मुद्राराक्षसम्।
द्वितीयोङ्कः।
( ततः प्रविशत्याहितुण्डिकः ।)
आहितुण्डिकः
(क) जानन्ति तन्त्रयुक्तिं यथास्थितं मण्डलमभिलिखन्ति ।
ये मन्त्ररक्षणपरास्ते सर्पनराधिपावुपचरन्ति ॥
अथ राक्षसकृतोपायवृत्तान्तकथनाय प्राप्त्यााशापताकासंबन्धरूपो गर्भसंधिर्द्वितीयेनाङ्केनारभ्यते —-‘गर्भस्तु दृष्टद्रव्यस्य बीजस्यान्वेषणं मुहुः' इति लक्षणात् । पूर्वाङ्के दृष्टस्यात्र राक्षसाहितुण्डिकसंवादरूपया व्यापिन्या कथया पताकाख्यया नष्टस्यादृष्टस्य चाणक्यनीतिरूपस्य बीजस्याग्रे मुहुरन्वेषणात् । पताकाप्राप्त्याशानुगुण्येन गर्भसंधेरङ्गानि--
'अभूताहरणं मार्गो रूपोदाहरणे क्रमः । |
तत्राहितुण्डिकच्छद्मधारिणो विराधगुप्तस्य सर्वं प्राकृतं वचनं प्रस्तुतोपयोगिच्छद्माचरणमभूताहरणम् । प्रस्तुतस्य राक्षसं प्रति कुसुमपुरवृत्तान्तकथनस्योपयोगे छद्माचरणात् ।
जानन्तीति । ‘तन्त्रं स्वराष्ट्रचिन्तायां शास्त्रौषधमखेषु’ इति वैजयन्ती । तन्त्रे स्वराष्ट्रचिन्तायां विषौषधविशेषे च युक्तिं यथावज्जानन्ति । म