दूतघटोत्कचम्

विकिस्रोतः तः
Jump to navigation Jump to search
दूतघटोत्कचम्
भासः
दूतघटोत्कचम्
भासस्य कृतयः

पात्राणि[सम्पाद्यताम्]

पुरुष-पात्राणि[सम्पाद्यताम्]

धृतराष्ट्र: - कौरवाणां पिता।

भट: - जयत्रातो वार्ताहर:।

दुर्योधन: - कुरुराज:।

दु:शासन: - कुरुराजस्य यवीयान् भ्राता

शकुनि: - कुरुराजस्य मातुल:।

घटोत्कच: - दौत्येनागतो भीमपुत्रो राक्षस:।

स्त्री-पात्राणि[सम्पाद्यताम्]

गान्धारी - कौरवाणां माता।

दु:शला - कौरवाणां स्वसा जयद्रथपत्नी।

प्रतीहारी - द्वारपालिका।

नाटकम्[सम्पाद्यताम्]

(नान्द्यन्ते ततः प्रविशति सूत्रधारः।)

सूत्रधारः- नारायणस्त्रिभुवनैकपरायणो वः

पायादुपायशतयुक्तिकरः सुराणाम्।

लोकत्रयाविरतनाटकतन्त्रवस्तु-

प्रस्तावनप्रतिसमापनसूत्रधारः ।। 1 ।।

(परिक्रम्य) एवमार्यमिश्रान्विज्ञापय़ामि। अये किं नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते। अङ्ग पश्यामि।

(नेपथ्ये)

भो भो निवेद्यतां निवेद्यतां तावत्।

सूत्रधारः- भवतु विज्ञातम्। एष खलु संशप्तकानीकनिवाहिते जनार्दनसहाये धनञ्जये तदनन्तरमुपगतभीष्मवधामर्षितैर्धार्तराष्ट्रैः परिवार्य निपातितः

कुमारोऽभिमन्युः। तथाहि

यान्त्यर्जुनप्रत्यभियानभीता

यतोऽर्जुनस्तां दिशमीक्षमाणाः।

नराधिपाः स्वानि निवेशनानि

सौभद्रबाणाङ्कितनष्टसंज्ञाः ।। 2 ।।

(ततः प्रविशति भटः ।)

भटः- भो भोः! निवेद्यतां तावत्पुत्रशतश्लाघ्यबान्धवाय विज्ञानविस्तारितविनयाचारदीर्घचक्षुषे महाराजाय धृतराष्ट्राय। एष खलु

योधस्यन्दनवाजिवारणवधैर्विक्षोभ्य राज्ञां बलं

बालेनार्जुनकर्म येन समरे लीलायता दर्शितम्।

सौभद्रः स रणे नराधिपशतैर्वेगागतैः सर्वशः

खे शक्रस्य पितामहस्य सहसैवोत्सङ्गमारोपितः ।। 3 ।।

(ततः प्रविशति धृतराष्ट्रो गान्धारी दुःशला प्रतिहारी च।)

धृतराष्ट्रः- कथं नु भोः!

केनैतच्छ्रतिपथदूषणं कृतं मे

कोऽयं मे प्रियमिति विप्रियं ब्रवीति।

कोऽस्माकं शिशुवधपातकाङ्कितानां

वंशस्य क्षयमवघोषयत्यभीतः ।। 4 ।।

गान्धारी- महाराअ! अत्थि उण जाणीअदि केवलं पुत्तसंखअकारओ कुळविग्गहो भविस्सिदि त्ति। (महाराज! अस्ति पुनज्र्ञायते केवलं पुत्रसंक्षयकारकः कुलविग्रहो भविष्यतीति।)

धृतराष्ट्रः- गान्धारि! ज्ञायते।

गान्धारी- महाराअ कदा णु खु । (महाराज कदा नु खलु।)

