भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ००३

विकिस्रोतः तः
← अध्यायः ००२ भविष्यपुराणम्
अध्यायः ००३
वेदव्यासः
अध्यायः ००४ →


मायादर्शनवर्णनम्

।। युधिष्ठिर उवाच ।।
कीदृशी कृष्ण सा माया विष्णोरमिततेजसः ।।
यया व्यामोहितं यच्च जगदेतच्चराचरम् ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
येन द्वीपे पुरा विष्णुरास्ते चक्रगदाधरः ।।
वासुदेवः सगरुडः सचक्रश्च श्रिया सह ।। २ ।।
नीलोत्पलदलश्यामः कुंडलाभ्यां विभूषितः ।।
भ्राजते मुकुटोद्द्योतकेयूरवनमालया ।। ३ ।।
तस्य द्रष्टुमथाभ्यागान्नारदो मुनिसत्तमः ।।
प्रणम्य स्तुतिभिर्द्देवं प्राहेदं विस्मयान्वितः ।। ४ ।।
संशयं परिपृच्छामि भगवन्वक्तुमर्हसि ।।
का माया कीदृशी माया किंरूपा च कुतस्तथा ।। ५ ।।
तस्या दर्शय मे रूपं मायायाः पुरुषोत्तम ।।
या च मोहयते सर्वं त्रैलोक्यं सचराचरम् ।। ६ ।।
आब्रह्मस्तंबपर्यंतं सदेवासुरमानुषम् ।।
वैकुंठं वासुदेवं च प्रसादं कर्तुमर्हसि ।। ७ ।।
एवमुक्तस्तु मुनिना देवदेवो जनार्दनः ।।
प्रहस्योवाच देवर्षे न कार्यं मायया त्वया ।। ८ ।।
भूयोऽपि मोहयामास सोमग्राहेण नारदम् ।।
नारदोपि महाराज प्रोवाचेदं पुनः पुनः ।। ९ ।।
मायां दर्शय मे देव नान्यदस्ति प्रयोजनम् ।।
अथासौ विष्णुरुत्थाय श्वेतद्वीपं पुनर्ययौ ।। 4.3.१० ।।
अडुल्यग्रेण संगृह्य नारदं मुनि पुङ्गवम् ।।
ततो मार्गगतश्चक्रे आत्मानं द्विजरूपिणम् ।। ११ ।।
ऋग्वेदसदृशः साक्षाद्विष्णुर्ब्रह्मवदास्थितः ।।
वृद्धद्विजोत्तमवपुः संशयो नाल्पको भवत् ।। १२ ।।
शिखी कमंडलुधृतो मृगचर्मोपवीतकः ।।
यज्ञशर्मेति संज्ञां च चक्रेऽसावात्मनः प्रभुः ।। १३ ।।
कृत्वापि कुशतंत्वग्रपवित्रकृत लक्षणम्।।
आययौ स महीपृष्ठे जम्बूद्वीपं चचार ह ।। १४ ।।
वैदिशं नाम नगरं वेत्रवत्यास्तटे शुभम् ।।
तस्मिन्सदोद्यमपरो धनधान्यस मृद्धिमान् ।। १५ ।।
गोमहिष्यजसंपूर्णं पाशुपाल्येन संस्थितः ।।
हलकर्मवृषासक्तो वैश्यजातिरनिंदितः ।। १६ ।।
गृहकर्मणि तन्निष्ठः सीरभद्र इति स्मृतः ।।
तस्यांतिके हरिः साक्षान्नारदेन सहागतः ।। १७ ।।
तेनाप्यासनसन्मानैः समर्थेन कृतादरौ ।।
प्रोक्तं केनाथ किं तुभ्यं साध्यमन्नं न साध्यते ।। १८ ।।
न वास्मदीयं युष्माकं रोचतेन्नं ततो हरिः ।।
प्रहस्य प्रददौ तस्मै वरं द्विजवरो महत् ।। १९ ।।
उन्नाम्य वक्त्रं चोवाच देवसंस्तुतया गिरा ।।
संतु ते बहवः पुत्राः क्षेत्रव्यापारबुद्धयः ।। 4.3.२० ।।
पशुपाशगृहासक्ताः शतार्द्धबलवाहनाः ।।
