पृष्ठम्:Mudrarakshasa.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५३
तृतीयोऽङ्कः ।


 ( ग्र[१]काशम् ।) आर्य वैहीनरे, सुगाङ्गमार्गमादेशय ।

 कञ्चुकी---इत इतो देवः । (नाट्ये[२]न परित्र्कम्य।) अयं सुगाङ्गप्रासादः। शनैरारोहतु देवः ।

 राजा-([३]नाट्येनारुह्य दिशोऽवलोक्य ।) अहो शरत्समयसंभृतशोभानां दिशामति[४]रमणीयता । कुतः।

शनैः [५]श्यानीभूताः सितजलधरच्छेदपुलिनाः
 [६]समन्तादाकीर्णाः कलविरुतिभिः सारसकुलैः।
चिताश्चित्राकारैर्निशि विकचनक्षत्रकुमु[७]दै-
 र्नभस्तः स्यन्दन्ते सरित इव दीर्घा दश दिशः॥ ७ ॥

अपि च ।


 शनैरिति । शनैः त्र्कमेण श्यानीभूताः कृशीभूताः। संयोगादेरातोधातोर्यण्वत इति श्यायतेर्निष्टानत्वम् । विरलतया प्रतीयमाना दिशः सरितश्च नभस्तः वियत्तः श्रवणमासाच्च । ‘नभाः श्रावणिकश्च सः' इत्यमरः । स्यन्दन्ते निःसृता इव दृश्यन्ते । प्रावृषि दिशः सरितश्च घनावृततया सर्वत उत्कूलसलिलाप्लुततया च विविक्तत्वेन न गृह्यन्ते शरदिं तु विरलाः स्फुटं प्रतीयन्ते इति भावः । अत्र शरदि दिशां सरितां च वर्ण्र्यत्वादिवशब्दमावत्यै दिशः सरित इव सरितश्च दिश इवेति च परस्परमुपमानोपमेयभावः॥ सितजलधरच्छेदपुलिनाः विकचनक्षत्रकुमुदैरित्यत्र चोपमितसमासः । एवं च ‘पर्यायेण द्वयोस्तच्चेदुपमेयोपमा मता’ इत्युपमेयोपमालंकारः। धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव त्वयीति अत्र पूर्णश्री


  1. Om. R.; प्रासाद before मार्ग B. E. N. G; M. R. Read आदर्शय for आदेशय; G.E. om. मार्ग.
  2. Before this B. N. have राजा परित्र्कमति and for नाट्येन they have कञ्चुकी; E. om. नाट्येन and after परिव° has कञ्चु। देव; G. E. have शनैः twice, G. has उपरोढुमहत्यार्यःB. N. आरोढुमर्हत्यार्यः; E. agrees having देवः for आर्यः
  3. °नावरुह्य G.; G. and E. add च after °लोक्य further on. संप्रति before शरत्स° G.; N. (s) om. संभृत; for स-भृत G. has समागमसमागतं and शोभां after that. After शोभां G. N. read विभ्रतीनाम्; B. E. read शोभाविभूतीनाम्
  4. दिशामितिरमणीया P.; °मतिरामणीयकम् G N. substitutes for कुतः and E. adds after it संप्रति हि.
  5. शान्ता B. N.शान्ती G; श्यामी P; E. has शान्ताकृता; E. has भू before च्छेद; शान्ताकूताः H.
  6. पुरस्तादाकीर्णाः G.
  7. कुसुमैः E.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१५२&oldid=321608" इत्यस्माद् प्रतिप्राप्तम्