भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ००४

विकिस्रोतः तः
← अध्यायः ००३ भविष्यपुराणम्
अध्यायः ००४
वेदव्यासः
अध्यायः ००५ →


संसारदोषवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
देवत्वं मानुषत्वं च तिर्यक्त्वं केन कर्मणा ।।
प्राप्नोति पुरुषः केन गर्भवासं सुदारुणम् ।। १ ।।
गर्भस्थश्च किमश्नाति कथमुत्पद्यते पुनः ।।
दत्तोत्थानादिकान्दोषान्कथं तरति दुस्तरान् ।। २ ।।
बालभावे कथं पुष्टिः स्याद्युवा केन कर्मणा ।।
कुलीनः केन भवति सुरूपः सुधनः कथम् ।। ३ ।।
कथं दारानवाप्नोति गृहं सर्वगुणैर्युतम् ।।
पंडितः पुत्रवांस्त्यागी स्यादा मयविवर्जितः ।। ४ ।।
कथं सुखेन म्रियते कथं भुंक्ते शुभाशुभम् ।।
सर्वमेवामलमते गहनं प्रतिभाति मे ।। ५ ।।
।। श्रीकृष्ण उवाच ।। ।।
शुभैर्देवत्वमाप्नोति मिश्रैर्मानुषतां व्रजेत् ।।
अशुभैः कर्मभिर्ज्जंतुस्तिर्यग्योनिषु जायते ।। ६ ।।
प्रमाणं श्रुतिरेवात्र धर्माधर्मविनिश्चये ।।
पापं पापेन भवति पुण्यं पुण्येन कर्मणा ।। ७ ।।
ऋतुकाले तदा भुक्तं निर्दोषं येन संस्थितम् ।।
तदा तद्वायुना स्पृष्टं स्त्रीरक्तेनैकतां व्रजेत् ।।८।।
विसर्गकाले शुक्रस्य जीवः करणसंयुतः ।।
भृत्यः प्रविशते योनिं कर्मभिः स्वैर्न्नियोजितः ।। ९ ।।
तच्छुक्ररक्तमेकस्थमेकाहात्कललं भवेत् ।।
पञ्चरात्रेण कललं बुद्बुदाकारतां व्रजेत् ।। 4.4.१० ।।
बुद्बुदं सप्तरात्रेण मांसपेशी भवेत्ततः ।।
द्विसप्ताहाद्भवेत्पेशी रक्तमांसदृढांचितः ।। ११ ।।
बीजस्येवांकुराः पेश्याः पञ्चविंश तिरात्रतः ।।
भवंति मासमात्रेण पञ्चधा जायते पुनः ।। १२ ।।
ग्रीवा शिरश्च स्कन्धश्च पृष्ठवंशस्तथोदरम् ।।
मासद्वयेन सर्वाणि क्रमशः संभवंति च ।। १३ ।।
त्रिभिर्मासैः प्रजायंते सद्रव्यांकुरसंधयः ।।
मासैश्चतुर्भिरंगुल्यः प्रजायंते यथाक्रमम् ।। १४ ।।
मुखं नासा च कर्णौ च जायन्ते पञ्च मासकैः ।।
दंतपंक्तिस्तथा गुह्यं जायंते च नखाः पुनः ।। १५ ।।
कर्णौ च रंध्रसहितौ षण्मासाभ्यंतरेण तु ।।
पायुर्मेढ्रमुपस्थश्च नाभिश्चाप्युप जायते ।। १६ ।।
संधयो ये च गात्रेषु मासैर्जायंति सप्तभिः ।।
अङ्गप्रत्यंगसंपूर्णः शिरः केशसमन्वितः ।। १७ ।।
विभक्तावयवः पुष्टः पुनर्मासाष्टकेन च ।।
