ऊरुभङ्गः

विकिस्रोतः तः
Jump to navigation Jump to search
ऊरुभङ्गः
भासः
ऊरुभङ्गः
भासस्य कृतयः

ऊरुभङ्गम् - पात्राणि[सम्पाद्यताम्]

पुरुषपात्राणि

सूत्रधारः -

पारिपाश्विकः - सूत्रधारस्य सहायकः

त्रयः भटाः

बलदेवः - गदायुद्धे दुर्योधनस्य गुरुः

दुर्योधनः - कुरुराजः

अश्वत्थामा - द्रोणाचार्यस्य पुत्रः

दुर्जयः - दुर्योधनस्य पुत्रः

स्त्रीपात्राणि

गान्धारी - दुर्योधनस्य माता

पौरवी - कुरुराजस्य राणी

मालवी - कुरुराजस्य राणी


ऊरुभङ्गम्[सम्पाद्यताम्]

नान्द्यन्ते ततः प्रविशति सूत्रधारः।)

सूत्रधारः- भीष्मद्रोणतटां जयद्रथजलां गान्धारराजह्रदां

कर्णद्रौणिकृपोर्मिनक्रमकरां दुर्योधनस्त्रोतसम्।

तीर्णः शत्रुनदीं शरासिसिकतां येन प्लवेनार्जुनः

शत्रूणां तरणेषु वः स भगवानस्तु प्लवः केशवः ।। 1 ।।

एवमार्यमिश्रान्विज्ञापयामि। अये किन्नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते! अङ्ग! पश्यामि।

(नेपथ्ये)

एते स्मो भोः! एते स्मः।

(प्रविश्य)

पारिपार्श्विकः- भाव कुतो नु खल्वेते,

स्वर्गार्थमाह्वमुखोद्यतगात्रहोमा

नाराचतोमरशतैर्विषमीकृताङ्गाः

मत्तद्विपेन्द्रदशनोल्लिखितैः शरीरै-

रन्योन्यवीर्यनिकषाः पुरुषा भ्रमन्ति ।। 2 ।।

सूत्रधारः- मारिष! किं नावगच्छसि। तनयशतनयनशून्ये दुर्योधनावशेषे धृतराष्ट्रपक्षे, पाण्डवजनार्दनावशेषे युधिष्ठिरपक्षे, राज्ञां शरीरसमाकीर्णे समन्तपञ्चके,

एतद्रणं हतगजाश्वनरेन्द्रयौधं

सङ्कीर्णलेख्यमिव चित्रपटं प्रविद्धम्।

युद्धे वृकोदरसुयोधनयोः प्रवृत्ते

यौधा नरेन्द्रनिधनैकगृहं प्रविष्टाः ।। 3 ।।

निष्क्रान्तौ)

स्थापना

ततः प्रविशन्ति भटास्त्रयः।)

सर्वे- एते स्मो भोः! एते स्मः।

प्रथमः- वैरस्यायतनं बलस्य निकषं मानप्रतिष्ठागृहं

युद्धेष्वप्सरसां स्वयंवरसभां शौर्यप्रतिष्ठां नृणाम्।

राज्ञां पश्चिमकालवीरशयनं प्राणाग्निहोमक्रतुं

सम्प्राप्ता रणसंज्ञमाश्रमपदं राज्ञां नभः सङ्क्रमम् ।। 4 ।।

द्वितीयः- सम्यग्भवानाह।

उपलविषमा नागेद्राणां शरीरधराधरा

दिशि दिशि कृता गृध्रावासा हतातिरथा रथाः।

अवनिपतयः स्वर्गं प्राप्ताः क्रियामरणे रणे

प्रतिमुखमिमे तत्तत्कृत्वा चिरं निहताहताः ।। 5 ।।

तृतीयः- एवमेतत्।

करिवरकरयूपो बाणविन्यस्तदर्भो

हतगजचयनोच्चो वैरवह्निप्रदीप्तः।

ध्वजविततवितानः सिंहनादोच्चमन्त्रः

पतितपशुमनुष्यः संस्थितो युद्धयज्ञः ।। 6 ।।

प्रथमः- इदमपरं पश्येतां भवन्तौ।

एते परस्परशरैर्हृतजीवितानां

देहै रणाजिरमहीं समुपाश्रितानाम्।

कुर्वन्ति चात्र पिशिताद्र्रमुखा विहङ्गा

राज्ञां शरीरशिथिलानि विभूषणानि ।। 7 ।।

द्वितीयः- प्रसक्तनाराचनिपातपातितः

समग्रयुद्धोद्यतकल्पितो गजः।

विशीर्णवर्मा सशरः सकार्मुको

नृपायुधागारमिवावसीदति ।। 8 ।।

तृतीयः- इदमपरं पश्येतां भवन्तौ।

माल्यैध्र्वजाग्रपतितैः कृतमुण्डमालं

लग्नैकसायकवरं रथिनं विपन्नम्।

जामातरं प्रवहणादिव बन्धुनार्यो

हृष्टाः शिवा रथमुखादवतारयन्ति ।। 9 ।।

सर्वे- अहो नु खलु निहतपतितगजतुरगनररुधिरकलिलभूमिप्रदेशस्य विक्षिप्तवर्मचर्मातपत्रचामरतोमर शरकुन्तकवचकबन्धादिपर्याकुलस्य शक्तिप्रासपरशुभिण्डिपालशूलमुसमुद्करवराहकर्णकणयकर्पण-शङ्कुत्रासिगदादिभिरायुधैरकीर्णस्य समन्तपञ्चकस्य प्रतिभयता।

