पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धलक्षणम् । न्नोत्सर्गमुक्त्वा "श्राद्धं कृत्वा प्रयत्नेन" इति अन्नोत्सर्गमात्रे श्राद्धपद- प्रयोगो दृश्यते । गयादौ पिण्डदानमात्रेऽपि च शिष्टानां श्राद्धपदप्रयोगोऽप्युपपद्यते । अत एवाहिताशेः "पित्रर्चनं पिण्डैरेव” इति नि गमोsध्यशक्तो केवलं पिण्डदानमाह | मघाश्राद्धादौ पिण्डदानं विना श्राद्धसिद्धावपि न तस्य प्राधान्यहानिः । प्रधानस्यैव सतो वचनेन तत्र पर्युदासात् । एतेन- नित्यश्राद्धमदैव स्यादर्घ्यपिण्डविवर्जितम् । इतिहारीतवचनान्नित्यश्राद्धे भौजङ्गी तिथिमासाद्य यावञ्चन्द्रार्कसङ्गमम् । तत्रापि महती पूजा कर्तव्या पितृदैवते || ऋक्षे पिण्डप्रदानं तु ज्येष्ठ पुत्री विवर्जयेत् | इति देवीपुराणान्मघाश्राद्धे च पिण्डदाननिषेधोऽवगम्यते । न चाप्राप्तस्य निषेधो घटते प्रातिश्चात्रातिदेशेन स चाङ्गानामेवातः पिण्डदानमङ्गम् । या तु अग्नौ हुतेन देवस्थाः पितृस्था द्विजतर्पणैः | नरकस्थाश्च तृप्यन्ति पिण्डै चैस्त्रिभिर्भुवि ॥ इतिपिण्डदाने फलश्रुतिः सोऽर्थवाद: "अङ्ग्रेङ्गेषु स्तुतिः परार्थत्वात्” ( अ० ४ पा० ३ अधि० ७ सू० १९ ) इति न्यायात् । गयादौ पिण्डदानमात्रविधिस्तु अङ्गभूतपिण्डदानात्कर्मान्तरं प्रकरणान्तरस्था. त्वादिति शूलपाण्याद्युक्तं परास्तम् । पूर्वोदाहृतवाक्यार्थपर्यालोचनया उभयोरपि प्राधान्ये सिद्धे नित्यश्राद्धादौ श्राद्ध विधिनैवोभयप्राप्तावेक तरपर्युदासोपपत्तेः । तस्मात्सुष्ट्र्क्तमन्नोत्सर्गपिण्डदानयोः प्राधान्यमिति । केचित्तु “अग्नौ हुतेन' इत्यादिवचनेऽनौकरणस्यापि फलश्रव णात्तदपि प्रधानम् । अग्नौकरणोद्देश्यानां कव्यवाहनादीनां पितृपदेन सङ्ग्रहात्पाणिहोमपक्षे ब्राह्मणाधिकरणकप्रतिपत्तिसम्भवावेत्याहुः | शूलपाणिस्तु सम्बोधनपदोपनीतान्पित्रादींश्चतुर्थ्यन्तपदेनोद्दिश्य ह विस्त्यागः श्राद्धमित्याह । अत्र फलभागित्वरूपोद्देश्यतानिवृत्यर्थ सम्बोधनपदोपनीतानिति विशेषणम् । पित्रादीनित्यादिपदेन देवादयोऽपि विवक्षिताः । तेन देवश्राद्धादावपि श्राद्धशब्दो मुख्य एवेति । मैथिलास्तु वेदबोघितपात्रालम्भपूर्वकहबिस्त्यागः श्राद्धम् । अत्रा