धृतराष्ट्रः- गान्धारि! श्रृणु

अद्याभिमन्युनिधनाज्जनितप्रकोपः

सामर्षकृष्णधृतरश्मिगुणप्रतोदः।

पार्थः करिष्यति तदुग्रधनुःसहायः

शाÏन्त गमिष्यति विनाशमवाप्य लोकः ।। 5 ।।

गान्धारी- हावच्छ अभिमञ्ञो! ईदिसे वि णाम पुरुसखअकारए कुळविग्गहे वत्तमाणे वाळभावणिभज्जणं अम्हाणं भग्गाकमेण करअंतो कहिं दाणिं

पोत्तअ! गदोसि। (हा वत्स अभिमन्यो! ईदृशेऽपि नाम पुरुषक्षयकारके कुलविग्रहे वर्तमाने बालभावनिमज्जनमस्माकं भाग्यक्रमेण कुर्वन् कुत्रेदानीं पौत्रक! गतोऽसि।)

दुःशला- जेण दाणि उत्तराए वेधव्वं दाइदं, तेण अत्तणो जुवदिजणस्स वेधव्वमादिट्ठं। (येनेदानीं वध्वै उत्तरायै वैधव्यं दत्तं तेनात्मनो युवतिजनाय वैधव्यमादिष्टम्।)

धृतराष्ट्रः- अथ केनैष व्यसनार्णवस्य सेतुबन्धः कृतः ।

भटः- महाराज! मया।

धृतराष्ट्रः- को भवान्।

भटः- महाराज! ननु जयत्रातोऽस्मि।

धृतराष्ट्रः- जयत्रात!

केनाभिमन्युर्निहतः कस्य जीवितमप्रियम्।

पञ्चानां पाण्डवाग्नीनां आत्मा केनेन्धनीकृतः ।। 6 ।।

भटः- महाराज! बहुभिः किल पार्थिवैः समागतैर्निहतः कुमारोऽभिमन्युः। स्यात्तु जयद्रथो निमित्तभूतः।

धृतराष्ट्रः- हन्त जयद्रथो निमित्तभूतः।

भटः- महाराज अथ किम्।

धृतराष्ट्रः- हन्त जयद्रथो निहतः।

(तच्छुत्वा दुःशला रोदिति।)

धृतराष्ट्रः- कैषा रोदिति।

प्रतीहारी- महाराअ! भट्टिदारिआ दुश्शळा। (महाराज! भर्तृदारिका दुःशला।)

धृतराष्ट्रः- वत्से अलमलं रुदितेन। पश्य,

भर्तुस्ते नूनमत्यन्तमवैधव्यं न रोचते।

येन गाण्डीविबाणानामात्मा लक्षीकृतः स्वयम् ।। 7 ।।

दुःशला- तेण हि अणुजाणादु मं तादो, अहं वि गमिस्सं वहूए उत्तराए सआसं। (तेन ह्यनुजानातु मां तातः अहमपि गमिष्यामि वध्वा उत्तरायाः सकाशम्।)

धृतराष्ट्रः- वत्से किमभिधास्यसि।

दुःशला- ताद! एवं च भणिस्सं-अज्जकालिअं च दे वेसग्गहणं अहं वि अवधारइस्सामि त्ति। (तात! एवं च भणिष्यामि-अद्यकालिकं च ते वेषग्रहणमहमप्युपधारयिष्यामीति।)

गान्धारी- पुत्तिए! मा खु मा खु अमंगळं भणाहि। जीवदि खु दे भत्ता। (पुत्रिके ! मा खलु, मा खल्वमङ्गलं भण। जीवति खलु ते भर्ता।)

दुःशला- अम्ब! कुदो मे एत्तिआणि भाअधेआणि। जो जणद्दणसहाअस्स धणंजअस्स विण्पिअं करिअ कोहि णाम जीविस्सिदि। (अम्ब! कुतो मे एतावन्ति भागधेयानि। यो जनार्दनसहायस्य धनञ्जयस्य विप्रियं कृत्वा को हि नाम जीविष्यति।)

