सामग्री पर जाएँ

पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
मत्तविलासप्रहसनम् ।

 कपाली-अयमस्माकमपकारी । संविभागप्रधानः स्वसिद्धान्तः । शेषमाचार्याय प्रदीयताम् ।
 देवसोमा-[]जंभअवं आणवेदि । गह्णदु भअवं ।
 शाक्यभिक्षुः-(आत्मगतम्)[] अहो सुहोवणदो अब्भुदओ । एत्तओ दोसो-महाजणो पेक्खिस्सदि । (प्रकाशम्) भोदि ! मा मा एवं । ण वड्ढदि[] अह्माणं । (सृक्कणी लेढि ।)
 देवसोमा- [] धंस | कुदो दे एत्तिआणि भाअधे- आणि ।
 कपाली— प्रिये ! इयमस्येच्छाविरोधिनी वागू मुखप्रसेकेन स्खल (य?) ति ।
 शाक्यभिक्षुः-[] इदाणिं वि णत्थि दे करुणा|
 कपाली- यद्यस्ति करुणा, कथं वीतरागो भविष्यामि ।
 शाक्यभिक्षुः- []एवं वीदरागिणा वीदरोसेण वि होदव्वं |
 कपाली- वीतरोषो भविष्यामि, यदि मे स्वकं दास्यति ।

  1. यद् भगवानाज्ञापयति । गृह्णातु भगवान् ।
  2. अहो सुखोपनतोऽभ्युदयः । एतावान् दोषः-महाजनो द्रक्ष्यति भवति ! मा मैवम् | न वर्धतऽस्माकम् |
  3. 'दई अ' क. पाठः.
  4. ध्वंसस्व । कुतस्ते एतावन्ति भागधेयानि ।
  5. इदानीमपि नास्ति ते करुणा ।
  6. एवं वीतरागिणा वीतरोषेणापि भवितव्यम् ।