौ देवौ कुबेरं वरुणं यमम् ।। 1 ।।

4-19-1a
4-19-1b

रुद्रमग्निं भगं विष्णुं स्कन्दं पूषणमेव च।
सावित्रीसहितं चापि ब्रह्माणं पर्यकीर्तयत् ।। 2 ।।

4-19-2a
4-19-2b

इत्येवं मृगशवाक्षी सुश्रोणी धर्मचारिणी ।
उपातिष्ठत सा सूर्यं मुहूर्तमबला तदा ।। 3 ।।

4-19-3a
4-19-3b

तदस्यास्तनुमध्यायाः सर्वं सूर्योऽवबुद्धवान्।
अन्तर्हितं ततस्तस्या रक्षो रक्षार्थमादिशत् ।। 4 ।।

4-19-4a
4-19-4b

तच्चैनां नाजहात्तत्र सर्वावस्थास्वनिन्दिताम् ।। 5 ।।

4-19-5a

प्रतस्थे सा सुकेशान्ता त्वरमाणा पुनःपुनः ।
विलम्बमाना विवशा कीचकस्य निवेशनम् ।। 6 ।।

4-19-6a
4-19-6b

तां मृगीमिव वित्रस्तां दृष्ट्वा कृष्णां समागताम्।
उत्पपातासनात्तूर्णं नावं लब्ध्वेव पारगः ।। 7 ।।

4-19-7a
4-19-7b

श्लक्ष्णं चोवाच वाक्यं स कीचकः काममूर्च्छितः।
स्वागतं ते सुकेशान्ते सुव्युष्टा रजनी मम ।। 8 ।।

4-19-8a
4-19-8b

स्वामिनी त्वमनुप्राप्ता चिरस्य भवनं शुभे।
कुरुष्व च मयि प्रीतिं वशं चोपानयस्व माम् ।। 9 ।।

4-19-9a
4-19-9b

प्रतिगृह्णीष्व मे भोगांस्त्वदर्थमुपकल्पितान्।
सर्वरत्नमयीं मालां कुण्डले च हिरण्मये ।। 10 ।

4-19-10a
4-19-10b

वासांसि चन्दनं माल्यं धूपशुद्धां च वारुणीम्।
प्रतिगृह्णीष्व भद्रं ते विहर त्वं यथेच्छसि।
प्रीत्या मे कुरु मद्माक्षि प्रसादं प्रियदर्शने ।। 11 ।।

4-19-11a
4-19-11b
4-19-11c

स्वास्तीर्णमस्ति शयनं सितसूक्ष्मोत्तरच्छदम्।
अत्रारुह्य मया सार्धं पिबेमां वरवारुणीम् ।। 12 ।।

4-19-12a
4-19-12b

भजस्व मां विशालाक्षि भर्ता ते सदृशोस्म्यहम्।
उपसर्प वरारोहे मेरुमर्कप्रभा यथा ।। 13 ।।

4-19-13a
4-19-13b

वैशंपायन उवाच।

4-19-14x

स मूढः कीचकस्तत्र प्राप्तां राजीवलोचनाम्।
अब्रवीद्द्रौपदीं दृष्ट्वा दुरात्मा ह्यात्मसंमतः ।। 14 ।।

4-19-14a
4-19-14b

कीचकेनैवमुक्ता सा द्रौपदी वरवर्णिनी।
अब्रवीत्तमनाचारं नेदृशं वक्तुमर्हसि ।। 15 ।।

4-19-15a
4-19-15b

नाहं शक्या त्वया स्प्रष्टुं श्वपचेनेव ब्राह्मणी।
गन्तुमिच्छसि दुर्बुद्धे गतिं दुर्गतरान्तराम् ।। 16 ।।

4-19-16a
4-19-16b

यत्र गच्छन्ति बहवः परदाराभिमर्शकाः।
नराः संभिन्नमर्यादाः कीटवच्चाशुभाश्रयाः ।। 17 ।।