पंचात्मकसमायुक्तः परिपक्वः स तिष्ठति ।। १८ ।।
मातुराहारवीर्येण षड्विधेन स तिष्ठति ।।
रसेन प्रत्यहं बालो वर्धते भरतर्षभ ।। १९ ।।
तत्तेऽहं संप्रवक्ष्यामि यथाश्रुतमरिंदम ।।
नाभिसूत्रनिबन्धेन वर्द्धते स दिनेदिने ।। 4.4.२० ।।
ततः स्मृतिं लभेज्जीवः संपूर्णेऽस्मिञ्छरीरके ।।
सुखं दुःखं विजानाति निद्रास्वप्नं पुरा कृतम् ।। २१ ।।
मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः ।।
नानायोनि सहस्राणि मया दृष्टानि तानि वै ।। २२ ।।
अधुना जातमात्रोऽहं प्राप्तसंस्कार एव च।।
एतच्छ्रेयः करिष्यामि येन गर्भे न संश्रयः ।।२३।।
गर्भस्थश्चिंतये देवमहं गर्भाद्विनिःसृतः ।।
अध्येष्ये चतुरो वेदान्संसारविनिवर्तकान् ।। २४ ।।
एवं स गर्भदुःखेन महता परिपीडितः ।।
जीवः कर्मवशादास्ते मोक्षोपायं विचिंतयन् ।। २५ ।।
यथा गिरिवराक्रांतः कश्चिद्दुःखेन तिष्ठति ।।
तथा जरायुणा देही दुःखे तिष्ठति चेष्टितः ।। २६ ।।
पतितः सागरे यद्वद्दुःखैरास्ते समाकुल. ।।
गर्भोदकेन सिक्तांगस्तथास्ते व्याकुलः पुमान् ।। २७ ।।
लोहकुंभे यथा न्यस्तः पच्यते कश्चिदग्निना ।।
तथा स पच्यते जंतुर्गर्भस्थः पीडितोदरः ।। २८ ।।
सूचीभिरग्निवर्णाभिर्विभिन्नस्य निरंतरम् ।।
यद्दुःखमुपजायेत तद्गर्भेऽष्टगुणं भवेत् ।। २९ ।।
गर्भवासात्परो वासः कष्टो नैवास्ति कुत्रचित् ।।
देहिनां दुःखवद्राजन्सुघोरो ह्यतिसङ्कटः ।। 4.4.३० ।।
इत्येतद्गर्भदुःख हि प्राणिनां परिकीर्तितम् ।।
चरस्थिराणां सर्वेषात्मामगर्भानुरूपतः ।। ३४ ।।
गर्भात्कोटिगुणं दुःखं योनियंत्रप्रपीडनात् ।।
संमूर्च्छितस्य जायेत जायमानस्य देहिनः ।।३२।।
शरवत्पीड्यमानस्य यंत्रेणेव समंततः ।।
शिरसि ताड्यमानस्य पापमुद्गरकेण च ।। ३३ ।।
गर्भान्निष्कम्पमाणस्य प्रबलैः सूतिमारुतैः ।।
जायते सुमहद्दुःखं परित्राणमविंदतः ।। ३४ ।।
यंत्रेण पीडिता यद्वन्निःसाराः स्युस्तिलेक्षवः ।।
तथा शरीरं निःसारं योनियंत्रप्रपीडितम् ।।३५।।
अस्थिमज्जात्वचामांसस्नायुबंधेन यंत्रितम् ।।
रक्तमांसमृदा युक्तं विण्मूत्रद्रवलेपनम् ।। ३६ ।।
केशलोमतृणाच्छन्नं रोगायतनमातुरम् ।।
वदनैकमहद्द्वारं दंतोष्ठकविभूषितम्।। ३७ ।।
ओष्ठद्वयकपाटं च दन्तजिह्वार्गलान्वितम् ।।
नाडीस्वेदप्रवाहं च कफपित्तपरिप्लुतम् ।। ३८ ।।
