पृष्ठम्:Mudrarakshasa.pdf/१५३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


१५६ मुद्राराक्षसे कञ्चुकी-एवमेवैतत् । राजा-क्रिमेतत् । कञ्चुकी-देव, इदम् । राजा-स्फुटं कथय । कञ्चुकी—प्रतिषिद्धः कौमुदीमहोत्सवः । राजा--(सक्रोधम् ) आः, केन । कञ्चुकी--देव, नातः परं विज्ञापयितुं शक्यम् । राजा—न खलु आर्यचाणक्येनापहृतः प्रेक्षकाणामतिशयरमणीयश्चक्षुषो विषयः । कञ्चुकी-देव, कोऽन्यो जीवितुकामो देवस्य शासनमतिवर्तेत। राजा--शोणोत्तरे, उपवेष्टुमिच्छामि ।

प्रश्नः।‘पार्वणम्’ इति कचित्पाठः। पर्वणि कार्तिक्यां पौर्णमास्यां भवं त्र्कीडाविधिमित्यर्थः ॥ १० ॥ एवमेतदिति । चाणक्यकृतं प्रतिषेधं सहसा स्फुटं वक्तुमतिभीतस्येसमस्फुटं सचकितं प्रतिवचनम् ।

१ B. E. N, G, have देव before this; B. E. N. om. एव; G. om एतत्; R. M. read तत् for एतत् २ om. G. E.; B. G. N. have अतः after this; E. has आः• ३ B. B. N. G. have आर्य before this and अभिधीयताम् fox कथय ४ B.E.N.G. have देव before this. ५ सरोषम् G; B. N. have आर्य after this and G. om आः• ६ B. N. om. this; B. E.N. G. read अस्मार्देभिर्देवो before विज्ञापयितुं and शक्यते for शक्यम् (G. has शक्यः). ७ आर्येण B. N; E. has आर्य before न. ८ षोर्विषयः E; M. R. om अपहृत-यः. ९ om. M.R; कोन्यो after जी-मो G.E.जीवित' A. P; जीवतु’ E; उलङ्गयिष्यति for अतिवर्तेत B.E.N.G.H. १० Before this P. A. E. read सत्र्कोधम् G• सरेपम्।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१५३&oldid=161050" इत्यस्माद् पुनः प्राप्तिः