बालचरितम्

विकिस्रोतः तः
Jump to navigation Jump to search
बालचरितम्
भासः
बालचरितम्
भासस्य कृतयः

पात्राणि[सम्पाद्यताम्]

पुरुषपात्राणि[सम्पाद्यताम्]

नारदः - देवर्षिः

वसुदेवः - कृष्णस्य पिता

नन्दगोपः - वसुदेवस्य मित्रम्

गोकुलाध्यक्षः

कंसस्य पिता उग्रसेनः

दामोदरः श्रीकृष्णः वसुदेवस्य पुत्रः

संकर्षणः (बलरामः) वसुदेवस्य पुत्रः

गरुडः विष्णोः वाहनम्

विष्णोः आयुधानि शङ्खः, नन्दक: चक्रः शाङ्गः

कंसः मथुरायाः राजा

चाणूरः, मुष्टिकः कंसस्य मल्लौ

भटः कंसस्य भृत्यः

कंचुकी

शापा

सब रक्षाधिकारी कार्यणाः पुरुषः

कुंडोदरः कात्यायन्याः भृत्यः

शूलः ""

नील ""

मनोजव ""

वृद्धगोपालकः

दामकः

अरिष्टर्षभः असुरविशेषः

कालियः यमुनानिवासी महानागः

स्त्री पात्राणि[सम्पाद्यताम्]

देवकी - श्रीकृष्णस्य माता

प्रतीहारी - देवक्याः द्वारपालिका

धात्री - मायाजालिकायाः उपमाता

सब - चण्डाल युवतयः

कात्यायनी - देवी

सब - घोषसुन्दर्यः

राजश्री - राज्यस्य देवता

मधुकरिका प्रतीहारी - कंसस्य प्रतीहारी

प्रतीहारी यशोधरा - कंसस्य प्रतीहारी

प्रथमोऽङ्कः[सम्पाद्यताम्]

(नान्द्यन्ते ततः प्रविशति सूत्रधारः।)

सूत्रधारः- शङ्खक्षीरवपुः पुरा कृतयुगे नाम्ना तु नारायण-

स्रेतायां त्रिपदार्पितत्रिभुवनो विष्णुः सुवर्णप्रभः।

दुर्वाश्यामनिभः स रावणवधे रामो युगे द्वापरे

नित्यं योऽञ्जनसन्निभः कलियुगे वः पातु दामोदरः ॥ 1 ॥

एवमार्यमिश्रान् विज्ञापयामि। अये किन्नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते। अङ्ग! पश्यामि।
 
नेपथ्ये)

अहं गगनसञ्चारी।

सूत्रधारः- भवतु, विज्ञातम्।

पतत्यसौ पुष्पमयी च वृष्टि-

र्नदन्ति तूर्याणि च देवतानाम्।

द्रष्टुं हरिं वृष्णिकुले प्रसूत-

मभ्यागतो नारद एष तूर्णम् ॥ 2 ॥

निष्क्रान्तः।)

स्थापना

ततः प्रविशति नारदः।)

नारदः- अहं गगनसञ्चारी त्रिषु लोकेषु विश्रुतः।
ब्रह्मलोकादिह प्राप्तो नारदः कलहप्रियः ॥ 3 ॥
भोः!
क्षीणेषु देवासुरविग्रहेषु
नित्यप्रशान्ते न रमेऽन्तरिक्षे।
अहं हि वेदाध्ययनान्तरेषु
तन्त्रीश्च वैराणि च घट्टयामि ॥ 4 ॥
अपि च,
भक्तिः परा मम पितामहभाषितेषु
सर्वाणि मे बहुमतानि तपोवनानि।
सत्यं ब्रवीमि करजाग्रहता च वीणा
वैराणि भीमकठिनाः कलहाः प्रिया मे ॥ 5 ॥
तद् भगवन्तं लोकादिमनिधनमव्ययं लोकहितार्थे कंसवधार्थं वृष्णिकुले प्रसूतं नारायणं द्रुष्टुमिहागतोऽस्मि। अये, इयमत्र भवती देवकी मायया
शिशुत्वमुपागतं त्रिलोकेश्वरं प्रगृह्य वसुदेवेन सह शनैः स्वगृहान्निष्क्रमति। यैषा,
लोकानामभयकरं गुरुं सुराणां
दैत्यानां निधनकरं रथाङ्गपाणिम्।
शोकार्ता शशिवदना निशि प्रशान्ता
बाहुभ्यां गिरिवरमिव मन्दरं वहन्ती ॥ 6 ॥
एष एष भगवान् नारायणः,
 
अनन्तवीर्यः कमलायताक्षः
सुरेन्द्रनाथोऽसुरवीर्यहन्ता।
त्रिलोककेतुर्जगतश्च कर्ता
भर्ता जनानां पुरुषः पुराणः ॥ 7 ॥
हन्तैतदुत्पन्नं कलहस्य मूलम्। यावदहमपि भगवन्तं नारायणं प्रदक्षिणीकृत्य ब्रह्मलोकमेव यास्यामि। नमो भगवते त्रैलोक्यकारणाय।
नारायणाय नरलोकपरायणाय
लोकाननाय कमलामललोचनाय।
रामाय रावणविरोचनपातनाय
वीराय वीर्यनिलयाय नमो वराय ॥ 8 ॥
(निष्क्रान्तः)
(ततः प्रविशति बालहस्ता देवकी।)
देवकी- हद्धि, पुत्तअस्स मे महाणुभावत्तणं सूअइस्सन्दाणि जम्मसमअसमुब्भूदाणि महाणिमित्ताणि पच्छक्खीकरअन्ती अवि कंसहदअणिसंसत्तणं चिन्तअन्ती
सुट्ठु ण पच्चआमि मन्दभाइणी। कहिं णु गदो अय्यउत्तो। (परिक्रम्य अग्रतो विलोक्य) अम्मो, एसो अय्यउत्तो हरिसविम्हअफुळ्ळणअणो इदो एव्व
आअच्छदि। (हा धिक्, पुत्रकस्य मे महानुभावत्वं सूचियिष्यन्ति जन्मसमयसमुद्भूतानि महानिमित्तानि प्रत्यक्षीकुर्वत्यपि कंसहतकनृशंसत्वं चिन्तयन्ती
सुष्ठु न प्रत्येमि मन्तभागिनी। क्व नु गत आर्यपुत्रः। अम्मो, एष आर्यपुत्रो हर्षविस्मयफुल्लनयन इत एवागच्छति)
(ततः प्रविशति वसुदेवः।)
वसुदेवः- (सविमर्शम्) भोः! किं नु खल्विदम्।
भ्रमति नभसि विद्युच्चण्डवातानुविद्धै-
र्नवजलदनिनादैर्मेदिनी सप्रकम्पा।
इह तु जगति नूनं रक्षणार्थं प्रजाना-
मसुरसमितिहन्ता विष्णुरद्यावतीर्णः ॥ 9 ॥
(विलोक्य) एषा देवकी,
अगणितपरिखेदा याति षण्णां सुताना-
मपचयगमनार्थं सप्तमं रक्षमाणा।
बहुगुणकृतलोभा जन्मकाले निमित्तैः
सुत इति कृतसंज्ञं कंसमृत्युं वहन्ती ॥ 10 ॥
देवकी- (उपसृत्य) जेदु अय्यउत्तो। (जयत्वार्यपुत्रः।)
वसुदेवः- देवकि! अर्धरात्रः खलु वर्तते। प्रसुप्तो मथुरायां सर्वो जनः। तस्माद् यावन्न कश्चित् पश्यति, तावद् बालं गृहीत्वापक्रामामि।
देवकी- कहिं अय्यउत्तो इमं णइस्सदि। (क्वार्यपुत्र इमं नेष्यति।)
वसुदेवः- देवकि! सत्यं ब्रवीषि। अहमपि न जाने। किन्तु एकच्छत्रच्छायां पृथिवीं समाज्ञापयति दुरात्मा कंसः। तत् क्व नु खल्वयमायुष्मान् नेतव्यो
भविष्यति। अथवा यत्र दैवं विधास्यति तत्र बालं गृहीत्वापक्रामामि।
देवकी- अय्यउत्त इच्छामि दाव णं सुदिट्ठं कत्तुं। (आर्यपुत्र! इच्छामि तावदेनं सुदृष्टं कर्तुम्।)
वसुदेवः- अयि अतिपुत्रवत्सले!
किं द्रष्टव्यः शशाङ्कोऽयं राहोर्वदनमण्डले।
त्वयाप्यस्य सुदृष्टस्य कंसो मृत्युर्भविष्यति ॥ 11 ॥
देवकी- सव्वहा ण भविस्सदि। (सर्वथा न भविष्यति।)
वसुदेवः- यद् भवत्याभिहितं, तत् सर्वदैवतैरभिहितं भवतु। आनय।
देवकी- गह्णदु अय्यउत्तो। (गृह्णत्वार्यपुत्रः।)

वसुदेवः- (गृहीत्वा) अहो गुरुत्वं बालस्य। साधु,
विन्ध्यमन्दरसारोऽयं बालः पद्मदलेक्षणः।
गर्भे यया धृतः श्रीमानहो धैर्यं हि योषितः ॥ 12 ॥
देवकि! प्रविश त्वमभ्यन्तरम्।
देवकी- एसा गच्छामि मन्दभाआ। (निष्क्रान्ता।) (एषा गच्छामि मन्दभागा ।)
वसुदेवः- एषा देवकी,
हृदयेनेह तत्राङ्गैर्द्विधाभूतेव गच्छति।
यथा नभसि तोये च चन्द्रलेखा द्विधाकृता ॥ 13 ॥
हन्त प्रविष्टा देवकी। यावदहमपि नगरद्वारं संश्रयामि । एष भोः,
प्रथमसुतविनाशजातमन्यु-
र्नृपतिभयाकुलितः प्रगृह्य बालम्।
त्वरिततरमिह प्रयामि मार्गे
गिरिमिव मन्दरमुद्वहन्भुजाभ्याम् ॥ 14 ॥
(परिक्रम्य) इदं नगरद्वारम्। यावत् प्रविशामि। (प्रविश्य) अये प्रसुप्तो मथुरायां सर्वो जनः । यावदपक्रामामि। (परिक्रम्य) निष्क्रान्तोऽस्मि
मथुरायाः। अहो बलवांश्चायमन्धकारः। सम्प्रति हि,
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।
असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥ 15 ॥
अहो तमसः प्रभुत्वम्।
अप्रकाशा इव दिशो घनीभूता इव द्रुमाः ।
सुनिविष्टस्य लोकस्य कृतो रूपविपर्ययः ॥ 16 ॥
नाहं गन्तुं समर्थः। अये दीपिकालोकः। किन्नु खलु दुरात्मा कंसो ममापक्रमणं ज्ञात्वा दीपिकाभिः परिवृतो मां ग्रहीतुमागतो भवेत्। भवत्वहमस्य
दर्पप्रशमनं करोमि। (खड्गमुत्कोशयति। निवृत्यावलोकस्य) अये न कश्चिद् दृश्यते। आ, करोमि। (खड्गमुत्कोशयति। निवृत्यावलोकस्य) अये
न कश्चिद् दृश्यते। आ, करोमि। (खड्गमुत्कोशयति। निवृत्यावलोकस्य) अये न कश्चिद् दृश्यते। आ,
तमसा संवृते लोके मम मार्गमपश्यतः।
अपक्रमणहेतोस्तु कुमारेण प्रभा कृता ॥ 17 ॥
एष मार्गः। यावदपक्रामामि। अये इयं भगवती यमुना कालवर्षसम्पूर्णा स्थिता। अहो व्यर्थो मे परिश्रमः। किमिदानीं करिष्ये। भवतु दृष्टम्।
इमां नदीं ग्राहभुजङ्गसङ्कुलां
महोर्मिमालां मनसापि दुस्तराम्।
भुजप्लवेनाशु गतार्थविक्लवो
वहामि सिदिं्ध यदि दैवतं स्थितम् ॥ 18 ॥
(तथा कृत्वा सविस्मयम्) हन्त द्विधा छिन्नं जलं, इतः स्थितम्, इतः प्रधावति। दत्तो मे भगवत्या मार्गः। यावदपक्रामामि। (अवतीर्य) निष्क्रान्तोऽस्मि
यमुनायाः । अये हुङ्कारशब्द इव श्रूयते। व्यक्तं घोषसमीपे वर्तते मन्दभाग्यः। आः, अत्र च समीपघोषे मम वयस्यो नन्दगोपः प्रतिवसति। स खलु
मया कंसाज्ञया निगलितः कशाभिहतश्च। यावत् प्रविशामि। अथवा रात्रौ वसुदेवः प्रविष्ट इति शङ्किता गोपालका भविष्यन्ति। तस्मादिह
न्यग्रोधपादपस्याधस्तात् प्रभातवेलां रजन्याः प्रतिपालयामि। भो भो न्यग्रोधदेवताः! यद्ययं बालो लोकहितार्थं कंसवधार्थं वृष्णिकुले प्रसूतश्चेद्,
घोषात् कश्चिदिहागच्छतु। न, न, मम वयस्यो नन्दगोप एवागच्छतु।
(ततः प्रविशति दारिकां गृहीत्वा नन्दगोपः।)
 