जराशोकसमाविष्टं कालचक्रानले स्थितम् ।।
कामक्रोधसमाक्रांतं व्यसनैश्चोपमर्दितम् ।। ३९ ।।
भोगतृष्णातुरं मूढं रागद्वेषवशानुगम् ।।
संवर्तितांगप्रत्यंगं जरायुपरिवेष्टितम् ।। 4.4.४० ।।
संकटेनाविविक्तेन योनिद्वारेण निर्गतम् ।।
विण्मूत्ररक्तसिक्तांगं पत्केशाच्च समुद्भवम् ।। ४१ ।।
इति देहगृहं प्रोक्तं नित्यस्यानित्यमा त्मनः ।।
अविशुद्धं विशुद्धस्य कर्मबंधविनिर्मितम् ।। ४२ ।।
शुक्रशोणितसंयोगाद्देहः संजायते यतः ।।
नित्यं विण्मूत्रपूर्णश्च तेनायमशुचिः स्मृतः ।। ४३ ।।
यथांतर्विष्ठया पूर्णः शुचिः स्यान्न बहिर्घटः ।।
यत्नतः शोध्यमानोऽपि देहोऽयमशुचिस्तथा ।। ४४ ।।
संप्राप्यात्र पवित्राणि पंचग व्यहवींषि च ।।
अशुचित्वं क्षणाच्चापि किमन्यद्वस्तुबिंदवः ।। ४५ ।।
देहः संशोध्यमानोऽपि पञ्चगव्यकुशांबुभिः ।।
घृष्यमाण इवांगारो निर्मलत्वं न गच्छति ।। ४६ ।।
स्रोतांसि यस्य सततं प्रवहंति गिरेरिव ।।
कफमूत्रपुरीषाद्यैः स देहः शुद्ध्यते कथम् ।। ४७ ।।
सर्वाशुचिनिधानस्य शरीरस्य न विद्यते ।।
शुचिरेकः प्रदेशोऽपि विट्पूर्णः स्यंदते किल ।। ४८ ।।
कायः सुगंधधूपाद्यैर्यत्नेनापि तु संस्कृतः ।।
न जहाति स्वकं भावं श्वपु च्छमिव नामितम् ।। ४९ ।।
यथा जात्यैव कृष्णो हि न शुक्लः स्यादुपायतः ।।
संशोध्यमानाऽपि तथा भवेन्मूर्तिर्न निर्मला ।। 4.4.५० ।।
जिघ्रन्नपि स्वदुर्गंधं पश्यन्नपि मलं स्वकम् ।।
न विरज्जति लोकोऽयं पीडयन्नपि नासिकाम् ।। ५१ ।।
अहो मोहस्य माहात्म्यं येन व्यामोहितं जगत् ।।
जिघ्रन्पश्यन्स्वकं दोषं कायस्य न विरज्यते ।। ५२ ।।
एवमेतच्छरीरं हि निसर्गादशुचि ध्रुवम् ।।
त्वङ्मात्रसारं निःसारं कदलीसारसंनिभम् ।।५३।।
गर्भस्थस्य स्मृतिर्यासीत्सा जातस्य प्रणश्यति ।।
संमूर्च्छितस्य दुःखेन योनियंत्रप्रपीडनात् ।। ५४ ।।
बाह्येन वायुना चास्य मोहसंज्ञेन देहिनः।।
स्पृष्टमात्रेण घोरेण ज्वरः समुपजायते ।। ५५ ।।
तेन ज्वरेण महता महामोहः प्रजायते ।।
संमूढस्य स्मृतिभ्रंशः शीघ्रं संजायते पुनः ।। ५६ ।।
स्मृतिभ्रंशात्तु तस्येह पूर्वकर्मवशेन च ।।
रतिः संजायते तूर्णं जंतोस्तत्रैव जन्मनि ।। ५७ ।।
रक्तो मूढस्य लोकोऽयमकार्ये संप्रवर्तते ।।
न चात्मानं विजानाति न परं विन्दते च सः ।। ५८ ।।
