सामग्री पर जाएँ

पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
मत्तविलासप्रहसनम् ।

(ततः प्रविशति पाशुपतः ।)


 पाशुपतः- सत्य सोम! किमर्थमाक्रन्दसि ।
 कपाली- भो बभ्रुकल्प ! अयं दुष्टभिक्षुनामधारको नागसेनो मम भिक्षाकपालं चोरयित्वा दातुं नेच्छति ।
 पाशुपतः- (आत्मगतम्) यदस्माभिरनुष्ठेयं,गन्धर्वैः तदनुष्ठितम् । एष दुरात्मा,

तां क्षौरिकस्य दासीं मम दयितां चीवरान्तदर्शितया ।
आकर्षति काकण्या बहुशो गां ग्रासमुष्टयेव ॥ १४ ॥

तदिदानीं प्रतिहस्तिप्रोत्साहनेन शत्रुपक्षं ध्वंसयामि । (प्रकाशम् ) भो नागसेन ! अप्येवमेतद्, यथायमाह।
 शाक्यभिक्षुः- [] भअवं ! तुवं पि एवं भणासि । अदिण्णादाणा वेरमणं सिक्खापदं । मुधावादा वेरमणं सिक्खापदं । अब्बम्हचय्या[] वेरमणं सिक्खापदं । पाणादिपादा वेरमणं सिक्खापदं[] । अकाळभोअणा वेरमणं सिक्खापदं । अह्माअं बुद्धधम्मं सरणं गच्छामि ।
 पाशुपतः- सत्यसोम ! ईदृश एषां समयः । किमत्र प्रतिवचनम् ।


  1. भगवन् ! त्वमप्येवं भणसि । अदत्तादानाद्विरमणं शिक्षापदम् । मृषावादाद्विरमणं शिक्षापदम् | अब्रह्मचर्याद्विरमणं शिक्षापदम् । प्राणातिपाताद्विरमणं शिक्षापदम् | अकालभोजनाद्विरमणं शिक्षापदम् । अस्माकं बुद्धधर्मं शरणं गच्छामि ।
  2. 'म्हञ्जच',
  3. 'दं । भोअणकाळत्थेरावे' कः पाठः.