दूतवाक्यम्

विकिस्रोतः तः
Jump to navigation Jump to search
दूतवाक्यम्
भासः
दूतवाक्यम्
भासस्य कृतयः

पात्राणि[सम्पाद्यताम्]

सूत्रधारः -

काञ्चुकीयः -

दुर्योधन: - कौरवाणां ज्येष्ठः।

वासुदेव: - पाण्डवानां दूतः

धृतराष्ट्रः - कौरवाणां पिता

सुदर्शनः

शाङ्र्म् - वासुदेवस्य आयुधानि।

नन्दकः

पाञ्चजन्यः - वासुदेवस्य शङ्खः

गरुडः - वासुदेवस्य वाहनम्

नाटकम्[सम्पाद्यताम्]

स्थापना

(नान्द्यन्ते ततः प्रविशति सूत्रधारः।)

सूत्रधारः- पादः पायादुपेन्द्रस्य सर्वलोकोत्सवः स वः।

व्याविद्धो नमुचिर्येन तनुताम्रनखेन खे ।। 1 ।।

नेपथ्ये)

भो भोः प्रतिहाराधिकृताः! महाराजो दुर्योधनः समाज्ञापयति।

सूत्रधारः- भवतु, विज्ञातम्।

उत्पन्ने धार्तराष्ट्राणां विरोधे पाण्डवैः सह।

मन्त्रशालां रचयति भृत्यो दुर्योधनाज्ञया ।। 2 ।।

निष्क्रान्तः।)

स्थापना।

ततः प्रविशति काञ्चुकीयः)

काञ्चुकीयः- भो भोः प्रतिहाराधिकृताः! महाराजो दुर्योधनः समाज्ञापयति-अद्य सर्वपार्थिवैः सह मन्त्रयितुमिच्छामि। तदाहूयन्तां सर्वे राजान इति। (परिक्रम्यावलोक्य)

अये अयं महाराजो दुर्योधन इत एवाभिवर्तते। य एषः,

श्यामो युवा सितदुकूलकृतोत्तरीयः

सच्छत्रचामरवरो रचिताङ्गरागः।

श्रीमान् विभूषणमणिद्युतिरञ्चिताङ्गो

नक्षत्रमध्य इव पर्वगतः शशाङ्कः ।। 3 ।।

(ततः प्रविशति यथानिर्दिष्टो दुर्योधनः।)

दुर्योधनः- उद्धूतरोषमिव मे हृदयं सहर्षं

प्राप्तं रणोत्सवमिमं सहसा विचिन्त्य।

इच्छामि पाण्डवबले वरवारणाना

मुत्कृत्तदन्तमुसलानि मुखानि कर्तुम् ।। 4 ।।

काञ्चुकीयः- जयतु महाराजः। महाराजशासनात् समानीतं सर्वराजमण्डलम्।

दुर्योधनः- सम्यक् कृतम्। प्रविश त्वमवरोधनम्।

काञ्चुकीयः- यदाज्ञापयति महाराजः। (निष्क्रान्तः)

दुर्योधनः- आर्यौ वैकर्णवर्षदेवौ! उच्यताम्-अस्ति ममैकादशाक्षौहिणीबलसमुदयः। अस्य कः सेनापतिर्भवितुमर्हति। किं किमाहतुर्भवन्तौ-महान् खल्वयमर्थः। मन्त्रयित्वा वक्तव्यमिति। सदृशमेतत्। तदागम्यतां मम्त्रशालामेव प्रविशामः। आचार्य अभिवादये। प्रविशतु भवान् मन्त्रशालाम्। मातुल! अभिवादये। प्रविशतु भवान् मन्त्रशालाम्। आर्यौ वैकर्णवर्षदेवौ! प्रविशतां भवन्तौ। भो भोः सर्वक्षत्रियाः! स्वैरं प्रविशन्तु भवन्तः। वयस्य! कर्ण! प्रविशामस्तावत्।

प्रविश्य)
 