प्रथमः- इह हि,

रुधिरसरितो निस्तीर्यन्ते हतद्विपसङ्क्रमा

नृपतिरहितैः स्त्रस्तैः सूतैर्वहन्ति रथान् हयाः।

पतितशिरसः पूर्वाभ्यासाद् द्रवन्ति कबन्धकाः

पुरुषरहिता मत्ता नागा भ्रमन्ति यतस्ततः ।। 10 ।।

द्वितीयः- इदमपरं पश्येतां भवन्तौ। एते,

गृध्रा मधूकमुकुलोन्नतपिङ्गलाक्षा

दैत्येन्द्रकुञ्जरनताङ्कुशतीक्ष्णतुण्डाः।

भान्त्यम्बरे विततलम्बविकीर्णपक्षा

मांसैः प्रवालरचिता इव तालवृन्ताः ।। 11 ।।

तृतीयः- एषा निरस्तहयनागनरेन्द्रयोधा

व्यक्तीकृता दिनकरोग्रकरैः समन्तात्।

नाराचकुन्तशरतोमरखङ्गकीर्णा

तारागणं पतितमुद्वहतीव भूमिः ।। 12 ।।

प्रथमः- अहो ईदृश्यामप्यवस्थायामविमुक्तशोभा विराजन्ते क्षत्रियाः। इह हि,

त्रस्तोद्वर्तिनेत्रषट्पदगणा ताम्रोष्ठपत्रोत्करा

भ्रूभेदाञ्चितकेसरा स्वमुकुटव्याविद्धसंवर्तिका।

वीर्यदित्यविबोधिता रणमुखे नाराचनालोन्नता

निष्क्रम्पा स्थलपद्मिनीव रचिता राज्ञामभीतैर्मुखैः ।। 13 ।।

द्वितीयः- ईदृशनामपि क्षत्रियाणां मृत्युः प्रभवतीति न शक्यं खलु विषमस्थैः पुरुषैरात्मबलाधानं कर्तुम्।

तृतीयः- मृत्युरेव प्रभवति क्षत्रियाणामिति।

प्रथमः- कः संशयः।

द्वितीयः- मा मा भवानेवम्

स्पृष्ट्वा खाण्डवधूमरञ्जितगुणं संशप्तकोत्सादनं

स्वर्गाक्रन्दहरं निवातकवचप्राणोपहारं धनुः।

पार्थेनास्त्रबलान्महेश्वररणक्षेपावशिष्टैः शरै-

र्दर्पोत्सिक्तवशा नृपा रणमुखे मृत्योः प्रतिग्राहिता ।। 14 ।।

सर्वे- अये शब्दः।

किं मेघा निनदन्ति वज्रपतनैश्चूर्णीकृताः पर्वता

निर्धातैस्तुमुलस्वनप्रतिभयैः किं दार्यते वा मही।

किं मुञ्चत्यनिलावधूतचपलक्षुब्धोर्मिमालाकुलं

शब्दं मन्दरकन्दरोदरदरीः संहत्य वा सागरः ।। 15 ।।

भवतु, पश्यामस्तावत्। (सर्वे परिक्रामन्ति।)

प्रथमः- अये एतत्खलु द्रौपदीकेशधर्षणावमर्षितस्य पाण्डवमध्यमस्य भीमसेनस्य भ्रातृशतवधक्रुद्धस्य महाराजदुर्योधनस्य च द्वैपायनहलायुधकृष्णविदुरप्रमुखानां कुरुयदुकुलदैवतानां प्रत्यक्षं प्रवृत्तं गदायुद्धम्।

