एतत् पृष्ठम् परिष्कृतम् अस्ति
६
मत्तविलासप्रहसनम्।
प्रिये ! सोमदेवे ! किं त्वं कुपितासि, यदवलम्बितुमुपसर्पतो मे
दूरीभवसि ।
देवसोमा –[१]अहोणुखु आअदकोवा सोमदेवा, जा तुए सीसेण पणमिअ अणुणीअमाणा वि दूरीहोइ ।
कपाली- ननु त्वमेवासि सोमदेवा । ( ध्यात्वा) नहि, देवसोमा ।
देवसोमा-[२]भअवं ! णं तहा बळहा सोमदेवा, नार्हदि मम णामकेणाभिधादुं ।
कपाली-भवति ! सुलभपदस्खलितो मे मदोऽयं तवा,त्रापराद्धः ।
देवसोमा-[३]दिट्ठिआ ण तुवं ।
कपाली- कथं मद्यदोषो मामेवं सङ्क्रामयति । भवतु भवतु| अद्यप्रभृति मद्यनिषेवणान्निवृत्तोऽस्मि ।
देवसोमा-[४] भअवं ! मा मा मम कारणादो बदम ड्रेण तवो खण्डेदुं । (पादयोः पतति।)