आचार्य! एतत् कूर्मासनम्, आस्यताम्। पितामह! एतत् सिंहासनम्, आस्यताम्। मातुल! एतच्चर्मासनम्, आस्यताम्। आर्यौ वैकर्णवर्षदेवौ!
आसातां भवन्तौ। भो भोः सर्वक्षत्रियाः! स्वैरमासतां भवन्तः। किमिति महाराजो नास्त इति। अहो सेवाधर्मः। नन्वयमहमासे। वयस्य कर्ण!
त्वमप्यास्स्व। (उपविश्य) आर्यौ वैकर्णवर्षदेवौ! अस्य कः सेनापतिर्भवितुमर्हतीति। किमाहतुर्भवन्तौअत्रभवान् गान्धारराजो वक्ष्यतीति।
भवतु, मातुलेनाभिधीयताम्। किमाह मातुलः- अत्रभवति गाङ्गेये स्थिते कोऽन्यः सेनापतिर्भवितुमर्हतीति। सम्यगाह मातुलः। भवतु भवतु,
पितामह एव भवतु। वयमप्येतदभिलषामः।

सेनानिनादपटहस्वनशङ्खनादै-

श्चण्डानिलाहतमहोदधिनादकल्पैः।

गाङ्गेयमूÐध्न पतितैरभिषेकतोयैः

सार्धं पतन्तु हृदयानि नराधिपानाम् ।। 5 ।।

प्रविश्य)

काञ्चुकीयः- जयतु महाराजः । एष खलु पाण्डवस्कन्धावाराद् दौत्येनागतः पुरुषोत्तमो नारायणः।
 
दुर्योधनः- मा तावद् भो बादरायण!। किं किं कंसभृत्यो दामोदरस्तव पुरुषोत्तमः। स गोपालकस्तव पुरुषोत्तमः। बार्हद्रथापहृतविषयकीर्तिभोगस्तव पुरुषोत्तमः। अहो पार्थिवासन्नमाश्रितस्य भृत्यजनस्य समुदाचारः। सगर्वं खल्वस्य वचनम्। आ अपध्वंस।
काञ्चुकीयः- प्रसीदतु महाराजः। सम्भ्रमेण समुदाचारो विस्मृतः।

पादयोः पतति।)

दुर्योधनः- सम्भ्रम इति। आ मनुष्याणामस्त्येव सम्भ्रमः। उत्तिष्ठोत्तिष्ठ।

काञ्चुकीयः- अनुगृहीतोऽस्मि।

दुर्योधनः- इदानीं प्रसन्नोऽस्मि। क एष दूतः प्राप्तः।

काञ्चुकीयः- दूतः प्राप्तः केशवः।

दुर्योर्धनः- केशव इति। एवमेष्टव्यम्। अयमेव समुदाचारः। भो भो राजानः! दौत्येनागतस्य केशवस्य किं युक्तम्। किमाहुर्भवन्तः?
अघ्र्यप्रदानेन पूजयितव्यः केशव इति। न मे रोचते। ग्रहणमस्यात्र हितं पश्यामि।

ग्रहणमुपगते तु वासुभद्रे

हृतनयना इव पाण्डवा भवेयुः।

गतिमतिरहितेषु पाण्डवेषु

क्षितिरखिलापि भवेन्ममासपत्ना ।। 6 ।।

अपि च योऽत्र केशवस्य प्रत्युत्थास्यति, स मया द्वादशसुवर्णभारेण दण्ड्यः। तदप्रमत्ता भवतु भवन्तः। को नु खलु ममाप्रत्युत्थानस्योपायः।
हन्त दृष्ट उपायः। बादरायण! आनीयतां स चित्रपटो ननु, यत्र द्रौपदीकेशाम्बराकर्षणमालिखितम्। (अपवार्य) तस्मिन् दृष्टिविन्यासं कुर्वन्
नोत्थास्यामि केशवस्य।

काञ्चुकीयः- यदाज्ञापयति महाराजः। (निष्क्राम्य प्रविश्य) जयतु महाराजः। अयं स चित्रपटः।

दुर्योधनः- ममाग्रतः प्रसारय।

काञ्चुकीयः- यदाज्ञापयति महाराजः। (प्रसारयति।)

दुर्योधनः- अहो दर्शनीयोऽयं चित्रपटः। एष दुःशासनो द्रोपदीं केशहस्ते गृहीतवान्। एषा खलु द्रौपदी,

