मध्यमकशास्त्रम्/स्वभावपरीक्षा पञ्चदशमं प्रकरणम्

विकिस्रोतः तः
← मध्यमकशास्त्रम्/संसर्गपरीक्षा चतुर्दशमं प्रकरणम् मध्यमकशास्त्रम्
स्वभावपरीक्षा पञ्चदशमं प्रकरणम्
नागार्जुन
मध्यमकशास्त्रम्/बन्धमोक्षपरीक्षा षोडशं प्रकरणम् →

न संभवः स्वभावस्य युक्तः प्रत्ययहेतुभिः ।
हेतुप्रत्ययसंभूतः स्वभावः कृतको भवेत् ॥ १५.१ ॥
स्वभावः कृतको नाम भविष्यति पुनः कथम् ।
अकृत्रिमः स्वभावो हि निरपेक्षः परत्र च ॥ १५.२ ॥
कुतः स्वभावस्याभावे परभावो भविष्यति ।
स्वभावः परभावस्य परभावो हि कथ्यते ॥ १५.३ ॥
स्वभावपरभावाभ्यामृते भावः कुतः पुनः ।
स्वभावे परभावे वा सति भावो हि सिध्यति ॥ १५.४ ॥
भावस्य चेदप्रसिद्धिरभावो नैव सिध्यति ।
भावस्य ह्यन्यथाभावमभावं ब्रुवते जनाः ॥ १५.५ ॥
स्वभावं परभावं च भावं चाभावमेव च ।
ये पश्यन्ति न पश्यन्ति ते तत्त्वं बुद्धशासने ॥ १५.६ ॥
कात्यायनाववादे चास्तीति नास्तीति चोभयम् ।
प्रतिषिद्धं भगवता भावाभावविभाविना ॥ १५.७ ॥
यद्यस्तित्वं प्रकृत्या स्यान्न भवेदस्य नास्तिता ।
प्रकृतेरन्यथाभावो न हि जातूपपद्यते ॥ १५.८ ॥
प्रकृतौ कस्य चासत्यामन्यथात्वं भविष्यति ।
प्रकृतौ कस्य च सत्यामन्यथात्वं भविष्यति ॥ १५.९ ॥
अस्तीति शाश्वतग्राहो नास्तीत्युच्छेददर्शनम् ।
तस्मादस्तित्वनास्तित्वे नाश्रीयेत विचक्षणः ॥ १५.१० ॥
अस्ति यद्धि स्वभावेन न तन्नास्तीति शाश्वतम् ।
नास्तीदानीमभूत्पूर्वमित्युच्छेदः प्रसज्यते ॥ १५.११ ॥