पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्तविलासप्रहसनम् । कपाली- (सहर्षमुत्थाप्यालिङ्गय) धृर्ण धूर्ण नमः शिवाय । प्रिये! पेया सुरा प्रियतमामुखीक्षितव्यं ग्राह्यः स्वभावललितो विकृतश्च वेषः । येनेदर्मादृशमदृश्यत मोक्षवर्ल्स दीर्घायुरस्तु भगवान् स पिनाकपाणिः ॥ ७ ॥ देवसोमा - (क) भअवं! णं. तहा भणिदव्वं । अधन्ते मोक्खमग्गं अण्णहा वण्णअन्ति । कपाली- भद्रे! ते खलु मिथ्यादृष्टयः। कुतः, कार्यस्य निःसंशयमात्महेतोः सरूपता हेतुभिरभ्युपेत्य । दुःखस्य कार्य सुखमामनन्तः खेनैव वाक्येन हता वराकाः ॥ ८ ॥ देवसोमा-- (ख) सन्तं सन्तं पावं । कपाली- शान्तं शान्तं पापम् । नखलु ते पापा आक्षेपमुखेनाप्यभिधातुमर्हन्ति , ये ब्रह्मचर्य-केशनिर्लोटन-म- लधारण-भोजनवेलानियम-मलिनपटपरिधानादिभिः प्राणिनः परिक्लेशयन्ति । तदिदानी कुतीर्थसङ्कीर्तनोपहतां जिह्वां सु- रया प्रक्षालयितुमिच्छामि । (क) भगवन् ! ननु तथा भणितव्यम् । अर्हन्तो मोक्षमार्गमन्यथा वर्णयन्ति । (ख) शान्तं शान्तं पापम् ।