मध्यमकशास्त्रम्/संसर्गपरीक्षा चतुर्दशमं प्रकरणम्

विकिस्रोतः तः
← मध्यमकशास्त्रम्/संस्कारपरीक्षा त्रयोदशमं प्रकरणम् मध्यमकशास्त्रम्
संसर्गपरीक्षा चतुर्दशमं प्रकरणम्
नागार्जुन
मध्यमकशास्त्रम्/स्वभावपरीक्षा पञ्चदशमं प्रकरणम् →

द्रष्टव्यं दर्शनं द्रष्टा त्रीण्येतानि द्विशो द्विशः ।
सर्वशश्च न संसर्गमन्योन्येन व्रजन्त्युत ॥ १४.१ ॥
एवं रागश्च रक्तश्च रञ्जनीयं च दृश्यताम् ।
त्रैधेन शेषाः क्लेशाश्च शेषाण्यायतनानि च ॥ १४.२ ॥
अन्येनान्यस्य संसर्गस्तच्चान्यत्वं न विद्यते ।
द्रष्टव्यप्रभृतीनां यन्न संसर्गं व्रजन्त्यतः ॥ १४.३ ॥
न च केवलमन्यत्वं द्रष्टव्यादेर्न विद्यते ।
कस्यचित्केनचित्सार्धं नान्यत्वमुपपद्यते ॥ १४.४ ॥
अन्यदन्यत्प्रतीत्यान्यन्नान्यदन्यदृतेऽन्यतः ।
यत्प्रतीत्य च यत्तस्मात्तदन्यन्नोपपद्यते ॥ १४.५ ॥
यद्यन्यदन्यदन्यस्मादन्यस्मादप्यृते भवेत् ।
तदन्यदन्यदन्यस्मादृते नास्ति च नास्त्यतः ॥ १४.६ ॥
नान्यस्मिन् विद्यतेऽन्यत्वमनन्यस्मिन्न विद्यते ।
अविद्यमाने चान्यत्वे नास्त्यन्यद्वा तदेव वा ॥ १४.७ ॥
न तेन तस्य संसर्गो नान्येनान्यस्य युज्यते ।
संसृज्यमानं संसृष्टं संस्रष्टा च न विद्यते ॥ १४.८ ॥