एतत् पृष्ठम् परिष्कृतम् अस्ति
२१
मत्तविलासप्रहसनन्।
शाक्यभिक्षुः-[१]अदिण्णादाणा वेरमणं सिक्खापदं [२](इति पुनस्तदेव पठति ।)
(उभौ नृत्यतः।)
शाक्यभिक्षुः- [३]हद्धि । ळज्जिदव्वे काळे णच्चदि ।
कपाली-आ: को नृत्यति। (सर्वतो त्रिलोक्य) आ मम नष्टभिक्षाभाजनदर्शनकुतूहलमलयानिलप्रयुक्ताया ध्रुवमस्य नृत्तबुद्धिः प्रीतिलताया विलसितेषु ।
शाक्यभिक्षुः-[४]भअवं ! केण कारणेण एदं ण ळक्खीअदि । भो ! आचिक्खदु [५]भअवं । इमस्स अअं वण्णो ।
कपाली-किमत्र वक्तव्यम् । ननु मया दृष्टम् । काकादपि कृष्णमिदं कपालम् ।
शाक्यभिक्षुः- [६]तेण हि एवं ममकेरअं ति सअं
एव अब्भुवगदं ।
कपाली - सत्यमभ्युपगतं तव वर्णान्तरकरणे नैपुण्यम् । पश्य,