मध्यमकशास्त्रम्/संस्कारपरीक्षा त्रयोदशमं प्रकरणम्

विकिस्रोतः तः
← मध्यमकशास्त्रम्/दुःखपरीक्षा द्वादशमं प्रकरणम् मध्यमकशास्त्रम्
संस्कारपरीक्षा त्रयोदशमं प्रकरणम्
नागार्जुन
मध्यमकशास्त्रम्/संसर्गपरीक्षा चतुर्दशमं प्रकरणम् →

तन्मृषा मोषधर्म यद्भगवानित्यभाषत ।
सर्वे च मोषधर्माणः संस्कारास्तेन ते मृषा ॥ १३.१ ॥
तन्मृषा मोषधर्म यद्यदि किं तत्र मुष्यते ।
एतत्तूक्तं भगवता शून्यतापरिदीपकम् ॥ १३.२ ॥
भावानां निःस्वभावत्वमन्यथाभावदर्शनात् ।
अस्वभावो भावो नास्ति भावानां शून्यता यतः ॥ १३.३ ॥
कस्य स्यादन्यथाभावः स्वभावश्चेन्न विद्यते ।
कस्य स्यादन्यथाभावः स्वभावो यदि विद्यते ॥ १३.४ ॥
तस्यैव नान्यथाभावो नाप्यन्यस्यैव युज्यते ।
युवा न जीर्यते यस्माद्यस्माज्जीर्णो न जीर्यते ॥ १३.५ ॥
तस्य चेदन्यथाभावः क्षीरमेव भवेद्दधि ।
क्षीरादन्यस्य कस्याथ दधिभावो भविष्यति ॥ १३.६ ॥
यद्यशून्यं भवेत्किंचित्स्याच्छून्यमिति किंचन ।
न किंचिदस्त्यशून्यं च कुतः शून्यं भविष्यति ॥ १३.७ ॥
शून्यता सर्वदृष्टीनां प्रोक्ता निःसरणं जिनैः ।
येषां तु शून्यता दृष्टिस्तानसाध्यान् बभाषिरे ॥ १३.८ ॥