सामग्री पर जाएँ

पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२० मत्तविलास प्रहसनम्

 कपाली-नन्वस्माकमनृतं न वक्तव्यमिति समयः ।
 पाशुपतः-उभयमप्युपपन्नम् । कोऽत्र निर्णयोपायः ।
 शाक्यभिक्षुः – []बुद्धवअणं पमाणीकरअन्तो भिक्खू सुराभाअणं गण्हादि त्ति को एत्थ हेदू |
 पाशुपतः - नहि प्रतिज्ञामात्रेण हेतुवादिनः सिद्धिरस्ति |
 कपाली - प्रत्यक्षे हेतुवचनं निरर्थकम् ।
 पाशुपतः- कथं प्रत्यक्षमेव ।
 देवसोमा-[]भअव ! एदस्स हत्थे चीवरान्तप्पच्छादिदं कवाळं |
 पाशुपतः-श्रुतं भवता ।
 शाक्यभिक्षुः - []भो भअवं ! एवं कवाळं ण परकेरअं ।
 कपाली - तेन हि दर्शय तावत् ।
 शाक्यभिक्षुः-[]तह । ( दर्शयति ।)
 कपाली — पश्यन्तु पश्यन्तु माहेश्वराः कापालिकेन[] कृतमन्याय्यमस्य भदन्तस्य साधुवृत्ततां च ।


  1. बुद्धवचनं प्रमाणीकुर्वन् भिक्षुः सुराभाजनं गृह्णातीति कोऽत्र हेतुः ।
  2. भगवन् ! एतस्य हस्ते चीवरान्तः प्रच्छादितं कपालम् ।
  3. भो भगवन् ! एतत् कपालं न परकीयम् ।
  4. तथा ।
  5. 'कपालिने ' क. पाठः.