तेषां पुत्राश्च पौत्राश्च कृषि वृद्धिप्रवर्द्धकाः ।। २१ ।।
त्वञ्च वृत्तिशतैर्न्नित्यं वर्द्धस्व स्वजनावृतः ।।
इत्युक्त्वा स जगन्नाथो वासुदेवः सनारदः ।। २२ ।।
क्षेत्रे गोस्वामिनामानं द्विजं ददृशतुश्च तौ।।
दरिद्रं हलकर्मार्त्तं मेथ्याद्योपस्करार्दितम् ।। २३ ।।
भागीरथ्यास्तटे रम्ये वेणिकाग्रामसन्निधौ ।।
तृणगुल्मलताच्छन्नक्षेत्रे चिंताकुलो हि सः ।। २४ ।।
ताभ्यां संप्रार्थितो विप्रो भोज्यं प्रादाच्च किंचन ।।
सकाशं तव संप्राप्तौ दूरादतिथिधर्मिणौ ।। २५ ।।
इत्युक्तोऽसौ द्विजश्रेष्ठो हलकर्म विधाय तत् ।।
आजगाम गृहं तूर्णं ताभ्यां सह ससंभ्रमम् ।। २६ ।।
चक्रे चैवादरं भक्त्या स्वयमासनसत्क्रियाम् ।।
पादशौचं तथाभ्यंगं कृत्वात्र च सुसंस्कृतम् ।। २७ ।।
सह पत्न्या सतनयो भोज्यं भुक्तिं चकार सः ।।
भुक्तभोज्यौ च शर्वर्यां सुखं सुप्तौ निशात्यये।।२८।।
प्रयातौ ददतुः श्रेष्ठं वरं तस्मै द्विजातये ।।
मा ते भवतु गोस्वामिन्कदाचिदपि कर्षणम् ।। २९ ।।
मा धान्यं मखसंतान मत्प्रसादाद्विजोत्तम ।।
इत्युक्त्वा जग्मतुस्तूर्णं पुनः पप्रच्छ नारदः।।4.3.३०।।
किमिदं वद देवेश शापरूपो वरस्त्वया ।।
भद्र गोस्वामिने दत्तः किं च वैश्ये तथाविधः।।३१।।
इत्युक्तः प्राह देवेशः शृणु नारद मद्वचः ।।
परमार्थं प्रवक्ष्येऽहं तव संशयकर्तनम् ।। ३२ ।।
संवत्सरेण यत्पापं मत्स्यघाती समाचरेत् ।।
तदह्ने केन कुरुते लांगली नात्र संशयः ।। ३३ ।।
अतोऽर्थं कृषिपाल्येन नरकं याति लांगली ।।
तदभावान्न कल्पः स्यात्तेन मोक्षो मयि ध्रुवम् ।। ३४ ।।
मयि भुक्ते प्रसन्ने वा को विशेषोऽस्य नारद ।।
यदि स्वर्गोऽथ वा मोक्षो न संपद्येत तद्वृथा ।। ३५।।
इदानीं हलकालुष्यैः सीरभद्रो विचेष्टितैः ।।
बहुपापप्रसंगेन घोरं नरकमेष्यति ।। ३६ ।।
सपुत्रपौत्रसंतानो हृतोर्थस्तद्गृहे मया ।।
न भुक्तं न च विश्रान्तं विश्रांतं द्विजवेश्मनि ।। ३७ ।।
सोऽपि द्विजो मुनिश्रेष्ठ संसारादुत्तरिष्यति ।।
इत्येवं संवदंतौ च जग्मतुर्मार्गमुत्तमम् ।। ३८ ।।
कान्यकुब्जस्य सामीप्ये सरः श्रेष्ठमपश्यताम् ।।
हंसकारण्ड वाकीर्णं चक्रवाकोपशोभितम् ।। ३९ ।।
पद्मिनीजलकह्लाररक्तोत्पलसितोत्पलैः ।।
छादितं पद्मिनीपत्रैर्मत्स्यैः कूर्मैर्ज्जलोद्भवैः ।। 4.3.४० ।।
तटै रम्यैर्घनैर्वृक्षैः केतकीखण्डमंडितम्।।
केतकीकुसुमामोदैर्ल्लकुचैस्तटमंडितैः ।। ४१ ।।
दात्यूहशिखिभारुण्डचकोराद्यैश्च संकुलम् ।।
कुरवैश्चातकै रम्यं केकाकुलनिनादितम् ।। ४२ ।।
