पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/50

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
द्वितीयः सर्गः।

४९


ततो मन्दानिलोद्‌धूतकमलाकरशोभिना ।
गुरुं नेत्रसहस्त्रेण नोदयामास वासवः ॥ २९ ॥
स द्विनेत्रं हरेश्चक्षुः सहस्रनयनाधिकम् ।
वाचस्पतिरुवाचेदं प्राञ्जलिर्जलजासनम् ॥ ३० ॥
एवं (८)यदात्थ भगवन्नामृष्टं नः परैः पदम् ।


इतो मत्तः किं प्रार्थयध्वम् । किमिच्छतेत्यर्थः । ब्रूत । लोकरक्षणे यूयमेव कर्तार इत्याह- मयि लोकानां सृष्टी रक्षा युष्मास्ववस्थिता । अतस्तदर्थमपि नस्ति मदपेक्षेत्यर्थः ॥ २८ ॥
     तत इति ॥ ततो भगवत्प्रश्नानन्तरं वासव इन्द्रो गुरुं बृहस्पतिम् । "गुरूगीष्पतिपित्राद्यौ" इत्यमरः । मन्दानिलोद्धूतो यः कमलाकरः स इव शोभत इति तेन तथोक्तेन नेत्राणां सहस्रेण नोदयामास प्रेरयामास। सहस्रग्रहणमास्थातिशयार्थम् । अनिमेषाणामपि प्रयत्नवशादक्षिस्पन्दो न विरुध्यते ॥ २९ ॥
     स इति ॥ हरेरिन्द्रस्य। "इन्द्रो दुश्च्यवनो हरिः" इति हलायुधः । सहस्रान्नयनेभ्योऽधिकं सहस्रनयनाधिकम् । तदगोचरदर्शित्वादिति भावः । द्वे नेत्रे यस्य तद्‌द्विनेत्रम् । प्रसिद्धाच्चक्षुषोऽयं विशेष इत्यर्थः । चक्षुश्चक्षुर्भूतः । स च वाचस्पतिः । कस्कादित्वादलुक्सत्वे । "षष्ठ्याः पतिपुत्र-" इत्यादिना सत्वमिति स्वामी । तन्न, छन्दोविषयत्वात् । प्राञ्जलिः सन्। जलजासनं ब्रह्माणमिदमुवाच चक्षुष्ट्वारोपस्य प्रकृतोपयोगात्परिणामालङ्कारः ॥ ३० ॥
     ऐवमिति ॥ हे भगवन्‌ षड्गुणैश्वर्यसम्पन्न ! यदात्थ "कृतव्यावृत्तयः परैः" (२/२६) इति यद्‌व्रवीषि । "ब्रुवः पञ्चानाम्-" इतयादिनाहादेशः । "वर्तमानसामीप्य वर्तमा