एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
मत्तविलासप्रहसनम् ।
(ततः प्रविशति पाशुपतः ।)
पाशुपतः- सत्य सोम! किमर्थमाक्रन्दसि ।
कपाली- भो बभ्रुकल्प ! अयं दुष्टभिक्षुनामधारको
नागसेनो मम भिक्षाकपालं चोरयित्वा दातुं नेच्छति ।
पाशुपतः- (आत्मगतम्) यदस्माभिरनुष्ठेयं,गन्धर्वैः तदनुष्ठितम् । एष दुरात्मा,
तां क्षौरिकस्य दासीं मम दयितां चीवरान्तदर्शितया ।
आकर्षति काकण्या बहुशो गां ग्रासमुष्टयेव ॥ १४ ॥
तदिदानीं प्रतिहस्तिप्रोत्साहनेन शत्रुपक्षं ध्वंसयामि । (प्रकाशम् ) भो नागसेन ! अप्येवमेतद्, यथायमाह।
शाक्यभिक्षुः- [१] भअवं ! तुवं पि एवं भणासि । अदिण्णादाणा वेरमणं सिक्खापदं । मुधावादा वेरमणं सिक्खापदं । अब्बम्हचय्या[२] वेरमणं सिक्खापदं । पाणादिपादा वेरमणं सिक्खापदं[३] । अकाळभोअणा वेरमणं सिक्खापदं । अह्माअं बुद्धधम्मं सरणं गच्छामि ।
पाशुपतः- सत्यसोम ! ईदृश एषां समयः । किमत्र प्रतिवचनम् ।