पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- लम्भो न श्राद्धविशेषणम् । अन्यथा तस्य वेदबोध्यत्वाभावेन तद्घटितश्राद्धस्य वेदाबोध्यत्वापत्तेः किन्तूपलक्षणम् | उपलक्ष्यश्च स्वतो विलक्षणस्त्यागविशेष एव । एतेन यन्मत एकोद्दिष्टे पात्रालम्भो नास्ति तन्मत एकोद्दिष्टश्राद्धे नाव्याप्तिः । नापि सन्न्यासिकर्तृकात्मादिश्राद्धेऽपि सा | "दैविकं दश मं स्मृतम्" इति विभागोऽपि च समञ्जसो भवति । पिण्डदानं त्व ङ्गमेव । श्राद्धं कृत्वा प्रयत्नेन त्वराक्रोधविवर्जित । उष्णमनं द्विजातिभ्यः श्रद्धया प्रतिपादयेत् ॥ इत्यादिवाक्येषु आनन्तर्यवाचिक्त्वा प्रत्ययेनानोत्सर्गे एव श्राद्ध- पदप्रयोगात् । "त्रिषु पिण्डः प्रवर्त्तत" इति चाङ्गमुखेन प्रधाननिर्दे शः पिण्डपितृयज्ञविषयं वा इत्याहुः । ननु त्यागो न श्राद्धं किन्तु - पितॄनुद्दिश्य विप्रेभ्यो दत्त श्राद्धमुदाहृतम् । इति ब्रह्मपुराणात्, श्रद्धया दीयते यस्मात्तच्छ्राद्धं परिकीर्तितम् । इति मरीचिचचनात्, प्रमीतस्य पितुः पुत्रै. श्राद्धं देयं प्रयत्नतः । इति स्मृत्यन्तरवचनाच्च दानकर्मणो द्रव्यस्यैव श्राद्धत्वावगमात् त्यज्यमानं द्रव्यमेव श्राद्धम् । एवं च- श्राद्धमामं तु कर्त्तव्यमिति वेदविदां स्थितिः । इति द्रव्यसामानाधिकरण्यमप्युपपद्यते । न चैवमादिषु श्राद्धशब्दस्य लक्षणया द्रव्यपरत्वं प्रमाणाभावादिति चेत्, न । " श्राद्ध कु· र्यात्" इत्यादौ द्रव्यस्य सिद्धत्वेन साक्षाद्भावमान्वयासम्भवात् । क्रियापरत्वेन साक्षादन्वये सम्भवति अनुपस्थितत्यागादिक्रियाद्वारा परम्परान्वयस्थानौचित्यात् । “सोमेन यजेत" इत्यादौ तु बलवत्या प्रसिद्ध्या द्रव्यपरत्वे सोमपदस्यावधारितेसोमस्य श्रौतधात्वर्थद्वारा भावनान्वयो युक्तो भवति । प्रकृते तु श्राद्धशब्दस्य द्रव्ये प्रसिद्ध्यमा वादश्रुतधात्वर्थद्वारकपरम्परयान्वयोऽनुचित एव । किञ्च | कुशयवतिलगोधूममांसादिद्रव्यं पित्रादिभ्यः श्रद्धया देयमित्यादिना श्राद्धे विधिलितद्रव्यस्य प्राप्तत्वात्तत्प्रख्यम्यायेनाग्निहोत्रादिपदवत्कर्मना.