एतत् पृष्ठम् परिष्कृतम् अस्ति
८
मत्तविलास प्रहसनम् ।
देवसोमा-[१] तेण हि अण्णं दाणिं सुरापणं गच्छामो ।
कपाली- प्रिये ! तथास्तु |
(उभौ परिक्रामतः । )
कपाली-अहोतुखलुविमानशिखरविश्रान्तघनरसितसन्दिग्धमृदङ्गशब्दस्य मधुसमयनिर्माणमातृकायमाणमाल्यापणस्य कुसुमशरविजयघोषणायमानवरयुवतिकाञ्चीरवस्य काञ्चीपुरस्य परा विभूतिः । अपिच,
अनतिशयमनन्तं सौख्यमप्रत्यनीकं
समधिगतसतत्त्वा मेनिरे यन्मुनीन्द्राः ।
तदिह निरवशेषं दृष्टमेतत् तु चित्रं
यदुत करणभोग्यं कामभोगात्मकं च ॥ ९ ॥
देवसोमा - [२]भअवं ! भअवदी वारुणी विअ अणवगीअमहुरा कञ्ची ।
कपाली- प्रिये ! पश्य पश्य । एष सुरापणो यज्ञवाटवि भूतिमनुकरोति । अत्र हि ध्वजस्तम्भो यूपः, सुरा सोमः, शौण्डा ऋत्विजः, चषकाश्रमसाः, शूल्यमांसप्रभृतय उपदेशा हविर्विशेषाः, मत्तवचनानि यजूंषि, गीतानि सामानि, उदङ्काः स्रुवाः, तर्षोऽभिः सुरापणाधिपतिर्यजमानः ।