दुःशासनपरामृष्टा सम्भ्रामोत्फुल्ललोचना।

राहुवक्त्रान्तरगता चन्द्रलेखेव शोभते ।। 7 ।।

एष दुरात्मा भीमः सर्वराजसमक्षमवमानितां द्रौपदीं दृष्ट्वा प्रवृद्धामर्षः सभास्तम्भं तुलयति। एष युधिष्ठिरः,

सत्यधर्मघृणायुक्तो द्यूतविभ्रष्टचेतनः।

करोत्यपाङ्गविक्षेपैः शान्तामर्षं वृकोदरम् ।। 8 ।।

एष इदानीमर्जुनः,

रोषाकुलाक्षः स्फुरिताधरोष्ठ-

स्तृणाय मत्वा रिपुमण्डलं तत्।

उत्सादयिष्यन्निव सर्वराज्ञः

शनैः समाकर्षति गाण्डिवज्याम् ।। 9 ।।

एष युधिष्ठिरोऽर्जुनं निवारयति। एतौ नकुलसहदेवौ,

कृतपरिकरबन्धौ चर्मनिÏस्त्रशहस्तौ

परुषितमुखरागौ स्पष्टदष्टाधरोष्ठौ।

विगतमरणशङ्कौ सत्वरं भ्रातरं मे

हरिमिव मृगपोतौ तेजसाभिप्रयातौ ।। 10 ।।

एष युधिष्ठिरः कुमारवुपेत्य निवारयति-

नीचोऽहमेव विपरीतमतिः कथं वा

रोषं परित्यजतमद्य नयानयज्ञौ।

द्यूताधिकारमवमानममृष्यमाणाः

सत्वाधिकेषु वचनीयपराक्रमाः स्युः ।। 11 ।।

इति। एष गान्धारराजः,

अक्षान् क्षिपन् सकितवं प्रहसन् सगर्वं

सङ्कोचयन्निव मुदं द्विषतां स्वकीत्र्या।

स्वैरासनो द्रुपदाराजसुतां रुदन्तीं

काक्षेण पश्यति लिखत्यपिगां नयज्ञः ।। 12 ।।

एतावाचार्यपितामहौ तां दृष्ट्वा लज्जायमानौ पटान्तान्तर्हितमुखौ स्थितौ। अहो अस्य वर्णाढ्यता। अहो भावोपपन्नता। अहो युक्तलेखता।
सुव्यक्तमालिखितोऽयं चित्रपटः। प्रीतोऽस्मि। कोऽत्र।

काञ्चुकीयः- जयतु महाराजः।

दुर्योधनः- बादरायण! आनीयतां स विहगवाहनमात्रविस्मितो दूतः।

काञ्चुकीयः- यदाज्ञापयति महाराजः। (निष्क्रान्तः)

दुर्योधनः- वयस्य कर्ण!
प्राप्तः किलाद्य वचनादिह पाण्डवानां
दौत्येन भृत्य इव कृष्णमतिः स कृष्णः।
श्रोतुं सखे! त्वमपि सज्जय कर्ण! कर्णौ
नारीमृदूनि वचनानि युधिष्ठिरस्य ।। 13 ।।
(ततः प्रविशति वासुदेवः काञ्चुकीयश्च।)
वासुदेवः- अद्य खलु धर्मराजवचनाद् धनञ्जयाकृत्रिममित्रतया चाहवदर्पमनुक्तग्राहिणं सुयोधनं प्रति मयाप्यनुचितदौत्यसमयोऽनुष्ठितः। अथ च,
कृष्णापराभवभुवा रिपुवाहिनीभ-
कुम्भस्थलीदलनतीक्ष्णगदाधरस्य।
भीमस्य कोपशिखिना युधि पार्थपत्त्रि-
चण्डानिलैश्च कुरुवंशवनं विनष्टम् ।। 14 ।।
इदं सुयोधनशिबिरम्। इह हि,
 
