पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्तविलासप्रहसनम् । कपाली-नन्वस्माकमनृतं न वक्तव्यमिति समयः । पाशुपतः- उभयमप्युपपन्नम् । कोऽत्र निर्णयोपायः । शाक्यभिक्षुः– (क) बुद्धवअणं पमाणीकरअन्तो भि- क्खू सुराभाअणं गण्हादि त्ति को एत्थ हेदु । पाशुपतः-- नहि प्रतिज्ञामात्रेण हेतुवादिनः सिद्धि- गस्ति । कपाली--प्रत्यक्षे हेतुवचनं निरर्थकम् । पाशुपतः-- कथं प्रत्यक्षमेव । देवसोमा- (ख) भअव ! एदस्स हत्थे चीवरान्तप्प- च्छादिदं कवाळं । पाशुपतः - श्रुतं भवता। शाक्यभिक्षुः- (ग) भो भअवं! एदं कवाळं ण पर- केरअं। कपाली --~-तेन हि दर्शय तावत् । शाक्यभिक्षुः - (घ) तह । (दर्शयति ।। कपाली-पश्यन्तु पश्यन्तु माहेश्वराः कापालिकेन कृतमन्याय्यमस्य भदन्तस्य साधुवृत्ततां च । (क) बुद्धवचनं प्रमाणीकुर्वन् भिक्षुः सुराभाजनं गृह्णातीति कोऽत्र हेतुः। (ख) भगवन् ! एतस्य हस्ते चीवरान्तःप्रच्छादितं कपालम् । (ग) भो भगवन् ! एतत् कपालं न परकीयम् । (घ) तथा । १. कपालिने कक. पाठः.