द्वितीयः- भीमस्योरसि चारुकाञ्चनशिलापीने प्रतिस्फालिते

भिन्ने वासवहस्तिहस्तकठिने दुर्योधनांसस्थले

अन्योन्यस्य भुजद्वयान्तरतटेष्वासज्यमानायुधे

यÏस्मश्चण्डगदाभिघातजनितः शब्दः समुत्तिष्ठति ।। 16 ।।

तृतीयः- एष महाराजः,

शीर्षात्कम्पनवल्गमानमकुटः कोधाग्निकाक्षाननः

स्थानाक्रामणवामनीकृततनुः प्रत्यग्रहस्तोच्छ्रयः।

यस्यैषा रिपुशोणिताद्र्रकलिला भात्यग्रहस्ते गदा

कैलासस्य गिरेरिवाग्ररचिता सोल्का महेन्द्राशनिः ।। 17 ।।

प्रथमः- एष सम्प्रहाररुधिरसिक्ताङ्गस्तावद्दृश्यतां पाण्डवः।

निर्भिन्नाग्रललाटवान्तरुधिरो भग्नांसकूटद्वयः

सान्द्रैर्निर्गलितप्रहाररुधिरैराद्र्रीकृतोरः स्थलः।

भीमो भाति गदाभिघातरुधिरक्लिन्नावगाढव्रणः

शैलो मेरुरिवैष धातुसलिलासारोपदिग्धोपलः ।। 18 ।।

द्वितीयः- भीमां गदां क्षिपति गर्जति वल्गमानः

शीघ्रं भुजं हरति तस्य कृतं भिनत्ति।

चारीं गतिं प्रचरति प्रहरत्यभीक्ष्णं

शिक्षान्वितो नरपतिर्बलवांस्तु भीमः ।। 19 ।।

तृतीयः- एष वृकोदरः,

शिरसि गुरुनिखातस्त्रस्तरक्ताद्र्रगात्रो

धरणिधरनिकाशः संयुगेष्वप्रमेयः।

प्रविशति गिरिराजो मेदिनीं वज्रदग्धः

शिथिलविसृतधातुर्हेमकूटो यथाद्रिः ।। 20 ।।

प्रथमः- एष गाढप्रहारशिथिलीकृताङ्गं निपतन्तं भीमसेनं दृष्ट्वा,

एकाग्राङ्गुलिधारितोन्नतमुखो व्यासः स्थितो विस्मितः


द्वितीयः- दैन्यं याति युधिष्ठिरोऽत्र विदुरो बाष्पाकुलाक्षः स्थितः।

तृतीयः- स्पृष्टं गाण्डिवमर्जुनेन गगनं कृष्णः समुद्वीक्षते

सर्वे- शिष्यप्रीततया हलं भ्रमयते रामो रणप्रेक्षकः ।। 21 ।।

प्रथमः- एष महाराजः,

वीर्यालयो विविधरत्नविचित्रमौलि-

र्युक्तोऽभिमानविनयद्युतिसाहसैश्च।

वाक्यं वदत्युपहसन्नतु भीम! दीनं

वीरो निहन्ति समरेषु भयं त्यजेति ।। 22 ।।

द्वितीयः- एष इदानीमपहास्यमानं भीमसेनं दृष्ट्वा स्वमूरुमभिहत्य कामपि संज्ञां प्रयच्छति जनार्दनः।

तृतीयः- एष संज्ञया समाश्वासितो मारुतिः,

संहृत्य भ्रुकुटीर्ललाटविवरे स्वेदं करेणाक्षिपन्

बाहुभ्यां परिगृह्य भीमवदनश्चित्राङ्गदां स्वां गदाम्।

पुत्रं दीनमुदीक्ष्य सर्वगतिना लब्ध्वेव दत्तं बलं

गर्जन् सिंहवृषेक्षणः क्षितितलाद्भूयः समुत्तिष्ठति ।। 23 ।।

प्रथमः- हन्त पुनः प्रवृत्तं गदायुद्धम्। अनेन हि,

भूमौ पाणितले निघृष्य तरसा बाहू प्रमृज्याधिकं

सन्दष्टोष्ठपुटेन विक्रमबलात् क्रोधाधिकं गर्जता।

त्यक्त्वा धर्मघृणां विहाय समयं कृष्णस्य संज्ञासमं

गान्धारीतनयस्य पाण्डुतनयेनोर्वोर्विमुक्ता गदा ।। 24 ।।

सर्वे- हा धिक् पतितो महाराजः।

तृतीयः- एष रुधिरपतनद्योतिताङ्गं निपतन्तं कुरुराजं दृष्ट्वा खमुत्पतितो भगवान् द्वैपायनः। य एषः,

हेलासंवृतलोचनेन हलिना नेत्रोपरोधः कृतः

दृष्ट्वा क्रोधनिमीलतं हलधरं दुर्योधनापेक्षया।

सम्भ्रान्तैः करपञ्चरान्तरगतो द्रैपायनज्ञापितो

भीमः कृष्णभुजावलम्बितगतिर्निर्वाह्यते पाण्डवैः ।। 25 ।।

प्रथमः- अये अयमप्यमर्षोन्मीलितरभसलोचनो भीमसेनापक्रमणमुद्वीक्षमाणः इत एवाभिवर्तते भगवान् हलायुधः। य एषः,

चलविलुलितमौलिः क्रोधताम्रायताक्षो

भ्रमरमुखविदष्टां किंचिदुत्कृष्ट मालाम् ।

असिततनुविलम्बिस्त्रस्तवस्त्रानुकर्षी

क्षितितलमवतीर्णः पारिवेषीव चन्द्रः ।। 26 ।।

द्वितीयः- तदागम्यतां वयमपि तावन्महाराजस्य प्रत्यनन्तरीभवामः।

उभौ- बाढम्। प्रथमः कल्पः।

(निष्क्रान्ताः।)

विष्कम्भकः।

ततः प्रविशति बलदेवः।)