नन्दगोपः- (सशोकम्) दाळिए! दाळिए! किं दाणि जो गेहळÏष्ष णळमिअ तदो णो उच्झिअ णं गच्छषि। षम्पदि हि महिषदसम्पादषदिषं अहो बळिअं
अन्धआळं ।
दुद्दिणविणट्ठजोह्णा ळत्ती वट्टइ णिमीलिआकाला ।
षम्पाउदप्पषुत्ता णीलणिवषणा जहा गोवी ॥ 19 ॥
अज्ज हि अड्ढळत्ते अम्हाणं कुडुम्बिणीए जषोदाए पषूदा इअं च दाळी तवष्षिणी जादमत्ता एव्व ओग्गदप्पाणां षंवुत्ता। षुवे अम्हाणां घोषष्ष उइदो
इन्दयञ्ञो णाम उष्षुवो भविष्षदि। ता मा खु एदं दुक्खं गोवजणेहि अणुहूअमाणं त्ति मए एक्काइणा णिगळगुळुचळणेणण इमं दाळिअं गह्णिअ
णिग्गदो म्हि। जषोदा वि तवष्षिणी णैव जाणादि दालओ वा दाळिआ पषूद त्ति मोहं गता। दाळिए! दाळिए! (दारिके! दारिके! किमिदानीं नो
गेहलक्ष्म्यां न रन्त्वा ततो न उज्झित्वा ननु गच्छसि। सम्प्रति हि महिषशतसम्पातसदृशोऽहो बलवानन्धकारः।
दुर्दिनविनष्टज्योत्स्ना रात्रिर्वर्तते निमीलिताकारा।
सम्प्रावृतप्रसुप्ता नीलनिवसना यथा गोपी ॥ 19 ॥
अद्य ह्यर्धरात्रेऽस्माकं कुटुम्बिन्या यशोदया प्रसूतेयं च दारी तपस्विनी जातमात्रैवापगतप्राणा संवृत्ता। श्वोऽस्माकं घोषस्योचित इन्द्रयज्ञो नामोत्सवो
भविष्यति। तद् मा खल्वेतद् दुःखं गोपजनैरनुभूयमानमिति मयैकाकिना निगलगुरुचरणेनेमां दारिकां गृहीत्वा निर्गतोऽस्मि। यशोदापि तपस्विनी नैव
जानाति दारको वा दारिका वा प्रसूत इति मोहं गता। दारिके! दारिके!।)
वसुदेवः- को नु खल्वयं रात्रौ परिदेवयति। अस्मत्सब्रह्मचारी खल्वयं तपस्वी।
नन्दगोपः- किं दाणिं णो गोहळÏष्ष णळमिअ तदो णो उम्झिअ णं गच्छषि। (किमिदानीं नो गेहलक्ष्म्यां न रन्त्वा ततो न उज्झित्वा ननु गच्छसि।)
वसुदेवः- स्वरेण प्रत्यभिजानामि। मम वयस्येन नन्दगोपेन भवितव्यम्. यावच्छब्दापयामि। वयस्य नन्दगोप! इतस्तावत्।
नन्दगोपः- (सभयम्) अविहा को दाणि मं षुदपुळुवेण विअ षळयोगेण णन्दगोव! णन्दगोव! त्ति मं षद्दावेदि। किण्णु ळक्खशा वा, आदु पिषाषो वा। ईदिषीए
पदिभअळअणीए मदळिआ दाळिआ मम हत्थे। किं णु हु कळिष्षं । (अविहा क इदानीं मां श्रुतपूर्वेणेव स्वरयोगेन नन्दगोप! नन्दगोप! इति मां
शब्दयति। किं नु राक्षसो वा, उत पिशाचो वा। ईदृश्यां प्रतिभयरजन्यां मृता दारिका मम हस्ते। किं नु खलु करिष्यामि।)
वसुदेवः- वयस्य नन्दगोप! अलमन्यशङ्कया । इतस्तावत्।
नन्दगोपः- (कर्णे दत्त्वा सावधानम्) अम्मो, षळयोगेण भट्टा वषुदेव त्ति जाणामि। जाव उवषप्पिष्षं। अहव तहि मम किं कय्यं। एदिणा कंषष्ष ळञ्ञो वअणं
पुणिअ अवळद्धो कषाहि ताळिअ णिअलेहि बद्धो म्हि। ता ण गमिष्षं। अहव धिक्खु मे णिषंषभावं। मम गुणषहष्षं किदं, दुक्खे, दुक्खइ, षुहे षहिणो
होदि, तहवि षुमलामि ळाअषाषणेण किदं एक्खबन्धणं। जाव उवषप्पिष्षं। इयं दाळी। किं कळिष्षं। होदु एवं दाव कलिष्षं। (उपसृत्यावलोक्य च।
सविस्मयम्) पभादा ळअणी। एषो भट्टा वषुदेवो दाळअं गह्णिअठ्ठिदो। (उपसृत्य) जेदु भट्टा जेदु। (अम्मो, स्वरयोगेन भर्ता वसुदेव इति
जानामि। यावदुपसप्स्र्यामि। अथवा तत्र मम किं कार्यम्। एतेन कंसस्य राज्ञो वचनं श्रुत्वापराद्धः कशाभिस्ताडयित्वा निगलैर्बद्धोऽस्मि। तन्न
गमिष्यामि। अथवा धिक् खलु मे नृशंसभावम्। मम गुणसहस्रं कृतं, दुःखे दुख्यति, सुखे सुखी भवति, तथापि स्मरामि राजशासनेन कृतमेकबन्धनम्।
यावदुपसप्स्र्यामि। इयं दारी। किं करिष्यामि। भवत्वेवं तावत् करिष्यामि। प्रभाता रजनी। एष भर्ता वसुदेवो दारकं गृहीत्वा स्थितः। जयतु भर्ता
जयतु।)
वसुदेवः- वयस्य नन्दगोप! अपि भगवतीभ्यो गोभ्यः कुशलम्।
नन्दगोपः- आम भट्टा! कुषळं। (आम् भर्तः! कुशलम्।
नन्दगोपः- आम भट्टा! कुषळं। (आम् भर्तः! कुशलम्।)
वसुदेवः- अथ भवतः परिजनस्य कुशलम्।
नन्दगोपः- परिजणमिति। आम भट्टा! कुषळं । (परिजनमिति। आम् भर्तः! कुशलम्।)
वसुदेवः- वयस्य! किमिदानीं प्रच्छाद्यते।
नन्दगोपः- भट्टा! णत्थि किञ्चि। (भर्त! नास्ति किंचित्।)
वसुदेवः- मम खलु प्राणैः शापितः स्याद् यदि सत्यं न ब्रूयात्।
 
नन्दगोपः- का गई। षुणादु भट्टा। अज्ज अड्ढळत्ते अम्हाणं कुडुम्बिणीए, ण हि ण हि, तुम्हाणं दाषीए जषोदाए पषूदा इअं च दाळी तवष्षिणी जादमत्ता एव्व
ओग्गदप्पाणा षंवुत्ता । षुवे अम्हाणं घोषष्ष उइदो इन्दयञ्ञो णाम उष्षवो भविष्षदि। ता मा खु एदं दुक्खं गोवजणेहि अणुहूणमाणं त्ति मए
एक्काइणा णिगळगुळुचळणेण इमं दालिअं गह्णिअ णिग्गदो म्हि। जषोदा वि तवष्षिणी णैव जाणादि दाळओ दाळिआ वा पषूद त्ति मोहं गदा। (का
गतिः। श्रृणोतु भर्ता। अद्यार्धरात्रेऽस्माकं कुटुम्बिन्या, नहि नहि, युष्माकं दास्या यशोदया प्रसूतेयं च दारी तपस्विनी जातामात्रैवापगतप्राणा संवृत्ता।
श्वोऽस्माकं घोषस्योचित इन्द्रयज्ञो नामोत्सवो भविष्यति। तद् मा खल्वेतद् दुःखं गोपजनैरनुभूयमानमिति मयैकाकिना निगलगुरुचरणेनेमां दारिकां
गृहीत्वा निर्गतोऽस्मि। यशोदापि तपस्विनी नैव जानाति दारको दारिका वा प्रसूत इति मोहं गता।)
वसुदेवः- हन्त भोः! न शक्यं लोकस्याधिष्ठानभूतं कृतान्तं वञ्चयितुम्। वयस्य! काष्ठभूतं कलेवरं त्यज्यताम्।
नन्दगोपः- ण षक्कुणोमि। भट्टा! ण षक्कुणोमि। (न शक्नोमि भर्तः! न शक्नोमि।)
वसुदेवः- ईदृशो लोकधर्मः। त्यज्यताम्।
नन्दगोपः- जं भट्टा आणवेदि। दाळिए! दाळिए!। (इति रोदिति।) यद् भर्ताज्ञापयति। दारिके! दारिके!।)
वसुदेवः- वयस्य! अलमलं रुदितेन उत्तिष्ठोत्तिष्ठ।
नन्दगोपः- (तथा कृत्वोपगम्य) जेदु भट्टा । इमिणा दाषजणेण किं कत्तव्वं। (जयतु भर्ता। अनेन दासजनेन किं कर्तव्यम्।)
वसुदेवः- वयस्य! ननु त्वमपि जानासि दुरात्मना कंसेन मम षट् पुत्रा निधनमुपानीता इति।
नन्दगोपः- जाणामि भट्टा! जाणामि । (जानामि भर्तः! जानामि।)
वसुदेवः- तत् सप्तमोऽयं दीर्घायुः। नास्ति मम पुत्रेषु भाग्यम्। तव भाग्याज्जीवितुं गृह्यताम्।
नन्दगोपः- भाआमि भट्टा! भाआमि। जदि कंषो ळाआ षुणादि वषुदेवष्ष दाळओ णन्दगोवष्ष हत्थे णाषो णिक्खित्तो त्ति, किं बहुणा, गदं एव्व मे षीषं।
(बिभेमि भर्तः! बिभेमि। यदि कंसो राजा शृणोति- वसुदेवस्य दारको नन्दगोपस्य हस्ते न्यासो निक्षिप्त इति, किं बहुना, गतमेव मे शीर्षम्।)
वसुदेवः- (आत्मगतम्) हन्त विपन्नं कार्यम्। उक्तज्ञाः खलु नृशंसाः। तदेवं कथयामि। (प्रकाशम्) वयस्य नन्दगोप!
यद्यस्मि भवतः किञ्चिन्मया पूर्वकृतं भवेत्।
तस्य प्रत्युपकारस्य कालस्ते समुपागतः ॥ 20 ॥
नन्दगोपः- किं किं पच्चुवकाळं त्ति। जदि कंषो वा होदु, कंषष्ष पिदा उग्गषेणो वा होदु। आणेदु भट्टा दाळअं। (किं किं प्रत्युपकार इति। यदि कंसो वा भवतु,
कंसस्य पितोग्रसेनो वा भवतु। आनयतु भर्ता दारकम्।)
वसुदेवः- वयस्य! गृह्यताम्।
नन्दगोपः- भट्टा! अचोक्खिदम्हि, मदळिआ दाळिआ गहीदा। मुहुत्तअं पडिवालेदु भट्टा। जाव जमुणाहळं गच्छिअ मुहुत्तअं पटिवालेदु भट्टा। जाव
जमुणाहलं गच्छिअ चोक्खं कलेमि। (भर्तः! अशैचितोऽस्मि, मृता दारिका गृहीता। मुहूर्तकं प्रतिपालयतु भर्ता यावद् यमुनाजलं गत्वा शौचं करोमि)
वसुदेवः- वयस्य! घोषवासात् प्रकृत्या शुचिरेव भवान्।
नन्दगोपः- तेण हि अम्हाणं घोषष्ष उइदं पङ्खुणा चोक्खं कळेमि। (तेन ह्यस्माकं घोषस्योचितं पांसुना शौचं करोमि।)
वसुदेवः- कोऽत्र दोषः। क्रियतां शौचम्।
नन्दगोपः- जं भट्टा आणवेदि। (तथा कुर्वन् सविस्मयम्) अच्छळीअं अच्छळीअं भट्टा! अच्छळीअं । पङ्खूणी मग्गमाणष्ष ध्रळणीं भिन्दिअ जुगप्पमाणा
षळिळधाळा उट्ठिदा। (यद् भर्ताज्ञापयति। आश्चर्यमाश्चर्यं भर्तः! आश्चर्यम्। पांसून् मार्गयतो धरणीं भित्त्वा युग प्रमाणा सलिलधारोत्थिता।)
वसुदेवः- बालस्यैव प्रभावः। क्रियतां शौचम्।
नन्दगोपः- भट्टा! तह। (तथा कृत्वोपसृत्य) भट्टा! अअम्हि। (भर्तः। तथा भर्तः! अयमस्मि।)
वसुदेवः- गृह्यताम्।
नन्दगोपः- भट्टा! अदिदुब्बळा मे बाहा मन्दळषदिषं बाळ्अं गहिणदुं ण षमत्था। (भर्तः! अतिदुर्बलौ मे बाहू मन्दरसदृशं बालकं ग्रहीतुं न समर्थौ।)
वसुदेवः- वयस्य! महाबलपराक्रमः खलु भवान्।
 
