पृष्ठम्:Mudrarakshasa.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०७
प्रथमोऽङ्कः।


त्वागतिकतया यथा स्वयमेव प्रवणो भवसि तथा क्रियायां वृषलसाचिव्यत्रियायां वशीकरोमीत्यर्थः । एष यत्नः । 'प्रयत्नस्तु तदप्राप्तौ व्यापारोऽतित्वरान्वितः' इति लक्षणात् । इत्थं यत्नबिन्दुसंबन्धरूपप्रतिमुखसंधिः । बिन्दुप्रयत्नानुगुण्येनास्य संधेः त्रयोदशान्यप्यङ्गानि च यथामति योजितानीति सूक्ष्मदृष्टिभिरवधार्य​ संतोष्टव्यम् ॥ २७ ॥

 प्रथमोऽङ्क इति । अङ्कलक्षणं निरूपितं दशरूपके-

  प्रत्यक्षनेतृचरितो बीजव्य​क्तिपुरस्कृतः ।
   अङ्को नानाप्रकारार्थः संविधानरसाश्रयः ॥' इति ॥
  कर्तेर्दं नाटकस्याद्भूतरसविलसत्संविधानप्रवीणः
   क्लेशश्चाणक्यनीतौ बहुविधमतनोल्लक्षणाद्यैर्वचोभिः ।
  तत्तल्ल​क्ष्ये तदङ्गानुसरणविषयक्लेशमस्मद्विधानां
   राजश्रीत्र​यम्बकार्यानुमतिसुविहितं वीक्ष्य तुष्यन्तु सन्तः ॥

इति श्रीदुण्ढिराजव्यासविरचितायां मुद्राराक्षसव्याख्यायां

प्रथमोऽङ्कः समाप्तः ।


"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१०८&oldid=321098" इत्यस्माद् प्रतिप्राप्तम्