पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


श्राद्धशब्दस्य कर्मनामत्वव्यवस्थापनम् । मधेयतैवाचिता । किञ्च नित्यनैमित्तिककाम्यभेदा अग्रे वक्ष्यन्ते ते च प्रायशः कर्मण्येव प्रसिद्ध। इत्यतोऽपि कर्मनामता। अत एवाप स्तम्बेन “श्राद्धशब्दं कर्म"इत्युक्तम् । यत्तु-- प्रमीतस्य पितुः पुत्रैर्देयं श्राद्वं प्रयत्नतः । इति श्राद्धस्य देयत्वमुक्तम् , यच्च श्राद्धमामं तु कर्त्तव्यमिति वेदविदां स्थिति । इति द्रव्यसामानाधिकरण्यम् , तत् श्राद्धशब्दस्य द्रव्ये लक्षण मभिप्रेत्य । एवं च कर्मनामत्वे सिद्धे- श्रद्धया दीयते यस्मात्तेन श्राद्धं निगद्यते । इति बृहस्पतिवाक्यं श्राद्धशब्दस्य योगप्रदर्शनार्थम् । तेनान्यत्र प्रयोगाभावाद्योगवशाच्च योगरूढोऽयं श्राद्धशब्द इति । यद्यपि च- तस्माच्छूद्ध समासाद्य धर्म धर्मात्समाचरेत् । • इत्यादिविष्णुधर्मोत्तरादिवाक्यैः श्रद्धायाः सर्वकामार्थता तथापि "श्रद्धान्वित श्राद्ध कुर्वीतइति कात्यायनेन विशिष्य श्राद्धे श्रद्धायाः पुनरङ्गत्वोक्तेः श्रद्धाविशेषोऽत्राङ्गमिति बोध्यम् । अत एव नन्दिपुराणे- श्रद्धा माता तु भूतानां श्रद्धा श्राद्धेषु शस्यते । इति तस्यास्तत्र प्राशस्त्यमुक्तम् । एवं च सकलस्म्रत्याधेक वाक्यतया श्राद्धस्य त्यागरूपत्वे सिद्धे यत्कै श्राद्धपदार्थत्वमुक्तम् तद्विचारणीयम् । न च- पितृन्पितामहान्यक्षे भोजनेन यथाक्रमम् । प्रपितामहान्सश्च तथ्पित्रश्वानुपुर्वशः|| इति ब्रह्माण्डपुराणे भोजनश्रवणात्तस्यैव श्राद्धत्वमिति वाच्यम् । भोजनपदस्य कर्मव्युत्पत्या-- प्रेतान्पितॄनप्युद्दिश्य भोज्यं यत्प्रयमात्मनः । श्रद्धया दीयते यत्तु तच्छ्राद्ध परिकीर्तितम् ।। इति मरीच्यादिवचनैकवाक्यतया भोज्यपरत्वात् । अन्यथा प्रपितामहपितृनुद्दिश्य भोजनाभावेन तत्पित्रम्श्चानुपूर्वश इत्यस्या- सङ्गतिः स्यादिति । अस्मिन्मते तेषां लपभागित्वेन त्यागोद्देश्य त्वाच्च विरोधः ।