धृतराष्ट्रः- सत्यमाह तपस्विनी दुश्शला। कुतः,

कृष्णस्याष्टभुजोपधानरचिते योऽङ्के विवृद्धश्चिरं

यो मत्तस्य हलायुधस्य भवति प्रीत्या द्वितीयो मदः।

पार्थानां सुरतुल्यविक्रमवतां स्नेहस्य यो भाजनं

तं हत्वा क इहोपलप्स्यति चिरं स्वैर्दुष्कृतैर्जीवितम् ।। 8 ।।

जयमात्र! अथ तदवस्थं पुत्रं दृष्ट्वा किं प्रतिपन्नं तेन गाण्डीवधन्वना।

भटः- महाराज! किं वार्जुनसमीपे वृत्तमेतत्।

धृतराष्ट्रः- कथमर्जुनोऽपि नात्रासीत्।

भटः- महाराज! अथ किम्।

धृतराष्ट्रः- कथमिदानीं वृत्तमेतत्।

भटः- श्रूयतां-संशप्तकानीकनिवाहिते जनार्दनसहाये धनञ्जये धनञ्जये स बाल भावाददृष्टदोषः सङ्ग्रममवतीर्णः कुमारोऽभिमन्युः।

धृतराष्ट्रः- हन्त युक्तरूपोऽस्य वधः। कोहि संनिहितशार्दूलां गुहां धर्षयितुं शक्तः। अथ शेषाः पाण्डवाः किमनुतिष्ठन्ति।

भटः- महाराज! श्रूयताम्।

चितां न तावत्स्वयमस्य देहमारोपयन्त्यर्जुनदर्शनार्थम्।

तेषां च नामान्युपधारयन्ति यैस्तस्य गात्रे प्रहृतं नरेन्द्रैः ।। 9 ।।

धृतराष्ट्रः- गान्धारि! तदागम्यताम्। गङ्गाकूलमेव यास्यावः।

गान्धारी- महाराअ! णं तहिं गाहामो। (महाराज! ननु तत्र गाहावहे।)

धृतराष्ट्रः- गान्धारि! श्रृणु।

अद्यैव दास्यामि जलं हतेभ्यः

स्वेनापराधेन तवात्मजेभ्यः।

न त्वस्मि शक्तः सलिलप्रदानैः

कर्तुं नृपाणां शिबिरोपरोधम् ।। 10 ।।

(ततः प्रविशति दुर्योधनो दुश्शासनः शकुनिश्च।)

दुर्योधनः- वत्स दुश्शासन!

यातोऽभिमन्युनिधनात् स्थिरतां विरोधः

प्राप्तो जयः प्रचलिता रिपवो निरस्ताः।

उन्मूलितोऽस्य च मदो मधूसूदनस्य

लब्धो मयाऽद्य सममभ्युदयेन शब्दः ।।

दुश्शासनः- अहो तु खलु,

रुद्धाः पाण्डुसुता जयद्रथबलेनाक्रम्य शत्रोर्बलं

सौभद्रे विनिपातिते शरशतक्षेपैर्द्वितीयेऽर्जुने।

प्राप्तैश्च व्यसनानि भीष्मपतनादस्माभिरद्याहवे

तीव्राः शोकशराः कृताः खलु मनस्येषां सुतोत्सादनात् ।। 12 ।।

शकुनिः- जयद्रथेनाद्य महत्कृतं रणे

नृपैरसम्भावितमात्मपौरुषम्।

प्रसह्य तेषां यदनेन संयुगे

समं सुतेनाप्रतिमं हृतं यशः ।। 13 ।।

दुर्योधनः- मातुल! इतस्तावत्। दुश्शासन! इतस्तावत्। तत्रभवन्तं तातमभिवादयिष्यामः।

शकुनिः- वत्स दुर्योधन! मा मैवम्।

कामं न तस्य रुचितः कुलविग्रहोऽय-

मस्मांश्च गर्हयति स प्रियपाण्डवत्वात्।

युद्धोत्थितैर्जयमवाप्य हि तुल्यरूपं

एवं प्रहृष्टवदनैरभिगन्तुमेनम् ।। 14 ।।

दुर्योधनः- मातुल! मा मैवम्। यथा तथा भवतु। तत्रभवन्तं तातमभिवादयिष्यामः।

उभौ- बाढम्। (परिक्रामति।)

