पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मचविलासपहसनम् । देवसोमा– (क) मुदो सि दासीएयुत्त ! (केशापकर्षणं रूप- यित्वा निरालम्बना पतिता ।) शाक्यभिक्षुः- (आत्मगतम् ) (ख) अघं बुद्धस्स विण्णा- णं, जेण मुण्डणं दिटुं । (प्रकाशम् ) उठेहि उडेहि उसिए ! उठेहि । (इति देवसोमामुत्थापयति ।) कपाली-~-पश्यन्तु पश्यन्तु माहेश्वराः अनेन दुष्टभिक्षु- नामधारकेण नागसेनेन मम प्रियतमापाणिग्रहणं क्रियमाणम् । शाक्यभिक्षुः- (ग) आ वुस ! मा मा एवं । धम्मो खु अह्माणं विसमपदिदाणुकम्पा । कपाली-- किमयमपि सर्वज्ञधर्मः । नन्वहं पूर्वं पति- तोऽस्मि । भवतु, किमनेन । इदानीं तब शिरःकपालं मम भिक्षाकपालं भविष्यति । . (सर्वे कलहं रूपयन्ति ।) शाक्यभिक्षुः--: (घ) दुक्खं दुक्खं । कपाली---- पश्यन्तु पश्यन्तु माहेश्वराः । एष दुष्टभिक्षु. नामधारको मम भिक्षाकपालं मुषित्वा स्वयमेवाक्रन्दति । भवतु, अहमप्याक्रोशयिष्ये । अब्रह्मण्यम् अब्रह्मण्यम् । (क) मृतोऽसि दास्याःपुत्र! ।। (ख) अर्ह (अर्घ वा) बुद्धस्य विज्ञानं, येन मुण्डनं दृष्टम् । उत्तिष्ठोत्तिष्ठ उपासिके उत्तिष्ठ । (ग) आ उपासक ! (आयुष्मन् ! वा) मा मैवम् । धर्मः खल्वस्माकं विषम पतितानुकम्पा । (घ) दुःखं दुःखम् । १. किदं । के. पाठः.