नन्दगोपः- षुणादु भट्टा मम बळपळक्कमं। षन्दाळिअमाणे वृषभे षिङ्गं गहिणअमोचेमि। पङ्कुणिमग्गाणि भण्डषअडआणि आघट्टआमि। ईदिषो दाणि
अहं दाळअं गहिण्उं ण षमत्थो म्हि। (शृणोतु भर्ता मम बलपराक्रमम्। सन्दारयमाणे वृषभे शृङ्गं गृहीत्वा मोचयामि। पङ्कनिमग्नान् भाण्डशकटकान्
आधट्टयामि। ईदृश इदानीमहं दारकं ग्रहीतुं न समर्थोऽस्मि।)
(ततः प्रविशन्ति पञ्चायुधानि गरुडश्च)
गरुडः- अहं सुपर्णो गरुडो महाजवः
शाङ्र्गायुधस्यास्य रथो ध्वजश्च।
पुरा हि देवासुरविग्रहेषु
वहामि भो विष्णुबलेन विष्णुम् ॥ 21 ॥
चक्रः- चक्रोऽस्मि कृष्णस्य कराग्रशोभी
मध्याह्नसूर्यप्रतिमोग्रतेजाः।
त्रिविक्रमे चामृतमन्थने च
मया हता दानवदैत्यसङ्घाः ॥ 22 ॥
शाङ्र्गः- शाङ्र्गेऽस्मि विष्णुकरलग्नसुवृत्तमध्या
स्त्री विग्रहात् पुरुषवीर्यबलातिदर्पा।
यस्यार्थमाहवमुखेषु मयारिसङ्घाः
प्रभ्रष्टनागरथवाजिनराः प्रभग्नाः ॥ 23 ॥
कौमोदकी- कौमोदकी नाम हरेर्गदाह
माज्ञावशात् सर्वरिपून् प्रमथ्य।
मया हतानां युधि दानवानां
प्रकीडितं शोणितनिम्नगासु ॥ 24 ॥
शङ्खः- अहं हि शङ्खः क्षीरोदाद् विष्णुना स्वयमुद्धतः।
मम शब्देन नश्यन्ति युद्धे ते देवशत्रवः ॥ 24 ॥
नन्दकः- नन्दकोऽहं न मे कश्चित् सङ्ग्रामेष्वपराङ्मुखः।
गच्छामि स्मृतमतात्रेण विष्णुना प्रभविष्णुना ॥ 26 ॥
चक्रः- चक्रशाङ्र्गगदशङ्खनन्दका दैत्यमर्दनाः ।
वासुदेवस्य कार्यार्थं प्राप्ताः पारिषदा वयम् ॥ 27 ॥
तस्मादागम्यताम्। वयमपि मनुष्यलोकमवतीर्णस्य भगवतो विष्णोर्बालचरितमनुचरितुं गोपालकवेषप्रच्छन्ना घोषमेवावतरिष्यामः।
सर्वे- तथास्तु। (विष्णुमुपस्थिताः)
वसुदेवः- वयस्य! बाल एव नमस्यताम्।
नन्दगोपः- भट्टा! तह। ळाअदाळअ! णमो दे णमो दे। ही, होदु अत्ताणं एव अत्ताणं णिव्वावेहि। अम्हाणं गोपजणष्ष तुमं गहिणदुं को बळपळक्कमो। (भर्तः!
तथा। राजदारक! नमस्ते नमस्ते। हि, भवतु, आत्मनैवात्मानं निर्वाहय। अस्माकं गोपजनस्य त्वां ग्रहीतुं को बलपराक्रमः।)
चक्रः- नमो भगवते नारायणाय। भगवन्! महाविष्णो!
कार्याण्यकार्याण्यमरासुराणां
त्वया भविष्यन्ति बहूनि लोके।
तस्माज्जनस्यास्य लघुत्वयोगात्
कुरु प्रसादं यदुवंशकेतो! ॥ 28 ॥
वसुदेवः- गृह्यताम्।
नन्दगोपः- जं भट्टा आणवेदि। (गृह्णाति) (यद् भर्ताज्ञापयति।)
वसुदेवः- वयस्य! प्रभाता रजनी। प्रतिनिवर्ततां भवान्।
 
नन्दगोपः- अच्छळीअं अच्छळीअं भट्टा! अच्छळीअं। इमे बन्धणे पडिदे। (आश्चर्यमाश्चर्यं भर्तः! आश्चर्यम्। इमे बन्धने पतिते।)
वसुदेवः- सर्वमेतत् कुमारस्य प्रभावः। प्रतिनिवर्ततां भवान्।
नन्दगोपः- जं भट्टा आणवेदि। (यद् भर्ताज्ञापयति।)
वसुदेवः- अथवा एहि तावत्।
नन्दगोपः- भट्टा! अअम्हि। (भर्तः! अयमस्मि।)
वासुदेवः- जाने नित्यं वत्सलं त्वां प्रकृत्या
स्नेहोऽप्यस्मिन्नथ्र्यते रूढभावः।
अस्मिन् काले दग्धभूयिष्ठशेषं
न्यस्तं बीजं रक्षितुं यादवानाम् ॥ 21 ॥
कुमारस्य किं करिष्यति भवान्।
नन्दगोपः- षुणादु भट्टा। एकÏष्ष गेहे गच्छिअ खीरं पिबइ, अण्णÏष्ष गेहे गच्छिअ दधिं भक्खइ। अपरÏष्ष गेहे गच्छिअ णवणीदं गिलइ। अण्णÏष्ष गेहे गच्छिअ
पाअषं भुञ्जइ। इदळÏष्ष गेहे गच्छिअ तक्कघटं पळोअदि। किं बहुणा, अम्हाणं घोषष्ष पदी होइ। (श्रुणोतु भर्ता। एकस्मिन् गेहे गत्वा क्षीरं पिबति।
अन्यस्मिन् गेहे गत्वा दधि भक्ष्यति। अपरस्मिन् गेहे गत्वा नवनीतं गिलति। अन्यस्मिन् गेहे गत्वा पायसं भुङ्क्ते। इतरस्मिन् गेहे गत्वा तक्रघटं
प्रलोकते। किं बहुना, अस्माकं घोषस्य पतिर्भवति।
वसुदेवः- एंवमस्तु। प्रतिनिवर्ततां भवान्।
नन्दगोपः- जं भट्टा आणवेदि। (निष्क्रान्तः।) (यद् भर्ताज्ञापयति।)
वसुदेवः- ननु निर्गतो नन्दगोपः। यावदहमपि मधुरामेव यास्यामि। (परिक्रम्य) रुदितशब्द इव श्रूयते। किं नु खलु कंसभयात् प्रतिनिवृत्तो नन्दगोपः।
(परिक्रम्य) अये प्रत्यागतप्राणेयं दारिका। यावदिमां गृहीत्वा देवक्या हस्ते निक्षिप्य दुरात्मानं कंसं वञ्चयामि। (गृहीत्वा) अहो गुरुत्वमस्याः। एतदपि
कुमारात् किञ्चिदन्तरं महद् भूतम्। यावदप्रकामामि। अये इयं भगवती यमुना तथैव स्थिता । यावदपक्रामामि। निष्क्रान्तोऽस्मि यमुनायाः।
एतन्नगरद्वारम्। तथैव प्रसुप्तो मथुरायां सर्वो जनः। यावत् प्रविशामि। (प्रिवश्य) इदं खलु दुरात्मनः कंसस्य गृहं ज्योष्ठाश्रितमिव दृश्यते। इदमस्मदीयं
गृहं श्रियारूढमिव दृश्यते। यावदहमप्यन्तःपुरं प्रविश्य देवकी समाश्वासयामि। ईश्वराः स्वस्ति कुर्वन्तु।
(निष्क्रान्तः।)

प्रथमोऽङ्कः।

द्वितीयोऽङ्कः[सम्पाद्यताम्]

(ततः प्रविशन्ति चण्डालयुवतयः।)
 
सर्वाः- आअच्छ भट्टा! आअच्छ। अम्हाणं कण्णाणं तुए सह विवाहो होदु। (आगिच्छ भर्तः! आगच्छ। अस्माकं कन्यानां त्वया सह विंवाहो भवतु।)
(ततः प्रविशति राजा।)
राजा- भोः! किन्नु खल्विदम्।
यन्मेदिनी प्रचलिता पतिताग्रहम्र्या
सन्तारनौरिव विकीर्णमहोर्मिमाला।
सेव्यैः प्रधानगुणकर्मफलैर्निमित्तैः।
किं वाग्रतो व्यसनमभ्युदयो नु तन्मे ॥ 1 ॥
सर्वाः- आअच्छ भट्टा! आअच्छ। अम्हाणं कण्णआणं तुए सह विवाहो होदु। (आगच्छ। भर्तः! आगच्छ। अस्माकं कन्यकानां त्वया सह विवाहो
भवतु।)
राजा- यस्मान्न रक्षिपुरुषाः प्रचरन्ति केचिद्
यस्मान्न दीपकधराः प्रमदाश्चरन्ति।
12
तस्मादिमा मम गृहं समनुप्रविष्टा
नीलोत्पलाञ्जननिभा भयदाः श्वपाक्यः ॥ 2 ॥
सर्वाः- आअच्छ भट्टा! आअच्छ। अम्हाणं कण्णआणं तुए सह विवाहो होदु। (आगच्छ। भर्तः! आगच्छ। अस्माकं कन्यकानां त्वया सह विवाहो
भवतु।)
राजा- अहो धृष्टाः खल्वेताश्चण्डालयुवतयः-
क्रोधेन नश्यति सदा मम शत्रुपक्षः
सूर्यः शशी हुतवहश्च वशे स्थिता मे।
योऽहं यमस्य च यमो भयदो भयस्य
तं मापवादवचनैः परिधर्षयन्ति ॥ 3 ॥
सर्वाः- आअच्छ भट्टा! आअच्छ। (आगच्छ भर्तः! आगच्छ।)
राजा- आ अपध्वंस। कथं सहसैव नष्टाः। यावदिदानीमभ्यन्तरमेव प्रविशामि।
(ततः प्रविशति शापः।)
शापः- हं, क्वेदानीं प्रविशसि। इदं खलु मम गृहं संवृत्तम्।
राजा- कोऽयं विनिष्पतति गर्भगृहं विगाह्य
उल्कां प्रगृह्य सहसाञ्जनराशिवर्णः।
भीमोग्रदंष्ट्रवदनो ह्यहिपिङ्गलाक्षः
क्रोधो महेश्वरमुखादिव गां प्रपन्नः ॥ 4 ॥
को भवान्।
शापः- किं न जानीषे माम्। अहं खलु मधूकस्य ऋषेः शापो वज्रबाहुर्नाम।
श्मशानमध्यादहमागतोऽस्मि
चण्डालवेषेण विरूपचण्डम्।
कपालमालातिविचित्रवेषः
कंसस्य राज्ञो हृदयं प्रवेष्टुम् ॥ 5 ॥
कंसः- असम्भाव्यमर्थं प्रार्थयसि।
सौवर्णकान्ततरकन्दरकूटकुञ्जं
मेरुं न कम्पयति वायसपक्षवातः।
हास्योऽसि भोः! समकरक्षुभितोर्मिमालं
पातुं य इच्छसि कराञ्जलिना समुद्रम् ॥ 6 ॥
शापः- काले ज्ञास्यसि।
राजा- हं, कथं सहसैव नष्टः। यावदहमपि शयनमुपगम्य नयनव्याक्षेपं करोमि। (स्वपिति।)
शापः - अये प्रसुप्तः। अलक्ष्मि! खलति! कालरात्रि! महानिद्रे! पिङ्गलाक्षि! तदागम्यतामभ्यन्तरं प्रविशामः।
सर्वाः - एवं हेदु। (एवं भवतु।)
(प्रविश्य)
राजश्रीः- न खलु प्रवेष्टव्यम्।
शापः- का भवती।
श्रीः- किं मां न जानीषे। अहं खल्वस्य लक्ष्मीः।
 