दुर्योधनः- तात! दुर्योधनोऽहमभिवादये।

दुश्शासनः- तात! दुश्शासनोऽहमभिवादये।

शकुनिः- शकुनिरहमभिवादये।

सर्वे- कथमाशीर्वचनं न प्रयुज्यते।

धृतराष्ट्रः- पुत्र! कथमाशीर्वचनमिति।

सौभद्रे निहते बाले हृदये कृष्णपार्थयोःः।

जीविते निरपेक्षाणां कथमाशीः प्रयुज्यते ।। 15 ।।

दुर्योधनः- तात! किंकृतोऽयं सम्भ्रमः!

धृतराष्ट्रः- किंकृतोऽयं सम्भ्रम इति।

एका कुलेऽस्मिन्बहुपुत्रनाथे

लब्धा सुता पुत्रशताद्विशिष्टा।

सा बान्धवानां भवतां प्रसादाद्

वैधव्यमश्लाघ्यमवाप्स्यतीति ।। 16 ।।

दुर्योधनः- तात! किं चात्र जयद्रथस्य।

धृतराष्ट्रः- तेन किल वरविदग्धेन रुद्धाः पाण्डवाः।

दुर्योधनः- आः तेन रुद्धाः। बहुभिः खल्वन्यैः।

धृतराष्ट्रः- भोः! कष्टम्।

बहूनां समवेतानामेकस्मिन्निर्घृणात्मनाम्।

बाले पुत्रे प्रहरतां कथं न पतिता भुजाः ।। 17 ।।

दुर्योधनः- तात!

वृद्धं भीष्मं छलैर्हत्वा तेषां न पतिता भुजाः।

हत्वास्माकं पतिष्यन्ति तमबालपराक्रमम् ।। 18 ।।

धृतराष्ट्रः- वत्स! किं भीष्मस्य निपातनमभिमन्योश्च वधः समः।

दुर्योधनः- तात! कथं न समः।

धृतराष्ट्रः- पुत्र! श्रूयताम्,

स्वच्छन्दमृत्युर्निहतो हि भीष्मः स्वेनोपदेशेन कृतात्मतुष्टिः।

अयं तु बालः कुरुवंशनाथश्छिन्नोऽर्जुनस्य प्रथमः प्रवालः ।। 11 ।।

दुश्शासनः- तात! बालो न बाल इति। अभिमन्युना,

धृतराष्ट्रः- किं किं दुश्शासनो व्याहरति।

दुश्शासनः- अथ किम्।

सर्वेषां नः पश्यतां युध्यतां च

व्यायामोष्णं गृह्य चापं करेण।

सूर्येणैवाभ्यागतैरंशुजालैः

सर्वे बाणैरङ्किता भूमिपालाः ।। 20 ।।

धृतराष्ट्रः- कष्टं भोः!

बालेनैकेन तावद्भोः! सौभद्रेणेदृशं कृतम्।

पुत्रव्यसनसन्तप्तः पार्थो वः किं करिष्यति ।। 21 ।।

दुर्योधनः- किं करिष्यति।

धृतराष्ट्रः- तत्करिष्यति, यत्सावशेषायुषो द्रक्ष्यथ।

दुर्योधनः- तात! कस्तावदर्जुनो नाम।

धृतराष्ट्रः- पुत्र! अर्जुनमपि न जानीषे।

दुर्योधनः- तात! न जाने।

धृतराष्ट्रः- तेन हि अहमपि न जाने। किन्तु अर्जुनस्य बलवीर्यज्ञाः बहवः सन्ति। तान् पृच्छ।