जलकुक्कुटसंगीतं हंससारसशोभितम् ।।
जीवंजीवकहारीतचकोरैरुपशोभितम् ।। ४३ ।।
वशिष्ठस्य मुनेर्नाम्ना विख्यातं श्रीमहोदयम् ।।
अस्मिन्नद्य प्रवेष्टव्यं महाजनविवेकिनाम् ।। ४४।।
स्थातव्यं पुरतस्तेषां तस्मात्स्नानं समाचरेत् ।।
इत्युक्त्वा केशवः पापं सस्नौ प्रागेव तज्जलैः ।। ४५ ।।
यत्तीर्थलोकं विख्यातं स्नात्वा तीरं समाश्रितः ।।
प्रहरे वासुदेवस्य नारदोऽपि मुदा युतः ।। ४६ ।।
आचम्य सस्नौ तीर्थेन क्षणात्तीर्थमवाप्य च ।।
यावदुत्तिष्ठते तोयात्स्नात्वा ऋषिरुदारधीः ।। ४७ ।।
तावत्स्त्रीत्वं समापन्नो नारदः केन वर्ण्यते ।।
यस्यास्तु विस्तृते नेत्रे वक्त्रं चन्द्रोपमं शुभम् ।। ४८ ।।
स्मरपाशोपमौ कर्णौ कपोलौ कनकोज्ज्वलौ ।।
नासिका तिलसूनेन कामचापोपमे भ्रुवौ ।। ४९ ।।
दशना हीरकैस्तुल्या विद्रुमाभः शुभाधरः ।।
मयूरस्य कलापेन तुल्य कचनिबंधनम् ।। 4.3.५० ।।
शंखरेखात्रयेणैव कंठदेशो विराजते ।।
माधवीलतया तुल्यौ मंजू तस्या भुजौ शुभौ ।। ५१ ।।
युतौ रक्तोत्पलाभासौ पाणी रक्तनखांगुली ।।
पीनावतुंगतनुधृत्कठिनौ कलशोपमौ ।। ५२ ।।
स्तनावविरलौ स्निग्धौ चक्रवाकयुगोपमौ ।।
स्वल्पकं मध्यदेशं तु मुष्टिग्राह्यमसंशयम् ।। ५३ ।।
नाभिमंडलगांभीर्यं लावण्यं केन वर्ण्यते ।।
वलित्रयेण विकृता रोमराजिर्विराजिता ।। ५४ ।।
नयने च पुनस्तस्या मृग्या इव सुशोभने ।।
नितंबो बिंबफलका मन्मथायतनं शुभम् ।। ५५ ।।
रंभायुग्मोपमावूरू स्मरबाणनिबंधनौ ।।
विपरीतरतायासखेदभारसहौ दृढौ ।। ५६ ।।
नवकुन्दलतासारसरलं सनिबंधनम् ।।
जंघायुगं महाराज गूढगुल्फ युगं तथा ।। ५७ ।।
रक्तांगुलीलतातल्पनखचन्द्रकयाचितम् ।।
चरणारविंदयुगलं सरक्तं सुप्रतिष्ठितम् ।। ५८ ।।
सैवंविधा तदा नारी सर्वलक्षणपू जिता ।।
बभूव क्षणमात्रेण जगद्व्यामोहकारिणी ।। ५९ ।।
क्षीरोदमथनोत्तीर्णा लक्ष्मीमन्याभिवोच्छ्रिताम् ।।
दृष्ट्वाप्यदर्शनं प्राप्तो मायया मधुसूदनः ।। 4.3.६० ।।
संप्राप्यते च सा कालसंगराहारिणी यथा ।।
आस्त एकाकिनी मुग्धा कुर्याद्दिगवलोकनम् ।। ६१ ।।
अथाजगाम तं देशं नाम्ना तालध्वजो नृपः ।।
सह सैन्यैः परिवृतः पुरंदर इवामरैः ।। ६२ ।।
गजारूढैर्हयारूढै रथारूढैर्नरोत्तमैः ।।
विमानयानयुग्मस्थैस्तथांतःपुरिकाजनैः ।।६३।।
ध्वजातपत्रकलिलैरनीकैः परिवारितः ।।
तेन सा सहसा दृष्टा नारी कमललोचना ।। ६४ ।।
बभूव क्षणमात्रेण कंदर्पशरपीडितः ।।
केयं कस्य कुतः प्राप्ता किं देवी वाथ मानुषी ।। ६५ ।।
अदृष्टरूपाप्सरसा काचिद्देवी समागता ।।