शापः - एवम्। राजश्रीः! अपक्रामतु भवती। इदं खलु मम गृहं संवृत्तम्।
श्रीः- हं,
लङ्कोपमं मम गृहं न विचिन्त्य मूढ!
कस्याश्रयाद् विशसि मामवधूय रात्रौ।
किं भाषितेन बहुना न च शक्यमेतद्
द्रष्टुं प्रवेष्टुमिह तेऽद्य मयाभिजुष्टम् ॥ 7 ॥
शापः- भगवति पद्मालये! अपक्रामतु किल कंसशरीरात्। विष्णुराज्ञापयति।
श्रीः- कथं विष्णुराज्ञापयतीति भोः! कष्टम्।
न चाहं चिरसंवासात् त्यक्तुं शक्नोमि पार्थिवम्।
बलवान् गुणसङ्ग्राही दृढं तपति मामयम् ॥ 8 ॥
भवतु। अनतिक्रमणीया विष्णोराज्ञा। तस्मादहमपि विष्णुसकाशमेव यास्यामि। (निष्क्रान्ता।)
शापः- अपक्रान्ता राजश्रीः। हन्तेदानीमिदमस्माकमावासः संवृत्तः। अलक्ष्मि! खलति! कालरात्रि! महानिद्रे! पिङ्गलाक्षि! अभ्यन्तरं प्रविश्य स्वजातिसदृशी
क्रीडा क्रियताम्।
सर्वाः- अज्जप्पहुदि अवणीदधम्मचारित्तो होहि। (अद्यप्रभृत्यपनीतधर्मचारित्रो भव।)
शापः- परिष्वजामि गाढं त्वां नित्याधर्मपरायणम्।
प्राप्नोमि मुनिशापस्त्वामचिरान्नाशमेष्यसि ॥ 9 ॥
(अन्तर्हितः।)
(प्रविश्य)
प्रतिहारी- जेदु भट्टा। (जयतु भर्ता।)
राजा- हं!
प्रतिहारी- भट्टा! जसोधरा खु अहं। (भर्तः! यशोधरा खल्वहम्।)
राजा- यशोधरे। किं त्वया मातङ्गीजनप्रवेशो न दृष्टः।
प्रतिहारीः- हं मादङ्गिजणत्ति। णिच्छं भट्टिपादमूळे वत्तमाणस्स व जणस्स इहप्पवेसो दुळ्ळहो, किं उण मादङ्गिजणस्स। (हं मातङ्गीजन इति। नित्यं
भर्तृपादमूले वर्तमानस्यैवजनस्येह प्रवेशो दुर्लभः, किं पुनर्मातङ्गीजनस्य।)
राजा- किं स्वप्नो नु मयानुभूतः। यशोधरे! गच्छ। बालाकिः काञ्चुकीयः प्रवेश्यताम्।
प्रतिहारीः- जं भट्टा आणवेदि। (निष्क्रान्ता।) (यद् भर्ताज्ञापयति।)
(ततः प्रविशति काञ्चुकीयः।)
काञ्चुकीयः- जयतु महाराजः।
राजा- आर्य बालाके! प्रष्टव्यौ सांवत्सरिकपुरोहितौ-अद्य रात्रौ वातोद्भ्रामभूमिकम्पोल्कापाता दैवतप्रतिमाश्च प्रतिभासिताः किमर्थमिति।
काञ्चुकीयः- महाराज। सांवत्सरिकपुरोहितौ विज्ञापयतः।
राजा- किमिति।
काञ्चुकीयः- श्रूयताम्।
भूतं नभस्तलनिवासि नरेन्द्र! नित्यं
कार्यान्तरेण नरलोकमिह प्रपन्नम्।
 
आकाशदुन्दुभिरवैः समहीप्रकम्पै-
स्तस्यैष जन्मनि विशेषकरो विकारः ॥ 10 ॥
राजा- कस्मिञ्जाते सशैलेन्द्रा कम्पितेयं वसुन्धरा।
ज्ञायतां कस्य पुत्रोऽयं किं वा जन्मप्रयोजनम् ॥ 11 ॥
काञ्चुकीयः- यदाज्ञापयति महाराजः। (निष्क्रम्य प्रविश्य) जयतु महाराजः। प्रसुतवती किल देवकी।
राजा- किं प्रसूतम्।
काञ्चुकीयः- दारिका प्रसूता।
राजा- मा तावत् एतानि महानिमित्तानि दारिकाप्रसूतिमात्रेण उत्पद्यन्ते।
काञ्चुकीः- प्रसीदतु महाराजः। अनृतं नाभिहितपूर्वं मया। भवतो भृत्यवर्गपरिवृतायाः छात्र्या हस्ते दृष्टा सा।
राजा- अथवा ब्राह्मणवचनमनृतमपि सत्यं पश्यामि। गच्छ, वसुदेवस्तावदाहूयताम्।
काञ्चुकीयः- यदाज्ञापयति महाराजः। (निष्क्रान्तः।)
राजा- धर्मशीलः सत्यवादी वसुदेवः। अथ तु मम सपीपेऽनृतं न ब्रवीति। भवतु श्रोष्यामस्तावत्।
(ततः प्रविशति वसुदेवः।)
वसुदेवः- षण्णां सुतानां समुपेत्य नाशं
वहन्निदं शोककृशं शरीरम्।
आहूयमानोऽकरुणेन राज्ञा
गच्छाम्यहं भृत्य इवास्वतन्त्रः ॥ 12 ॥
भोः! एवंविधा लोकवृत्तिः।
स्मरतापि भयं राजा भयं न स्मरतापि वा।
उभाभ्यामपि गन्तव्यो भयादप्यभयादपि ॥ 13 ॥
(उपसृत्य) शौरसेनीमातः! आस्यते।
राजा - यादवीमातः! आस्यताम्।
वसुदेवः - बाढम्। (उपविश्य) शौरसेनीमातः! किमर्थं वयमाहूताः।
राजा - यादवीमातः! प्रसूतवती किल देवकी।
वसुदेवः- अथ किम्? प्रसूतवती।
राजा- किं प्रसूतम्।
वसुदेवः - (आत्मगतम्) मयापि नामानृतं वक्तव्यं भविष्यति। अथवा कुमाररक्षणार्थमनृतमपि सत्यं पश्यामि। किंमिदानीं करिष्ये। भवतु, दृष्टम्। (प्रकाशम्)
दारिका प्रसूता तया।
राजा- दारिका वा कुमारो वा हन्तव्यः सर्वथा मया।
दैवं पुरुषकारेण वञ्चयिष्याम्यहं ध्रुवम् ॥ 14 ॥
(प्रविश्य)
प्रतिहारी- जेदु भट्टा। अम्हाअं भट्टिणी विण्णवेदि-दारिअत्ति बाळेत्ति अकरीअदु किळ महाराएण अणुक्कोसो। (जयतु भर्ता। अस्माकं भट्टिनी
विज्ञापयति-दारिकेति बालेति क्रियतां किल महाराजेनानुक्रोशः।)

वसुदेवः - शौरसेनीमातः! क्रियतां तपस्विन्या देवक्या वाक्यम्। दारिकासु स्त्रीणामधिकतरः स्नेहो भवति।
राजा- किं भवान् स्मरति समयम्।
मधूकस्य ऋषेः शापं श्रुत्वा मे समयस्तदा।
देवक्या धारितान् गर्भान् दास्यामीति त्वया कृतः ॥ 14 ॥
वसुदेवः- समय इति। एष न व्याहरामि।
प्रतिहारी- भट्टा किं त्ति अम्हाअं भट्टिणीए णिवेदिदव्वं। (भर्तः! किमित्यस्माकं भट्टिन्यै निवेदयितव्यम्।)
राजा- यशोधरे! उच्यतां देवक्याः - न युक्तमिदानीं निर्बन्धमभिधातुम्। अन्यत् प्रियतरं प्रियतरं करिष्यामीति।
प्रतिहारी- जं भट्टा आणवेदि। (यद् भर्ताज्ञापयति।)
राजा- यशोधरे! एवं क्रियताम्।
प्रतिहारी- सुहं पविसदु किळ भट्टा। (सुखं प्रिवशतु किल भर्ता।)
वसुदेवः- (आत्मगतं) विविक्तमिच्छता मयापि नाम परापत्यं निधनमुपनेतव्यं भवति। किन्नु खलु कुमारमेवानीय प्रयच्छामि। अथवा,
दारिकेयं मृता पूर्वं पुनरेव समुत्थिता।
अस्य बालस्य माहात्म्यान्नैषा वधमवाप्स्यति॥ 16 ॥
यावदहमपि देवकीं समाश्वासयामि।
(निष्क्रान्तः।)
राजा- यशोधरे! प्रवेश्यतां सा दारिका।
प्रतिहारी- जं भट्टा आणवेदि। (यद् भर्ताज्ञापयति)
(निष्क्रान्ता)
(ततः प्रविशति दारिकां गृहीत्वा धात्री रक्षिपुरुषाश्च।)
सर्वे- सणिअं सणिअं अय्या। इदं मज्झमदुवाळं। पविसदु अय्या। (शनैः शनैरार्या। इदं मध्यमद्वारम्। प्रविशत्वार्या।)
धात्री- (प्रविश्य) जेदु भट्टा। इअं दारिआ अम्हेहि चिरप्पहुदि रक्खिदा। (जयतु भर्ता। इयं दारिकास्माभिश्चिरात् प्रभृति रक्षिता।)
राजा- अहो राजदर्शनीयेयं दारिका। मयापि नाम स्त्रीवधः कर्तव्यो भवति।
धात्री- सणिअं सणिअं भट्टा!। (शनैः शनैः भर्तः!।)
राजा- इयं कंसशिला। यावत् साहसमनुष्ठास्यामि।
अयं हि सप्तमो गर्भ ऋषिशापबलोत्थितः।
अस्मिन् नाशं गते गर्भे मम शान्तिर्भविष्यति ॥ 17 ॥
(गृहीत्वा प्रहृत्य) अये,
एकांशः पतितो भूमावेकांशो दिवमुन्नतः।
मां निहन्तुमिहोद्भूतः करैः शस्त्रसमुज्जवलैः॥ 18 ॥
अये इयमिदानीं
तीक्ष्णाग्रं शूलमालम्ब्य रौद्रवेषेण जृम्भते।
विनाशकाले सम्प्राप्ते कालरात्रिरिवोत्थिता ॥ 19 ॥
 
(ततः प्रविशति कात्यायनी सपरिवारा।)
कात्यायनी- सुम्भं निसुम्भं महिषं च हत्वा
कृत्वा सुरांस्तान् हतशत्रुपक्षान्।
अहं प्रसूता वसुदेववंशे
कात्यायनी कंसकुलक्षयाय ॥ 20 ॥
कुण्डोदरः-
कुण्डोदरोऽहमजितो रणचण्डकर्मा
देव्याः प्रसूतिजनितोग्रमहानिनादः।
शीघ्रं प्रयामि गगनादवनीं विशालां
द्वप्तान् जिघांसुरसुरानतिवीर्यदर्पान् ॥ 21 ॥
शूलः- शूलोऽस्मि भूतमिह भूमितले प्रपन्नो
देव्याः प्रसादजनितोज्जवलचारुवेषः।
कंसं निहत्य समरे परिकर्षयामि
तं पादपं जलनिधेरिव कार्तिकेयः ॥ 22 ॥
नीलः- अहं हि नीलः कलहस्य कर्ता
सङ्ग्रामशूरो न पराङ्मुरखश्च।
निहन्मि कंसं युधि दुर्विनीतं
क्रौञ्चं यथा शक्तिधरः प्रकृष्टः 23 ॥
मनोजवः- मनोजवो मारुततुल्यवेगो
देव्यास्तु कार्यार्थमिहोपयातः।
करोमि सङ्ग्रामशिरःसु दैत्यान्
वह्निर्नलानां निलयं यथैव ॥ 24 ॥
कात्यायनी- कुण्डोदर! शङ्कुकर्ण! महानील! मनोजव! तदागम्यताम्। भगवतो विष्णोर्बालचरितमनुभवितुं गोपालकवेषप्रच्छन्ना घोषमेवावतरिष्यामः।
सर्वे- यदाज्ञापयति भगवती। (निष्क्रान्ता सपरिवारा कात्यायनी।)
राजा- अये प्रभाता रजनी
अतः प्रविश्य शान्त्यर्थं शान्तिकर्मोचितं गृहम्।
करोमि विपुलां शाÏन्त मम शान्तिर्भविष्यति॥ 25 ॥
(निष्क्रान्ताः सर्वे।)

द्वितीयोऽङ्कः।

तृतीयोऽङ्कः[सम्पाद्यताम्]

(ततः प्रविशति बुद्धगोपालकः।)

