पृष्ठम्:Mudrarakshasa.pdf/१५५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


१५८ मुद्राराक्षसे

( आकाशे लक्ष्यं बध्दा ।) राक्षस राक्षस, विरम्यतामस्माहुर्व्यसनात् ।। उत्सिक्तः कुसचिवदृष्टराज्यभारो नन्दोऽसौ न भवति चन्द्रगुप्त एषः। चाणक्यस्त्वमपि च नैव केवलं ते साधर्म्य मदनुकृतेः प्रधानवैरम् ॥ १२ ॥ ( विचिन्त्य ।) अथ वा नातिमात्रमत्र वस्तुनि मया मनः खेदयितव्यम् । कुतः । मभ्दत्यैः किल सोऽपि पर्वतसुतो व्याप्तः प्रविष्टान्तरैरुद्युक्ताः खनियोगसाधनविधौ सिद्धार्थकाद्याः स्पशाः।

पौरुषबलमवष्टभ्य मद्बुद्धेः प्रकर्षमतिशयितुं व्यवसित इति अहो राक्षसस्य दुर्व्यवसितुमिति । वक्ष्यति च । केवलं प्रधानवैरं मदनुकृतेः साधर्म्यमिति ॥ ११ ॥ उत्सिक्त इति । उद्रिक्त इत्यर्थः । प्रधानवैरं परिवृढद्वेषः केवलं ते तव मदनुकृतेः मदनुकरणस्य संबन्धि मत्स्पर्धाविषयकमिति यावत् । साधर्म्यं समानो धर्मः । स्वार्थे ष्यञ् बहुव्रीहेर्भावे वा । न तु बुद्धिप्रकर्षादिः मत्सादृश्ये ‘तव समानो धर्मोऽस्ति । अनेन यथा नन्दा उन्मूलितास्त थाहमपि मौर्यमुन्मूलयामीति प्रधानवैरमात्रेण मया सह स्पर्धते न तु बुद्धिप्रकर्षेणेति भावः । मदनुकृताविति विषयसप्तम्यन्तः पाठः साधु:।१२॥ मभ्दृत्यैरिति । प्रविष्टान्तरैर्वशीकृतशत्रुहृदयैर्भागुरायणादिभिः । स्पशा गूढ़प्रणिधयः । ‘अपसर्पश्चर: स्पशः' इत्यमरः । सिद्धार्थकादथो भेदकर्मणि उद्युक्ता एव वर्तन्ते । अहमपि संप्रति चन्द्रगुप्तेन सह कृतककलहं कृत्वा

१ प्रत्यक्षवत् added before this in B. E. G. N.; राक्षस om. in R. E. M.; रे £or it G; G. has चिरम्यताम् twice.; दुर्च्यवासितात् B. N. H; व्यवसितात् G; दुरध्यवसिता E; E. adds कुतः after this. २ तन्त्रौ. B. E. N. G. H. ३ स्त्वमसि N. (s); नचैव R. P. ४ G. om, visarga. ५ om R; after अथवा P; मस्मिन् £or °मत्र B. E. N. G. ६ on R. ७ नाम B. E. N. G. H; प्रतिष्टान्तरैः for प्रविप्टान्तरैः B. N.प्रदिष्टान्तरैः H, ८ उद्युक्ताश्च नि° B.; चराः for स्पशाः N. (3) E.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१५५&oldid=161732" इत्यस्माद् पुनः प्राप्तिः