दुर्योधनः- तात! केऽर्जुनस्य बलवीर्यज्ञा मया प्रष्टव्याः।

धृतराष्ट्रः- पुत्र! श्रूयताम्।

शक्रं पृच्छ पुरा निवातकवचप्राणोपहारार्चितं

पृच्छास्त्रैः परितोषितं बहुविधैः कैरातरूपं हरम्।

पृच्छाÏग्न भुजगाहुतिप्रणयिनं यस्तर्पितः खाण्डवे

विद्यारक्षितमद्य येन च जितस्त्वं पृच्छ चित्राङ्गदम् ।। 22 ।।

दुर्योधनः- यद्येतद्वीर्यमर्जुनस्य किमस्माकं बले न सन्ति प्रतियोद्धारोऽर्जुनस्य।

धृतराष्ट्रः- पुत्र! के ते।

दुर्योधनः- ननु कर्ण एव तावत्।

धृतराष्ट्रः- अहो हास्यः खलु तपस्वी कर्णः।

दुर्योधनः- केन कारणेन?

धृतराष्ट्रः- श्रूयतां,

शक्रापनीतकवचोऽर्धरथः प्रमादी

व्याजोपलब्धविफलास्त्रबलो घृणावान्।

कर्णोऽर्जुनस्य किल यास्यति तुल्यभावं

यद्यस्त्रदानगुरवो दहनेन्द्ररुद्राः ।। 23 ।।

शकुनिः- प्रभवति भवानस्मानधीरयितुं।

धृतराष्ट्रः- शकुनिरेष व्याहरति। भोः शकुने!

त्वया हि यत्कृतं कर्म सततं द्यूतशलिना।

तत्कुलस्यास्य वैराग्निर्बालेष्वपि न शाम्यति ।। 24 ।।

दुर्योधनः- अये,

भूमिकम्पः सशब्दोऽयं कुतो नु सहसोेत्थितः।

उल्काभिश्च पतन्तीभिः प्रज्वालितमिवाम्बरम् ।। 25 ।।

धृतराष्ट्रः- पुत्र! एवं मन्ये,

सुव्यक्तं निहतं दृष्ट्वा पौत्रमायस्तचेतसः।

उल्कारूपाः पतन्त्येते महेन्द्रस्याश्रुबिन्दवः ।। 26 ।।

दुर्योधनः- जयत्रात! गच्छ, पाण्डवशिबिरे शङ्खपटहसिंहनादरवोन्मिश्रः किंकृतोऽयं शब्द इति ज्ञायताम्।

भटः- यदाज्ञापयति। (निष्क्रम्य प्रविश्य) जयतु महाराजः। संशप्तकानीकनिवाहिंतप्रतिनिवृतेन धनञ्जयेन निहतं पुत्रमङ्कस्थमश्रुभिः परिषिच्य जनार्दनावभÐत्सतेन प्रतिज्ञातं किलानेन।

दुर्योधनः- किमिति किमिति।

भटः- तस्यैव व्यवसायतुष्टहृदयैस्तद्विक्रमोत्साहिभि-

स्तुष्टास्यैर्जितमित्यवेक्ष्य सहसा नादः प्रहर्षात्कृतः।

आक्रान्ता गुरुभिर्धराधरवरैः संक्षोभितैः पार्थिवै-

र्भूमिश्चागतसम्भ्रमेव युवतिस्तस्मिन् क्षणे कम्पिता ।। 27 ।।

धृतराष्ट्रः- प्रतिज्ञासारमात्रेण कम्पितेयं वसुन्धरा।

सुव्यक्तं धनुषि स्पृष्टे त्रैलोक्यं विचलिष्यति ।। 28 ।।

दुर्योधनः- जयत्रात! किमनेन प्रतिज्ञातम्।

भटः- येन मे निहतः पुत्रस्तुÏष्ट ये च हते गताः।

श्वः सूर्येऽस्तमसम्प्राप्ते निहनिष्यामि तानहम् ।। 29 ।।

दुर्योधनः- प्रतिज्ञाव्याघाते किं प्रायश्चित्तम्।

भटः- चितारोहणं किल गाण्डीवेन सह।

दुर्योधनः- मातुल! चितारोहणं चितारोहणम्। वत्स दुश्शासन! चितारोहणं चितारोहणम्। वयमपि तावत्प्रतिज्ञाव्याघाते प्रयत्नमनुतिष्ठामः।

