एतत् पृष्ठम् परिष्कृतम् अस्ति
१७
मत्तविलासप्रहसनम् ।
शाक्यभिक्षुः-[१]किं दे सअं ।
कपाली-कपालम् ।
शाक्यभिक्षुः- [२]कहं कवाळं ।
कपाली- कथं कपालमित्याह । अथवा युक्तमेतत् ।
दृष्टानि वस्तूनि महीसमुद्र-
महीधरादीनि महान्ति मोहात् ।
अपह्नवानस्य सुतः कथं त्व-
मल्पं न निह्नोतुमलं कपालम् ॥ १३ ॥
देवसोमा-[३] भअवं ! केवळं ळाळीयमाणो ण दइस्सदि । ता एदस्स हत्थादो आच्छिन्दिअ गच्छामो ।
कपाली– प्रिये ! तथा । (आच्छेत्तुं व्याप्रियते ।)
शाक्यभिक्षुः- [४]धंस दुट्ठकवाळिअ ! | (हस्तेन नुदन पादेन ताडयति । )
कपाली- कथं पतितोऽस्मि ।