भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ००२

विकिस्रोतः तः
← अध्यायः ००१ भविष्यपुराणम्
अध्यायः ००२
वेदव्यासः
अध्यायः ००३ →


ब्रह्माण्डोत्पत्तिवर्णनम्

युधिष्ठिर उवाच ।। ।।
कस्य प्रतिष्ठा निर्दिष्टा को हेतुः किं परायणम् ।।
कस्मिन्नैतल्लयं याति कस्मादु त्पद्यते जगत् ।। १ ।।
कति द्वीपाः समुद्राश्च कियंतो हि कुलाचलाः ।।
कियत्प्रमाणमवनेर्भुवनानि कियंति च ।। २ ।।
।। श्रीकृष्ण उवाच ।। ।।
पौराणश्चैव विषयो यत्पृष्टोऽहं त्वयानघ ।।
श्रुतोऽनुभूतश्च मया संसारे सरता चिरम् ।। ३ ।।
अजाय विश्वरूपाय निर्गुणाय गुणात्मने ।।
नमस्तस्मै भगवते वासुदेवाय वेधसे ।। ४ ।।
अत्र ते वर्णयिष्यामि शृणु पार्थ पुरातनम् ।।
याज्ञवल्क्येन मुनिना भविष्यं भास्वतांपतिः ।।
पृष्टो यदुत्तरं प्रादादृषिभ्यस्तन्मया श्रुतम् ।। ५ ।।
धन्यं यशस्यमायुष्यं सर्वाशुभविनाशनम् ।।
भविष्योत्तरमेतत्ते कथयामि युधिष्ठिर ।। ६ ।।
एकात्मकं त्रिदैवत्यं चतुःपंचसुलक्षणम् ।।
गुणकालादिभेदेन सदसत्संप्रदर्शितम् ।। ७ ।।
एक एव जगद्योनिः प्रतियोनिषु संस्थितः ।।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ।। ८ ।।
ब्रह्मा विष्णुर्वृषांकश्च त्रयो देवाः सतां मताः ।।
नामभेदैः क्रियाभेदैर्भिद्यंते नात्मना स्वयम्।। ९ ।।
प्रक्रिया चानुषंगश्च उपोद्धातस्तथैव च ।।
उपसंहार इत्येतच्चतुष्पादं प्रकीर्तितम् ।। 4.2.१० ।।
तर्कश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।।
वंशानुचरितं चैव पुराणं पंचलक्षणम् ।। ११ ।।
एष वक्तव्यविषयः सुमहान्प्रतिभाति मे ।।
तथाप्युद्देशतो वच्मि सर्गं प्रति तवानघ ।। १२ ।।
महदादिविशेषान्तं सवैरूप्यं सलक्षणम् ।।
पञ्चप्रमाणं षट्कक्षं पुरुषाधिष्ठितं जगत्।। १३।।
अव्यक्ताज्जायते बुद्धिर्महानिति च सा स्मृता।।
अहंकारस्तु महतस्त्रिगुणः स च पठ्यते ।। १४ ।।
तन्मात्राणि च पञ्चाहुरहङ्काराच्च सात्त्विकात् ।।
जातानि तेभ्यो भूतानि भूतेभ्यः सचराचरम् ।। १५ ।।
जलमूर्तिमये विष्णौ नष्टे स्थावरजंगमे ।।
भूतात्मकमभूदण्डं महत्तदुदकेशयम् ।। १६ ।।
सृष्ट्यां शक्त्या च निर्भिन्नं तदण्डमभवद्द्विधा ।।
भूकपालमथैकं तद्द्वि तीयमभवन्नभः ।। १७ ।।
उल्बं तस्याभवन्मेरुर्जरायुः पर्वताः स्मृताः ।।
नद्यो धमन्यः सञ्जाताः क्लेदः सर्वत्रगं पयः ।। १८ ।।
योजनानां सहस्राणि षोडशाधः प्रतिष्ठित ।।
उत्सेधे चतुराशीतिर्द्वात्रिंशदूर्ध्वविस्तृतः।।
भूमिपंकजविस्तीर्णा कर्णिका मेरुरुच्यते ।। १९ ।।
आदित्यश्चादिदेवत्वात्तत्राभूत्त्रिगुणात्मकः ।।
प्रातः प्रजापतिरसौ मध्याह्ने विष्णुरिष्यते ।।
रुद्रोऽपराह्णसमये स एवैकस्त्रिधामतः ।। 4.2.२० ।।
प्रातः प्रजापतेर्जाता मुनयो नव मानवाः ।।
मरीचिरत्र्यंगिरसौ पुलस्त्यः पुलहः क्रतुः ।।
भृगुर्वशिष्ठ इत्यष्टौ नारदो नवमः स्मृतः ।। २१ ।।
नव ब्रह्माण इत्येष पुराणे निश्चयः स्मृतः ।।
अंगुष्ठाद्दक्षिणाद्दक्षः संजज्ञे कमलोद्भवात् ।। २२ ।।
वामा प्रसूतिरुदगादंगुष्ठात्तौ च दंपती ।।
ताभ्यां जातास्तु तनया हर्यश्वास्ते विनाशिताः ।।
सृष्टिं प्रति समुद्युक्ता नारदेन महात्मना ।।२३।।
दक्षः क्षीणान्सुतान्वीक्ष्य जनयामास कन्यकाः ।।
पञ्चाशद्दश विख्याताः सत्याया नामभिः स्मृताः ।। २४ ।।
ददौ स दश धर्माय कश्यपाय त्रयोदश ।।
