पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्तविलासंग्रहसनम् । प्रिये! सोमदेवे ! किं त्वं कुपितासि, यदवलम्बितुमुपसर्पतो मे दूरीभवसि । देवसोमा – (क) अहोणुखु आअदकोवा सोमदेवा, जा तुए सीसेण पणमिअ अणुणीअमाणा वि दूरीहोइ। कपाली-ननु त्वमेवासि सोमदेवा । (ध्यात्वा) नहि, देवसोमा। देवसोमा-- (स्व) भअवं! णं तहा वळ्ळहा सोमदेवा, णार्हदि मम णामकेणाभिधाएं । कपाली--भवति ! सुलभपदस्खलितो मे मदोऽयं तवा, त्रापराधः। । देवसोमा- (ग) दिट्ठिआ ण तुवं । कपाली--कथं मद्यदोषो मामेवं सङ्कामयति । भवतु भवतु । अद्यप्रभृति मद्यनिषेवणान्निवृत्तोऽस्मि । देवसोमा- (घ) भअब ! मा मा मम कारणादो वदभ ड्रेण तवो खण्डेदु । (पादयोः पतति । ) (क) अहोनुखल्वागतकोपा सोमदेवा, या त्वया शीर्षण प्रणम्यानुनीय- मानापि दूरीभवति । (ख) भगवन् ! ननु तथा वल्लभा सोमदेवा, नार्हति मम नामकेनाभिधा- तुम्। (ग) दिया न त्वम् । (घ) भगवन! मा मा मम कारणाद् व्रतभङ्गेन तपः खण्डयितुम् ।