पृष्ठम्:Mudrarakshasa.pdf/१५२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


तृतीयोऽङ्कः । १५३ ( प्रकाशम् ।) आर्य वैहीनरे, सुगाङ्गमार्गमादेशय । कञ्चुकी---इत इतो देवः । (नाट्येन परित्र्कम्य।) अयं सुगाङ्गप्रासादः। शनैरारोहतु देवः । राजा-(नाट्येनारुह्य दिशोऽवलोक्य ।) अहो शरत्समयसंभृतशोभानां दिशामतिरमणीयता । कुतः। शनैः श्यानीभूताः सितजलधरच्छेदपुलिनाः समन्तादाकीर्णाः कलविरुतिभिः सारसकुलैः। चिताश्चित्राकारैर्निशि विकचनक्षत्रकुमुदैर्नभस्तः स्यन्दन्ते सरित इव दीर्घा दश दिशः॥ ७ ॥ अपि च ।

शनैरिति । शनैः त्र्कमेण श्यानीभूताः कृशीभूताः। संयोगादेरातोधातोर्यण्वत इति श्यायतेर्निष्टानत्वम् । विरलतया प्रतीयमाना दिशः सरितश्च नभस्तः वियत्तः श्रवणमासाच्च । ‘नभाः श्रावणिकश्च सः' इत्यमरः । स्यन्दन्ते निःसृता इव दृश्यन्ते । प्रावृषि दिशः सरितश्च घनावृततया सर्वत उत्कूलसलिलाप्लुततया च विविक्तत्वेन न गृह्यन्ते शरदिं तु विरलाः स्फुटं प्रतीयन्ते इति भावः । अत्र शरदि दिशां सरितां च वर्ण्र्यत्वादिवशब्दमावत्यै दिशः सरित इव सरितश्च दिश इवेति च परस्परमुपमानोपमेयभावः॥ सितजलधरच्छेदपुलिनाः विकचनक्षत्रकुमुदैरित्यत्र चोपमितसमासः । एवं च ‘पर्यायेण द्वयोस्तच्चेदुपमेयोपमा मता’ इत्युपमेयोपमालंकारः। धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव त्वयीति अत्र पूर्णश्री

१ Om. R.; प्रासाद before मार्ग B. E. N. G; M. R. Read आदर्शय for आदेशय; G.E. om. मार्ग. २ Before this B. N. have राजा परित्र्कमति and for नाट्येन they have कञ्चुकी; E. om. नाट्येन and after परिव° has कञ्चु। देव; G. E. have शनैः twice, G. has उपरोढुमहत्यार्यःB. N. आरोढुमर्हत्यार्यः; E. agrees having देवः for आर्यः ३ °नावरुह्य G.; G. and E. add च after °लोक्य further on. संप्रति before शरत्स° G.; N. (s) om. संभृत; for स-भृत G. has समागमसमागतं and शोभां after that. After शोभां G. N. read विभ्रतीनाम्; B. E. read शोभाविभूतीनाम् ४ दिशामितिरमणीया P.; °मतिरामणीयकम् G N. substitutes for कुतः and E. adds after it संप्रति हि. ५ शान्ता B. N.शान्ती G; श्यामी P; E. has शान्ताकृता; E. has भू before च्छेद; शान्ताकूताः H. ६ पुरस्तादाकीर्णाः G. ७ कुसुमैः E.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१५२&oldid=161470" इत्यस्माद् पुनः प्राप्तिः