वृद्धगोपालकः- भो मेघदिण्ण! क्खु, वषभदिण्ण! क्खु, कुम्भमदिण्ण! क्खु घोषदिण्ण! क्खु पकाळेथ पकाळेथ गोधणं। एदेÏष्ष वुन्दावणे पकामं पाणीअं पादूणं
हुम्भारवं करन्तो आअन्तु गोधणं। एषो गोवज्जहादो णिक्किमिअ पपरिघट्टिअवम्भी- अमूळोभुजङ्गेहि कुवण्णेहिं णीळुप्पळादामेहि षिंगळग्गेहि
विअ वषभो षोभदि। अण्णो वि एषो वषभो उषिदप्पषारिअ-पुच्छो णिकुञ्चिअजाणु षषीव धवळङ्गो अग्गविषाणेहि महीं उव्वहन्तो विअ षोभदि।
जाव दाणि दामअं षद्दावआमि। अळे दामअ! भअवदीणं षुथळे ओदाळिअ षहवच्छाणं तुवं पि आअच्छ। (भो मेघदत्त! खलु, वृषभदत्त! खलु,
कुम्भदत्त! खलु घोषदत्त! खलु, वृषभदत्त! खलु, कुम्भदत्त! खलु घोषदत्त! खलु, प्रकालयत प्रकालयत गोधनम्। एतस्मिन् वृन्दावने प्रकामं पानीयं
पीत्वा हुम्भारवं कुर्वदायतु गोधनम्। एष गोव्रजान् निष्क्रम्य परिघट्टितवल्मीकमूलो भुजङ्गैः कुवर्णैः नीलोत्पलदामभिः श्रृङ्गलग्नैरिव वृषभः
शोभते। अन्योऽप्येष वृषभ उच्छ्रितप्रसारितपुच्छो निकुञ्चितजानुः शशीव धवलाङ्गोऽग्रविषाणाभ्यां महीमुद्वहन्निव शोभते। यावदिदानीं दामकं
शब्दयामि। अरे दामक! भगवतीः सुस्थलेऽवतार्य सहवत्सास्त्वमप्यागच्छ।)
(ततः प्रविशति दामकः)
 
दामकः- अहो महन्तं तिणजाळं षामिणो णन्दगोवष्ष। षुदजणणदिणादो आळहिअ अहिअदळं आणन्दुब्भुदं वड्ढइ। भोदु, इह चिट्ठदु गोधणं, जाव मादुळं
उवषप्पिष्षं। (उपसृत्य) मादुळ! वन्दामि। (अहो महत् तृणजालं स्वामिनो नन्दगोपस्य। सुतजननदिनादारभ्याधिकतरमानन्दाद्भुतं वर्धते। भवतु, इह
तिष्ठतु गोधनं, यावन्मातुलमुपसप्स्र्यामि। मातुल! वन्दे।)
वृद्धगोपालकः- षन्ती होदु षन्ती होदु अम्हाणं गोधणष्ष अ। (शान्तिर्भवतु शान्तिर्भवत्वस्माकं गोधनस्य च।)
दामकः- मादुळ! जदप्पहुदि नन्दगोवपुत्ते पषूदे, तदप्पहुदि अम्हाणं गोधणं वज्जिअरोअं षंवुत्तं। ण (ण?) षव्वाणं गोवजणाणं पीदी.वडढइ। अण्णं च, खादे
खादे मूळाणि, फळाणि गुम्हे गुम्हे। मधु केत्तिअं दुध्धदि क्खीरं तत्तअं एव्व धिदं। (मातुल! यदाप्रभृति नन्दगोपपुत्रः प्रसूतः, तदाप्रभृत्यस्माकं गोधनं
वर्जितरोगं संवृत्तम्। ननु सर्वेषां गोपजनानां प्रीतिर्वर्धते, अन्यच्च, खाते खाते मूलानि, फलानि गुल्मे गुल्मे। मधु कियद् दुह्यते क्षीरं तावद् एव
घृतम्।)
वृद्धगोपालकः- अण्णं च इदं अच्छळिअं। दषरत्तप्पषूदे णन्दगोववुत्ते पूतणा णाम दाणवी विषषम्पूरिदत्थणा णन्दगोवीए रूवं गहिणअ आअदा। तदो ताए दाळअं
गह्णिअ तष्ष मुहे त्थणं पक्खित्तं। तदो तं विजाणिअ षुविदा पाडिदा चम्मवषेषा दाणवी भविअ तत्तो एव्व मुदा। तदो माषसत्ते णन्दगोववुत्ते षणडो
णाम दाणवि षअडवेषं गह्णिअ आअदो। तं पि जाणिअ एकपादप्पहारेण चुण्णीकिदो षो वि दाणवो भविअ तत्तो एव्व मुदो। तदो माषपरिवुत्ते
नन्दगोववुत्ते एखÏष्ष गेहे गच्छिअ खीरं पिबइ, अण्णÏष्ष गेहे गच्छिअ दधिं भक्खइ, एकÏष्ष गेहे गच्छिअ णवणीदं गिळदि, अण्णÏष्ष गेहे गच्छिअ
पाअसं भुञ्चइ, अपरÏष्ष गेहे गच्छिअ तक्खघटं पळोअदि। तदो ळुट्ठाहि गोवजुवदीहि णन्दगोवीए उत्तं। तदो ळुट्ठाए णन्दगोवीए दामं गह्णिअ
तष्ष मज्झे बन्धिअ षेषं उळूहळे बज्झं। तदो तं पि उळूहळं आघट्टअन्तं पेक्खिअ जमळज्जुणे णाम दाणवे णिक्खित्तं। तदो दुवे एक्खीभूदे। तेषं
अन्तळेण गच्छन्तेण णन्दगोववुत्तेण आघट्टअन्तेण षमूळ विडवं चुण्णीकिदे ते वि दाणवे भविअ तत्तो एव्व मुदे। तदो गोवजणेहि उत्तं
महाबळपळक्कमो अज्जप्पहुदि भट्टिदामोदळो णाम होदु त्ति। तदो आहावणप्पहावणमत्ते णन्दगोववुत्ते पळंबो णाम दाणवो णन्दगोववेसं गह्णिअ
आअदो। तदो षङ्ककिषणं कण्ठे णिक्खाविअ गृछन्तं तं विजाणिअ भट्टिणा षङ्कळिषणेण तष्ष दाणवष्ष षीषे मुट्ठिप्पहारोकिदो। तेण प्पहारेण
उक्खित्तचक्खू षो वि दाणवो भविअ तत्तो एव्व मुदो गोवजणेहि परिवुदो ताळहळाणि गह्णिदुं ताळवणं गदो। तहिं ताळवणे धेणुओ णाम दाणवो
गद्दभवेसं गह्णिअ आअदो। तदो तं पि जाणिअ भट्टिदामोदळेण तष्, वामपादं गह्णिअ उक्खिविअ पादिदाणि ताळफळाणि। षो वि दाणवो भविअ
तत्तो एव्व मुदो। तदो केसी णाम दाणवो तुळङ्गवेसं गह्णिअ आअदो। तदो तं पि जाणिअ भट्टिदामोदळेण तष्ष मुहे कोप्परो दिण्णो। तदो तेण
दुवी (?) पाडिदो तुळङ्गो। षो वि दाणवो भविअ तत्तो एव मुदो। एदाणि अण्णाणि (अ) कम्माणि किदाणि भट्टिदामोदळेण। (अन्यच्चेदमाश्चर्यम्।
दशरात्रप्रसूते नन्दगोपपुत्रे पूतना नाम दानवी विषसम्पूरितस्तना नन्दगोप्या रूपं गृहीत्वागता। ततस्तया दारकं गृहीत्वा तस्य मुखे स्तनः प्रक्षिप्तः।
ततस्तां विज्ञाय सुप्ता पातिता सापि दानवी भूत्वा तत एव मृता। ततो मासमात्रे नन्दगोपपुत्रे शकटो नाम दानवः शकटवेषं गृहीत्वागतः। तमपि
ज्ञात्वैकपादप्रहारेण चूर्णीकृतः सोऽपि दानवो भूत्वा तत एव मृतः। ततो मासपरिवृत्तौ नन्दगोपपुत्र एकस्मिन् गेहे गत्वा क्षीरं पिबति, अन्यस्मिन् गेहे
गत्वा दधि भक्षयति, एकस्मिन् गेहे गत्वा नवनीतं गिरतिषे अन्यस्मिन् गेहे गत्वा पायसं भुङ्कते अपरस्मिन् गेहे गत्वा तक्रघटं प्रलोकते। ततो
रुष्टाभिर्गोपयुवतिभिर्नन्दगोप्यै उक्तम्। ततो रुष्टया नन्दगोप्या दाम गृहीत्वा तस्य मध्ये बद्ध्वा शेषमुलूखले बद्धम्। ततस्तदप्युलूखलमाघट्टयत्
प्रेक्ष्य यमलार्जुनयोर्नाम दानवयोर्निक्षिप्तम्। ततो द्वावेकीभूतौ। तयोरन्तरेण गच्छता नन्दगोपपुत्रेणाघट्टयता समूलविटपं चूर्णीभूतौ। तावपि दानवौ
भूत्वा तत एव मृतौ। ततो गोपजनैरूक्तं - महाबल-पराक्रमोऽद्यप्रभृति भर्तृदामोदरो नाम भवतु इति। तत आधावनप्रधावनमात्रे नन्दगोपपुत्रे प्रलम्बो
नाम दानवो नन्दगोपवेषं गृहीत्वागतः। ततः संकर्षणं कण्ठे निक्षिप्य गच्छन्तं तं विक्षाय भत्र्रा संकर्षणेन तस्य दानवस्य शीर्षे मुष्टिप्रहारः कृतः। तेन
प्रहारेणोत्क्षिप्तचक्षुः सोऽपि दानवो भूत्वा तत एव मृतः। गोपजनैः परिवृतस्तालफलानि ग्रहीतुं तालवनं गतः। तत्र तालवने घेनुको नाम दानवो
गर्दभवेषं गृहीत्वोत्क्षिप्य पातितानि तालफलानि। सोऽपि दानवो भूत्वा तत एव मृतः। ततः केशी नाम दानवः तुरङ्गवेषं गृहीत्वागतः। ततस्तमपि
ज्ञात्वा भर्तृदामोदरेण तस्य वामपादं गृहीत्वोत्क्षिप्य पातितानि तालफलानि। सोऽपि दानवो भूत्वा तत एव मृतः। ततः केशी नाम दानवः तुरङ्गवेषं
गृहीत्वागतः। ततस्तमपि ज्ञात्वा भर्तृदामोदरेण तस्य मुखे कूर्परो दतः। ततस्तेन द्विधा पाटितस्तुरङ्गः। सोऽपि दानवो भूत्वा तत एव मृतः।
एतान्यन्यानि (च) कर्माणि कृतानि भर्तृदामोदरेण।)
दामकः- मादुळ! षव्वं दाव चिट्ठदु। अज्ज भट्टिदामोदळो इमÏष्ष वुन्दावणे गोवकण्णआहि षह हळ्ळीषअं णाम पकीळिदुं आअच्छदि। (मातुल! सर्वं
तावत् तिष्ठतु। अद्य भर्तृदामोदरोऽस्मिन् वृन्दावने गोपकन्यकाभिः सह हल्लीसकं नाम प्रक्रीडितुमागच्छति।)
वृद्धगोपालकः- तेण हि षव्वेहि गोवजणेहि षह भट्टिदामोदळष्ष हळ्ळीषअं पेक्खम्ह। (तेन हि सर्वैर्गोपजनैः सह भर्तृदामोदरस्य हल्ली सकं पश्यामः।)
दामकः- जं मादुळो आणवेदि। (यद् मातुल आज्ञापयति।)
(निष्क्रान्तौ।)
प्रवेशकः ।
(प्रविश्य)
वृद्धगोपालकः- अणुदिअमत्ते षुय्ये पणमह षव्वादळेण षीषेण।
णिच्चं जगमादूणं गोणाणं अमिदपुण्णाणं ॥ 1 ॥
 