आवासाः पार्थिवानां सुरपुरसदृशाः स्वच्छन्दविहिता
विस्तीर्णाः शस्त्रशाला बहुविधकरणैः शस्त्रैरुपचिताः।
हेषन्ते मन्दुरास्थास्तुरगवरघटा बृंहन्ति करिण
ऐश्वर्यं स्फीतमेतत् स्वजनपरिभवादासन्नविलयम् ।। 15 ।।
भोः!
दुष्टवादी गुणद्वेषी शठः स्वजननिर्दयः।
सुयोधनो हि मां दृष्ट्वा नैव कार्यं करिष्यति ।। 16 ।।
भो बादरायण! किं प्रवेष्टव्यम्।
काञ्चुकीयः- अथ किमथ किम्। प्रवेष्टुमर्हति पद्मनाभः।
वासुदेवः- (प्रविश्य) कथं कथं मां दृष्ट्वा सम्भ्रान्ताः सर्वक्षत्रियाः। अलमलं सम्भ्रमेण। स्वैरमासतां भवन्तः।
दुर्योधनः- कथं कथं केशवं दृष्ट्वा सम्भ्रान्ताः सर्वक्षत्रियाः। अलमलं सम्भ्रमेण। स्मरणीयः पूर्वमाश्रावितो दण्डः। नन्वहमाज्ञप्ता।
वासुदेवः- भोः सुयोधन! किमास्मे।
दुर्योधनः- (आसनात् पतित्वा आत्मगतम्) सुव्यक्तं प्राप्त इव केशवः।
उत्साहेन मतिं कृत्वाऽप्यासीनोऽस्मि समाहितः।
केशवस्य प्रभावेन चलितोऽस्म्यासनादहम् ।। 17 ।।
अहो बहुमायोऽयं दूतः। (प्रकाशम्) भो दूत! एतदासनमास्यताम्।
वासुदेवः- आचार्य! आस्यताम्। गाङ्गेयप्रमुखा राजानः स्वैरमासां भवन्तः। वयमप्युपविशामः। (उपविश्य) अहो दर्शनीयोऽयं चित्रपटः। मातावत्।
द्रौपदीकेशधर्षणमत्रालिखितम्। अहो नु खलु,
सुयोधनोऽयं स्वजनावमानं
पराक्रमं पश्यति बालिशत्वात्।
को नाम लोके स्वयमात्मदोष-
मुद्धाटयेन्नष्टघृणः सभासु ।। 18 ।।
आः अपनीयतामेष चित्रपटः।
दुर्योधनः- बादरायण! अपनीयतां किल चित्रपटः।
काञ्चुकीयः- यदाज्ञापयति महाराजः। (अपनयति।)
दुर्योधनः- भो दूत!
धर्मात्मजो वायुसुतश्च भीमो
भ्रातार्जुनो मे त्रिदशेन्द्रसूनुः।
यमौ च तावश्विसुतौ विनीतौ
सर्वे सभृत्याः कुशलोप्पन्नाः ।। 19 ।।
वासुदेवः- सदृशमेतद् गान्धारीपुत्रस्य। अथ किमथ किम्। कुशलिनः सर्वे। भवतो राज्ये शरीरे बाह्यभ्यन्तरे च कुशलमनामयं च पृष्ट्वा विज्ञापयन्ति
युधिष्ठिरादयः पाण्डवाः-
अनुभूतं महद् दुःखं सम्पूर्णः समयः स च।
अस्माकमपि धम्र्यं यद् दायाद्यं तद् विभज्यताम् ।। 20 ।।
इति ।
दुर्योधनः- कथं कथं दायाद्यमिति।
 