न श्रूयते परं श्रेयः सति चक्षुषि नेक्षते ।।
समे पथि शनैर्गच्छन्स्खलतीव पदेपदे ।। ५९ ।।
सत्यां बुद्धौ न जानाति बोध्यमानो बुधैरपि ।।
संसारे क्लिश्यते तेन रागलोभवशानुगः ।। 4.4.६० ।।
गर्भस्मृतेरभावेन शास्त्रमुक्तं महर्षिभिः ।।
तद्दुःखमथनार्थाय स्वर्गमोक्षप्रसाधकम् ।। ६१ ।।
ये संत्यस्मिन्परे ज्ञाने सर्वकामार्थसाधके ।।
न कुर्वंत्यात्मनः श्रेयस्तदत्र महद्भुतम् ।। ६२ ।।
अव्यक्तेंद्रियवृत्तित्वाद्बाल्ये दुःखं महत्पुनः ।।
इच्छन्नपि न शक्नोति कर्तुं वक्तुं च सत्क्रियाम् ।। ६३ ।।
दंतोत्थाने महद्दुःखं मौलेन व्याधिना तथा ।।
बालरोगैश्च विविधैः पीडा बालग्रहैरपि ।। ६४ ।।
तृड्बुभुक्षापरीतांगः कश्चित्तिष्ठति रारटन् ।।
विण्मूत्रभक्षणमपि मोहाद्बालः समाचरेत् ।। ६५ ।।
कौमारे कर्णवेधेन मातापित्रोश्च ताडनात् ।।
अक्षराध्ययनात्पुंसां दुःखं स्याद्गुरुशासनात् ।। ६६ ।।
प्रसन्नेंद्रियवृत्तिश्च कामरागप्रपीडनात् ।।
रोगोद्धतस्य सततं कुतः सौख्यं च यौवने ।। ६७ ।।
ईर्ष्यया च महद्दुःखं मोहाद्रक्तस्य जायते ।।
नेत्रस्य कुपितस्यैव रागो दुःखाय केवलम् ।।६८।।
न रात्रौ विंदते निद्रां कोपाग्निपरिपीडितः ।।
दिवा वापि कुतः सौख्यमर्थोपार्जनचिंतया ।। ६९ ।।
स्त्रीष्वायासितदेहस्य ये पुंसः शुक्रबिंदवः ।।
न ते सुखाय मंतव्याः स्वेदजा इव बिंदवः ।। 4.4.७० ।।
क्रिमिभिस्तुद्यमानस्य कुष्ठिनः कामिनस्तथा ।।
कण्डूयनाग्नितापेन यद्भवेत्स्त्रीषु तद्धि तत् ।। ।। ७१ ।।
यादृशं विंदते सौख्यं गंडान्वयविनिर्गमे ।।
तादृशं स्त्रीषु मंतव्यं नाधिकं तासु विद्यते ।।७२।।
गंडस्य वेदना यद्वत्स्फुटितस्य निवर्तते ।।
तद्वत्स्त्रीष्वपि मंतव्यं न सौख्यं परमार्थतः ।। ७३ ।।
विण्मूत्रस्य समुत्सर्गात्सुखं भवति यादृशम् ।।
तादृशं तेषु विज्ञेयं मूढैः कल्पितमन्यथा ।। ।।७४।।
नारीष्वशुचिभूतासु सर्वदोषाश्रयासु च ।।
नाणुमात्रकमप्येवं सुखमस्ति विचारतः ।।७५।।
सन्मानमपमानेन वियोगेन सुसंगमः ।।
यौवनं जरया ग्रस्तं किं सौख्यमनुपद्रवम् ।। ७६ ।।
वलीपलितखालित्यैः शिथिलीकृतविग्रहम् ।।
सर्वक्रियास्वशक्तं च जरया जर्जरीकृतम् ।। ७७ ।।
स्त्रीपुंसयोर्न्नवं रूपं तदान्योन्यं प्रियं पुरा ।।
तदेव जरया ग्रस्तमुभयोरपि न प्रियम् ।।७८।।
अपूर्ववत्स्वमात्मानं जरया परिवर्तितः ।।