अहोरूपं सुरूपाया गोचरे परितः पुमान् ।। ६६ ।।
मुमूर्षुर्जायते मोहादनुदिग्धहतो यथा ।।
इति संचिन्त्य हृदये राजा तालध्वजोऽन्तिके ।। ६७ ।।
उवाच नारीं मुग्धां तां शृणु मद्वचनं शुभे ।।
का त्वं कस्य कुतः प्राप्ता देशमेतं शुचिस्मिते ।। ६८ ।।
इत्युक्ते साश्रु चार्वंगी प्राह मां विद्ध्ययोनिजाम् ।।
पित्रा मात्रा विहीनां च तथाद्यापि कुमारिकाम् ।। ६९ ।।
निराश्रयां विदित्वैनां ततो जातः स्मरार्दितः ।।
आरोप्य हयपृष्ठे तां ततो राजागतो गृहम् ।। 4.3.७० ।।
नीत्वा विवाहयामास शास्त्रोक्तविधिना ततः ।।
रेमे प्रासादशृंगाग्रे पर्यंके सितया तया ।। ७१ ।।
उद्यानभव्यभूमीषु नदीनां पुलिनेषु च ।।
पर्वतानां नितंबेषु निर्झरेषु गुहासु च ।। ७२ ।।
पद्मखंडेषु फुल्लेषु शोभितेषु सरस्सु च ।।
प्रयागादिषु तीर्थेषु नदीनामाश्रमेषु च ।। ७३ ।।
दिव्यावसथरम्येषु वेलाकूलेषु पार्थिवः ।।
यावद्द्वादश वर्षाणि एकाहमपि भारत ।।७४।।
ततस्त्रयोदशे वर्षे तस्या गर्भोऽभवन्महान् ।।
एतस्मिन्गर्भसंपूर्णे जातं दीर्घमलाबुकम् ।। ।। ७५ ।।
तद्भेदाहतकुंभेषु बीजप्रारोहणान्नराः ।।
बभूवुर्द्धातुशून्या वै दिव्यदेहबलोत्कटाः ।। ७६ ।।
पंचाशत्संख्यया जाता उपसर्गादिवर्जिताः ।।
आरूढयौवनाः सर्वे सुताः संग्रामकोविदाः ।। ७७ ।।
तेषां पुत्राश्च पौत्राश्च बभूवुः सुरसत्तमाः ।।
युयुधुः शरसंघातैश्चक्रशूलासिपट्टिशैः ।। ७८ ।।
हयैरन्यैर्गजैरन्यैः क्रोधांधाः कौरवा इव ।।
पांडवैः सह संग्रामे युयुधुः क्षयमंजसा ।।७९ ।।
सपदातिगजारोहाः सांतःपुरयुगेच्छया ।।
विनेशुरब्धिमासाद्य सिंधूनां प्रवहा इव।।4.3.८०।।
सासिसबलविस्ताराः सदर्पाः समहोच्छ्रयाः ।।
इन्द्रलोकोपमं सर्वं कुलं नष्टं क्षणं तदा ।।८१।।
संदृश्य नारदीयैषा विनष्टं स्वकुलं रणे ।।
रुरोद स्नेहसंयुक्तै रसैः कलुषया गिरा ।। ८२।।
हा दैव हा विधे पाप हा कृतान्त नमस्कृत ।।
दर्शयित्वा विधानं मे पुनर्नेत्रे हृते त्वया ।। ८३ ।।
इत्युक्त्वा स्वमुरोहस्तैर्जघान भृशदुःखिता ।।
भूमौ मूर्च्छातुरा भूत्वा पुनः प्राप्ता विचेतनम् ।।८४।।
सोऽपि राजा विषण्णोऽसौ निर्विण्णः शोकसागरे।।
भूमौ निपतितो दुःखाद्रुरोद भृशदुःखितः ।।८५।।
विषण्णो मंत्रिभिः सार्धं वृद्धशोकेन संयुतः ।।
एतस्मिन्नंतरे विष्णुराजगाम द्विजैः सह ।।८६।।
द्विजवेषपरिच्छन्न उपविष्टः सुखासने ।।
ततः पुरस्सरो भूत्वा चक्रे धर्मार्थदर्शनम् ।।८७।।
किं रोदनेन बहुना युवयोः क्लेशकारिणा ।।
श्रूयतां विष्णुमायैषा स्वप्नदृष्टधनोपमा ।।८८।।