धृतराष्ट्रः- पुत्र! किं करिष्यसि।

दुर्योधनः- ननु सर्वाक्षौहिणीसन्दोहेन च्छादयिष्ये जयद्रथं। अपि च,

द्रोणोपदेशेन यथा तथाहं

संयोजये व्यूहमभेद्यरूपम् ।

खिन्नाशयास्ते सगजाः सयोधा

अप्राप्तकामा ज्वलनं विशेयुः ।। 30 ।।

धृतराष्ट्रः- अपि प्रविष्टं धरणीमप्यारूढं नभस्थलम्।

सर्वत्रानुगमिष्यन्ति शरास्ते कृष्णचक्षुषः ।। 31 ।।

भटः- क्रूरमेवं नरपतिं नित्यमुद्यतशासनम्।

यः कश्चिदपरो ब्रूयान्न तु जीवेत्स तत्क्षणम् ।। 32 ।।

(ततः प्रविशति घटोत्कचः।)

घटोत्कचः- एष भोः!

प्रयामि सौभद्रविनाशचोदितः

दिदृक्षुरद्यारिमनार्यचेतसम्।

विचिन्तयंश्चक्रधरस्य शासनं

यथा गजेन्द्रोऽङ्कशशङ्कितो बलिम् ।। 33 ।।

(अधो विलोक्य) इदमस्योपस्थानगृहद्वारम्। यावदवतरामि। (अवतीर्य) आत्मनैवात्मानं निवेदयिष्ये। भोः!

हैडिम्बोऽस्मि घटोत्कचो यदुपतेर्वाक्यं गृहीत्वागतो

द्रष्टव्योऽत्र मया गुरुः स्वचरितैर्दोषैर्गतः शत्रुताम्।

दुर्योधनः- एह्येहि प्रविशस्व शत्रुभवनं कौतूहलं मे महत्

धृष्टं श्रावय मां जनार्दनवचो दुर्योधनोऽहं स्थितः ।। 34 ।।

घटोत्कचः- (प्रविश्य) अये अयमत्रभवान् धृतराष्ट्रः। अनार्यशतस्योत्पादयिता। अयं ननु ललितगम्भीराकृतिविशेषः। आश्चर्यमाश्चर्यम्।

बृद्धोऽप्यनाततवली गुरुसंहतांसः

श्रद्धेयरूप इव पुत्रशतस्य धृत्या।

मन्ये सुरैस्त्रिदिवरक्षणजातशङ्कै-

स्त्रासान्निमीलितमुखोऽत्रभवान् हि सृष्टः ।। 35 ।।

(उपसृत्य) पितामह! अभिवादये घटोत्क (इत्यर्धोक्ते) न न अयमक्रमः। युधिष्ठिरादयश्च मे गुरवो भवन्तमभिवादयन्ति। पश्चाद्धटोत्कचोऽहमभिवादये।

धृतराष्ट्रः- एह्येहि पुत्र!