यः पश्यन्नपि रज्येत कोऽन्यस्तस्मादचेतनः ।। ७९ ।।
जराभिभूतः पुरुषः पत्नीपुत्रादिबांधवैः ।।
अशक्तत्वाद्दुराचारैर्भृत्यैश्च परिभूयते ।। 4.4.८० ।।
धर्ममर्थं च कामं च मोक्षं च न जरी यतः ।।
शक्तः साधयितुं तस्माच्छरीरमिदमात्मनः ।। ८१ ।।
वातपित्तकफादीनां वैषम्यं व्याधिरुच्यते ।।
तस्माद्व्याधिमयं ज्ञेयं शरीरमिदमात्मनः ।। ८२ ।।
वाताद्यव्यतिरिक्तत्वाद्व्याधीनां पञ्जरस्य च ।।
रोगैर्नानाविधैर्यानि देहदुःखान्यनेकधा ।।
तानि च स्वात्मवेद्यानि किमन्यत्कथयाम्यहम् ।। ८३ ।।
एकोत्तरं मृत्युशतमस्मिन्देहे प्रतिष्ठितम् ।।
तत्रैकः कालसंयुक्तः शेषाश्चागन्तवः स्मृताः ।। ८४ ।।
ये त्विहागंतवः प्रोक्तास्ते प्रशाम्यंति भेषजैः ।।
जपहोमप्रदानैश्च कालमृत्युर्न शाम्यति ।। ८५ ।।
यदि चापि न मृत्युः स्याद्विषमद्यादशंकितः ।।
न संति पुरुषे तस्मादपमृत्युविभीतयः ।। ८६ ।।
विविधा व्याधयः शस्त्रं सर्पाद्याः प्राणिनस्तथा ।।
विषाणि जंगमाद्यानि मृत्योर्द्वाराणि देहिनाम् ।। ।। ८७ ।।
पीडितं सर्वरोगाद्यैरपि धन्वन्तरिः स्वयम् ।।
स्वस्थीकर्तुं न शक्नोति प्राप्तमृत्युं च देहिनम् ।। ८८ ।।
नौषधं न तपो दानं न मंत्रा न च बांधवाः ।।
शक्नुवंति परित्रातुं नरं कालेन पीडितम् ।। ८९ ।।
रसायनतपोजप्यैर्योगसिद्धैर्महात्मभिः ।।
कालमृत्युरपि प्राज्ञैस्तीर्यते नालसैर्न्नरैः ।। 4.4.९० ।।
नास्ति मृत्युसमं दुःखं नास्ति मृत्युसमं भयम् ।।
नास्ति मृत्युसमस्त्रासः सर्वेषामेव देहिनाम् ।। ९१ ।।
सद्भार्यापुत्रमित्राणि राज्यैश्वर्यध नानि च ।।
अबद्धानि च वैराणि मृत्युः सर्वाणि कृन्तति ।। ९२ ।।
हे जनाः किं न पश्यध्वं सहस्रस्यापि मध्यतः ।।
जनाः शतायुषः पञ्च भवंति न भवंति च ।। ९३ ।।
अशीतिका विपद्यन्ते केचित्सप्ततिका नराः ।।
परमायुषं स्थितं षष्टिस्तच्चैवानिश्चितं पुनः ।। ९४ ।।
यस्य यावद्भवेदायुर्देहिनां पूर्वकर्मभिः ।।
तस्यार्द्धमायुषो रात्रिर्हरते मृत्युरूपिणी ।। ९५ ।।
बालभावेन मोहेन वार्द्धक्ये जरया तथा ।।
वर्षाणां विंशतिर्यांति धर्मकामार्थवर्जिता ।। ९६ ।।
आगंतुकेर्भयैः पुंसां व्याधिशोकैरनेकधा ।।
भक्ष्यतेऽर्द्धं च तत्रापि यच्छेषं तच्च जीवति ।। ९७ ।।
जीवितांते च मरणं महाघोरमवाप्नुयात् ।।