अहो अम्हाणं पक्काणाणं षमिद्धि। आडोवषज्जाओ पडहरूववेसाओ वाहळिदुं गच्छामो। अम्हाअं गोवकण्णआओ! घोषषुन्दळि! वणमाळे!
चन्दळेहे! मिअक्खि! आअच्छह आअच्छह षिग्धं।
(अनुदितमात्रे सूर्ये प्रणमत सर्वादरेण शीर्षेण।
नित्यं जगन्मातृणां गवाममृतपूर्णानाम् ॥ 1 ॥
अहो अस्माकं पक्कणानां समृद्धिः। आटोपसज्जाः पटहरूपवेषा व्याहर्तुं गच्छामः। अस्माकं गोपकन्यकाः! घोषसुन्दरि! वनमाले! चन्द्ररेखे!
मृगाक्षि! आगच्छतागच्छत शीघ्रम्।)
(ततः प्रविशन्ति सर्वाः।)
सर्वाः- मादुळ! वन्दामो। (मातुल! वन्दामहे।)
वृद्धगोपालकः- दाळिआ! एषो भट्टा दामोदळो गोक्खीरपण्डरेण भाट्टिणा षङ्कळिषणेण षह गोवाळएहि अ परिवुदो गुहाणिक्खित्तो षिहो विअ इदो एव्व
आअच्छदि। (दारिकाः! एष भर्ता दामोदरः गोक्षीरपाण्डरेण भत्र्रा सङ्कर्षणेन सह गोपालकैश्च परिवृतः गुहा निक्षिप्तः सिंह इवेत एवागच्छति।)
(ततः प्रविशति गोपजनपरिवृत्तो दामोदरः सङ्कर्षणश्च।)
दामोदरः- (सविस्मयम्) अहो प्रकृत्या रमणीयानां गोपकन्यकानां वेषग्रहणविशेषः।
एताः प्रफुल्लकमलोत्पलवक्त्रनेत्रा
गोपाङ्कगनाः कनकचम्पकपुष्पगौराः।
नानाविरागवसना मधुरप्रलापाः
क्रीडन्ति वन्यकुसुमाकुलकेशहस्ताः ॥ 2 ॥
सङ्कर्षणः- एते गोपदारकाः समागताः।
रक्तैर्वेसुकडिण्डिमैः प्रमुदिताः केचिन्नदन्तः स्थिताः
केचित् पङ्कजपत्रनेत्रवदनाः क्रीडन्ति नानाविधम्।
घोषे जागरिता गुरुप्रमुदिता हुम्भारशब्दाकुले
वृन्दारण्यगते समप्रमुदिता गायन्ति केचित् स्थिताः ॥ 3 ॥
वृद्धोगोपालकः- आम् भट्टा! षव्वा षण्णद्धा आअदा। (आम् भर्तः! सर्वे सन्नद्धा आगताः।)
दामकः- जेदु भट्टा। (जयतु भर्ता।)
सङ्कर्षणः- दामक! सर्वे गोपदारकाः समागताः।
दामकः- आम भट्टा! षव्वे षण्णद्धा आअदा। (आम भर्तः! सर्वे सन्नद्धा आगताः।)
दामोदरः- घोषसुन्तरि! वनमाले! चन्द्ररेखे! मृगाक्षि! घोषवासस्यानु-रूपोऽयं हल्लीसकनृतबन्ध उपयुज्यताम्।
सर्वाः- जं भट्टा आणवेदि। (यद् भर्ताज्ञापयति।)
सङ्कर्षणः- दामक! मेघनाद! वाद्यन्तामातोद्यानि।
उभौ- भट्टा! तह। (भर्तः! तथा।)
वृद्धगोपालकः- भट्टा! तुम्हे हळ्ळीसअं पकीळन्ति। अहं एत्थ किं करोमि। (भर्तः! यूयं हल्लीसकं प्रक्रीडथ। अहमत्र किं करोमि।)
दामोदरः- प्रेक्षको भवान् ननु।
वृद्धगोपाकलः-भट्टा! तह। (भर्तः! तथा।)
(सर्वे नृत्यन्ति)
वृद्धगोपालकः- ही ही षुट्ठु ईदं। षुट्ठुं वाइदं। षुट्ठु णच्चिदं। जाव अहं वि णच्चेमि। परिस्सन्नो खु अहं। (ही ही सुष्ठु गीतम्। सुष्ठुवादितम्। सुष्ठु नर्तितम्।
यावदहमपि नृत्यामि। परिश्रान्तः खल्वहम्।)
(प्रविश्य)
 
गोपालकः- हा हा भट्टा अवक्कमदु इमादो देसादो। (हा हा भर्ता अपक्रामत्वस्माद् देशाद्।)
दामोदरः- दामक! किमसि सम्भ्रान्तः।
गोपालकः- एषो अळिट्ठवषभो णाम दाणवो पिण्डीकिदणीग्धादरूवो भूमिदळं खुरपुडेहि ळिहन्तो, जष्ष घोषो मेघरवत्ति षङ्किदो जादो।
(एषो अळिट्ठवषभो णाम दाणवो पिण्डीकिदणीग्धादरूवो भूमिदळं खुरपुडेहि ळिहन्तो, जष्ष घोषो मेघरवत्ति षङ्किदो जादो।
(एषोऽरिष्टवृषभो नाम दानवः पिण्डीकृतनिर्घातरूपो भूमितलं खुरपुटैर्लिखन्, यस्य घोषो मेघरव इति शङ्कितो जातः।)
दामोदरः- एवं, प्राप्तोऽरिष्टर्षभः। इमा नो गोपदारिका दारकांश्च गृहीत्वैतत् पर्वतशिखरमारुह्य दुरात्मनो मम च युद्धविशेषं पश्यत्वार्यः। अहमस्य दर्पप्रशमनं
करोमि।
(सङ्कर्षणस्तैः सह निष्क्रान्तः।)
दामोदरः- एष एष दुरात्मारिष्टर्षभः।
कृत्वा खुरैर्भूमितलं प्रभिन्नं
श्रृङ्गैश्च कूलानि समाक्षिपंश्च।
भयार्तगोपैः प्रसमीक्ष्यमाणो
नदन् समाधावति गोवृषेन्द्रः ॥ 4 ॥
(ततः प्रविशत्यरिष्टर्षभः।)
अरिष्टर्षभः- एष भोः!
श्रृङ्गाग्रकोटिकिरणैः खमिवालिखंश्च
शत्रोर्वधार्थमुपगम्य वृषस्य रूपम्।
वृन्दावने सललितं प्रतिगर्जमान-
माक्रम्य शत्रुमहमद्य सुखं चरामि ॥ 5 ॥
हुङ्काराशब्देन ममेह घोषे
स्त्रवन्ति गर्भा वनिताजनस्य।
खुराग्रपातैर्लिखितार्धचन्द्रा
प्रकम्पते सद्रुमकानना भूः ॥ 6 ॥
क्व नु खलु गतो नन्दगोपपुत्रः। भो नन्दगोपपुत्र! क्वासि।
दामोदरः- भो गोवृषाधम! इत इतः। एष स्थितोऽस्मि।
अरिष्टर्षभः- (दृष्ट्वा) अहो,
सारवान् खल्वयं बालो यो मां दृष्ट्वा महाबलम्।
उग्ररूपं महानादं नैव भीतो न विस्मितः ॥ 7 ॥
दमोदरः- किमेतद् भो! भयं नाम भवतोऽद्य मया श्रुतम् ।
भीतानामभयं दातुं समुत्पन्नो महीतले ॥ 8 ॥
अरिष्टर्षभः- भो! बालस्त्वम्। अतः खलु भयं न जानासि।
दामोदरः- भो गोवृषाधम! किं बाल इति मां प्रधर्षयसि।
किं दष्टः कृष्णसर्पेण बालेन न निहन्यते।
बालेन हि पुरा क्रौञ्चः स्कन्देन निधनं गतः ॥ 9 ॥
अरिष्टर्षभः- भो नन्दगोपपुत्र! किं व्यवसितम्।
दामोदरः- त्वां निधनमुपनेतुम्।
 
अरिष्टर्षभः- समर्थो भवान्।
दामोदरः- कः संशयः।
अरिष्टर्षभः- तेन हि गृह्यतां स्वजातिसदृशं प्रहरणम्।
दामोदरः- प्रहरणमिति। हं भोः!
गिरितटकठिनांसावेव बाहू ममैतौ
प्रहरणमपरं तु त्वादृशां दुर्बलानाम्।
अथ मम भुजदण्डैः पीड्यमानश्च शीघ्रं
यदि न पतसि भूमौ नास्मि दामोदरोऽहम् ॥ 11 ॥
अरिष्टर्षभः- तेन हि प्रवर्ततां युद्धम्।
दामोदरः- भो गोवृषाधम! यदि ते शक्तिरस्ति, मां पादेनैकेन स्थितं स्थानात् कम्पय।
अरिष्टर्षभः- कोऽत्र संशयः। (तथा कर्तुं चेष्टयित्वा मूर्छितः पतति।)
दामोदरः- भो गोवृष! समाश्वसिहि। अनेन वीर्येण भवान् गर्वितः।
अरिष्टर्षभः- (आश्वस्य, आत्मगतम्) अहो दुष्प्रसह्योऽयं बालः।
रुद्रो वायं भवेच्छक्रो विष्णुर्वापि स्वयं भवेत्।
अमिक्ष्या खलु मे तर्कः स एव पुरुषोत्तमः ॥ 12 ॥
आ, यत्र यत्र वयं जातास्तत्र तत्र त्रिलोकघृत्।
दानवानां वधार्थाय वर्तते मधुसूदनः ॥ 13 ॥
भवतु। विष्णुना हतस्याप्यक्षयो लोको मे भविष्यति। तस्माद् युद्धं करिष्यामि। (प्रकाशम्) भो नन्दगोपपुत्र! पुनरपि जातो मे दर्पः।
दामोदरः- हम्। तिष्ठ तिष्ठेदानीम्।
किं गर्जसे भुजगतो मम गोवृषेन्द्र!
पातप्रवृद्ध इव वार्षिककालमेघः।
एहि क्षिपामि धरणीतलमभ्युपेहि
वज्राहतस्तट इवाञ्जनपर्वतस्य ॥ 14 ॥
(तथा कृत्वा) एष दुरात्मारिष्टर्षभः,
विसृतरुधिरधाराक्लिन्ननासास्यनेत्रं
चलितककुदवालः प्रस्फुरत्पादकर्णः।
निपतति विगतात्मा भूतले वज्रभिन्नो
गिरिरिव शिखराग्रैर्गोवृषो दानवेन्द्रः ॥ 15 ॥
(प्रविश्य)
दामकः- जेदु भट्टा। एषो भट्टा षङ्कळिषणो पव्वदादो ज़मुणाहळे काळिओ णाम महाणाओ उट्ठिदो त्ति षुणिअ तं पडिगओ। वाळेहि वाळेहि भट्टा!
षङ्कळिषणं। (जयतु भर्ता। एष भर्ता संकर्षणः पर्वताद् यमुनाह्रदे कालियो नाम महानाग उत्थित इति श्रुत्वा तं प्रतिगतः। वारय वारय भर्तः!
संकर्षणम्।)
दामोदरः- कालियो नाम मयापि श्रूयते सदर्पः पन्नगपतिः। भवत्वहमस्य दर्पप्रशमनं करोमि।
गोब्राह्मणादयस्तेन सुजूष्यन्ते किल प्रजाः।
अद्यप्रभृति शान्तात्मा निषप्रभः स भविष्यति ॥ 16 ॥
(निष्क्रान्तौ)

तृतीयोऽङ्कः।

चतुर्थोऽङ्कः[सम्पाद्यताम्]

ततः प्रिवशति दामोदरः।)
दामोदरः- एता मत्तचकोरशाबनयनाः प्रोद्भिन्नकम्रस्तनाः
कान्ताः प्रस्फुरिताधरोष्ठरुचयो विस्रस्तकेशस्रजः।
सम्भ्रान्ता गलितोत्तरीयवसनास्त्रासाकुलव्याह्रता-
स्त्रस्ता मामनुयान्ति पन्नगगतिंदृष्ट्वैव गोपाङ्गनाः ॥ 1 ॥
(ततः प्रविशन्ति गोपकन्यकाः।)
सर्वाः मा खु मा खु भट्टा! एदं जळासअं पविसिदुं। एसो खु दुट्ठमहोरअकुळावासो। (मा खलु मा खलु भर्तः! एतं जलाशयं प्रवेष्टुम्। एष खलु
दुष्टमहोरगकुलावासः।)
दामोदरः- न खलु न खलु विषादः कार्यः। पश्यन्तु भवत्यः।
निष्पक्षिव्यालयूथं भयचकितकरिव्रातविप्रेक्षिताम्भो-
गम्भीरं स्निग्धनीरं ह्रदमुदधिनिभं क्षोभयन् सम्प्रवश्य।
गोपीभिः शङ्किताभिः प्रियहितवचनैः पेशलैर्वार्यमाणः
कालिन्दीवासरक्तं भुजगमतिबलं कालियं धर्षयामि ॥ 2 ॥
सर्वाः- भट्टा! षङ्कळिषण! वाळेहि वाळेहि भट्टिदामोदळं।
भर्तः! संकर्षण! वारय वारय भर्तृदामोदरम्।)
सङ्कर्षण- अलमलं भयविषादाभ्याम्। दर्शितोऽनुरागः। पश्यन्तु भवत्यः।
विषदहनशिखाभिर्यन्मुखात् प्रोद्गताभिः
कपिशितमशिवाभिश्चक्रवालं दिशानाम्।
सरभसमभियान्तं कृष्णमालक्ष्य शङ्की
नमयति शिरसान्तर्मण्डलं चण्डनागः ॥ 3 ॥
सर्वाः- हं भट्टिदामोदंळो वि तादिसो एवं। (हं भर्तृदामोदरोऽपि दादृश एव।)
दामोदरः- सर्वप्रजाहितार्थं द्रुततरं नागं मे वशं करोमि। (इति ह्रदं प्रविष्टः।)
सर्वाः- हा हा धूमो उट्ठिदो। (हा हा धूम उत्थितः।)
दामोदरः- अहो ह्रदस्य गम्भीर्यम्। इह हि,
सितेतराभुग्नदुकूलकान्ति-
द्रुतेन्द्रिनीलप्रतिमानवीचिम्।
इमामहं कालियधूमधूम्रां
सान्तर्विषाग्निं यमुनां करोमि ॥ 4 ॥
(निष्क्रान्तः।)
(ततः प्रविशति वृद्धगोपालकः।)
वृद्धगोपालकः- हा भट्टा! एषो कण्णअ#ाहि वाळिअमाणो जमुणहलं पविट्ठो। मा खु मा खु षाहषं कळिअ पविषिदुं। एत्थ वग्धा वराहा हत्थिणो पाणीअं पिबिअ
तहिं तहिं एव्व विमरन्ति। कहं ण दिस्सदि। किं दाणिं करोमि। होदु, इमं दाव कुम्भवळाअं आळुहिअ णिज्झाआणि। (आरूह्यावलोक्य) हा हा धूमो
उट्ठिदो।
 
