एतत् पृष्ठम् परिष्कृतम् अस्ति
७
मत्तविलासप्रहसनम् ।
कपाली-(सहर्षमुत्थाप्यालिङ्गय) धृर्ण वर्ण नमः शिवाय ।
प्रिये!
पेया सुरा प्रियतमा मुखमीक्षितव्यं
ग्राह्यः स्वभावललितो विकृतच वेषः ।
येनेदशमीदृश्यत मोक्षवर्त्म
दीर्घायुरस्तु भगवान् स पिनाकपाणिः ॥ ७ ॥
देवसोमा-[१] भअवं ! णं तहा भणिदव्वं । अघन्ते मोक्खमग्गं अण्णाहा वण्णअन्ति ।
कपाली-भद्रे! ते खलु मिथ्यादृष्टयः । कुतः,
कार्यस्य निःसंशयमात्महेतोः
सरूपतां हेतुभिरभ्युपेत्य ।
दुःखस्य कार्य सुखमामनन्तः
स्वेनैव वाक्येन हता वराकाः ॥ ८ ॥
देवसोमा-[२] सन्तं सन्तं पावं ।
कपाली- शान्तं शान्तं पापम् । नखलु ते पापा आक्षेपमुखेनाप्यभिधातुमर्हन्ति, ये ब्रह्मचर्य केशनिर्लोटन-मलधारण-भोजनवेलानियम-मलिनपटपरिधानादिभिः प्राणिनः परिक्लेशयन्ति । तदिदानीं कुतीर्थसङ्कीर्तनोपहतां जिह्वां सुरया प्रक्षालयितुमिच्छामि ।