बलदेवः- भो भोः पार्थिवाः! न युक्तमिदम्।

मम रिपुबलकालं लाङ्गलं लङ्घयित्वा

रणकृतमतिसÏन्ध मां च नावेक्ष्य दर्पात्।

रणशिरसि गदां तां तेन दुर्योधनोर्वोः

कुलविनयसमृद्ध्या पातितः पातयित्वा ।। 27 ।।

भो दुर्योधन! मुहूर्तं तावदात्मा धार्यताम्।

सौभोच्छिष्टमुखं महासुरपुरप्राकारकूटाङ्कुशं

कालिन्दीजलदेशिकं रिपुबलप्राणोपहारर्चितम्।

हस्तोत्क्षिप्तहलं करोमि रुधिरस्वेदाद्र्रपङ्कोत्तरे

भीमस्योरसि यावदद्य विपुले केदारमार्गाकुलम् ।। 28 ।।

नेपथ्ये)

प्रसीदतु प्रसीदतु भगवान् हलायुधः।

बलदेवः- अये एवं गतोऽप्यनुगच्छति मां तपस्वी दुर्योधनः। य एषः,

श्रीमान् संयुगचन्दनेन रुधिरेणाद्र्रानुलिप्तच्छवि-

र्भूसंसर्पणरेणुपाटलभुजो बालव्रतं ग्राहितः।

निर्वृत्तेऽमृतमन्थने क्षितिधरान्मुक्तः सुरैः सासुरै-

राकर्षन्निव भोगमर्णवजले श्रान्तोज्झितो वासुकिः ।। 29 ।।

ततः प्रविशति भग्नोरुयुगलो दुर्योधनः।)

दुर्योधनः- एष भोः!

भीमेन भित्वा समयव्यवस्थां

गदाभिघातक्षतजर्जरोरुः।

भूमौ भुजाभ्यां परिकृष्यमाणं

स्वं देहमर्धोपरतं वहामि ।। 30 ।।

प्रसीदतु प्रसीदतु भगवान् हलायुधः।

त्वत्पादयोर्निपतितं पतितस्य भूमा-

वेतच्छिरः प्रथममद्य विमुञ्च रोषम्।

जीवन्तु ते कुरुकुलस्य निवापमेघा

वैरं च विग्रहकथाश्च वयं च नष्टाः ।। 31 ।।

बलदेवः- भोः दुर्योधन! मुहूर्तं तावदात्मा धार्यताम्।

दुर्योधनः- किं भवान्करिष्यति।

बलदेवः- भो श्रूयताम्,

आक्षिप्तलाङ्गलमुखोल्लिखितैः शरीरै-

र्निर्दारितांसहृदयान्मुसलप्रहारैः।

दास्यामि संयुगहतान्सरथाश्वनागान्

स्वर्गानुयात्रपुरुषांस्तव पाण्डुपुत्रान् ।। 32 ।।

दुर्योधनः- मा मा भवानेवम्।

प्रतिज्ञावसिते भीमे गते भ्रातृशते दिवम्।

मयि चैवं गते राम! विग्रहः किं करिष्यति।। 33 ।।

बलदेवः- मत्प्रत्यक्षं वञ्चितो भवानित्युत्पन्नो मे रोषः।

दुर्योधनः- वञ्चित इति मां भवान् मन्यते।

बलदेवः- कः संशयः।

दुर्योधनः- हन्त भो! दत्तमूल्या इव मे प्राणाः। कुतः

आदीप्तानलदारुणाज्जतुगृहाद्बुध्यात्मनिर्वाहिणा

युद्धे वैश्रवणालयेऽचलशिलावेगप्रतिस्फालिना।

भीमेनाद्य हिडिम्बराक्षसपतिप्राणप्रातिग्राहिणा

यद्येवं समवैषि मां छलजितं भो राम! नाहं जितः ।। 34 ।।

बलदेवः- भीमसेन इदानीं तव युद्धवञ्चनामुत्पाद्य स्थास्यति।

दुर्योधनः- किं चाहं भीमसेनेन वञ्चितः।

बलदेवः- अथ केन भवानेवंविधः कृतः।

दुर्योधनः- श्रूयताम्,

येनेन्द्रस्य स परिजातकतरुर्मानेन तुल्यं हृतो

दिव्यं वर्षसहस्रमर्णवजले सुप्तश्च यो लीलया।

तीव्रां भीमगदां प्रविश्य सहसा निव्र्याजयुद्धाप्रिय-

स्तेनाहं जगतः प्रियेण हरिणा मृत्योः प्रतिग्राहितः ।। 35 ।।

नेपथ्ये)

उस्सरह उस्सरह अय्या! उस्सरह। (उत्सरतोत्सरतार्याः! उत्सरत।)

बलदेवः- (विलोक्य) अये अयमत्रभवान् धृतराष्ट्रः गान्धारी च दुर्जयेनादेशितमार्गोऽन्तःपुरानुबन्धः शोकाभिभूतहृदयश्चकितगतिरित एवाभिवर्तते। य एषः,