वने पितृव्यो मृगयाप्रसङ्गतः
कृतापराधो मुनिशापमाप्तवान्।
तदाप्रभृत्येव स दारनिस्पृहः
परात्मजानां पितृतां कथं व्रजेत् ।। 21 ।।
वासुदेवः- पुराविदं भवन्तं पृच्छामि।
विचित्रवीर्यो विषयी विपतिं्त
क्षयेण यातः पुनरम्बिकायाम्।
व्यासेन जाते धृतराष्ट्र एष
लभेत राज्यं जनकः कथं ते ।। 22 ।।
मा मा भवान्
एवं परस्परविरोधविवर्धनेन
शीघ्रं भवेत् कुरुकुलं नृप! नामशेषम्।
तत् कतुमर्हति भवानपकृष्य रोषं
यत् त्वां युधिष्ठिरमुखाः प्रणयाद् ब्रुवन्ति ।। 23 ।।
दुर्योधनः- भो दूत! न जानाति भवान् राज्यव्यवहारम्।
राज्यं नाम नृपात्मजैः सहृदयैर्जित्वा रिपून् भुज्यते
तल्लोके न तु याच्यते न तु पुनर्दीनाय वा दीयते।
काङ्क्षा चेन्नृपतित्वमाप्तुमचिरात् कुर्वन्तु ते साहसं
स्वैरं वा प्रविशन्तु शान्तमतिभिर्जुष्टं शमायाश्रमम् ।। 24 ।।
वासुदेवः- भो सुयोधन! अलं बन्धुजने परुषमभिधातुम्।
पुण्यसञ्चयसम्प्राप्तामधिगम्य नृपश्रियम्।
वञ्चयेद् यः सुहृद्बन्धून् स भवेद् विफलश्रमः ।। 25 ।।
दुर्योधनः- स्यालं तव गुरोर्भूपं कंसं प्रति न ते दया।
कथमस्माकमेवं स्यात् तेषु नित्यापकारिषु ।। 26 ।।
वासुदेवः- अलं तन्मद्दोषतो ज्ञातुम्।
कृत्वा पुत्रवियोगार्तां बहुशो जननीं मम।
वृद्धं स्वपितरं बद्धवा हतोऽयं मृत्युना स्वयम् ।। 27 ।।
दुर्योधनः- सर्वथा वञ्चितस्त्वया कंसः। अलमात्मस्तवेन। न शौर्यमेतत्। पश्य,
जामातृनाशव्यसनाभितप्ते
रोषाभिभूते मगधेश्वरेऽथ।
पलायमानस्य भयातुरस्य
शौर्यं तदेतत् क्व गतं तवासीत् ।। 28 ।।
वासुदेवः- भो सुयोधन! देशकालावस्थापेक्षितं खलु शौर्यं नयानुगामिनाम्। इह तिष्ठतु तावदस्मद्गतः परिहासः। स्वकार्यमनुष्ठीयताम्।
कर्तव्यो भ्रातृषु स्नेहो विस्मर्तव्या गुणेतराः।
सम्बन्धो बन्धुभिः श्रेयान् लोकयोरुभयोरपि ।। 29 ।।
दुर्योधनः- देवात्मजैर्मनुष्याणां कथं वा बन्धुता भवेत्।
पिष्टपेषणमेतावत् पर्याप्तं छिद्यतां कथा ।। 30 ।।
वासुदेवः- (आत्मगतम्)
 
प्रसाद्यमानः साम्नायं न स्वभावं विमुञ्चति।
हन्त संक्षोभयाम्येनं वचोभिः परुषाक्षरैः ।। 31 ।।
(प्रकाशम्) भो सुयोधनः! किं न जानीषेऽर्जुनस्य बलपराक्रमम् ।
दुर्योधनः- न जाने।
वासुदेवः- भोः! श्रूयतां,
कैरातं वपुरास्थितः पशुपतिर्युद्धेन सन्तोषितो
वह्नेः खाण्डवमश्नतः सुमहती वृष्टिः शरैश्छादिता।
देवेेन्द्रार्तिकरा निवातकवचा नीताः क्षयं लीलया
नन्वेकेन तदा विराटनगरे भीष्मादयो निर्जिताः ।। 32 ।।
अपि च, तवापि प्रत्यक्षमपरं कथयामि।
ननु त्वं चित्रसेनेन नीयमानो नभस्तलम्।
विक्रोशन् घोषयात्रायां फल्गुनेनैव मोक्षितः ।। 33 ।।
किं बहुना,
दातुमर्हसि मद्वाक्याद् राज्यार्धं धृतराष्ट्रज!।
अन्यथा सागरान्तां गां हरिष्यन्ति हि पाण्डवाः ।। 34 ।।
दुर्योधनः- कथं कथम्। हरिष्यन्ति हि पाण्डवाः
प्रहरति यदि युद्धे मारुतो भीमरूपी
प्रहरति यदि साक्षात् पार्थरूपेण शक्रः।
परुषवचनदक्ष! त्वद्वचोभिर्न दास्ये
तृणमपि पितृभुक्ते वीर्यगुप्ते स्वराज्ये ।। 35 ।।
वासुदेवः- भोः कुरुकुलकलङ्कभूत! अयशोलुब्ध! वयं किल तृणान्तराभिभाषकाः।
दुर्योधनः- भो गोपालक! तृणान्तराभिभाष्यो भवान्।
अवध्यां प्रमदां हत्वा हयं गोवृषमेव च।
मल्लानपि सुनिर्लज्जो वक्तुमिच्छसि साधुभिः ।। 36 ।।
वासुदेवः- भोः सुयोधन! ननु क्षिपसि माम् ।
दुर्योधनः- आः, अभाष्यस्त्वम्।
अहमवधृतपाण्डरातपत्रो
द्विजवरहस्तधृताम्बुसिक्तमूर्धा।
अवनतनृपमण्डलानुयात्रैः
सह कथयामि भवद्विधैर्न भाषे ।। 37 ।।
वासुदेवः- न व्याहरति किल मां सुयोधनः। भोः !
शठ! बान्धवनिःस्नेह! काक! केकर! पिङ्गल!।
त्वदर्थात् कुरुवंशोऽयमचिरान्नाशमेष्यति।। 38 ।।
भो भो राजानः! गच्छामस्तावत्।
दुर्योधनः- कथं यास्यति किल केशवः। दुःशासन! दुर्मर्षण! दुर्मुख! दुर्बुद्धे! दुष्टेश्वर! दूतसमुदाचारमतिक्रान्तः केशवो बध्यताम्। कथमशक्ताः।
दुःशासन! न समर्थः खल्वसि।
 
