सामग्री पर जाएँ

पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे-

प्रेतान् = अकृत सपिण्डीकरणान् पितॄन् कृतसपिण्डनान् दीयते यत्विति अत्र यदिति क्रियाविशेषणम् । तथा च तादृशं यद्दानं तच्छ्राद्धमित्यर्थः अत्रापस्तम्बादिसकलवचनपर्यालोचनया प्रमीतमात्रोद्देश्यकान्नत्यागविशेषस्य ब्राह्मणाद्यधिकरणकप्रतिपश्यङ्गकस्य श्राद्ध पदार्थत्वं प्रतीयते । एव च गन्धादिदानानौकरणविकिरदानानां न श्राद्धत्वं किन्तु तदङ्गत्वमेवेति बोध्यम् ब्राह्मणप्रतिपत्तेरङ्गत्वं च काचित्कं विवक्षितम् । तेनाग्न्यादिप्रक्षेपाङ्गके श्राद्धविशेषे नाव्याप्तिः । तदङ्गत्वं च वाचनिकानिदेशव्यतिरिक्तप्रमाणविहितं विवक्षितम् । तेन "पिण्डवञ्च पश्चिमा प्रतिपत्तिः” इतिछन्दोग परिशिष्टवचनातिदिष्टतदङ्गके पियबलिदाने नातिव्याप्तिः न च तच्छ्राद्धत्वेन कुतो न सगृह्यत इति वाच्यम् ।

श्राद्धं वा पितृयज्ञः स्यात्पित्र्यो बलिरथापि वा इति छन्दोगपरिशिष्टस्वरसाचस्य श्राद्धभिन्नत्वप्रतीतेः । तथाशिष्ट- व्यवहाराभावाच्च पिण्डपितृयज्ञस्तु श्राद्धमेव "तच्छ्राद्धमितरदमा- वास्यायाम्" इति गोभिलवचनेन तस्यापि श्राद्धखोकेः । तच्छब्देन पूर्वोकपिण्डपितृयज्ञ परामर्शात् उदाहृतवाक्यैरपि तस्य श्राद्धव- प्रतीतिः ।

पिण्डांस्तु गोजविप्रेभ्यो दद्यादशौ जलेऽपि वा । इत्यनेन याज्ञवल्क्यवचनेन तस्यापि ब्राह्मणप्रति पश्यङ्गकत्वसिद्धेः । प्रमीतानामुद्देश्यत्वं च देवतात्वरूपम्। तेन फलभागितया तदुद्देश्य 'कब्राह्मणसम्प्रदानकान्नत्यागे नातिव्याप्तिः अन्नपदस्य च भोज्य स्थानीयद्रव्योपलक्षकत्वान्न हिरण्यश्राद्धादावव्याप्तिः यस्तु नृसिं- हपुराणे -

दिव्य पितृभ्यो देवेभ्यः स्वपितृभ्यस्तथैव च दवा श्राद्धमृषिभ्यश्च मनुष्येभ्यस्तथात्मनः ॥

इति देवादिश्राद्धे श्राद्धशब्दः स मासाग्निहोत्र व द्रौणस्तद्धर्मप्रा. प्त्यर्थः एवं च “दैविकं दशमं स्मृतम्” इतिवक्ष्यमाणश्राद्ध विभागो Sपि गौण मुख्यसाधारण एव । न च तत्रापि मुख्यता किं न स्यादितिवा *यम् श्राद्धपदव्युत्पादकेषु उदाहृतवाक्येषु प्रेतपदपितृपदयोरेव श्र क्षणात्प्रमीत मात्र कोद्देश्यकश्राद्धस्यैव मुख्यत्वावगतेः एवं चानोत्सर्ग पिण्डदानयोर्द्वयोरपि प्रत्येकं श्राद्धत्वं सिद्ध्यति । अत एव ब्रह्मपुराणेऽ•