देवसोमा–[१] मुदो सि दासीएवृत्त ! | (केशापकर्षणं रूपयित्वा निरालम्बना पतिता । )
शाक्यभिक्षुः- (आत्मगतम् ) [२]अघं बुद्धस्स विण्णाणं, जेण मुण्डणं दिट्ठं[३] । (प्रकाशम् ) उट्ठेहि उट्ठेहि उसिए ! उट्ठेहि । (इति देवसोमामुत्थापयति । )
कपाली - पश्यन्तु पश्यन्तु माहेश्वराः अनेन दुष्टभिक्षुनामधारकेण नागसेनेन मम प्रियतमापाणिग्रहणं क्रियमाणम् ।
शाक्यभिक्षुः-[४] आ वुस ! मा मा एवं । धम्मो खु
अह्माणं विसमपदिदाणुकम्पा |
कपाली- किमयमपि सर्वज्ञधर्मः । नन्वहं पूर्वं पतितोऽस्मि । भवतु, किमनेन । इदानीं तव शिरःकपालं मम भिक्षाकपालं भविष्यति ।
( सर्वे कलहं रूपयन्ति । )
शाक्यभिक्षुः- [५] दुक्खं दुक्खं ।
कपाली— पश्यन्तु पश्यन्तु माहेश्वराः । एष दुष्टभिक्षुनामधारको मम भिक्षाकपालं मुषित्वा स्वयमेवाकन्दति । भवतु, अहमप्याक्रोशयिष्ये । अब्रह्मण्यम् अब्रह्मण्यम् ।