पृष्ठम्:Mudrarakshasa.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८३
तृतीयोऽङ्कः।

संरम्भो[१]त्स्पन्दिपक्ष्मक्षरदमलजलक्षालनक्षामयापि
 भ्रूभङ्गोद्भद[२]धूमं ज्वलितमिव पुरः पिङ्गया नेत्रभासा ।
मन्ये रुद्रस्य रौद्रं रसमभिनयतस्ताण्डवे[३]षु स्मरन्या
 संजातोग्र[४]प्रकम्पं कथमपि धरया धारितः पादघातः ॥ ३० ॥

 चाणक्यः-(कृ[५]तककोपं संहृय ।) वृषल वृषल, अलमुत्तरोलरेण । यद्यस्मत्तो ग[६]रीयात्राक्षसोऽवगम्यते तदिदं शस्त्रं तस्मै दीयताम् । (इति श[७]त्रमुत्सृज्योस्थाय चाकाशे लक्ष्यं बद्धा स्वगतम् । ) राक्षस राक्षस, एष भ[८]वतः कौटिल्यबुद्धिविजिगीषोबुद्धेः प्रकर्षः ।

चाणक्यत[९]श्चलितभक्तिमहं सुखेन
 जेष्यामि मौर्यमिति संप्रति यः प्रयुक्तः।


 संरम्भोत्स्पन्दीति। संरम्भेण क्रोधावेशेनोत्स्पन्दीन्युचलितानि पक्ष्माणि यस्याः । अत एव क्षरता गलतामलजलेन क्रोधाश्रुणा यत्क्षलनम् तेन क्षमया रूक्षयापि क्रोधावेशास्पिङ्गयारुणया नेत्रभासा कार्या भ्रूभङ्गझेदः क्रोधजनितभ्रूविकारविशेषः स एव धूमो यस्मिन्कर्मणि तद्यथा तथा पुरोभागे ज्वलितमिव दीप्तमिव । भावे क्तः । वझेब्र्बलदवस्थायां धूम उद्च्छतीति वस्तुस्थितिः । ताण्डवेषु पुरुषकर्तृकनृत्यविशेषेषु रौद्रं ऐसमभिनयतः अभिनीय दर्शयतः रुद्रस्य स्मरन्त्या । ‘अधीगर्थदायेशां कर्मणि’ इति षष्ठी । धरया पृथिव्या संजातोग्रप्रकम्पं यथा तथा कथमपि कृच्छूार्यस्य पाघातो धारित इत्यन्वयः । रौद्रताण्डवकारिणो रुद्रस्य पाद्घात इवातिक्रूरश्चाणक्यंपाघात इति रौद्रो रसः। वीररसोऽङ्गम् । इयमुद्वेजनरूपा द्युतिः ॥ ३० ॥


  1. ‘भास्पन्दि B. B. N. G; R. om. पक्ष्म
  2. र्धेत E; B. EB. N. read पुनः for पुरः
  3. सम् for षु B. N.
  4. °तादग्रकस्प B. N.संपादप्रक° E.; तात्रस्रक G; कथमिव for कथमपि R; पादपादः fore पादघातः E.
  5. कृतकम् B. N. . .reads रोषम्; वृषल (अल ?) मुत्तरेण A. R. M; G. om. one वृषल
  6. वरी° B.B. N.तस्मादिदम् for तदिदं B. E. N; G. om. तत्.
  7. निष्क्रमन् before this M; P. omच.; B. E. N. G, add प्रत्यक्षवत् after च.; A. P. om स्लग तम्; E. has आत्मगतम्; A. R, K , om. one राक्षसः
  8. P. has एव for एष;For भवतः M. R. read ते. B. N. add एव after एषः ‘बृद्धिप्र° E.
  9. °तः स्वं B. N. ( ) E; विजेतुम् for सुखेनन् (?) M.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१७६&oldid=323228" इत्यस्माद् प्रतिप्राप्तम्