कालस्य नयने युक्ताः सप्तर्विशतिमिंदवे ।। २५ ।।
द्वे प्रादाद्बाहुपुत्राय द्वे कृशाश्वाय चैव हि ।।
रूपयौवनशालिन्यश्चतस्रोऽरिष्टनेमिने ।। २६ ।।
एकां भृगोर्भवायैकां प्रादात्तेभ्यश्चराचरः ।।
अभवत्पुरुषव्याघ्र भूतग्रामश्चतुर्विधः ।। २७ ।।
वैराजमथ वैकुण्ठं केलासमिति नामतः ।।
मेरोः शृंगत्रयं मूर्ध्नि ब्रह्मविष्णुशिवालयम् ।। २८ ।।
प्राचीदिक्क्रमयोगेन तेषां पार्श्वे पुरः स्मृताः ।।
इन्द्रादिलोकपालानां दिव्यैः स्वर्ल्लक्षणैर्युताः ।। २९ ।।
हिमवान्हेमकूटश्च निषधो मेरुरेव च ।।
नीलः श्वेतस्तथा शृंगी जम्बूद्वीपे कुलाचलाः ।।
जम्बूद्वीपप्रमाणेन सहस्रगुणितं शतम् ।। 4.2.३० ।।
भिद्यते नवधा सोऽपि वर्षभेदेन भारत ।।
जम्बूशाककुशक्रौञ्चशाल्मगोमेद पुष्कराः ।।
द्वीपाः सप्त समाख्याताः समुद्रे सप्तभिर्वृताः ।। ३१ ।।
क्षारक्षीरेक्षुसुरया दध्ना चैव घृतेन च ।।
स्वादूदकेन च भृतैर्द्विगुणैर्द्विगुणैस्त था ।।३२।।
भूर्लोकोऽथ भुवर्लोकः स्वर्महर्ज्जन इत्यपि ।।
तपः सत्यश्च कथिताः पार्थ सप्त सुरालयाः ।। ३३ ।।
महातलो भूमितलः सुतलो वितल स्ततः ।।
रसातलश्च विज्ञेयः सप्तमश्च तलातलः ।।३४।।
हिरण्याक्षप्रभृतयो दानवेन्द्रा महोरगाः।।
वसंत्येतेषु कौन्तेय सिद्धाश्च ऋषयश्च ये ।।३५।।
स्वायंभुवो मनुः पूर्वं ततः स्वारोचिषोऽभवत् ।।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषेति षट् ।।३६।।
वैवस्वतोऽयमधुना वर्तते मनुरुत्तमः ।।
यस्य पुत्रैः प्रपौत्रैश्च विभक्तेयं वसुन्धरा ।। ३७ ।।
आदित्या वसवो रुद्रा एकादश तथाश्विनौ ।।
उषस्त्रयः समाख्याता देव वैवस्वतेंऽतरे ।। ३८ ।।
विप्रचित्तिहिरण्याख्यौ दैत्यदानवसत्तमौ ।।
तयोर्वंशे तु बहवो दैत्यदानवसत्तमाः ।। ३९ ।।
पञ्चाशद्गुणितकोटियोजनानां महत्तया ।।
सप्तद्वीपसमुद्रायाः प्रमाणमवनेः स्मृतम् ।। 4.2.४० ।।
पिण्डेन च सहस्राणि सप्ततिर्जलमध्यतः ।।
गौरिवैषा सुमहती भ्राजते न च लीयते ।। ४१ ।।
लोका लोकः परतरः पर्वतोऽग्रमहोच्छ्रयः ।।
द्वैतमर्थं स नियतो योऽसौ रविरुचामपि ।। ४२ ।।
नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको लयः ।।।
नित्यश्चतुर्थो विज्ञेयः कालो नित्यापहारकः ।। ४३ ।।
उत्पद्यते स्वयं यस्मात्तत्तस्मिन्नेव लीयते ।।
रक्षति च परे पुंसि भूतानामेव निश्चयः ।। ।। ४४ ।।
यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये ।।
दृश्यंते तानि तान्येव तथा भावा युगादिषु ।। ४५ ।।
प्रतिलीनेषु भूतेषु विबुद्धः सकलं जगत् ।।
वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः ।। ४६ ।।
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते ।।
ते तं विना प्रपद्यंते पुनस्तेष्वेव कर्म सु ।। ४७ ।।
भूर्दशगुणेन पयसा संवृता तच्च तेजसा ।।
तेजोऽनिलेन नभसा तद्गुणेनानिलो वृतः ।। ४८ ।।
भूतादिना तथाकाशं भूतादिर्महतावृतः।।
महान्परिवृतस्तेन पुरुषेणाविनाशिना ।।४९।।
एवं विधानामण्डानां सहस्राणि शतानि च ।।
उत्पन्नानि विनष्टानि भावितानि महात्मना ।। 4.2.५० ।।
वैकुण्ठकोष्ठगतमेतदशेषतायां ख्यातं जगत्सुरनरोरगसिद्धनद्धम् ।।
पश्यंति शुद्धमुनयो बहिरंतरे च माया चराचरगुरोरपरैव काचित् ।। ५१ ।।

इति श्रीभविष्ये महापुराणे उत्तरे पर्वणि ब्रह्माण्डोत्पत्तिवर्णनं नाम द्वितीयोऽध्यायः ।। २ ।।