एतत् पृष्ठम् परिष्कृतम् अस्ति
१५६
मुद्राराक्षसे
कञ्चुकी-[१] एवमेवैतत् ।
राजा-क्रिमेतत् ।
कञ्चुकी-देव[२], इदम् ।
राजा-[३]स्फुटं कथय ।
कञ्चुकी—[४]प्रतिषिद्धः कौमुदीमहोत्सवः ।
राजा--([५]सक्रोधम् ) आः, केन ।
कञ्चुकी--देव[६], नातः परं विज्ञापयितुं शक्यम् ।
राजा—न खलु [७]आर्यचाणक्येनापहृतः प्रेक्षकाणामतिशयरमणीयश्चक्षुषो विष[८]यः ।
कञ्चुकी-दे[९]व, कोऽन्यो जीवितुकामो देवस्य शासनमतिवर्तेत।
राजा--शोणोत्त[१०]रे, उपवेष्टुमिच्छामि ।
प्रश्नः।‘पार्वणम्’ इति कचित्पाठः। पर्वणि कार्तिक्यां पौर्णमास्यां भवं त्र्कीडाविधिमित्यर्थः ॥ १० ॥
एवमेतदिति । चाणक्यकृतं प्रतिषेधं सहसा स्फुटं वक्तुमतिभीतस्येसमस्फुटं सचकितं प्रतिवचनम् ।
- ↑ B. E. N, G, have देव before this; B. E. N. om. एव; G. om एतत्; R. M. read तत् for एतत्
- ↑ om. G. E.; B. G. N. have अतः after this; E. has आः
- ↑ B. B. N. G. have आर्य before this and अभिधीयताम् fox कथय
- ↑ B.E.N.G. have देव before this
- ↑ सरोषम् G; B. N. have आर्य after this and G. om आः
- ↑ B. N. om. this; B. E.N. G. read अस्मार्देभिर्देवो before विज्ञापयितुं and शक्यते for शक्यम् (G. has शक्यः).
- ↑ आर्येण B. N; E. has आर्य before न.
- ↑ षोर्विषयः E; M. R. om अपहृत-यः.
- ↑ om. M.R; कोन्यो after जी-मो G.E.जीवित' A. P; जीवतु’ E; उलङ्गयिष्यति for अतिवर्तेत B.E.N.G.H.
- ↑ Before this P. A. E. read सत्र्कोधम् G• सरेपम्।