जायते जन्मकोटीषु मृतः कर्मवशात्पुनः ।। ९८ ।।
देहभेदेन यः पुंसां वियोगः कर्मसंक्षयात् ।।
मरणं तद्विनिर्दिष्टं नान्यथा परमार्थतः ।। ९९ ।।
महातपप्रविष्टस्य च्छिद्यमानेषु मर्मसु ।।
यद्दुःखं मरणे जंतोर्न तस्येहोपमा क्वचित् ।। 4.4.१०० ।।
हा तात मातः कांतेति रुदन्नेवं हि दुःखितः ।।
मंडूक इव सर्पेण ग्रस्यते मृत्युना जनः ।। १०१ ।।
बांधवैः संपरिष्वक्तः प्रियैः स परिवारितः ।।
निःश्वसन्दीर्घमुष्णं च मुखेन परिशुष्यति ।। १०२ ।।
क्रन्दते चैव खट्वायां परिवर्तन्मुहुर्मुहुः ।।
संमूढः क्षिपतेऽत्यर्थं हस्तपादावितस्ततः ।।१०३।।
खट्वातो कांक्षते भूमिं भूमेः खट्वां पुनर्महीम् ।।
विवशस्त्यक्तलज्जश्च मूत्रविष्ठानुलेपितः ।। १०४ ।।
याचमानश्च सलिलं शुष्ककण्ठोष्ठतालुकः ।।
चिंतयानश्च वित्तानि कस्यैतानि मृते मयि ।। १०५ ।।
पञ्चावटान्खन्यमानः कालपाशेन कर्षितः ।।
म्रियते पश्यतामेव जनानां घुर्घुरस्वनः ।। ।। १०६ ।।
जीवस्तृणजलौकेव देहाद्देहं विशेत्क्रमात् ।।
संप्राप्योत्तरकालं हि देहं त्यजति पौर्वकम् ।। १०७ ।।
मरणात्प्रार्थनादुःखमधिकं हि विवे किनः ।।
क्षणिकं मरणादुःखमनंतं प्रार्थनाकृतम् ।। १०८ ।।
जगतां पतिरर्थित्वाद्विष्णुर्वामनतां गतः ।।
अधिकः कोऽपरस्तस्माद्यो न या स्यति लाघवम् ।। १०९ ।।
ज्ञातं मयेदमधुना मतं भवति यद्गुरु ।।
न परं प्रार्थयेद्भूयस्तृष्णा लाघवकारणम् ।। 4.4.११० ।।
आदौ दुःखं तथा मध्ये दुःखमंते च दारुणम् ।।
निसर्गात्सर्वभूतानामिति दुःखपरंपरा ।। १११ ।।
वर्तमानान्यतीतानि दुःखान्येतानि यानि तु ।।
नरा न भावयंत्यज्ञा न विरज्यति तेन ते ।। ११२ ।।
अत्याहारान्महद्दुःखमनाहारान्महत्तमम् ।।
तुलितं जीवितं कष्टं मन्येऽप्येवं कुतः सुखम् ।। ११३ ।।
बुभुक्षा सर्वरोगाणां व्याधिः श्रेष्ठतमः स्मृतः ।।
स चान्नौषधिलेपेन क्षणमात्रं प्रशाम्यति ।। ११४ ।।
क्षुद्व्याधिवेदनातुल्या निःशेषबलकर्तनी ।।
तयाभिभूतो म्रियते यथान्यैर्व्याधिभिर्न हि ।।१ १५।।
तद्रसोपि हि कामाद्वा जिह्वाग्रे परिवर्तते ।।
तत्क्षणाद्वार्द्धकालेन कंठं प्राप्य निवर्तते ।।११६।।
इति क्षुद्व्याधितप्तानामन्नमौषधवत्स्मृतम् ।।
न तत्सुखाय मन्तव्यं परमार्थेन पंडितैः ।। ११७ ।।
मृतोपमो यश्चेक्षेत सर्वकार्यविवर्जितः ।।