4-19-17a
4-19-17b

अप्रैषीन्मां सुराहारीं सुदेष्णा त्वन्निवेशनम् ।
तस्यै नयिष्ये मदिरां भगिनी तृषिता तव ।। 18 ।।

4-19-18a
4-19-18b

पिपासिता च कैकेयी तूर्णं मामादिशत्ततः।
दीयतां मे सुरा शीघ्रं सूतपुत्र व्रजाम्यहम् ।। 19 ।।

4-19-19a
4-19-19b

कीचक उवाच।

4-19-20x

अन्या भद्रे हरिष्यन्ति राजपुत्र्याः सुरामिमाम्।
किं त्वं यास्यसि कल्याणि मदर्थं त्वमिहागता ।। 20 ।।

4-19-20a
4-19-20b

वैशंपायन उवाच।

4-19-21x

इत्युक्त्वा दक्षिणे पाणौ सूतपुत्रः परामृशत्।
सा गृहीता विधून्वन्ती भूमौ निक्षिप्य भाजनम् ।
सभां शरणमाधावद्यत्र राजा युधिष्ठिरः ।। 21 ।।

4-19-21a
4-19-21b
4-19-21c

तां कीचकः प्रधावन्तीं केशपक्षे परामृशत्।
पातयित्वा तु तां भूमौ सूतपुत्रः पदाऽवधीत् ।। 22 ।।

4-19-22a
4-19-22b

सभायां पश्यतो राज्ञो विराटस्य महात्मनः।
ब्राह्मणानां च वृद्धानां क्षत्रियाणां च पश्यतां ।। 23 ।।

4-19-23a
4-19-23b

तस्याः पादाभितप्ताया मुखाद्रुधिरमास्रवत् ।। 24 ।।

4-19-24a

ततो दिवाकरेणाशु राक्षसः संनियोजितः।
स कीचकमपोवाह वातवेगेन भारत ।। 25 ।।

4-19-25a
4-19-25b

स पपात तदा भूमौ रक्षोबलसमीरितः ।
विघूर्णमानो निश्चेष्टश्छिन्नमूल इव द्रुमः ।। 26 ।।

4-19-26a
4-19-26b

तां दृष्ट्वा तत्र ते सभ्या हाहाभूताः समन्ततः।
न युक्तं सूतपुत्रेति कीचकेति च तेऽवदन्।
किमियं वध्यते बाला कृपणा चाप्यबान्धवा ।। 27 ।।

4-19-27a
4-19-27b
4-19-27c

तस्यामासन्हि ते पार्थाः सभायां भ्रातरस्तथा ।
अमृष्यमाणाः कृष्णायाः कीचकेन पदा वधं ।। 28 ।।

4-19-28a
4-19-28b

तां दृष्ट्वा भीमसेनस्य क्रोधादास्रमवर्तत।
धूमोच्छ्वासः समभवन्नेत्रे चोच्छ्रितपक्ष्मणी ।
सस्वेदा भ्रुकुटी चोग्रा ललाटे समवर्तत ।। 29 ।।

4-19-29a
4-19-29b
4-19-29c

तस्य भीमो वधप्रेप्सुः कीचकस्य दुरात्मनः।
दन्तैर्दन्तांस्तदा रोपान्निष्पिपेष महामनाः ।। 30 ।।

4-19-30a
4-19-30b

भूयः संचरितः क्रुद्धः सहसोत्थाय चासनात्।
निरैक्षत द्रुमं दीर्घं राजानं चाप्यवैक्षत।। 31 ।।

4-19-31a
4-19-31b

वधमाकाङ्क्षमाणं तं कीचकस्य दुरात्मनः।
आकारेणैव भीमं स प्रत्यपेधद्युधिष्ठिरः ।। 32 ।।

4-19-32a
4-19-32b

तस्य राजा शनैः संज्ञां कुन्तीपुत्रो युधिष्ठिरः।
चकार भीमसेनस्य रोषाविष्टस्य धीमतः ।। 33 ।।