वीर्याकरः सुतशतप्रविभक्तचक्षु-

र्दर्पोद्यतः कनकयूपविलम्बबाहुः।

सृष्टो ध्रुवं त्रिदिवरक्षणजातशङ्कै-

दैवैररातितिमिराञ्जलिताडिताक्षः ।। 36 ।।

(ततः प्रविशति धृतराष्ट्रो गान्धारी देव्यौ दुर्जयश्च।)

धृतराष्ट्रः- पुत्र क्वासि।

गान्धारी- पुत्तअ! कहिं सि। (पुत्रक! क्वासि।)

देव्यौ- महाराज! कहिं सि। (महाराज! क्वासि।)

धृतराष्ट्रः- भोः! कष्टम्।

वञ्चनानिहतं श्रुत्वा सुतमद्याहवे मम।

मुखमन्तर्गतास्राक्षमन्धमन्धतरं कृतम् ।। 37 ।।

गान्धारि! किं धरसे।

गान्धारी- जीवाविदम्हि मन्दभाआ। (जीवितास्मि मन्दभागा।)

देव्यौ- महाराअ! महाराअ! (महाराज! महाराज!)

राजा- भोः! कष्टम्। यन्ममापि स्त्रियो रुदन्ति।

पूर्वं न जानामि गदभिघात-

रुजामिदानीं तु समर्थयामि।

यन्मे प्रकाशीकृतमूर्धजानि

रणं प्रविष्टान्यवरोधनानि ।। 38 ।।

धृतराष्ट्रः- गान्धारि! किं दृश्यते दुर्योधननामधेयः कुलमानी।

गान्धारी- महाराअ! ण दिस्सदि। (महाराज! न दृश्यते।)

धृतराष्ट्रः- कथं न दृश्यते। हन्तभो! अद्यास्म्यहमन्धो योऽहमन्वेष्टव्ये काले पुत्रं न पश्यामि। भोः कृतान्तहतक!

रिपुसमरविमर्दं मानवीर्यप्रदीप्तं

सुतशतमतिधीरं वीरमुत्पाद्य मानी।

धरणितलविकीर्णं किं स योग्यो न भोक्तुं

सकृदपि धृतराष्ट्रः पुत्रदत्तं निवापम् ।। 39 ।।

गान्धारी- जाद सुयोधण! देहि मे पडिवअणं। पुत्तसदविणास दुत्थिदं समस्सासेहि महाराअं। (जात सुयोधन। देहि मे प्रतिवचनम्। पुत्रशतविनाशदुः स्थितं समाश्वासय महाराजम्।)

बलदेवः- अये। इयमत्रभवती गान्धारी।

या पुत्रपौत्रवदनेष्वकुतूहलाक्षी

दुर्योधनास्तमितशोकनिपीतधैर्या।

अस्त्रैरजस्रमधुना पतिधर्मचिह्न-

माद्र्रीकृतं नयनबन्धमिदं दधाति ।। 40 ।।

धृतराष्ट्रः- पुत्र दुर्योधन! अष्टादशाक्षौहिणीमहाराज! क्वासि।

राजा- अद्यास्मि महाराजः।

धृतराष्ट्रः- एहि पुत्रशतज्येष्ठ। देहि मे प्रतिवचनम्।

राजा- ददामि खलु प्रतिवचनम्। अनेन वृत्तान्तेन व्रीलितोऽस्मि।

धृतराष्ट्रः- एहि पुत्र! अभिवादयस्व माम्।

राजा- अयमयमागच्छामि। (उत्थानं रूपयित्वा पतति) हा धिक्। अयं मे द्वितीयः प्रहारः। कष्टं भोः!

हृतं मे भीमसेनेन गदापातकचग्रहे।

सममूरुद्वयेनाद्य गुरोः पादाभिवन्दनम् ।। 41 ।।

गान्धारी- एत्थ जादा!। (अत्र जाते!)

देव्यौ- अय्ये! इमा म्ह। (आर्ये! इमे स्वः।)

गान्धारी- अण्णेसह भत्तारं। (अन्वेषेथां भर्तारम्।)

देव्यौ- गच्छाम मन्दभाआ। (गच्छावः मन्दभागे।)

धृतराष्ट्रः- क एष भोः! मम वस्त्रान्तमाकर्षन् मार्गमादेशयति।

दुर्जयः- ताद! अहं दुज्जओ। (तात! अहं दुर्जयः।)

धृतराष्ट्रः- पौत्र दुर्जय! पितरमन्विच्छ।

दुर्जयः- ताद! परिस्संतो खु अहं। (तात! परिश्रान्तः खल्वहम्।)

धृतराष्ट्रः- गच्छ, पितुरङ्के विश्रमस्व।

दुर्जयः- ताद! अहं गच्छामि। (उपसृत्य) ताद! कहिं सि। (तात! अहं गच्छामि। तात क्वासि।)

राजा- अयमप्यागतः। भोः! सर्वावस्थायां हृदयसनिहितः पुत्रस्नेहो मां दहति। कुतः,

दुःखानामनभिज्ञो यो ममाङ्कशयनोचितः।

निर्जितं दुर्जयो दृष्ट्वा किन्नु मामभिधास्यति ।। 42 ।।

दुर्जयः- अअं महाराओ भूमीए उवविट्ठो। (अयं महाराजो भूम्यामुपविष्टः।

राजा- पुत्र किमर्थमिहागतः।

दुर्जयः- तुवं चिरायसि त्ति। (त्वं चिरायसीति।)