न मे प्रियं दुःखमिदं ममापि

यद् भ्रातृनाशाद् व्यथितस्तवात्मा।

इत्थं च ते नानुगतोऽयमर्थो

मत्पुत्रदोषात्कृपणीकृतोऽस्मि ।। 36 ।।

घटोत्कचः- अहो कल्याणः खल्वत्रभवान्। कल्याणानां प्रसूतिं पितामहमाह भगवांश्चक्रायुधः।

धृतराष्ट्रः- (आसनादुत्थाय।) किमाज्ञापयति भगवांश्चक्रायुधः।

घटोत्कचः- न न न। आसनस्थेनैव भवता श्रोतव्यो जनार्दनस्य सन्देशः।

धृतराष्ट्रः- यदाज्ञापयति भगवांश्चक्रायुधः। (उपविशति।)

घटोत्कचः- पितामह! श्रूयताम्। हा वत्स अभिमन्यो! हा वत्स कुरुकुलप्रदीप! हा वत्स यदुकुलप्रवाल! तव जननीं मातुलं मामपि परित्यज्य पितामहं द्रष्टुमाशया स्वर्गमभिगतोऽसि। पितामह! एकपुत्रविनाशादर्जुनस्य तावदीदृशी खल्ववस्था, का पुनर्भवतो भविष्यति। ततःक्षिप्रमिदानीमात्मबलाधानं कुरुष्व। यथा ते पुत्रशोकसमुत्थितोऽग्निर्न दहेत्प्राणमयं हविरिति।

धृतराष्ट्रः- सक्रोधव्यवसायेन कृष्णेनैतदुदाहृतम्।

पश्यामीव हि गाण्डीवी सर्वक्षत्रवधे धृतः ।। 37 ।।

सर्वे- अहो हास्यमभिधानम्।

घटोत्कचः- किमेतद्धास्यते।

दुर्योधनः- एतद्धास्यते।

देवैर्मन्त्रयते स कृष्णो जातमत्सरः।

पार्थेनैकेन यो वेत्ति निहतं राजमण्डलम् ।। 38 ।।

घटोत्कचः- हसति त्वमहं वक्ता प्रेषितश्चक्रपाणिना।

श्रावितं पार्थकर्मेदमहो युक्तं तवैव तु ।। 39 ।।

अपि च भवतापि श्रोतव्यो जनार्दनस्य सन्देशः।

दुश्शासनः- मा तावत् भोः! क्षत्रियावमानिन्!

पृथिव्यां शासनं यस्य धार्यते सर्वपार्थिवैः।

सन्देशः श्रोष्यतेऽप्यन्यो न राज्ञस्तस्य सन्निधौ ।। 40 ।।

घटोत्कचः- कथं दुश्शासनो व्यहरति। अरे दुश्शासन! अराजा नाम भवतां चक्रायुधः हं भो:!

मुक्ता येन जरा पुरान्नृपतयः प्रभ्रष्टमानोच्छ्रयाः

येनाघ्र्यं नृपमण्डलस्य मिषतो भीष्माग्रहस्ताद्धतम्।

श्रीर्यस्याभिरता नियोगसुमुखी श्रीवत्सशय्यागृहे

श्लाघ्यः पार्थिवपार्थिवस्तव कथं राजा न चक्रायुधः ।। 41 ।।

दुर्योधनः- दुश्शासन! अलं विवादेन।

राजा वा यदि वाऽराजा बलीं वा यदि वाऽबली।

बहुनात्र किमुक्तेन किमाह भवतां प्रभुः ।। 42 ।।

घटोत्कचः- अथ किमथ किम्। प्रभुरेव त्रैलोक्यनाथो भगवांश्चक्रायुधः। विशेषतोऽस्माकं प्रभुः। अपि च,

अवसितमवगच्छ क्षत्रियाणां विनाशं

नृपशतविनिचित्या लाघवं चास्तु भूमेः।

न हि तनयविनाशादुद्यतोग्रास्त्रमुक्तेः

समरशिरसि कश्चित्फल्गुनस्यातिभारः ।। 43 ।।

शकुनिः- यदि स्याद्वाक्यमात्रेण निर्जितेयं वसुन्धरा।

वाक्ये वाक्ये यदि भवेत्सर्वक्षत्रवधः कृतः ।। 44 ।।

घटोत्कचः- रे! रे! शकुनिरेष व्याहरति। भोः शकुने!

