सामग्री पर जाएँ

पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
मत्तविलास प्रहसनम् ।

 देवसोमा-[] तेण हि अण्णं दाणिं सुरापणं गच्छामो ।

 कपाली- प्रिये ! तथास्तु |

(उभौ परिक्रामतः । )


 कपाली-अहोतुखलुविमानशिखरविश्रान्तघनरसितसन्दिग्धमृदङ्गशब्दस्य मधुसमयनिर्माणमातृकायमाणमाल्यापणस्य कुसुमशरविजयघोषणायमानवरयुवतिकाञ्चीरवस्य काञ्चीपुरस्य परा विभूतिः । अपिच,

अनतिशयमनन्तं सौख्यमप्रत्यनीकं
 समधिगतसतत्त्वा मेनिरे यन्मुनीन्द्राः ।
तदिह निरवशेषं दृष्टमेतत् तु चित्रं
 यदुत करणभोग्यं कामभोगात्मकं च ॥ ९ ॥
 देवसोमा - []भअवं ! भअवदी वारुणी विअ अणवगीअमहुरा कञ्ची ।

 कपाली- प्रिये ! पश्य पश्य । एष सुरापणो यज्ञवाटवि भूतिमनुकरोति । अत्र हि ध्वजस्तम्भो यूपः, सुरा सोमः, शौण्डा ऋत्विजः, चषकाश्रमसाः, शूल्यमांसप्रभृतय उपदेशा हविर्विशेषाः, मत्तवचनानि यजूंषि, गीतानि सामानि, उदङ्काः स्रुवाः, तर्षोऽभिः सुरापणाधिपतिर्यजमानः ।


  1. तेन ह्यन्यमिदानीं सुरापणं गच्छावः ।
  2. भगवन्! भगवती वारुणीवानवगीतमधुरा काञ्ची ।