पृष्ठम्:Mudrarakshasa.pdf/१५४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


तृतीयोऽङ्कः । १५७ प्रतीहारी—देव, एदं सिंहासणम् । ( क ) राजा–( नट्येनोपविश्य ।) आर्य वैहीनरे, आर्यचाणक्यं द्रष्टुमिच्छामि । कञ्चुकी-यदज्ञापयति देवः। ( इति निष्क्रान्तः )। ( ततः प्रविशति आसनस्थः स्वभवनगतः कोपाविद्धां चिन्तां नाटयंश्चाणक्यः ।) चाणक्यः -कथं स्पर्ध्दते मया सह दुरात्मा राक्षसः । कृतागाः कौटिल्यो भुजग इव निर्याउँ नगरा- द्यथा नंन्दान्हत्वा नृपतिमकरोन्मौर्यवृषलम् । तथाहं मौर्येन्दोः श्रियमपहरामीति कृतधीः प्रेकर्ष मद्धुद्वेरतिशयितुमेष व्यवसितः ॥ ११ ॥

(क) देव, इदं सिंहासनम् ।

महात्मत्वात्संग्राह्यः स्वशत्रुमक्षमाश्रित इति रोषावेशादुरात्मेति गालनम् । कृतागा इति । नन्दैः कृतमागोग्रासनाकर्षणरूपं यस्य सः । अत्र दृष्टान्तानुरोधेन तथाहं मौर्यं हत्वा मलयकेतुं राज्ये स्थापयिष्यामीत्येतावति वक्तव्ये श्रियमपहरामीत्येतावन्मात्रं राक्षससाहसं अनुवतश्चाणक्यस्यायं भावः । ममेव नास्य बुद्धिबलं परंतु मत्सरमात्रेण ‘अशक्तोऽहं गृहारम्भे शक्तोऽहं गृहभञ्जने’ इति न्यायेन मौर्यापकारमात्राय प्रयतमानः सन्केवलं

१ Om. M; देव R; देव scored through in G; G. has इअं सीहासनं उपविसढु देवो; E. दैवस्य इमं सिंहासणं उपविशदु देवो; B. N. agree with text adding उपविसदु देवो २ सत्र्कोधम् before this E; G om. आर्य; A. M. read आर्येच°; A. P.have अकृतकृत्यान्तरम् before that; N.(s)has प्रष्टुम् for द्रष्टुम् ३ E. om. इति. ४ G, E. om. आसनस्थः and after °गतः add कृतासनपरिग्रहः। ५ आत्मगतम् before this B. G. N; E. has स्पर्धते after सह and reads स्पर्धति; B. N. read राक्षसहतकः for राक्षसः; G. E. B. N. add कुतः after this. ६ निर्गत्य M. R. ७ नन्दं हत्वा B. N. G. ८ °मुप° G; G.reads हतधीः for कृतधीः. ९ अभाव B. E. N. H. प्रसादम् G; A. has यडु° 14

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१५४&oldid=161053" इत्यस्माद् पुनः प्राप्तिः