4-19-33a
4-19-33b

प्रत्याख्यानं तदा चाह कङ्को नाम युधिष्ठिरः ।। 34 ।।

4-19-34a

सूद मा साहसं कार्षीः फलितोऽयं वनस्पतिः।
नात्र शुष्काणि काष्ठानि सन्ति यानि च कानि च।। 35 ।।

4-19-35a
4-19-35b

यदि ते दारुकृत्यं स्यान्निष्क्रम्य नगराद्बहिः।
समूलं शातयेर्वृक्षं श्रमस्ते न भविष्यति।। 36 ।।

4-19-36a
4-19-36b

यस्य चार्द्रस्य वृक्षस्य शीतच्छायां समाश्रयेत्।
न तस्य पर्णे द्रुह्येत पूर्ववृत्तमनुस्मरन् ।। 37 ।।

4-19-37a
4-19-37b

न क्रोधकालसमयः सूद मा चापलं कृथाः।
अपूर्णोऽयं द्विपक्षोनो नेदं बलवतां बहु ।। 38 ।।

4-19-38a
4-19-38b

अथाङ्गुष्ठेनावमृद्गादङ्गुष्ठं तत्र धर्मराट्।
प्रबोधनभयाद्राज्ञो भीमं तं प्रत्यषेधयत् ।। 39 ।।

4-19-39a
4-19-39b

भीमसेनस्तु तद्वाक्यं श्रुत्वा परपुरञ्जयः।
सहसोत्पतितं क्रोधं न्ययच्छद्धृतिमान्बलात् ।
इङ्गितज्ञः स तु भ्रातुस्तूष्णीमासीद्वृकोदरः ।। 40 ।।

4-19-40a
4-19-40b
4-19-40c

भीमस्य च समारम्भं दृष्ट्वा राज्ञोऽस्य चेष्टितम्।
द्रौपदी चाधिकं क्रोधात्प्रारुदत्सा पुनःपुनः ।। 41 ।।

4-19-41a
4-19-41b

कीचकेनानुगमनात्कृष्णा ताम्रायतेक्षणा ।
सभाद्वारमुपगम्य रुदन्ती वाक्यमब्रवीत् ।। 42 ।।

4-19-42a
4-19-42b

अवेक्षमाणा सुश्रोणी पतींस्तान्दीनचेतसः।
आकारं परिरक्षन्ती प्रतिज्ञां धर्मसंयुताम्।
दह्यमानेव रौद्रेण चक्षुषा द्रुपदात्मजा ।। 43 ।।

4-19-43a
4-19-43b
4-19-43c

प्रजारक्षणशीलानां राज्ञां ह्यमिततेजसाम्।
कार्याऽनुपालनं नित्यं धर्मे सत्ये च तिष्ठताम् ।। 44 ।।

4-19-44a
4-19-44b

स्वप्रजायां प्रजायां च विशेषं नाधिगच्छताम्।
प्रियेष्वपि च वध्येषु समत्वं ये समाश्रिताः ।। 45 ।।

4-19-45a
4-19-45b

विवादेषु प्रवृत्तेषु समं कार्यानुदर्शिना।
राज्ञा धर्मासनस्थेन जितौ लोकावुभावपि ।। 46 ।।

4-19-46a
4-19-46b

राजन्धर्मासनस्थो हि रक्ष मां त्वमनागसम् ।। 47 ।।

4-19-47a

अहं त्वनपराध्यन्ती कीचकेन दुरात्मना ।
पश्यतस्ते महाराज हता पादेन दासिवात् ।। 48 ।।

4-19-48a
4-19-48b

त्वत्समक्षं नृपश्रेष्ठ निष्पिष्टा वसुधातले ।
अनागसं कृपार्हां मां स्त्रियं त्वं परिपालय ।। 49 ।।

