पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्तविलासपहसनन् । २१ शाक्यभिक्षुः--- (क) अदिण्णादाणा वेरमणं सिक्खा. पदं *(इति पुनस्तदेव पठति ।) __ (उभौ नृत्यतः।) शाक्यभिक्षुः- (ख) हद्धि । लज्जिदव्वे काळे णच्चदि। कपाली--आः को नृत्यति । (सर्वतो विलोक्य) आ मम नष्टभिक्षाभाजनदर्शनकुतूहलमलयानिलप्रयुक्ताया ध्रुवमस्य नृत्तबुद्धिः प्रीतिलताया विलसितेषु । शाक्यभिक्षुः-- (ग) भअवं! केण कारणेण एवं ण ळ- क्खीअदि । भो! आचिक्खदु भअवं । इमस्स अअं वण्णो । कपाली-- किमत्र वक्तव्यम् । ननु मया दृष्टम् । काका- दपि कृष्णमिदं कपालम्। शाक्यभिक्षुः- (घ) तेण हि एवं ममकेरअं ति सों एव अब्भुवगदं। कपाली- सत्यमभ्युपगतं तव वर्णान्तरकरणे नैपु- ण्यम् । पश्य, (क) अदत्तादानाद्विरमणं मुनिशिक्षापदम् । (ख) हा धिक् । लजितव्ये काले नृत्यति । (ग) भगवन् ! केन कारणेनैतन्न लक्ष्यते । भोः ! आचष्टां भगवान् । अस्यायं वर्णः। (घ) तेन वेतन्मदीयमिति स्वयमेवाभ्युपगतम् । 1. 'भवं' ख. पाठः. -.-..-..--..--...-

  • पूर्वोक्त सर्व पुनलिखितं क. ग्रन्थे, पुनरित्यादि न लिखितं च ।