करितुरगनिहन्ता कंसहन्ता स कृष्णः
पशुपकुलनिवासादानुजीव्यानभिज्ञः।
हतभुजबलवीर्यः पार्थिवानां समक्षं
स्ववचनकृतदोषो बध्यतामेष शीघ्रम् ।। 39 ।।
अयमशक्तः। मातुल! बध्यतामयं केशवः। कथं पराङ्मुखः पतति। भवतु, अहमेव पाशैर्बध्नामि। (उपसर्पति।)
वासुदेवः- कथं बद्धुकामो मां किल सुयोधनः। भवतु, सुयोधनस्य सामथ्र्यं पश्यामि। (विश्वरूपमास्थितः।)
दुर्योधनः- भो दूत!
सृजसि यदि समन्ताद् देवमायाः स्वमायाः
प्रहरसि यदि वा त्वं दुर्निवारैः सुरास्रैः।
हयगजवृषभाणां पातनाज्जातदर्पो
नरपतिगणमध्ये बध्यसे त्वं मयाद्य ।। 40 ।।
आः तिष्ठेदानीम्। कथं न दृष्टः केशवः। अयं केशवः। अहो ह्रस्वत्वं केशवस्य। आः तिष्ठेदानीम्। कथं न दृष्टः केशवः। अयं केशवः। अहो
दीर्घत्वं केशवस्य। कथं न दृष्टः केशवः। अयं केशवः। सर्वत्र मन्त्रशालायां केशवा भवन्ति। किमिदानीं करिष्ये। भवतु, दृष्टम्। भो भो
राजानः! एकेनैकः केशवो बध्यताम्। कथं स्वयमेव पाशैर्बद्धाः पतन्ति राजानः। साधु भो जम्भक! साधु !
मत्कार्मुकोदरविनिःसृतबाणजालै-
र्विद्धक्षरत्क्षतजरञ्जितसर्वगात्रम्।
पश्यन्तु पाण्डुतनयाः शिबिरोपनीतं
त्वां बाष्परुद्धनयनाः परिनिःश्वसन्तः ।। 41 ।।
(निष्क्रान्तः)
वासुदेवः- भवतु, पाण्डवानां कार्यमहमेव साधयामि। भोः सुदर्शन! इतस्तावत्।
(ततः प्रविशति सुदर्शनः।)
सुदर्शनः- एष भोः।
श्रुत्वा गिरं भगवतो विपुलप्रसादा-
न्निर्धावितोऽस्मि परिवारिततोयदौघः।
कस्मिन् खलु प्रकुपितः कमलायताक्षः
कस्याद्य मूर्धनि मया प्रविजृम्भितव्यम् ।। 42 ।।
क्व नु खलु भगवान् नारायणः।
अव्यक्तादिरचिन्त्यात्मा लोकसंरक्षणोद्यतः।
एकोऽनेकवपुः श्रीमान् द्विषद्बलनिषूदनः ।। 43 ।।
(विलोक्य) अये अयं भगवान् हस्तिनपुरद्वारे दूतसमुदाचारेणोपस्थितः। कुतः खल्पायः, कुतः खल्वापः। भगवति आकाशगङ्गे! आपस्तावत्।
हन्त स्रवति। (आचम्योपसृत्य) जयतु भगवान् नारायणः। (प्रणमति।)
वासुदेवः- सुदर्शन! अप्रतिहतपराक्रमो भव।
सुदर्शनः- अनुगृहीतोऽस्मि।
वासुदेवः- दिष्ट्या भवान् कर्मकाले प्राप्तः।
सुदर्शनः- कथं कथं कर्मकाल इति। आज्ञापयतु भगवानाज्ञापयतु।
किं मेरुमन्दरकुलं परिवर्तयामि
संक्षोभयामि सकलं मकरालयं वा।
 