(हा भर्तः! एष कन्यकाभिर्वार्यमाणो यमुनाह्रदं प्रविष्टः। मा खलु मा खलु साहसं कृत्वा प्रवेष्टुम्। अत्र व्याघ्रा वराहा हस्तिनः पानीयं पीत्वा तत्र तत्रैव
विम्रियन्ते। कथं न दृश्यते। किमिदानीं करोमि। भवतु, इम तावत् कुम्भपलाशमारुह्य निध्यायामि। हा हा धूम उत्थितः।)
सङ्कर्षणः- पश्यन्तु भवत्थः।
दामोदरोऽयं परिगृह्य नागं
विक्षोभ्य तोयं च समूलमस्य।
भोगे स्थितो नीलभुजङ्गमस्य
मेघे स्थितः शक्र इवावभाति ॥ 5 ॥
वृद्धगोपालकः- ही ही षाहु भट्टा! षाहु । (ही ही साधु भर्तः! साधु।)
(ततः प्रविशति कालियं गृहीत्वा दामोदरः।)
दामोदरः- एष भोः!
निर्भर्त्स्य कालियमहं परिविस्फुरन्तं
मूर्धाञ्चितैकचरणश्चलबाहुकेतुः।
भोगे विषोल्बणफणस्य महोरगस्य
हल्लीसकं सललितं रुचिरं वहामि ॥ 6 ॥
सर्वाः- अच्छळीअं भट्टा! अच्छळीअं। काळिअस्स पञ्च फणाणि अक्कमन्तो हळ्ळीषअं पकीळदि। (आश्चर्यं भर्तः! आश्चर्यम्। कालियस्य पञ्च
फणानाक्रामन् हल्लीसकं प्रक्रीडति।)
दामोदरः- यावदहमपि पुष्पाण्यपचिनोमि।
कालियः- आः,
लोकालोकमहीधरेण भुवनाभोगं यथा मन्दरं
शैलं शर्वधनुर्गुणेन फणिना यद्वच्च यादोनिधौ।
स्थूलाखण्डलहस्तिहस्तकठिनो भोगेन संवेष्टितं
त्वामेष त्रिदशाधिवासमधुना सम्प्रेषयामि क्षणात् ॥ 7 ॥
वृद्धगोपालकः- हा हा भट्टा! एसो भट्टिदामोदळो पुप्फाणुकारेहि पदेहि आआरवन्तं विअ जमुणाहळं महाणाअं पादेण परिघट्टअन्तो पुप्फाणि अवइणोदि।
(अवतीर्य) षाहु भट्टा! षाहु। फळ्ळोहि फळ्ळोहि। अहं वि षहाओ होमि। अहो भाआमि भट्टा! भाआमि। जाव इमं वुत्तन्तं णन्दगोवष्ष णिवेदेमि।
(निष्क्रान्तः।) (हा हा भर्तः! एष भर्तृदामोदरः पुष्पानुकाराभ्यां पदाभ्यामाकारवन्तमिव यमुनाह्रदं महानागं पादेन परिघट्टयन् पुष्पाण्यवचिनोति। साधु
भर्तः! साधु। फालय फालय। अहमपि सहायो भवामि। अहो बिभेमि भर्तः! बिभेमि। यावदिमं वृत्तान्तं नन्दगोपाय निवेदयामि।)
दामोदरः- विध्वस्तमीनमकराद् यमुनाह्रदान्ताद्
दर्पोच्छ्रयेण महता दृढमुच्छ्वसन्तम्।
आशीविषं कलुषमायतवृत्तभोग-
मेष प्रसह्य सहसा भुवि विक्षिपामि ॥ 8 ॥
कालियः- एष भोः!
रोषेण धूमायति यस्य देह
स्तेनैव दाहं पृथिवीं प्रयाति।
ज्वालावलीभिः प्रदहामि सोऽहं
रक्षन्तु लोकाः समरुद्गणास्त्वाम् ॥ 9 ॥
दामोदरः- कालिय! यदि ते शक्तिरस्ति, दह्यतां ममैको भुजः।
कालियः- हहह,
चतुःसागरपर्यन्तां ससप्तकुलपर्वताम्।
दहेयं पृथिवीं कृत्स्नां किं भुजं न दहामि ते ॥ 10 ॥
 
हं, तिष्ठेदानीम्। ए, त्वां भस्मीकरोमि। (विषाग्निं मुञ्चति)
दामोदरः- हन्त दर्शितं ते वीर्यम्।
कालियः- प्रसीदतु प्रसीदतु भगवान् नारायणः।
दामोदरः- अनेन वीर्येण भवान् गर्वितः।
कालियः- प्रसीदतु भगवान्।
गोवर्धनोद्धरणमप्रतिमप्रभावं
बाहुं सुरेश! तव मन्दरतुल्यसारम्।
का शक्तिरस्ति मम दग्धुमिमं सुवीर्यं
यं संश्रितास्त्रिभुवनेश्वर! सर्वलोकाः ॥ 11 ॥
भगवन्! अज्ञानादतिक्रान्तवान्, सान्तः पुरः शरणागतोऽस्मि।
दामोदरः- कालिय! किमर्थमिदानीं यमुनाह्रदं प्रविष्टोऽसि।
कालियः- भगवतो वरवाहनाद् गरुडाद् भीतोऽहमिह प्रविष्टोऽस्मि। तदिच्छामि गरुडादभयं भगवत्प्रसादात्।
दामोदरः- भवतु भवतु।
मम पादेन नागेन्द्र! चिह्नितं तव मूर्धनि।
सुपर्ण एव दृष्ट्वेदमभयं ते प्रदास्यति ॥ 12 ॥
कालियः- अनुगृहीतोऽस्मि।
दामोदरः- प्रविशतु भवान्।
कालियः- यदाज्ञापयति भगवान् नारायणः।
दामोदरः- अथवा एहि तावत्।
कालियः- भगवन्! अयमस्मि।
दामोदरः- अद्यप्रभृति गोब्राह्मणपुरोगासु सर्वप्रजास्वप्रमादः कर्तव्यः।
कालियः- भगवन्! मद्विषदूषितमिदं जलम्। तदिदानीमेव विषं संहृत्य यमुनाह्रदान्निष्क्रमामि।
दामोदरः- प्रतिनिवर्ततां भवान्।
कालियः- यदाज्ञापयति भगवान् नारायणः।
(सपरिजनो निष्क्रान्तः।)
दामोदरः- यावदहमपि ह्रदाद् गृहीतानि पुष्पाणि गोपकन्यकाभ्यः प्रयच्छामि।
सर्वाः- एसो भट्टा अम्हाणं हिअआणन्दं करन्तो अक्खदसरीरो इदो एव आअच्छदि। जेदु भट्टा। (ए, भर्तास्माकं हृदयानन्दं कुर्वन् अक्षतशरीर इत
एवागच्छति। जयतु भर्ता।)
सङ्कर्षणः- गृह्यन्तां पुष्पाणि।
सर्वाः- भट्टा! एदाणि मुणिसङ्घेहि अणवइदपुव्वाणि पुप्फाणि पळामिट्ठाणि चन्द्रादिच्चकिरणेहि अपरिमद्दिदाणि। भाआमो भट्टा!। (भर्तः! एतानि
मुनिसङ्घैरनवचितपूर्वाणि पुष्पाणि परामृष्टानि चन्द्रादित्यकिरणैरपरिमर्दितानि। बिभीमो भर्तः!।)
दामोदरः- पूर्वं दृष्टभया वित्रस्तास्तपस्विन्यः। न भेतव्यं न भेतव्यम्। इदानीं खलु मत्करस्पर्शनात् सौम्यभावमुपगतानि गृह्यताम्।
 
(निष्क्रान्ताः सर्वे।)
सर्वाः- जं भट्टा आणवेदि। (यद् भर्ताज्ञापयति।)
(प्रविश्य)
भटः- भो गापालक! क्व गतो नन्दगोपपुत्रः।
गोपालकः- एषो भट्टा कालिअं णाम महाणाअं परिपीडिअ गोवकण्णआहि परिवुदो ट्ठिओ। (एष भर्ता कालियं नाम महानागं परिपीड्य गोपकन्यकामिः
परिवृतः स्थितः।)
भटः- (उपगम्य) भो नन्दगोपपुत्र! अनुगतार्थनामधेयस्य महाराजस्योग्रसेनस्य पुत्रः कंसराजो भवन्तमाज्ञापयति।
दामोदरः- कथमाज्ञापयतीति।
भटः- मधुरायां धनुर्महो नाम महोत्सवो भविष्यति। तमनुभवितुं सपरिजनाभ्यां भवद्भ्यामागन्तव्यमिति।
दामोदरः- आर्य! अयं ननु देवरहस्यकालः।
सङ्कर्षणः- शीर्घमिदानीं गमिष्यावः।
दामोदरः- बाढम्। प्रथमः कल्पः। एष भोः!
प्रभ्रष्टरत्नमकुटं परिकीर्णकेशं
विच्छिन्नहारपतिताङ्गदलम्बसूत्रम्।
आकृष्य कंसमहमद्य दृढं निहन्मि
नागं मृगेन्द्र इव पूर्वकृतावलेपम् ॥ 13 ॥

पञ्चमोऽङ्कः[सम्पाद्यताम्]

ततः प्रविशति राजा।)

राजा- श्रुत्वा व्रजे विपुलविक्रमवीर्यसत्त्वं
दामोदरं सह बलेन समाचरन्तम्।
आविश्य कार्मुकमहंत मिहोपनीय
मल्लेन रङ्गगतमद्य तु घातयामि ॥ 1 ॥
ध्रुवसेन! ध्रुवसेन!
(प्रविश्य)
भटः- जयतु महाराजः।
राजा- ध्रुवसेन! किमागतो नन्दगोपपुत्रः।
भटः- श्रोतुमर्हति महाराजः- प्रविशन्नेव दामोदरः ससङ्कर्षणो गोपजनपरिवृतो रजकेभ्यो वस्त्राण्याच्छिद्य गृहीतवानिति श्रुत्वा महामात्रेणोत्पलापीडो नाम
गन्धहस्ती सञ्चोदितस्तमभिघात-यितुम्। ततः,
तमापतन्तं सहसा समीक्ष्य
सभीतगोपालकवृन्दमध्ये।
बालो बलेनाद्रि़निभं गजेन्द्रं
दन्तं समाकृष्य जघान शीघ्रम् ॥ 2 ॥
राजा- कथं जघानेति। गच्छ। भूयो ज्ञायतां वृत्तान्तः।
भटः- यदाज्ञापयति महाराजः। (निष्क्रम्य प्रविश्य) जयतु महाराजः। एष इदानीं नन्दगोपपुत्र
उत्सवाधिकारोच्छ्रितध्वजपताकमवसक्तमाल्यदामालङ्कृतमुत्थापितागुरुधूपसमाकुलं राजमहापथं प्रविश्य राजकुलद्वारे गन्धसमुद्भावसक्तहस्तां मदनिकां
नाम कुब्जिकां दृष्ट्वा तस्य हस्ताद् गन्धमादाय स्वगात्रमनुलिप्य तेनैव हस्तेन कुब्जस्यामुमार्जनेन विगतकुब्जभावां तां कृत्वा मालाकारापणेभ्यः
 