राजा- अहो अस्यागवस्थायापपि पुत्रस्नेहो हृदयं दहति।

दुर्जयः- अहं पि खु दे अङ्केउवविसामि। (अङ्कमारोहति) अहमपि खलु ते अङ्केउपविशामि।)

राजा- (निवार्य) दुर्जय! दुर्जय! भोः! कष्टम्।

हृदयप्रीतिजननो यो मे नेत्रोत्सवः स्वयम्।

सोऽयं कालविपर्यासाच्चन्द्रो वह्नित्वमागतः ।। 43 ।।

दुर्जयः- अङ्के उववेसं किण्णिमित्तं तुवं वारेसि। (अङ्क उपवेशं किन्निमित्तं त्वं वारयसि।)

राजा- त्यक्त्वा परिचितं पुत्र! यत्र तत्र त्वयास्यताम्।

अद्यप्रभृति नास्तीदं पूर्वभुक्तं तवासनम् ।। 44 ।।

दुर्जयः- कहि णु हु महाराओ गमिस्सिदि। (कुत्र नु खलु महाराजो गमिष्यति।)

राजा- भ्रातृशतमनुगच्छामि।

दुर्जयः- मं पि तहि णेहि। (मामपि तत्र नय।)

राजा- गच्छ पुत्र! एवं वृकोदरं ब्रूहि।

दुर्जयः- एहि महाराअ! अण्णेसीअसि। (एहि महाराज! अन्विष्यसे।)

राजा- पुत्र केन।

दुर्जयः- अय्याए अय्येण सव्वेण अन्तेउरेण अ। (आर्ययार्येण सर्वेणान्तः पुरेण च।)

राजा- गच्छ पुत्र! नाहमागन्तुं समर्थः।

दुर्जयः- अहं तुमं णइस्सं। (अहं त्वां नेष्यामि।)

राजा- बालस्तावदसि पुत्र।

दुर्जयः- (परिक्रम्य) अय्या! अअं महाराओ। (आर्याः! अयं महाराजः)

देव्यौ- हा हा! महाराओ! (हा हा! महाराजः।)

धृतराष्ट्रः- क्वासौ महाराजः।

गान्धारी- कहिं मे पुत्तओ। (कुत्र मे पुत्रकः।)

दुर्जयः- अअं महाराओ भूमीएउवविट्ठो (अयं महाराजो भूम्यामुपविष्टः।)

धृतराष्ट्रः- हन्त भोः! किमयं महाराजः।

यः काञ्चनस्तम्भसमप्रमाणो

लोके किलैको वसुधाधिपेन्द्रः।

कृतः स मे भूमिगतस्तपस्वी

द्वारेन्द्रकीलार्धसमप्रमाणः ।। 45 ।।

गान्धारी- जाद सुयोधण! परिस्संतोसि। (जात सुयोधन! परिश्रान्तोऽसि।)

राजा- भवत्याः खल्वहं पुत्रः।

धृतराष्ट्रः- केयं भोः!।

गान्धारी- महाराज! अहमभीदपुत्तप्पसविणी। (महाराज! अहमभीतपुत्र प्रसविनी।)

राजा- अद्योत्पन्नमिवात्मानमवगच्छामि। भोस्तात किमिदानीं वैक्लव्येन।

धृतराष्ट्रः- पुत्र कथमविक्लवो भविष्यामि।

यस्य वीर्यबलोत्सिक्तं संयुगाध्वरदीक्षितम्।

पूर्वं भ्रातृशतं नष्टं त्वय्येकस्मिन्हते हतम् ।। 46 ।।

पतति।)

राजा- हा धिक्। पतितोऽत्रभवान्। तात! समाश्वसयात्रभवतीम्।

धृतराष्ट्रः- पुत्र! किमिति समाश्वसयामि।

राजा- अपराङ्मुखो युधि हत इति। भोस्तात! शोकनिग्रहेण क्रियतां ममानुग्रहः।

त्वत्पादमात्रप्रणताग्रमौलि-

ज्र्वलन्तमप्यग्निमचिन्तयित्वा।

येनैव मानेन समं प्रसूत

स्तेनैव मानेन दिवं प्रयामि ।। 47 ।।

धृतराष्ट्रः- वृद्धस्य मे जीवितनिः स्पृहस्य

निसर्गसंमीलितलोचनस्य।

धृतिं निगृह्यात्मनि सम्प्रवृत्त

स्तीव्रस्समाक्रामति पुत्रशोकः ।। 48 ।।

बलदेवः- भोः! कष्टम्।

दुर्योधननिराशस्य नित्यास्तमितचक्षुषः।

न शक्नोम्यत्रभवतः कर्तुमात्मनिवेदनम् ।। 49 ।।

राजा- विज्ञापयाम्यत्रभवतीम्।

गान्धारी- भणाहि जाद!। (भण जात!)