नक्षत्रवंशमखिलं भुवि पातयामि
नाशक्यमस्ति मम देव! तव प्रसादात् ।। 44 ।।
वासुदेवः- भोः सुदर्शन! इतस्तावत्। भोः सुयोधन!
यदि लवणजलं वा कन्दरं वा गिरीणां
ग्रहगणचरितं वा वायुमार्गं प्रयासि।
मम भुजबलयोगप्राप्तमञ्जातवेगं
भवतु चपल! चक्रं कालचक्रं तवाद्य ।। 45 ।।
सुदर्शनः- भोः सुयोधनहतक! (इति पुनर्विचार्य) प्रसीदतु प्रसीदतु भगवान् नारायणः।
महीभारापनयनं कर्तुं जातस्य भूतले।
अस्मिन्नेव गते देव! ननु स्याद् विफलः श्रमः ।। 46 ।।
वासुदेवः- सुदर्शन! रोषात् समुदाचारो नावेक्षितः। गम्यतां स्वनिलयमेव।
सुदर्शनः- यदाज्ञापयति भगवान् नारायणः। कथं कथं गोपालक इति। त्रचरणातिक्रान्तत्रिलोको नारायणः खल्वत्रभवान्। शरणं व्रजन्तु भवन्तः। यावद्
गच्छामि। अये एतद् भगवदायुधवरं शाङ्र्गं प्राप्तम्।
तनुमृदुललिताङ्गं स्त्रीस्वभावोपपन्नं
हरिकरधृतमध्यं शत्रुसङ्गैककालः।
कनकखचितपृष्ठं भाति कृष्णस्य पाश्र्वे
नवसलिलदपाश्र्वे चारुविद्युल्लतेव ।। 47 ।।
भो भोः! प्रशान्तरोषो भगवान् नारायणः। गम्यतां स्वनिलयमेव।
हन्त निवृतः यावद् गच्छामि। अये इयं कौमोदकी प्राप्ता।
मणिकनकविचित्रा चित्रमालोत्तरीया
सुररिपुगणगात्रध्वंसने जाततृष्णा।
गिरिवरतटरूपा दुर्निवारातिवीर्या
व्रजति नभसि शीघ्रं मेघवृन्दानुयात्रा ।। 48 ।।
हे कौमोदकि! प्रशान्तरोषो भगवान् नारायणः। हन्त निवृत्ता । यावद् गच्छामि। अये अयं पाञ्चजन्यः प्राप्तः।
पूर्णोन्दुकुन्दकुमुदोदरहारगौरो
नारायणननसरोजकृतप्रसादः।
यस्य स्वनं प्रलयसागरघोषतुल्यं
गर्भा निशम्य निपतन्त्यसुराङ्गनानाम् ।। 49 ।।
हे पाञ्चजन्य! प्रशान्तरोषो भगवान्। गम्यताम् । हन्त निवृत्तः।
अये नन्दकासिः प्राप्तः।
वनिताविग्रहो युद्धे महासुरभयङ्करः।
प्रयाति गगने शीघ्रं महोल्केव विभात्ययम् ।। 50 ।।
हे नन्दक! प्रशान्तरोषो भगवान्। गम्यताम्। हन्त निवृत्तः। यावद् गच्छामि।। अये एतानि भगवदायुधवराणि।
सोऽयं खङगः खरांशोरपहसिततनुः स्वैः करैर्नन्दकाख्यः
सेयं कौमोदकी या सुररिपुकठिनोरः स्थलक्षोददक्षा।
सैषा शाङ्र्गाभिधाना प्रलयघनरवज्यारवा चापरेखा
सोऽयं गम्भीरघोषः शशिकरविशदः शङ्खराट् पाञ्चजन्यः ।। 51 ।।
हे शाङ्र्ग! कौमोदकि! पाञ्चजन्य!
दैत्यान्तकृन्नन्दक! शत्रुवह्ने!।
 
