पृष्ठम्:Mudrarakshasa.pdf/१०८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


                                                              प्रथमोऽङ्कः।
                                                                                                                                             १०७

त्वागतिकतया यथा स्वयमेव प्रवणो भवसि तथा क्रियायां वृषलसाचि व्यत्रियायां वशीकरोमीत्यर्थः । एष यत्नः । 'प्रयत्नस्तु तदप्राप्तौ व्यापा रोऽतित्वरान्वितः' इति लक्षणात् । इत्थं यत्नबिन्दुसंबन्धरूपप्रतिमुख संधिः । बिन्दुप्रयत्नानुगुण्येनास्य संधेः त्रयोदशान्यप्यङ्गानि च यथामति योजितानीति सूक्ष्मदृष्टिभिरवधार्य​ संतोष्टव्यम् ॥ २७ ॥

    प्रथमोऽङ्क इति । अङ्कलक्षणं निरूपितं दशरूपके-
               'प्रत्यक्षनेतृचरितो बीजव्य​क्तिपुरस्कृतः ।
             अङ्को नानाप्रकारार्थः संविधानरसाश्रयः ॥' इति ॥
          कर्तेर्दं नाटकस्याद्भूतरसविलसत्संविधानप्रवीणः
             क्लेशश्चाणक्यनीतौ बहुविधमतनोल्लक्षणाद्यैर्वचोभिः ।
          तत्तल्ल​क्ष्ये तदङ्गानुसरणविषयक्लेशमस्मद्विधानां
             राजश्रीत्र​यम्बकार्यानुमतिसुविहितं वीक्ष्य तुष्यन्तु सन्तः ॥
        इति श्रीदुण्ढिराजव्यासविरचितायां मुद्राराक्षसव्याख्यायां
                                प्रथमोऽङ्कः समाप्तः ।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१०८&oldid=160000" इत्यस्माद् पुनः प्राप्तिः