अक्षान्विमुञ्च शकुने! कुरुबाणयोग्य-

मष्टापदं समरकर्मणि युक्तरूपम्।

न हात्र दारहरणं न च राज्यतन्त्रं

प्राणाः पणोऽत्र रतिरुग्रबलैश्च बाणैः ।। 45 ।।

दुर्योधनः- भो भोः! प्रकृतिं गतः।

क्षिपसि वदसि रूक्षं लंघयित्वा प्रमाणं

न च गणयसि किञ्चिव्द्याहरन्दीर्धहस्तः।

यदि खलु तव दर्पो मातृपक्षोग्ररूपो

वयमपि खलु रौद्राः राक्षसोग्रस्वभावाः ।। 46 ।।

घटोत्कचः- शान्तं शान्तं पापम्। राक्षसेभ्योऽपि भवन्त एव क्रूरतराः। कुतः,

न तु जतुगृहे सुप्तान् भ्रातृन् दहन्ति निशाचराः

शिरसि न तथा भ्रातुः पत्नीं स्पृशन्ति निशाचराः।

न च सुतवधं संख्ये कर्तुं स्मरन्ति निशाचराः

विकृतवपुषोऽप्युग्राचारा घृणा न तु वर्जिता ।। 47 ।।

दुर्योधनः- दूतः खलु भवान् प्राप्तो न त्वं युद्धार्थमागतः।

गृहीत्वा गच्छ सन्देशं न वयं दूतघातकाः ।। 48 ।।

घटोत्कचः- (सरोषम्) किं दूत इति मां प्रधर्षयसि। मा तावद् भोः! न दूतोऽहम् ।

अलं वो व्यवसायेन प्रहरध्वं समाहताः।

ज्याच्छेदाद्दुर्बलो नाहमभिमन्युरिह स्थितः ।। 49 ।।

महानेष कैशोरकोऽयं मे मनोरथः। अपि च,

दष्टोष्ठो मुष्टिमुद्यम्य तिष्ठत्येष घटोत्कचः।

उत्तिष्ठतु पुमान् कश्चिद्गन्तुमिच्छेद्यमालयम् ।। 50 ।।

(सर्वे उत्तिष्ठन्ति।)

धृतराष्ट्रः- पौत्र घटोत्कच! मर्षयतु मर्षयतु भवान्। मद्वचनावगन्ता भव।

घटोत्कचः- भवतु भवतु। पितामहस्य वचनाहूतोऽहमस्मि। तथापि हि न शक्नोमि रोषं धारयितुम्। किमिति विज्ञाप्यस्तत्रभवान् नारायणः।

दुर्योधनः- आ कस्य विज्ञाप्यम्। मद्वचनादेवं स वक्तव्यः,

किं व्यर्थं बहु भाषसे न खलु ते पारुष्यसाध्या वयं

कोपान्नार्हसि किंचिदेव वचनं युद्धं यदा दास्यसि।

निर्याम्येष निरन्तरं नृपशतच्छत्रावलीभिर्वृत-

स्तिष्ठ त्वं सह पाण्डवैः प्रतिवचो दास्यामि ते सायकैः ।। 41 ।।

घटोत्कचः- पितामह! एष गच्छामि।

धृष्टराष्टः- पौत्र! गच्छ, गच्छ।

घटोत्कचः- भो भो राजानः! श्रूयतां जनार्दनस्य पश्चिमः सन्देशः।

धर्मं समाचर कुरु स्वजनव्यपेक्षां

यत्कांक्षितं मनसि सर्वमिहानुतिष्ठ।

जात्योपदेश इव पाण्डवरूपधारी

सूर्यांशुभिः सममुपैष्यति वः कृतान्तः ।। 52 ।।

(निष्क्रान्तः सर्वे।)

दूतघटोत्कचं नामोत्सृष्टिकाङ्कं समाप्तम् ।।

"https://sa.wikisource.org/w/index.php?title=दूतघटोत्कचम्&oldid=36963" इत्यस्माद् पुनः प्राप्तिः