4-19-49a
4-19-49b

रक्ष मां कीचकाद्भीतां धर्मं रक्ष नरेश्वर ।
मत्स्याधिप प्रजा रक्ष पिता पुत्रानिवौरसान् ।। 50 ।।

4-19-50a
4-19-50b

यस्त्वधर्मेण कार्याणि मोहात्मा कुरुते नृपः।
अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः ।। 51 ।।

4-19-51a
4-19-51b

मत्स्यानां कुलजस्त्वं हि तेषां सत्यं परायणम्।
त्वं किलैवंविधो जातः कुले धर्मपरायणे ।। 52 ।।

4-19-52a
4-19-52b

अतस्त्वाहमभिक्रन्दे शरणार्थं नराधिप।
त्राहि मामद्य राजेन्द्र कीचकात्पापपूरुषात् ।। 53 ।।

4-19-53a
4-19-53b

अनाथामिह मां ज्ञात्वा कीचकः पुरुषाधमः।
प्रहरत्येव नीचात्मा न तु धर्ममवेक्षते ।। 54 ।।

4-19-54a
4-19-54b

अकार्याणामनारम्भात्कार्याणामनुपालनात्।
प्रजासु ये सुवृत्तास्ते स्वर्गमायान्ति भूमिपाः ।। 55 ।।

4-19-55a
4-19-55b

कार्याकार्यविशेषज्ञाः कामकारेण पार्थिवाः।
प्रजासु किल्बिषं कृत्वा नरकं यान्त्यधोमुखाः ।। 56 ।।

4-19-56a
4-19-56b

नैव यज्ञैर्न वा दानैर्न गुरोरुपसेवनात्।
प्राप्नुवन्ति तथा धर्मं यथा कार्यानुपालनात् ।। 57 ।।

4-19-57a
4-19-57b

अपि चेदं पुरा ब्रह्मा प्रोवाचेन्द्राय पृच्छते।
द्वन्द्वं कार्यमकार्यं च लोके चासीत्परं यथा ।। 58 ।।

4-19-58a
4-19-58b

धर्माधर्मौ पुनर्द्वन्द्वं विनियुक्तमथापि वा।
क्रियाणामक्रियाणां च प्रापणे पुण्यपापयोः ।। 59 ।।

4-19-59a
4-19-59b

प्रजायां सृज्यमानायां पुरा ह्येतदुदाहृतम्।
एतद्वो मानुषाः सम्यक्कार्यं द्वन्द्वत्रयं भुवि ।। 60 ।।

4-19-60a
4-19-60b

अस्मिन्सुनीते दुर्नीते लभते कर्मजं फलम्।
कल्याणकारी कल्याणं पापकारी च पापकम् ।। 61 ।।

4-19-61a
4-19-61b

तेन गच्छति संसर्गं स्वर्गाय नरकाय वा।
सुकृतं दुष्कृतं वाऽपि कृत्वा मोहेन मानवः ।
पश्चात्तापेन तप्येत स्वबुद्ध्या मरणं गतः ।। 62 ।।

4-19-62a
4-19-62b
4-19-62c

एवमुक्त्वा परं वाक्यं विससर्ज शतक्रतुम्।
शक्रोप्यापृच्छ्य ब्रह्माणं देवराज्यमपालयत् ।। 63 ।।

4-19-63a
4-19-63b

यथोक्तं देवराजेन ब्रह्मणा परमेष्ठिना।
तथा त्वमपि राजेन्द्र कार्याकार्ये स्थिरो भव ।। 64 ।।

4-19-64a
4-19-64b

।। इति श्रीमन्महाभारते विराटपर्वणि
कीचकवधपर्वणि एकोनविंशोऽध्यायः ।। 19 ।।

[सम्पाद्यताम्]

4-19-17 कीटवच्च गुहाश्रया इति कo थo पाठः ।। 17 ।।

विराटपर्व-018 पुटाग्रे अल्लिखितम्। विराटपर्व-020