प्रशान्तरोषो भगवान् मुरारिः
स्वस्थानमेवात्र हि गच्छ तावत् ।। 52 ।।
हन्त निवृत्ताः। यावद् गच्छामि। अये-अत्युद्धूतो वायुः। अतितपत्यादित्यः। चलिताः पर्वताः। क्षुब्धाः सागराः। पतिताः वृक्षाः भ्रान्ता मेघाः।
प्रलीना वासुकिप्रभृतयो भुजङ्गेश्वराः। किन्नु खल्विदम्। अये अयं भगवतो वाहनो गरुडःप्राप्तः।
सुरासुराणां परिखेदलब्धं
येनामृतं मातृविमोक्षणार्थम्।
आच्छिन्नमासीद् द्विषतो मुरारे
स्त्वामुद्वहामीति वरोऽपि दत्तः ।। 53 ।।
हे काश्यपप्रियसुत! गरुड! प्रशान्तरोषो भगवान् देवदेवेशः।
गम्यतां स्वनिलयमेव। हन्त निवृत्तः। यावद् गच्छामि।
सिद्धाश्च चारणगणा मुनयश्च यक्षा
देवाश्च संभ्रमचलन्मकुटोत्तमाङ्गाः।
रुष्टेऽच्युते विगतकान्तिगुणाः प्रशान्तं
श्रुत्वा श्रयन्ति सदनानि निवृत्ततापाः ।। 54 ।।
यावदहमपि कान्तां मेरुगुहामेव यास्यामि। (निष्क्रान्तः।)
वासुदेवः- यावदहमपि पाण्डवशिबिरमेव यास्यामि।
(नेपथ्ये)
न खलु न खलु गन्तव्यम्।
वासुदेवः- अये वृद्धराजस्वर इव। भो राजन्! एष स्थितोऽस्मि।
(ततः प्रविशति धृतराष्ट्रः।)
धृतराष्ट्रः- क्व नु खलु भगवान् नारायणः। क्व नु खलु भगवान् पाण्डवश्रेयस्करः। क्व नु खलु भगवान् विप्रप्रियः। क्व नु खलु भगवान् देवकीनन्दनः।
मम पुत्रापराधात् तु शाङ्र्गपाणे! तवाधुना।
एतन्मे त्रिदशाध्यक्ष! पादयोः पतितं शिरः ।। 55 ।।
वासुदेवः- हा धिक् पतितोऽत्रभवान्। उतिष्ठोत्तिष्ठ।
धृतराष्ट्रः- अनुगृहीतोऽस्मि। भगवान्! इदमघ्र्यं पाद्यं च प्रतिगृह्यताम्।
वासुदेवः- सर्वं गृह्णामि। किं ते भूयः प्रियमुपहरामि।
धृतराष्ट्रः- यदि मे भगवान् प्रसन्नः किमतःपरमिच्छामि।
वासुदेवः- गच्छतु भवान् पुनर्दर्शनाय।
धृतराष्ट्रः- यदाज्ञापयति भगवान् नारायणः ।। (निष्क्रान्तः।)
(भरतवाक्यम्)
इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम्।
महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ।। 56 ।।

(निष्क्रान्ताः सर्वे)

दूतवाक्यं समाप्तम्।

"https://sa.wikisource.org/w/index.php?title=दूतवाक्यम्&oldid=36964" इत्यस्माद् पुनः प्राप्तिः