शोभने यादृशः शोकः कृतः संसारसागरे ।।
सर्वेषामेव भूतानां परिणामोयमीदृशः ।। ।। ८९ ।।
पुरंदरसहस्राणि चक्रवर्तिशतानि च ।।
निर्वापितानि कालेन प्रदीप इव वायुना ।। 4.3.९० ।।
येऽपि शोषयितुं शक्ताः समुद्रं ग्राहसंकुलम्।९९।
कुर्युश्च करयुग्मेन चूर्णं मेरुं महीतले ।। ९१ ।।
ऊद्धर्तुं धरणीसंज्ञां ग्रहीतुं चन्द्रभास्करौ ।।
प्रविष्टास्ते तु कालेन कृतांतवदनं तदा ।। ९२ ।।
दुर्गस्त्रिकूटः परिखाः समुद्रा रक्षांसि योधा धनदाच्च वित्तम् ।।
मंत्रश्च यस्यौशनसा प्रणीतः स रावणो दैववशाद्विषण्णः ।। ९३ ।।
संग्रामे गजतुरगसमाकुलेऽपि वादादग्नौ वा गतविवरे महोदधौ वा ।।
सर्वैर्वा सह वसतामुदीर्णकोपैर्नाभाव्यो भवति कदाचिदेव नाशः ।। ९४ ।।
पातालमाविशतु यातु सुरेन्द्रलोकमारोहतु क्षितिधराधिपतिं सुमेरुम् ।।
मंत्रौषधिप्रहरणैश्च करोतु रक्षां यद्भावि तद्भवति नाथ विभावितोऽस्मि ।। ९५ ।।
रोदिति कश्चिदथाश्रुधौताननगुरुतरशोकविह्वलः ।।
प्रविकटचरणवानपि नृत्यति कश्चिद्धर्मादिविग्रहः ।। ९६ ।।
गायति हृदयहारि सुखनिर्भरमायतविस्तृताऽधरोऽधिकम् ।।
सार एष रंगोदरगतनटपटहाकाम एवायम् ।। ९७।।
इत्येवं धर्ममुद्दिश्य विष्णुः संसारचेष्टितम् ।।
तूष्णीं बभूवानुपदं ततस्ते द्विजपुङ्गवाः ।। ९८ ।।
उत्तिष्ठ स्नाहि पुत्राणां प्रकुरुष्वौर्ध्वदेहिकम् ।।
मा शोकं विष्णुमायैषा विष्णुना निर्मिता स्वयम् ।। ९९ ।।
इत्युक्ता चारुसर्वांगी स बभूवाचलः पुमान् ।।
स एष सदृशाकारो नारदस्तत्क्षणेऽभवत् ।। 4.3.१०० ।।
सोऽपि राजा ददर्शाथ तं समंत्रिपुरोहितः ।।
सांतःपुरमिदं सर्वमिंद्रजालोपमं क्षणात् ।। १०१ ।।
नारदं मुनिशार्दूलं जटाभारभयानकम् ।।
गौरवर्णं ज्वलंतं च ब्राहम्या लक्ष्म्या विराजितम् ।। १०२ ।।
शिखा कमण्डलुधरं वीणादण्डकरं तथा ।।
ब्रह्मसूत्रेण शुभ्रेण कौपीनाच्छादनेन च ।।
पादुकाभ्यां स्थितं तीरे सरसो ब्राह्मणासने ।। १०३ ।।
संप्रगृह्य कराग्रेण जगामादर्शनं हरिः ।।
अम्बरेण सुरैः सार्द्धं तस्माद्देशाद्युधिष्ठिर ।। १०४ ।।
श्वेतद्वीपमथासाद्य प्राह देवो मुनिं नृप ।।
देवर्षे यत्त्वया पृष्टं पूर्वं मायाकथां प्रति ।। १०५ ।।
माया ययेदृशी माया यत्स्वरूपा यदात्मिका ।।
सा ते माया मया ब्रह्मन्वैष्णवी संप्रदर्शिता ।। १०६ ।।
एवमुक्त्वा मुनिवरं देवदेवो जनार्दनः ।।
बभूवान्तर्हितस्सद्यो देवर्षेस्तस्य पश्यतः ।। १०७ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मायादर्शनं नाम तृतीयोऽध्यायः ।। ३ ।।