तत्रापि च कुतः सौख्यं तमसाच्छादितात्मनः ।। ११८ ।।
प्रबोधेऽपि कुतः सौख्यं कार्यैरुपहतात्मनः ।।
कृषिगोरक्षवाणिज्यसेवाध्वादिपरिश्रमैः ।।११९।।
प्रातर्मूत्रपुरीषाभ्यां मध्याह्ने तु बुभुक्षया ।।
तृप्ताः कामेन बाध्यन्ते जंतवोऽपि विनिद्रया ।। 4.4.१२० ।।
अर्थस्योपार्जने दुःखमर्जितस्यापि रक्षणे ।।
आये दुःखं व्यये दुःखमर्थेभ्यश्च कुतः सुखम् ।। १२१ ।।
चौरेभ्यः सलिलादग्नेः स्वजनात्पार्थिवादपि ।।
भयमर्थवतां नित्यं मृत्योः प्राणभृता मिव ।। १२२ ।।
खे यातं पक्षिभिर्मांसं भक्ष्यते श्वापदैर्भुवि ।।
जले च भक्ष्यते मत्स्यैस्तथा सर्वत्र वित्तवान् ।। १२३ ।।
विमोहयति संपत्सु तापयंति विपत्तिषु ।।
खेदयंत्यर्जनाकाले कदा ह्यर्थाः सुखावहाः ।। १२४ ।।
यथार्थपतिरुद्विग्नो यश्च सर्वार्थनिःस्पृहः ।।
यतश्चार्थपतिर्दुःखी सुखी सर्वार्थनिःस्पृहः ।। १२५ ।।
शीतेन दुःखं हेमंते ग्रीष्मे तापेन दारुणम् ।।
वर्षासु वातवर्षाभ्यां कालेऽप्येवं कुतः सुखम् ।। १२६ ।।
विवाहविस्तरे दुःखं तद्गर्भोद्वहने पुनः ।।
प्रसवेऽपत्यदोषैश्च दुःखं दुःखादिकर्मभिः ।। १२७ ।।
दन्ताक्षिरौगैः पुत्रस्य हा कष्टं किं करोम्यहम् ।।
गावो नष्टाः कृषिर्भग्ना वृषाः क्वापि पलायिताः ।। १२८ ।।
अमी प्राघूर्णकाः प्राप्ता भक्तच्छेदे च मे गृहे ।।
बालापत्या च मे भार्या कः करिष्यति रंधनम् ।। ।। १२९ ।।
प्रदानकाले कन्यायाः कीदृशश्च वरो भवेत् ।।
इति चिन्ताभिभूतानां कुतः सौख्यं कुटुबिनाम् ।। 4.4.१३० ।।
कुटुंबचिंताकुलितस्य पुंसः श्रुतं च शीलं च गुणाश्च सर्वे ।।
अपक्वकुंभे निहिता इवापः प्रयांति देहेन समं विनाशम् ।।१३१।।
राज्येपि च महद्दुःखं संधिविग्रहचिंतया ।।
पुत्रादपि भयं यत्र तत्र सौख्यं हि कीदृशम् ।।१३२।।
सजातीयाद्वधः प्रायः सर्वेषामेव देहिनाम् ।।
एकद्रव्याभिलाषित्वाच्छुनामिव परस्परम् ।। ।। १३३ ।।
नाप्रधृष्यबलः कश्चिन्नृपः ख्यातोस्ति भूतले ।।
निखिलं यस्तिरस्कृत्य सुखं तिष्ठति निर्भयः ।। १३४ ।।
आ जन्मनः प्रभृति दुःख मयं शरीरं कर्मात्मकं तव मया कथितं नरेन्द्र ।।
दानोपवासनियमैश्च कृतैस्तदेव सर्वोपभोगसुखभाग्भवतीह पुंसाम् ।। १३५ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे संसारदोषाख्यानं नाम चतुर्थोऽध्यायः।। ४ ।।