श्राद्धलक्षणम् ।
पितृणां पूर्वमाप्यानं च सर्वेषु दैवतकर्मसु कर्माङ्गनान्दीश्रद्धस्य
पूर्वमनुष्ठानात् बोध्यम् ।
यमोऽपि-
ये यजन्ति पितॄन्देवान् ब्राह्मणांश्च हुताशनान् ।
सर्वभूतान्तरात्मानं विष्णुमेध यजन्ति ते ॥ इति ।
ब्रह्मपुराणेऽपि-
यो वा विधानतः श्राद्धं कुर्यात्स्वविभवोचितम् ।
आब्रह्मस्तम्बपर्यन्तं जगत्प्रीणाति मानवः ॥ इति ।
नागरखण्डेऽपि-
श्राद्धे तु क्रियमाणे वै न किञ्चिद्यर्थतां व्रजेत् ।
उच्छिष्टमपि राजेन्द्र ! तस्माच्छाद्धं समाचरेत् ॥ इति ।
श्रद्धकर्तव्यतोक्त ब्रह्मपुराणे-
तस्माच्छ्राद्धं नरो भक्त्या शाकैरपि यथाविधि।
कुर्वीत श्रद्धया तस्य कुले कश्चिन्न सीदति ॥ इति ।
यथाविधि=यथाप्रकारम् । श्रद्धस्वरूपं चाह-
आपस्तम्बः,
अथैतन्मनुः श्राद्धशब्दं कर्म प्रोवाच, प्रजानिश्रेयसार्थे तत्र पि:
तरो देवताः, ब्राह्मणस्त्वाहवनीयार्थे, मासि मासि कार्यम् अपरपक्ष-
स्यापराह्नः श्रेयानिति ।
श्राद्धशब्द=श्राद्धमितिशब्दो वाचको यस्य तत्तथा । त्यक्तद्रव्यप्र-
तिपस्यधिकरणत्वेनाहवनीयकार्यार्थत्वं ब्राह्मणस्य । अपरपक्षस्य=कृष्ण-
पक्षस्य ।
बृहस्पतिरपि-
संस्कृतं व्यञ्जनाद्यं च पयोमधुघृतान्वितम् ।
श्रद्धया दीयते यस्माच्छ्राद्धं तेन निगद्यते ॥ इति ।
ब्रह्मपुराणे-
देशे काले च पात्रे च श्रद्धया विधिना च यत् ।
पितॄनुद्दिश्य विप्रेभ्यो दत्तं श्राद्धमुदाहृतम् ॥ इति ।
दत्तं=प्रतिपादितम् ।
मरीचिरपि-
प्रेतापितॄनप्युद्दिश्य भोज्यं यत्प्रियमात्मनः ।
श्रद्धया दीयते यत्तु तच्छ्राद्धं परिकीर्तितम् ॥ इति ।
पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१३
Jump to navigation
Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