राजा- नमस्कृत्य वदामि त्वां यदि पुण्यं मया कृतम् ।

अन्यस्यामपि जात्यां मे त्वमेव जननी भव ।। 50 ।।

गान्धारी- मम मणोरहो खु तुए भणिदो। (मम मनोरथः खलु त्वया भणितः।)

राजा- मालवि! त्वमपि श्रृणु।

भिन्ना मे भ्रुकुटी गदानिपतितैव्र्यायुद्धकालोत्थितै-

र्वक्षस्युत्पतितैः प्रहाररुधिरैर्हारावकाशो हृतः।

पश्येमौ व्रणकाञ्चनाङ्गदधरौ पर्याप्तशोभौ भुजौ

भर्ता ते न पराङ्मुखो युधि हतः किं क्षत्रिये रोदिषि ।। 51 ।।

देवी- बाला एसा सहधर्म चारिणो रोदामि। (बाला एषा सहधर्मचारिणी रोदिमि।)

राजा- पौरवि! त्वमपि श्रृणु।

वेदोक्तैर्विविधैर्मखैरभिमतैरिष्टं धृता बान्धवाः

शत्रूणामुपरि स्थितं प्रियशतं न व्यंसिताः संश्रिताः।

युद्धेऽष्टादशवाहिनीनृपतयः संतापिता निग्रहे

मानं मानिनि! वीक्ष्य मे न हि रुदन्त्येवंविधानां स्त्रियः ।। 52 ।।

पौरवी- एक्ककिदप्पवेसणिच्चआ ण रोदामि। (एककृतप्रवेशनिश्चया न रोदिमि।)

राजा- दर्जय! त्वमपि श्रृणु।

धृतराष्ट्रः- गान्धारि! किं नु खलु वक्ष्यति।

गान्धारी- अहं पि तं एव्व चिन्तेमि। (अहमपि तदेव चिन्तयामि।)

राजा- अहमिव पाण्डवाः शुश्रूषयितव्याः, तत्रभवत्याश्चम्बायाः कुन्त्या निदेशो वर्तयितव्यः। अभिमन्योर्जननी द्रौपदी चोभे मातृवत्पूजयितव्ये। पश्य पुत्र!

श्लाघ्यश्रीरभिमानदीप्तहृदयो दुर्योधनो मे पिता

तुल्येनाभिमुखं रणे हत इति त्वं शोकमेवं त्यज।

स्पृष्ट्वा चैव युधिष्ठिरस्य विपुलं क्षौमापसव्यं भुजं

देयं पाण्डुसुतैस्त्वया मम समं नामावसाने जलम् ।। 53 ।।

बलदेवः- अहो वैरं पश्चात्तापः संवृत्तः। अये शब्द इव।

सन्नाहदुन्दुभिनिनादवियोगमूके

विक्षिप्तबाणकवचव्यजनातपत्रे।

कस्यैष कार्मुकरवो हतसूतयोधे

विभ्रान्तवायसगणं गगनं करोति ।। 54 ।।

नेपथ्ये)

दुर्योधनेनाततकार्मुकेण यो युद्धयज्ञः सहितः प्रविष्टः ।

तमेव भूयः प्रविशामि शून्यमध्वर्युणा वृत्तमिवाश्वमेधम् ।। 55 ।।

बलदेवः- अये अयं गुरुपुत्रोऽश्वत्थामेत एवाभिवर्तते। य एषः,

स्फुटितकमलपत्रस्पष्टविस्तीर्णदृष्टी

रुचिरकनकयूपव्यायतालम्बबाहुः।

सरभसमयमुग्रं कार्मुकं कर्षमाणः

सदहन इव मेरुः शृङ्गलग्नेन्द्रचापः ।। 56 ।।

(ततः प्रविशत्यश्वत्थामा।)

अश्वत्थामा- (पूर्वोक्तमेव पठित्वा) भो भोः! समरसंरभोभयबलजलधिसङ्गमसमयसमुत्थितशस्त्रनक्रकृत्तविग्रहाः स्तोकावशेषाः श्वासानुबद्धमन्दप्राणाः समरश्लाधिनो राजानः! शृण्वन्तु शृण्वतु भवन्तः।

छलबलदलितोरुः कौरवन्द्रो न चाहं

शिथिलविफलशस्त्रः सूतपुत्रो न चाहम्।

इह तु विजयभूमौ द्रष्टुमद्योद्यतास्त्रः

सरभसमहमेको द्रोणपुत्रः स्थितोऽस्मि ।। 57 ।।

किमनया ममाप्यप्रतिलाभविजयश्लाघया समरश्रिया। (परिक्रम्य)

मा तावत्। मयि गुरुनिवपनव्यग्रे वञ्चितः किल कुरुकुलतिलकभूतः कुरुराजः। क एतच्छ्रद्धास्यति। कुतः,

