पृष्ठम्:Mudrarakshasa.pdf/१७६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


तृतीयोऽङ्कः। १८३ संरम्भोत्स्पन्दिपक्ष्मक्षरदमलजलक्षालनक्षामयापि भ्रूभङ्गोद्भर्दवैधूमं ज्वलितमिव पुरः पिङ्गया नेत्रभासा । मन्ये रुद्रस्य रौद्रं रसमभिनयतस्ताण्डवेषु स्मरन्या संजातोग्रर्प्रकम्पं कथमपि धरया धारितः पादघातः ॥ । ३० ॥ चाणक्यः-(कैतककोपं संहृय ।) वृषल वृषल, अलमुत्तरो लरेण । यद्यस्मत्तो गैरीयात्राक्षसोऽवगम्यते तदिदं शस्त्रं तस्मै दीय ताम् । (इति शैत्रमुत्सृज्योस्थाय चाकाशे लक्ष्यं बद्धा स्वगतम् । ) राक्षस राक्षस, एष र्भवतः कौटिल्यबुद्धिविजिगीषोबुद्धेः प्रकर्षः । चाणक्यतैश्चलितभक्तिमहं सुखेन जेष्यामि मौर्यमिति संप्रति यः प्रयुक्तः। संरम्भोत्स्पन्दीति। संरम्भेण क्रोधावेशेनोत्स्पन्दीन्युचलितानि पक्ष्माणि यस्याः । अत एव क्षरता गलतामलजलेन क्रोधाश्रुणा यत्क्षलनम् तेन क्षमया रूक्षयापि क्रोधावेशास्पिङ्गयारुणया नेत्रभासा कार्या भ्रूभङ्ग झेदः क्रोधजनितभ्रूविकारविशेषः स एव धूमो यस्मिन्कर्मणि तद्यथा तथा पुरोभागे ज्वलितमिव दीप्तमिव । भावे क्तः । वझेब्र्बलदवस्थायां धूम उद्च्छतीति वस्तुस्थितिः । ताण्डवेषु पुरुषकर्तृकनृत्यविशेषेषु रौद्रं ऐसमभिनयतः अभिनीय दर्शयतः रुद्रस्य स्मरन्त्या । ‘अधीगर्थदायेशां कर्मणि’ इति षष्ठी । धरया पृथिव्या संजातोग्रप्रकम्पं यथा तथा कथमपि कृच्छूार्यस्य पाघातो धारित इत्यन्वयः । रौद्रताण्डवकारिणो रुद्रस्य पाद्घात इवातिक्रूरश्चाणक्यंपाघात इति रौद्रो रसः। वीररसोऽङ्गम् । इयमुद्वेजनरूपा द्युतिः ।। ३० ।। १ ‘भास्पन्दि B. B. N. G; R. om. पक्ष्म २ र्धेत E; B. EB. N. read पुनः for पुरः ३ सम् for षु B. N. ४ °तादग्रकस्प B. N.संपादप्रक° E.; तात्रस्रक G; कथमिव for कथमपि R; पादपादः fore पादघातः E. ५ कृतकम् B. N. . . reads रोषम्; वृषल (अल ?) मुत्तरेण A. R. M; G. om. one वृषल• ६ वरी° B. B. N.तस्मादिदम् for तदिदं B. E. N; G. om. तत्. ७ निष्क्रमन् before this M; P. omच.; B. E. N. G, add प्रत्यक्षवत् after च.; A. P. omस्लग तम्; E. ha5 आत्मगतम्; A. R, K , om. one राक्षसः ८ P. ha5 एव for एष; For भवतः M. R. read ते. B. N. add एव after एषः ‘बृद्धिप्र° E. ९ °तः स्वं B. N. ( ) E; विजेतुम् for सुखेनन् (?) M.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१७६&oldid=162267" इत्यस्माद् पुनः प्राप्तिः