पुष्पाण्याहृत्यावबध्य धनुःशालाभिमुखो गतः।
राजा- किन्नु खलु तेन व्यवसितम्। तेन हि शीघ्रं गच्छ। भूयो ज्ञायतां वृतान्तः।
भटः- यदाज्ञापयति महाराजः। (निष्क्रम्य प्रविश्य) जयतु महाराजः। धनुःशालारक्षकेण सिंहबलेन वार्यमाणस्तं कर्णमूले प्रहृत्य हत्वा धनुः समादाय द्विखण्डं
कृत्वा साम्प्रतमुपस्थानाभिमुखो गतः। स हि,
आपीडदामशिखिबर्हविचित्रवेषः
पीताम्बरः सजलतोयदराशइवर्णः।
अभ्येति रोषपरिवृत्तविशालनेत्रो
रामेण सार्धमिह मृत्युरिवावतीर्णः ॥ 3 ॥
राजा- सावेगमिव मे हृदयम्। गच्छ, यथानिर्दिष्टौ चाणूरमुष्टिकौ प्रवेशय, वृष्णिकुमाराणां सन्नाहमाज्ञापय।
भटः- यदाज्ञापयति महाराजः। (निष्क्रान्तः।)
राजा- यावदहमपि प्रासादमारुह्य चाणूरमुष्टिकयोर्युद्धं पश्यामि। (आरुह्य) मधुरिके! विगाट्यतां द्वारम्।
प्रतिहारीः जं भट्टा आणवेदि। (यद् भर्ताज्ञापयति।)
(राजा प्रविश्योपविशति।)
(ततः प्रविशतश्चाणूरमुष्टिकौ।)
चाणूरः- एसो म्हि जुद्धसज्जो मत्तो हत्थीव दप्पसम्पुण्णो।
भञ्जेमि अज्ज बाळं दामोदळं ळंगमज्झन्मि ॥ 4 ॥
(एषोऽस्मि युद्धसज्जो मत्तो हस्तीव दर्पसम्पूर्णः।
भनज्म्यद्य बालं दामोदरं रङ्गमध्ये ॥-----(4)
मुष्टिकः- ळोहमयमुट्ठिहत्थो णामेण अ मुट्ठिओ ळुट्ठि।
पादेमि अज्ज ळामं गिळिवळकूटं जहा वज्जो ॥ 5 ॥
(लोहमयमुष्टिहस्तो नाम्ना च मुष्टिको रुष्टः।
पातयाम्यद्य रामं गिरिवरकूटं यथा वज्रः ॥-------- (5)
भटः- एष महाराजः। उपसर्पेतां भवन्तौ।
उभौः- (उपेत्य) जेदु भट्टा। (जयतु भर्ता।)
राजा- चाणूरमुष्टकौ! सर्वप्रयत्नेन युवाभ्यामानृण्यं कर्तव्यम्।
उभौ- सुणादु भट्टा। अड्ढिदकरणसन्धाबन्धप्पहारेहि जुद्धविसेसेहि सिदिं्ध गच्छामो। हं पेक्खदु भट्टा। (श्रृणोतु भर्ता। अट्ठिदकरणसन्धाबन्धप्रहारैर्युद्धविशेषैः
सिदिं्ध गच्छामः। हं पश्यतु भर्ता।)
राजा- बाढमेवं क्रियताम्। ध्रुवसेन! प्रवेश्यतां गोपदारकौ।
भटः- यदाज्ञापयति महाराजः। (निष्क्रान्तः।)
(ततः प्रविशतो दामोदरसङ्कर्षणौ ध्रुवसेनेन सह।)
दामोदरः- आर्य!
मत्र्येषु जन्म विफलं मम तानि घोषे
कर्माणि चाद्य नगरे धृतये न तावत्।
यावन्न कंसहतकं युधि पातयित्वा
जन्मान्तरासुरमहं परिकर्षयामि ॥ 6 ॥
सङ्कर्षणः- प्रविश्य रङ्गं कृतलोहमुÏष्ट
 
तं मुष्टिना मुष्टिकमद्य रुष्टम्।
हत्वा चरिष्याम्यनिलप्रचण्डः
प्रलम्बमम्भोदमिवान्तरिक्षे ॥ 7 ॥
भटः- एष महाराजः। उपसर्पेतां भवन्तौ।
उभौ- आः कस्य महाराजः।
भटः- सर्वस्य जगतोऽस्माकं च।
दामोदरः- अद्यप्रभृति न भविष्यति।
भटः- जयतु महाराजः। एतौ तौ।
राजा- (विलोक्य) अयं स दामोदरः। अहो,
श्रीमान् मदान्धगजधीरविलासगामी
श्यामः स्थिरांसभुजपीनविकृष्टवक्षाः।
पूर्वं श्रुतानि चरितानि न चित्रमस्य
लोकत्रयं हि परिवर्तयितुं समर्थः ॥ 8 ॥
अयं नु ललितगम्भीराकृतिः पूर्वजोऽस्य राम इति श्रूयते।
अभिनवकमलामलायताक्षः
शशिनिभमूर्तिरुदारनीलवासाः।
रजतपरिघवृत्त दीर्घबाहु-
श्चलदसितोत्पल पत्र चित्रमालः ॥ 9 ॥
दामोदरः- आर्य! एतावेवावाभ्यां युद्धसन्नद्धाविति मन्ये।
सङ्कर्षणः- भवितव्यम्।
राजा- ध्रुवसेन! प्रवर्ततां युद्धम्।
भटः- यदाज्ञापयति महाराजः (मालां क्षिपति।)
मल्लौ- अङ्घो! वादेथ वादेथ सङ्खपटहाणि। (अङ्घो! वादयत वादयत सङ्ख्यपटहान्।)
चार्णूः- एहि दामोदळ! अज्ज मे भुजजुअळेहि सिद्धीं गच्छ। (एहि दामोदर! अद्य मे भुजयुगलेन सिदिं्ध गच्छ।)
दामोदरः- प्राप्तोऽस्मि तिष्ठ मम वेगमिमं सहस्व
मुष्टिकः- ए ए ळाम! अज्ज मे मुट्ठिपिट्ठिगत्तगळिअळुहिळपडळमज्जो जीविअं उज्झसि। (ए ए राम! अद्य मे मुष्टिपिष्टगात्रगलितरुधिरपटलमज्जो
जीवितमुज्झसि)
सङ्कर्षणः- त्वामद्य मुष्टक! यमाय निवेदयामि।
(सर्वे नियुद्धं कुर्वन्ति।)
दामोदरः- (चाणूरं निहत्य)
भग्नास्थिरेष निहतो
सङ्कर्षणः- निहतो मयापि
दामोदरः- कंसासुरं च यमलोकमहं नयामि ॥ 10 ॥
(प्रासादमारुह्य कंसं शिरसि निगृह्य पातयित्वा) एष एष दुरात्मा कंसः-
 
विस्तीर्णलोहितमुखः परिवृत्तनेत्रो
भग्नांसकण्ठकटिजानुकरोरुजङ्घः।
विच्छिन्नहारपतिताङ्गदलम्बसूत्रो
वज्रप्रभग्नशिखरः पतितो यथाद्रिः ॥ 11 ॥
(नेपथ्ये)
हा हा महाराजः
(पुनर्नेपथ्ये)
भो भो वृष्णियोधाः! अनावृष्टिशिवकहृदिकपृथुकसोमदत्ताक्रूरप्रमुखाः! अयं खलु भर्तृपिण्डनिष्क्रयस्य कालः। शीघ्रमागच्छन्तु भवन्तः।
दामोदरः- आर्य संवार्यतां सैन्यम्।
सङ्कर्षणः- अयमयं वारयामि।
द्रुततुरगरथेभभ्रान्तयोधोग्रनादं
विलसदमलखड्गप्रासशक्त्यृष्टिकुन्तम्।
पवनबलविकीर्णं फेनजालोर्मिमालं
जलनिधिमिव दोभ्र्यां क्षोभयाम्येष सैन्यम् ॥ 12 ॥
(ततः प्रविशति वसुदेवः।)
वसुदेवः- भो भो मधुरावासिनः। अलमलं साहसेन।
ज्येष्ठोऽयं मम तनयस्तु रौहिणेयो
देवक्यास्तनयमिमं च किं न वित्थ।
सन्नाहं त्यजत किमायुधैश्च कार्यं
कंसार्थं स्वयमिह विष्णुराजगाम ॥ 13 ॥
सङ्कर्षणः- (विलोक्य) अये तातः। तात! सङ्कर्षणोऽहमभिवादये।
दामोदरः- तात! दामोदरोऽहमभिवादये।
वसुदेवः- अक्षयविजयिनौ भवेतां भवन्तौ। सत्पुत्रजन्मफलमद्य प्राप्तवानस्मि।
उभौ- अनुगृहीतौ स्वः।
वसुदेवः- कोऽत्र।
(प्रविश्य)
भटः- जयत्वार्यपुत्रः।
वसुदेवः- अपविध्यन्तां कलेवराणि।
भटः- यदाज्ञापयत्यार्यपुत्रः।
गोपालकाः सर्वे-ही ही गोवाळआणं रज्जं संवुत्तं। (ही ही गोपालकानां राज्यं संवृत्तम्।)
वसुदेवः- कोऽत्र।
भटः- जयत्वार्यपुत्रः।
वसुदेवः- गच्छ, शीघ्रं दामोदरस्यादेशादनावृष्टिमाज्ञापय-महाराजमुग्रसेनमपनी निगलान्निर्वृत्ताभिषेकं कृत्वा प्रवेश्येति।
भटः- यदाज्ञापयत्यार्यपुत्रः। (निष्क्रान्तः।)
वसुदेवः- अये,
नदन्ति सुरतूर्याणि वृष्टचिः पतति कौसुमी।
कंसान्तकस्य पूजार्थं प्रायो देवाः समागताः ॥ 14 ॥
28
(नेपथ्ये)
श्रीमानिमां कनकचित्रितहम्र्यमालां
विस्तीर्णराजभवनापणगोपुराट्टाम्।
पायात् सदैव मधुरां कमलायताक्ष-
स्त्रैलोक्यजित् सुरवरस्त्रिदशेन्द्रनाथः ॥ 14 ॥
वसुदेवः- भो भो मधुरावासिनः! शृण्वन्तु भवन्तः। अस्य खलु दैत्येन्द्रपुरार्गलोत्पाटनपटोः सर्वक्षत्रपराङ्मुखावलोकिनो वसुदेवसम्भवस्य वासुदेवस्य प्रसादात्
पुनरधिगतराज्यस्योग्रसेनस्य शासनमिदानीमवघुष्यते।
सर्वे- प्रतिष्ठितमिदानीं वृष्णिराज्यम्।
वसुदेवः- प्रवेश्यतां महाराजः।
भटः- यदाज्ञापयत्यार्यपुत्रः। (निष्क्रान्तः।)
उग्रसेनः- चिरोपरोधसम्प्राप्तः क्लेशो मे केशिसूदनात् ।
अपनीतः स्ववीर्येण यथा विष्णोः शतक्रतोः ॥ 16 ॥
भगवत्प्रसादाद् व्यसनार्णवादुत्तरितोऽस्मि।
(ततः प्रविशति नारदः।)
नारदः- कंसे प्रमथिते विष्णोः पूजार्थं देवशासनात्।
सगन्धर्वाप्सरोभिश्च देवलोकादिहागतः ॥ 17 ॥
दामोदरः- अये देवर्षिर्नारदः। देवर्षे! स्वागतम्। इदमध्र्यं पाद्यं च।
नारदः- सर्वं गृह्णामि। गन्धर्वाप्सरसो गायन्ति।
नारायण! नमस्तेऽस्तु प्रणमन्ति च देवताः।
अनेनासुरनाशेन मही च परिरक्षिता ॥ 18 ॥
दामोदरः- देवर्षे! परितुष्टोऽस्मि। किं ते भूयः प्रियमुपहरामि।
नारदः- प्रहृष्टो यदि मे विष्णुः सफलो मे परिश्रमः।
गमिष्ये विबुधावासं सह सर्वैः सुरोत्तमैः ॥ 19 ॥
दामोदरः- गच्छतु भवान् पुनर्दर्शनाय ॥
नारदः- यदाज्ञापयति भगवान् नारायणः। (निष्क्रान्तः।)
(भरतवाक्यम्)
इमां सागरपर्यन्तां हिमवद्धिन्ध्यकुण्डलाम्।
महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥ 20 ॥

(निष्क्रान्ताः सर्वे)

पञ्चमोऽङ्कः।

अवसितं बालचरितम्।

"https://sa.wikisource.org/w/index.php?title=बालचरितम्&oldid=130201" इत्यस्माद् पुनः प्राप्तिः