उद्यत्प्राञ्जलयो रथद्विपगताश्चापद्वितीयैः करै-

र्यस्यैकादशवाहिनीनृपतयस्तिष्ठन्ति वाक्योन्मुखाः।

भीष्मो रामशरावलीढकवचस्तातश्च योद्धा रणे

व्यक्तं निर्जित एव सोऽप्यतिरथः कालेन दुर्योधनः ।। 58 ।।

तत् क्व नु खलु गतो गान्धारीपुत्रः। (परिक्रम्यावलोक्य) अये अयमभिहतगजतुरगनररथ-प्राकारमध्यगतः समरपयोधिपारगः कुरुराजः। य एषः,

मौलीनिपातचलकेशमयूखजालै-

र्गात्रैर्गदानिपतनक्षतशोणिताद्र्रैः।

भात्यस्तमस्तकशिलातलसंनिविष्टः

सन्ध्यावगाढ इव पश्चिमकालसूर्यः ।। 59 ।।

(उपसृत्य) भोः कुरुराज! किमिदम्।

राजा- गुरुपुत्र! फलमपरितोषस्य ।

अश्वत्थामा- भोः कुरुराज! सत्कारमूलमावर्जयिष्यामि।

राजा- किं भवान् करिष्यति।

अश्वत्थामा- श्रूयताम्।

युद्धोद्यतं गरुडपृष्ठनिविष्टदेह-

मष्टार्धभीमभुजमुद्यतशाङ्र्गचक्रम्।

कृष्णं सपाण्डुतनयं युधि शस्त्रजालैः

संकीर्णलेख्यमिव चित्रपटं क्षिपामि ।। 60 ।।

राजा- मा मा भवानेवम्।

गतं धात्र्युत्संगे सकलमभिषिक्तं नृपकुलं

गतः कर्णः स्वर्गं निपतितनुः शन्तनुसुतः।

गतं भ्रातृणां मे शतमभिमुखं संयुगमुखे

वयं चैवंभूता गुरुसुत! धनुर्मुञ्चतु भवान् ।। 61 ।।

अश्वत्थामा- भोः कुरुराज!

संयुगे पाण्डुपुत्रेण गदापातकचग्रहे।

सममूरुद्वयेनाद्य दर्पोऽपि भवतो हृतः ।। 62 ।।

राजा- मा मैवम्। मानशरीरा राजानः। मानार्थमेव मया निग्रहो गृहीतः। पश्य गुरुपुत्र!

यत्कृष्टा करनिग्रहाञ्चितकचा द्यूते तदा द्रौपदी

यद्बालोऽपि हतस्तदा रणमुखे पुत्रोऽभिमन्युः पुनः।

अक्षव्याजजिता वनं वनमृगैर्यत्पाण्डवाः संश्रिता

नन्वल्पं मयि तैः कृतं विमृश भो! दर्पाहृतं दीक्षितैः ।। 63 ।।

अश्वत्थामाः- सर्वथा कृतप्रतिज्ञोऽस्मि

भवता चात्मना चैव वीरलौकैः शपाम्यहम्।

निशासमरमुत्पाद्य रणे धक्ष्यामि पाण्डवान् ।। 64 ।।

बलदेवः- एतद् भविष्यत्युदाहृतं गुरुपुत्रेण।

अश्वत्थामा- हलायुधोऽत्रभवान्।

धृतराष्ट्रः- हन्त! साक्षिमती खलु वञ्चना।

अश्वत्थामा- दुर्जय! इतस्तावत्।

पितृविक्रमदायाद्ये राज्ये भुजबलार्जिते।

विनाभिषेकं राजा त्वं विप्रोक्तैर्वचनैर्भव ।। 65 ।।

राजा- हन्त! कृतं मे हृदयानुज्ञातम्। परित्यजन्तीव मे प्राणाः। इमेऽत्रभवन्तः शन्तनुप्रभृतयो मे पितृपितामहाः। एतत्कर्णमग्रतः कृत्वा समुत्थितं भ्रातृशतम्। अयमप्यैरावतशिरोविषक्तः काकपक्षधरोमहेन्द्र-करतलमवलम्ब्य क्रुद्धोऽभिभाषते मामभिमन्यः। उर्वश्यादयोऽप्सरसो मामभिगताः। इमे महार्णवा मूर्तिमन्तः। एता गङ्गाप्रभृतयो महानद्यः। एष सहस्रहंसप्रयुक्तो मां नेतुं वीरवाहि विमानः कालेन प्रेषितः। अयमयमागच्छामि।

(स्वर्गं गतः।)

(यवनिकास्तरणं करोति।)

धृतराष्ट्रः- याम्येष सज्जनधनानि तपोवनानि

पुत्रप्रणाशविफलं हि धिगस्तु राज्यम्।

अश्वत्थामा- यातोऽद्य सौप्तिकवधोद्यतबाणपाणिः

(भरतवाक्यम्)

बलदेवः- गां पातु नो नरपतिः शमितारिपक्षः ।। 66 ।।

(निष्क्रान्ताः सर्वे।)

ऊरुभङ्गं नाम नाटकं समाप्तम्

"https://sa.wikisource.org/w/index.php?title=ऊरुभङ्गः&oldid=36961" इत्यस्माद् पुनः प्राप्तिः